id
stringlengths 3
5
| url
stringlengths 39
730
| title
stringlengths 1
85
| text
stringlengths 26
171k
|
---|---|---|---|
1005 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B2%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%BE | श्रीलङ्का | श्रीलङ्का (सिंहल: ශ්රී ලංකාව, तमिऴ्: இலங்கை, ), आधिकारिकरूपेण लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का (), एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य देशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिऴभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।
इतिहासः
रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते ।
अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला, तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।
दर्शनीयस्थानानि
अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।
पुरणेतिहाससाक्षिणः
कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः ।
जलमार्गः
रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।
क्रीडाः
श्रीलङ्कादेशस्य राष्ट्रियक्रीडा वालीबाल्-क्रीडा अस्ति । किन्तु अस्य देशस्य सर्वप्रसिद्धा क्रीडा क्रिकेट्-क्रीडा अस्ति ।
श्रीलङ्का
सार्क् राष्ट्राणि
एशियाखण्डस्य राष्ट्राणि
भारतस्य प्रतिवेशिदेशाः
सारमञ्जूषा योजनीया |
1007 | https://sa.wikipedia.org/wiki/%E0%A4%9B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%80%E0%A4%B8%E0%A4%97%E0%A4%A2%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | छत्तीसगढराज्यम् | छत्तीसगडराज्यं (Chhattisgarh) भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ मध्यभारतस्य किञ्चन राज्यं भवति । मध्यप्रदेशस्य आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी रायपुर भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये मध्यप्रदेशः, पश्चिमे महाराष्ट्रा, दक्षिणे आन्ध्रप्रदेशः, पूर्वे ओरिस्सा, ईशान्ये झारखण्डः, उत्तरे उत्तरप्रदेशादयः सन्ति । “छत्तीस् घरी” एषा भाषा हिन्दीभाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य मध्यप्रदेशात् विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।
नामव्युत्पत्तिः
अस्य राज्यस्य “छत्तीसगढ” इति नाम्ना व्यवहारः कुतः? अत्रत्याः प्राचीनाः शासकाः ३६ राज्येषु शासनं कुर्वन्ति स्म । हिन्दीभाषया छत्तीस् नाम ३६ संख्या, "गढ्" इत्यस्य दुर्गम् इति अर्थः । तानि राज्यानि एवं सन्ति -- रतनपूर्, विजयपूर्, खरौण्ड्, मारो, कौट्गढ, नवागढ्, सोन्दि, औखर्, पदर्भट्ट्, सेम्रिया, चम्पा, लाफा, छुरि, केण्ड, माटिन्, अपरोरा, पेण्ड्रा, कुकुटिखण्ड्रि, राजपुर्, पटान्, सिमगा, सिङ्गारपुर्, लवन्, ओमेरा, दुर्ग, सरधा, सिरसा, मेन्हदि, खल्लारि, सिर्पुर्, फिगेश्वर्, राजिम्, इन्घङ्गन् गढ, सुवर्मर्, तेङ्गान् गढ तथा अकाल्तारादि इति।
भौगोलिकपरिचयः
अस्य राज्यस्य उत्तरे तथा दक्षिणे च पर्वताः सन्ति । मध्यभागस्य भूमिः सुफला तथा समतला च अस्ति । राज्यस्य ४४% प्रतिशतं भागम् अरण्येन व्यापृतम् अस्ति । राज्यस्य उत्तरभागः सिन्धु-गङ्गासमतलप्रदेशस्य शिखरभागे अस्ति । गङ्गायाः उपनदी रैहाण्ड् स्थले प्रवहति । पूर्वपश्चिमभागयोः पर्वतानाम् आवलिः, महानद्याः प्रान्तभूमेः तथा सिन्धु-गङ्गासमतलप्रदेशयोः विभागं जनयति । रज्यस्य मध्यभागः महानद्याः तथा उपनदीनां तीरेषु अस्ति । अस्मिन् प्रदेशे “व्रीहेः” फलचयः अधिकतया भवति। पश्चिमभागस्य माय्कल् पर्वतानां कारणात् महानद्याः तीरात् नर्मदातीरं पृथक्कृतं भवति । एवं पूर्वओरिसाराज्यस्य समतलप्रदेशाः पर्वतराजिभिः पृथक्कृताः दृश्यन्ते। राज्यस्य दक्षिणभागः डेकन् प्रस्थभूमौ अस्ति। एतं प्रदेशं प्रति गोदावरी तथा अस्याः उपनद्यः जलं ददति। महानदी अस्य राज्यस्य मुख्या नदी भवति। अन्यनद्यः हस्दो,रिहान्द, इन्द्रावति, जोङ्क् अर्पा च ।
आर्थिकव्यवस्था
इदानीन्तनेषु वर्षेषु छत्तीसगढस्य वाणिज्यस्य क्षिप्रगतिरस्ति। २००४-०५ तः २००८-०९ समये जि.डि.पि ७.३% प्रतिशतं प्रवृद्धम् । रज्यस्य ८०% प्रतिशतस्यापेक्षया अधिकाः जनाः व्यवसायमेव अवलम्बिताः सन्ति । राज्यस्य ४३% प्रतिशतं भूमिः कृषियोग्या अस्ति । अत्रत्य मुख्याः फलचयाः व्रीहिः, कलायः, लङ्गुरा, विविधधान्यानि, तैलबीजाः च सन्ति । छत्तीसगढप्रदेशं “भारतस्य अन्नपात्रम्” इति आह्वयन्ति । अस्मिन् राज्ये जलबन्धाः सन्ति । अतः जलाभावः न दृश्यते । राज्यस्य ४१.३३% प्रतिशतं भूमिः काननैः पूरिता अस्ति । छत्तीसगढराज्ये खनिजस्य समृद्धिरस्ति। अस्मिन् राज्ये भारतस्य २०% प्रतिशतं अयः वज्रचूर्णञ्च उत्पादयन्ति । ’लोहः’, ’अङ्गारः’, ’बाक्सैट्’ इत्यादयः खनिजाः अत्र अधिकतया लभ्यन्ते । भारतदेशे कांस्यम् अधिकतया अत्रैव लभ्यते । अन्यखनिजाः ’कोराण्डम्’, ’ग्र्यानेट्’, ’अमृतशिला’, ’वज्रादयः’ भवन्ति । राज्यस्य उत्तम अर्थव्यवस्थायै यन्त्रागाराणां महद्योगदानम् अस्ति । तेषु सार्वकारस्य “भिलाय्” अयसः यन्त्रागारः तथा "एन् .टी.पि.सि." इत्यादयः। स्वतन्त्राः यन्त्रागाराः ’बाल्को’, ’लाफार्गे’ तथा ’जिन्दाल् स्टील्’ इत्यादयः भवन्ति ।
मण्डलानि
छत्तीसगढराज्ये १३ मण्डलानि सन्ति ।
प्रशासनसौकर्यार्थं एतानि मण्डलानि पञ्चभागेषु विभक्तानि सन्ति ।
धार्मिकता
अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति । परुशरामनामिवल्लभाचार्यादीनां केषाञ्चन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति । महर्षिः महेशयोगी इति प्रख्यातः हिन्दूप्रमुखः हरिकथाकारः च आसीत् । अयं जबलपुरप्रदेशीयः आसीत् । अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति । तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जनजातयः । अरण्यप्रदेशे विद्यमानाः जातयः गोण्ड, हल्बा, कमार् बुज्ज् तथा ओरयान् इत्यादयः भवन्ति ।
प्रवासोद्यमः
छत्तीसगढ भारतस्य हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरम्परागतं प्रकृतिरम्यञ्च अस्ति । अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकाणि’, ’वन्यजन्तवः’, ’बौद्धधर्मसम्बद्धानि’ स्थलानि च सन्ति । एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते । आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते । “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति । अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति । अस्य देवालयस्य निर्माणकालः सप्तमशतकादारभ्य एकादशशतकं यावत् भवेदिति । अयं देवालयः कवार्धाद समीपे अस्ति । इतः १८ कि.मी.दूरे देवालयः विद्यते। "गिरौध् पुरि" सत्नामिधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले स्थः । चीनदेशस्य इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत् । इतः २० कि.मी. दूरे “तालारुद्र” नामकः प्रख्यातदेवालयः अस्ति । ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति । जञ्जिगिर् क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति । खरोद् क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति । शियोरिनारायण् क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति । सिङ्घ्पूर् प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति । राजिम् भगवान् क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति । रतन्पुरे महामायायाः देवालयः अस्ति। अत्रैव रतन्पुर्रे खुदिया जलबन्धः, खुताघाट् जलबन्धः तथा लोर्मि जलबन्धाश्च सन्ति । “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति । “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम् ।
छत्तीसगढराज्यस्य प्रेक्षणीयस्थानानि
छत्तीसगढराज्यं नूतनतया निर्मितम् अस्ति । २००० तमवर्षस्य नवम्बरप्रथमदिनाङ्के मध्यप्रदेशतः एतत् राज्यं पृथक् कृतमस्ति । छोटानागपूरप्रस्थभूमिप्रदेशे व्याप्तम् अस्ति । अस्मिन् राज्ये ३५ आदिवासिजनजातियाः निवसन्ति । नाल्कारु, बैरा, मुण्ड, मादिया नाहर् इत्यादि जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्याणि लोहोद्यमः इत्यादिकार्येषु निरताः सन्ति । हजारीबाग् उपत्यकासु एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र करनपुर सौत् पहार् इत्यादिस्थानेषु आदिकालतः निर्मितासु गुहासु भित्तिचित्राणि दृश्यन्ते । एतस्य दर्शनेन इङ्ग्लेण्डदेशस्य स्टोन् हेञ्जस्थानस्य स्मरणं भवति ।
बस्तर
बस्तरप्रदेशे जगदलपुरमण्डलम् अस्ति । निसर्गरमणीयः अयं प्रदेशः नदीभिः जलपातैः पर्वतैः युक्तः अस्ति । अत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुर राज्यस्य राजधानी अस्ति ।
बस्तरवनप्रदेशे नद्यः गुहाः च विशिष्टानि सन्ति ।
चित्रकूटम्
चित्रकूटे जलपातः अतीवसुन्दरः अस्ति । धनुराकारकं ९६ पादमितं जलपातं छत्तीसगढ्राज्यस्य नयागरा इति वदन्ति । कङ्गारराष्ट्रियोद्यानं विशालं रमणीयं च अस्ति । अत्र पादचारणं पर्वतारोहणं प्राणिवीक्षणं वर्णयुक्तानां पतङ्गानां दर्शनं च अतीव हर्षाय भवन्ति ।
पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गमार्गाः निर्मिताः सन्ति ।
मैन् पाट्
मैन् पाट् प्रदेशः छत्तीसगड् राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिताः गणेशविग्रहाः वालुकशिलाभि निर्मिताः, दन्तेश्वरी (दन्तेवाडा), विष्णुदेवालयः, च महानदी तीरस्य इतराकर्षकस्थानानि सन्ति । अमरकाण्टकम् अपि अस्य सीमायां भवति ।
प्रकृतिरम्यः
निसर्गरमणीयः अयं प्रदेशः नदीजलपाः पर्वताः इत्यादिभिः युक्तः अस्ति । एवमत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुरराजस्य राजधानी अयम् अस्ति । बस्तारवननदी गुहाः च विशिष्टाः सन्ति । चित्रकोटेजलपातः अतीव सुन्दरः अस्ति । धनुराकाके ९६ पादमितोन्नतः जलपातः छत्तीसगडस्य नयागरा इति ख्यातः अस्ति । कङ्गारराष्ट्रीयोद्यानम् अतिविशलं रमणीयमं चास्ति । अत्र पादचारण पर्वतारोहण प्राणिवीक्षणं वर्णयुक्ताना पतङ्गानां दर्शनं च अतीव हर्षदं भवन्ति । कोटमसार कैलाष् प्रदेशस्याः गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः । इतः खनिजानि विशाखापत्तनं नियन्ते । केरन्दूलतः विशाखापत्तनं धूमशकटमार्गेण सञ्चारः अतीव रोमाञ्चकः भवति । पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गाः निर्मिताः सन्ति । मैन् पाट् प्रदेशः छत्तीसगड राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिता गणेश विग्रहाः वालुकशिलाभि निर्मिताः ,दन्तो- वादस्य दन्तेश्चरी राजी विष्णुदेवालयः महानदी तीरस्यः इतराकर्षक स्थाननि सन्ति । अमरकाण्टक स्थलमायुत्त- म यात्रास्थलमस्ति । वाहनमार्गः रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाद- ८५ कि.मी. ।
कैलासगुहाः
छत्तीसगडराजस्य रायगडमण्डले अनेकानि दर्शनीयानि स्थाननि सन्ति । सुन्दराणि चित्रकोटे, माण्ड्वाजलपातानि , निसर्ग रमणीयानि सन्ति । भूगर्भम् इति बहुदूरपर्यन्तं व्याप्ताः कैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनदन्तं जनयति । साक्षात् दर्शनेन एव सर्व ज्ञातुं शक्यते । मार्गः - जगदल् पुरतः ४० कि.मी.दूरे अस्ति । धूमशकटमार्गः- रायघट् धूमशकटनिस्थानतः अपि वाहनसौ- कर्यमस्ति ।
वाहनमार्गः
रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाडा ८५ कि.मी. ।
कैलासगुहाः
कोटम्मसारप्रदेशस्य तथा कैलासप्रदेशस्य गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः अस्ति । इतः खनिजानि विशाखपट्टनं प्रति नीयन्ते। केरन्दूलतः विशाखापत्तनधूमशकटमार्गः अतीव रोमाञ्चकारि- अनुभवं जनयति ।
छत्तीसगढराजस्य रायगढमण्डले अनेकानि दर्शनीयानि स्थानानि सन्ति । चित्रकूटे माण्ड्वा जलपाताः, निसर्गरमणीयाः च सन्ति । बहुदूरपर्यन्तं व्याप्ताः भूगर्भकैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनुभवं यच्छन्ति । प्रत्यक्षं दर्शनम् एव वरम् ।
मार्गः
जगदलपुरतः ४० कि.मी. ।
धूमशकटमार्गः
रायगढधूमशकटनिस्थानतः अपि वाहनसौकर्यमस्ति ।
सम्बन्धित-विषया:
बाह्यानुबन्धः
छत्तीसगढ़ शासन जालपृष्ठ
भारतस्य राज्यानि
छत्तीसगढराज्यम् |
1008 | https://sa.wikipedia.org/wiki/%E0%A4%9D%E0%A4%BE%E0%A4%B0%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | झारखण्डराज्यम् | झारखण्डराज्यं (Jharkhand)(हिन्दी - झारखण्ड; बङ्गला - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्य मध्यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं , दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राँची अस्य राजधानी । जमशेदपुर अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद , बोकारो, हजारीबाग च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine , Pictureque इति उक्तवन्तः सन्ति।
बेट्ला, हजारीबाग, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची , दुमका इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।
झारखण्डराज्यस्य प्रेक्षणीयस्थानानि
राञ्ची
राञ्ची झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः (२३ कि.मी), ट्यागोर् हिल् राञ्चीजलबन्धः इत्यादीनि दर्शनीयानि सन्ति ।
जमशेदपुरम्
अस्मिन् नगरे (हजारीबागतः ११८ कि.मी) अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते । राञ्चीप्रदेशे देवगढ् , रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः २४ तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति । झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।
वाहनमार्गः
राक्साल्, पाटना, गया इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।
इतिहासः
गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजाः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।
झारखण्डः - पृथक् राज्यम्
झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । सर्वकारः तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तः जातः इत्यतः एव वनवासिनाम् एव पृथक्प्रदेशः करणीयः अभवत् ।
१९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः(Iron), अङ्गारः, ताम्रम्(copper), अभ्रकम्(mica), स्फोदिजः(bauxite), कौकिलेयः(graphite), कर्करः(limestone), युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।
एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।
मण्डलानि
झारखण्डराज्ये २४ मण्डलानि सन्ति ।
वातावरणम्
राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति ।
झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्नः अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -
सस्य-प्राणिसम्पत्तिः
सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते ।
लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः(वनमहिषाः), हरिणाः, वनसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनिजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।
एतादृशमेव अन्यदेकं हजारीबाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः १३५ कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते ।
बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झारखण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । २०० एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः १६ कि मी दूरे विद्यते । अत्र अधिकाः सस्तनिप्राणिनः विद्यन्ते ।
जनसङ्ख्याशास्त्रम्
झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः : १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः (कनिष्ठम्) धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।
जातिप्रजातयः
वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते । वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ । झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।
भाषाः
राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् (कुरुख्), कोर्वा, पहारिय (माल्टो)भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।
संस्कृतिः
वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।
सम्बद्धा: विषया:
बाह्यानुबन्धः
राज शासन जालपृष्ठ
Jharkhand News and clippings related to Ranchi
भारतस्य राज्यानि
झारखण्डराज्यम् |
1009 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B9%E0%A4%B2%E0%A5%80 | देहली | इन्द्रप्रस्थम् अथवा देहली () भारतस्य एकं नगरं केन्द्रशासितप्रदेशः च अस्ति यत्र भारतस्य राजधानी नवदेहली अस्ति । इन्द्रप्रस्थं विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य द्वितीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति ।
भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।
भारतस्य राजधानी
भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।
देहलीनगरस्य इतिहासः
देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः अनङ्गपालः क्रिस्ताब्दे १०६० तमे वर्षे 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वाणः तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् कुतुब् मिनार्भवनं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः ।
पूर्वं पुराणानुसारं कौरवाः हस्तिनावतीनगरे (प्राचीनदिल्लीभागः) , पाण्डवाः इन्द्रप्रस्थनगरे (पुरानाकिलाभागे) प्रशासनं कुर्वन्ति स्म ।
देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरःअत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । भारतस्य सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति ।
देहल्याः प्रेक्षणीयस्थानानि
राष्ट्रपतिभवनम् मोगल् गार्डन् च
राष्ट्रपतिभवनं भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् । १३० हेक्टरप्रदेशे व्याप्तम्, राष्ट्रपतिभवनं परितः 'मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । 'A Paradise on Earth', 'A garden of beauty' इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त् , हेलिगोनिया , डापोडिल्स् , आर्किड् , स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, हैदराबाद् कोच्ची इत्यादिप्रदेशेभ्यः आनीतानि ।
अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति ।
४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति ।
कुतुब् मिनार्
कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् 'अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् 'अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।
रक्तदुर्गम्
देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः भवनविशेषः अस्ति । अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति । नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती षाहजहान् क्रिस्ताब्दे १६३८ तमे वर्षे एतस्य दुर्गस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान्-ए-आम् , दिवान् ए खास् , मोतिमस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्लहिन्दिभाषयोः व्याख्यानसहितम् भवति । अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहलराज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातःकाले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।
फेरी क्वीन्
फेरिक्वीन् – हेरिटेज् धूमशकटम् - देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति । अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति ।
अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं कर्णाटकम् आगतम् आसीत् । मेहरौली, कुतुब् मिनार् समीपे एतस्य स्थानम् अस्ति।
जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)
देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः "ग्रहतारावीक्षणालयः" १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।
संसद् भवनम्
संसत् भवनम् वृत्ताकारकं भवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थानानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति ।
मेहरौली अयस्स्तम्भः
कुतुब् मिनार् इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति ।
इतरदर्शनीयानि स्थानानि
देहलीनगरे अनेक मुस्लिमराजानां म्रुतस्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोधिवंशीयानां स्मारकाणि, मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु, इत्यादीनि प्राणिसङ्कुलानि सन्ति ।
राजघाट् प्रदेशे विशाले उद्याने महात्मा गान्धिः जवाहरलालनेहरुः लालबहादुरशास्त्री श्रीमती इन्दिरागान्धिः इत्येतेषां स्मारकाणि सन्ति ।
बिर्लामन्दिरम् इति ख्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति ।
देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति ।
देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम्, न्याशनल् म्यूसियम्, नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति ।
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् रक्तदुर्गं, कुतुब् मिनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं, तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।
दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। भारतस्य सर्वराज्यानां राजधानीभ्यः वाहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।
मार्गः
वीथिका
बाह्यसम्पर्कतन्तु
भारतस्य राज्यानां राजधान्यः
भारतस्य राज्यानि
भारतस्य केन्द्रशासितप्रदेशाः |
1010 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%AE%E0%A4%B5%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | पश्चिमवङ्गराज्यम् | पश्चिमबङ्ग(পশ্চিমবঙ্গ) भारतस्य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्ति । अस्य राजधानी कोलकाता अस्ति। अत्रत्या जनसङ्ख्या ९,१०,००,००० अस्ति । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः ३४,२६७ चतुरस्र कि.मी मितः अस्ति । एतत् राज्यं परितः नेपालम्, भूटानम्, बाङ्गलादेशः विद्यन्ते । उत्कल/उड़ीसा, झारखण्ड, बिहारम्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
३ शतके बङ्ग राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन कलिकाता(कोलकाता)नगरम् आसीत् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बाङ्गला -नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्ग, पूर्वबङ्ग यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बाङ्गलादेशस्य भागः जातः ।
कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलिकाता(कोलकाता) भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता विश्वकवि रवीन्द्रनाथठाक्कुरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।
शब्दनिष्पत्तिः
'बेङ्गोल / बाङ्गाला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते ।
इतिहासः
पुरातत्वशोधकैः २०,००० वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये ४००० वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडः, टिबेटो-बार्मान्, अस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । आर्यजातिः आनुमानिक २५०० ख्रिस्टपूर्वाब्दे अत्र प्रवेशतिस्म | पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू ७ शतके बिहार-बङ्गप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू ३ शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । आफघानिस्थान-पार्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति ।
पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू १०० वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बे ङ्गा ल स्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बङ्गस्य सुवर्णभूम्या (बार्मा/ब्रह्मदेश, अधः थाइल्यान्ड्/ श्यामदेश्, अधः मालय्-उपद्वीप्, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिंहः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् ।
३ शतकात् ६ शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (७ शतकम्) । अग्रिम ४०० वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । १२ शतके सूफिप्रचारकाणाम् आगमनेन बङ्गः इस्लाम्-मतस्य प्रवेशः जातः ।
मण्डलानि
पश्चिमबङ्गलराज्ये १९ मण्डलानि सन्ति ।
सम्बद्धा:-विषया:
कलकाता
कलकाता भारतदेशे स्थितेषु महानगरेष्बेकमस्ति । अस्य ३०० वर्षाणाम् इतिहासः अस्ति । पूर्वदेशानां द्वारमिवास्ति एतत् कलकातानगरम् । एतन्नगरं पूर्वं भारतस्य राजधानी आसीत् । अत्र यात्रिकैः दर्शनीयानि अनेकानि स्थलानि सन्ति। एतन्नगरं वर्तमानकाले भारतवर्षस्य बृहत्तमं महानगरम् ।
हौराधूमशकटनिस्थानम्
एतत् भारतदेशे एव अत्यधिकविभागपूर्ण धूमशकटनिस्थानमस्ति । असङ्ख्याः जनाः अत्र गमनागमनं कुर्वन्ति ।
हौरासेतुः
हूग्लीनद्याः पारगमनाय सा.श.१९४३ तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता १५०० पादमिता विस्तारः ७१ पादमितः च स्तः । २७० पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः ।
विद्यासागरसेतुः
नवीनः सेतुः विद्यासागर सेतुः । अयं १५२ अयसः बृहत्ताराणाम् आधारेण स्थितः । एषः सेतुः सुदृढः ८५ सहस्रजनानां भारन् वोढु समर्थः अस्ति । कोलकोता नगरे विद्यमानाना भवनेषु आङ्ग्लानां शैल्याः प्रभावः अस्ति । फेञ्जवातायनानि, वेनिषियन् ब्लौण्ड्स् वृत्ताकाराणि सोपानानि, अत्र भवनेषु दृश्यन्ते । प्रमुखमार्गोणाम नामानि अपि आङ्गलनामानि सन्ति । कानिचन नामानि उदानी परिवर्तितानि सन्ति । शतशः शिलामूर्तयः विक्टोरियासामरकस्य समीपे सङ्गृहीताः सन्ति । एत विक्टोरियन् इति वदन्ति विक्टोरिया स्मारकभवनं प्राचीनवस्तुसङ्ग्रहालयः इति प्रसिध्दम् । एषः सङ्ग्रहालयः सा.श.१९२१ तमे वर्षे आरब्धः। नगरे रौत्नहाल हैकोर्ट इण्डियाम्यूसिय इत्यादि आकर्षकाणि सन्ति ।
सस्योद्यानम्
सा.श.१७८६ तमे वर्षे स्थापितम् एतदुद्यानं १०८ हेक्तर् प्रदेशे विस्तारयुक्तमस्ति । अत्र ३० सहस्राधिकाः सस्यभेदाः सन्ति २५० वर्षप्राचीनं ९५ चतुरस्रमीटर् विस्तृतः प्रसिध्दः बटवृक्षः २६ मीटर् उन्नतः च अस्ति । अस्य परिधिः१२०० पादमिता एतत् सस्योद्यानं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । सस्योद्यानं सन्दृष्टुं प्रातः ९ वादनतः सायं ६ वादनपर्यन्तम् अवकाशः अस्ति शुष्कजातीयाः सस्यविशेषाः अपि अत्र सन्ति ।
इतरस्थानानि
कोलकातानगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः (नाकोड् मसीदिप्रार्थनामन्दिरं ), षाहीदमीनार् (४८.१ मीटर उन्नत), बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर (Science City) मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति ।
धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – बेङ्गळूरुतः १८८३ कि.मी । चेन्नैतः १६७५ कि.मी । मुम्बयीतः २०८१ कि.मी डार्जिलिङ्गतः १८९ कि.मी दूरे भवति ।
शान्तिनिकेतनविश्वविद्यालयस्थानम्
कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. १९०१ तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.१९२१ वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति ।
वाहनमार्गः – कोलकोतातः १६३. कि.मी. धूमशकटमार्गः – भोल्पुरधूमशकटनिस्थानं समीपतमं भवति ।
भसमानं दार्जिलिं
प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिं हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । सुइजारल्यान्ड इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङलानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति ।
पर्वतप्रदेशीयरैल्यानम्–
डार्जिलिंस्य प्रवासः सिलगुरितः धूमशकटयानेन आरब्धः भवति । ८८ कि.मी. दूरस्य प्रवासे प्रतिघण्टाः १२ कि.मी. वेगे धूमशकटविशेषयानं पर्वतारोहणं करोति । एतत् धूमशकटयानं वनपर्वतमध्ये सुन्दरतया सविलासं वक्रमार्गेषु सुरङ्गमार्गेषु गच्छत् षड्घण्टावधौ डार्जिलिंप्रदेशं प्रापयति । पार्श्वे पर्वतशिखराणां वनानां प्रपातानां दर्शनं निरन्तरं भवति । मार्गे वक्रगतयः सन्ति । प्रयाणसमयः अतीवानन्ददायकः भवति ।
चायपर्णवाटिकाः –
बटासियालूपप्रदेशे चायसस्यवाटिकाः सन्ति । कुरेसाङ् प्रदेशे लघुभवनानि सन्ति । अग्रेढूम इति स्थले सागरस्तरतः ८००० पादोन्नते स्थले धूमशकट् निस्थानमस्ति । एतत् विश्वे एव अत्युन्नतस्थले निर्मितं धूमशकटनिस्थानम् इति ख्यातमस्ति । अत्र प्रवासिजनाः भयकरे प्राकृर्तिकस्थले लोहमार्गम् आश्चर्येण पश्यन्ति ।
दर्शनीयान्यन्यस्थानानि
पद्मजानायिडु हिमालयस्य मृगालयः, न्याचुरल् हिस्टरी म्युसियम्, लायिड्स् बोटानिकल् गार्डन्, हिमालयस्य मौण्टेरियन् इन्स्टिट्यूट्, रङ्गीतव्याली, प्यासेञ्जररोपृवे, लेषाङ्गरेस् कोर्स् इत्यादि स्थानानि अपूर्वाणि सन्ति । जलदपारा प्रदेशे मृगवीक्षणाय अवकाशः अस्ति । अत्र रैनो, रायल् बेङ्गाल् टैगर, गजाः, वनमहिषाः इत्यादयः सन्ति । मिरिक् सरोवरः डार्जिलिङ्ग समीपे अस्ति । अत्र मत्स्यग्रहणं, नैकाविहारः पादचारणम् इत्यादिमनोरञ्जककार्याणाम् आनुकूल्यम् अस्ति । समीपे धूमप्रदेशे १५६ पादमिता बुध्दस्य प्रतिमा अस्ति । सिलगुरितः ५२. कि.मी. दूरे कालियपाङ्ग्र वीक्षणालयः अस्ति । पर्वतारोहणम्, जलसाहसक्रीडा इत्यादीनां कृते कुरेसाङ्ग् अतीव प्रसिध्दम् अस्ति । ३६ कि.मी । एतान् सञ्चलतां स्वर्गः इति कथयन्ति । डार्जिलिङ्ग् पर्वतारोहणस्य आनन्दप्राप्तये अतीवोत्तमं स्थलमस्ति । एप्रिल् मासतः ये अक्टोबरमासतः नवम्बरमासपर्यन्तकाले अत्रातीव परिसरः अतीव रमणीयः भवति । एतत्समये वृक्षेषु पुष्पाणि विकसन्ति । तुषारः अपि न भवति । पक्षिवीक्षणमपि अतीव मनमोहकं भवति । व्याघ्रपर्वतः ; एतत् तु अवश्यं दर्शनीयस्थलेषु अन्यतमः । इतः सूर्योदयदर्शनं वर्णनातीतं भवति । डार्जिलिङ्गतः १४ कि.मी. दूरे एतत्स्थानमस्ति । वाहनमार्गः कोलकोतातः ६८६ कि.मी. दूरे भवति ।
धूमशकटमार्गः – न्यूजपैगुरि – डार्जिलिङ्ग् यानम्, डार्जिलिङ्ग्मेलयानम्, सीलडानिस्थानतः प्रयाणस्य आरम्भः भवति । विमानमार्गः – बागदोग्राविमाननिस्थानं ९० कि.मी. सिलगुटितः लोकयानानि लघुवाहनानि प्रातः ६ वादनतः सायं ४ वादनपर्यन्त सञ्चरन्ति । दूर ८० कि.मी । वसति कृते अनेकानि उपाहारवसतिगृहाणि सन्ति ।
सुन्दरबनं राष्ट्रियोद्यानम्
पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः १३३० चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र ५४ द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले १२० जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः - कोलकातातः १७५ कि.मी. नौकया इतः ५ घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्वीपे कुटीराः, वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः ५० कि.मी ।
पाश्चिमबङ्गालराज्यस्य सागरतीराणि
ओरिस्सा राज्यसीमासमीपे एतत् रमणीयं सागरतीरमस्ति । एतत् अत्यन्तं सुन्दरं स्थलमस्ति । हूग्लीनदी अत्र सागरं प्रविशति । सूर्य किरणानां सागरतरङ्गेषु लीलाः दर्शनीयाः विविधवर्णेषु प्रतिफलन्ति । पार्श्वे तिन्त्रिणीवृक्षवाटिकाः सन्ति । सागरतीरे सञ्चारः आनन्दाय भवति । सुन्दरस्वच्छः प्रदेशः आरोग्यवर्धनाय उत्तमः अस्ति । अत्र जनाः तरणे आसक्ताः भवन्ति । सागरतरङ्गाः उपरि अधः गच्छन्तः प्रवासीजनान् आकर्षयन्ति । समीपे अनेकदेवमन्दिराणि सन्ति । जुलैमसतः मार्चपर्यन्तं सन्दृष्टुं सुकालः भवति । वाहनमार्गः – कोलकातातः १८५ कि.मी. ६ घण्टाप्रयाणं भवति । अत्र वसति गृहाणि सन्ति ।
बक्काळि (फ्रेजर्गञ्ज, करसारगञ्जृ)
हूग्लीनदीतः पूर्वदिशि १३२ कि,मी दूरे नदीतीरे एतत् निसर्गरमणीय स्थलमस्ति । प्रवासी जनानां अत्र नौकासञ्चारः साध्यः अस्ति तिन्त्रिणीवृक्षाणां मध्ये सञ्चारः सन्तोषकरः भवति । पादचारणं वक्काळितः फेजर गञ्ज पर्यन्त (२. कि.मी )कर्तुं शक्यते ।
धाकूरियसरः
नगरप्रदेशात् नैके जनाः अत्र विहारार्थम् आगच्छन्ति । सरस्तीरे जापानी जनैः निर्मितं बौद्धमन्दिरम् अस्ति ।
सन्दर्भाः
बाह्नानुबन्धाः
अधिकृतं जालस्थानम् ।
भारतस्य मानचित्रे पश्चिमबङ्गालस्य स्थानम्
पश्चिमबङ्गालस्य मण्डलानां मानचित्रम्
धूमशकटलोहमार्गस्य चित्रम्
वार्ताः
पश्चिमवङ्गराज्यम् |
1011 | https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | बिहारराज्यम् | बिहार भारतस्य पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी पटना अथवा पाटलीपुत्रम् अस्ति । अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यं च विद्यते । 'बिहार' इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते।
इतिहासः
बिहारस्य ऐतिहासिकं नाम मगधः । बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम् ।
प्राचीनकालः
प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम् । मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन् । मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत् । मौर्यवंशस्य शासनं क्रि पू ३२५ तः क्रि पू १८५ पर्यन्तम् आसीत् । पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः । अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्। पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते । इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम् ।
मध्यकालः
द्वादशे शतके भख्तियारखिलजी बिहारस्य आधिपत्यं प्राप्तवान् । तदा मगधदेशस्य राजधानी न आसीत् । षोडशे शतके शेरषाहसूरी देहल्यां मुगलचक्रवर्तिनं हुमायूनं पराजित्य देहलीसिंहासनम् आरूढवान् इत्यतः बिहारस्य नाम पुनः प्रकाशितं जातम् । किन्तु अचिरात् अक्बरः बिहारराज्यं पश्चिमवङ्गे विलीनम् अकरोत्। ततः बिहारस्य अस्तित्वं वङ्गराजानाम् अधीनं जातम् ।
आधुनिककालः
१८५७ तमे वर्षे जाते भारतस्य प्रथमसङ्ग्रामे बिहारीयः बाबू कुंवरसिंहः प्रमुखभूमिकां निरवहत् । १९१२ तमे वर्षे पश्चिमवङ्गस्य विभजनस्य कारणतः बिहारराज्यं पुनः अस्तित्वं प्राप्नोत् । १९३५ तमे वर्षे ओरिस्साराज्यम् इतः पृथक् कृतम् । स्वातन्त्रसङ्ग्रामावसरे बिहारे जातः चम्पारणविद्रोहः ब्रिटीशजनानां बहिष्करणे विरोधे च प्रमुखं पात्रम् अवहत् । स्वातन्त्र्यानन्तरं बिहारराज्यं पुनः एकवारं विभक्तम् । २००० तमे वर्षे झारखण्डराज्यं बिहारतः पृथक्जातम्। भारतं त्यज्यताम् इत्येतस्मिन् आन्दोलने बिहारस्य पात्रं मुख्यभूतम् आसीत् ।
भौगोलिकी स्थितिः
इदं राज्यम् उत्तरे २१°५८'१०" ~ २७°३१'१५" अक्षांशे पूर्वदिशि ८२°१९'५०" ~ ८८°१७'४०" रेखांशे च विद्यते । राज्यस्य विस्तारः अस्ति ९४, १६३ चतरस्र कि मी मितः यस्मिन् ग्रामप्रदेशस्य विस्तारः अस्ति ९२,२५७.५१ च कि मी मितः । झारखण्डस्य पृथक्करणानन्तरं बिहारस्य भूमिः, नदीभिः युक्ता कृषियोग्या समतला विद्यते । गङ्गायाः पूर्वक्षेत्रे स्थितम् इदं राज्यं समुद्रतलात् १७३ पादमिते औन्नत्ये विद्यते । भौगोलिकदृष्ट्या बिहारराज्यं त्रिधा विभक्तुं शक्यम् - उत्तरस्य शैलीय-निम्नश्च प्रदेशः, मध्ये विशालसमतलप्रदेशः, दक्षिणे पर्वतीयप्रदेशश्च । उत्तरीयपर्वतप्रदेशे सोमेश्वरश्रेणी विद्यते । अस्याः श्रेण्याः औन्नत्यं सामान्यतः ४५५ मीटर्मितम् । तत्र विद्यमानस्य सर्वोच्चशिखरस्य औन्नत्यं ८७४ मीटर्मितम् । सोमेश्वरश्रेण्याः दक्षिणभागे निम्नप्रदेशः विद्यते । अस्मिन् मृण्मयक्षेत्रे अर्जुनवृक्षाणां निबिडारण्यं विद्यते । व्याघ्राभयारण्यं वाल्मीकिनगरे स्थितमस्ति। गङ्गानदी राज्यस्य मध्यभागे प्रवहति । उत्तरबिहारे बागमती, कोशी, बूढी गण्डक, गण्डक, घाघरा इत्येताः नद्याः तासां सहायकनदीनां च समतलप्रदेशः वर्तते । सोन, पुनपुन, फल्गू, किऊल - नद्यः बिहारस्य दक्षिणतः गङ्गया मिलन्ति । हिमालयपर्वतात् प्रवहन्त्यः अन्याः नद्यः जलधाराश्च बिहारद्वारा गङ्गया मिलन्ति । वृष्टिकाले नदीनां प्रवाहः महत्यै समस्यायै भवति। ग्रीष्मर्तौ राज्यस्य उष्णांशः भवति ३५°-४५° सेल्शियस्मितम् । शैत्यकाले ५°-१५° सेल्शियस्मितं भवति । शैत्यकालः नवम्बर्मासात् मध्यफेब्रवरिपर्यन्तं भवति । एप्रिल्मासतः मध्यजुलैपर्यन्तं भवति । ततः अक्टोबर्मासपर्यन्तं वृष्टिकालः भवति । प्रतिवर्षं सामान्यतः १२०५ मि मीटर्मिता वृष्टिः भवति । उत्तरस्यां दिशि भूमिः कृषियोग्या भवति ।
मण्डलानि
बिहारराज्यम् ९ विभागेषु विभक्तम् अस्ति। एवं ३८ मण्डलानि सन्ति। भागलपुर, दरभङ्गा, कोसी, मगध, मुङ्गेर, पटना, पुर्णिया, सासाराम, तिरहुत एते ९ विभागाः भवन्ति। मण्डलानि-
भाषा संस्कृतिश्च
भोजपुरी, मगधी, मैथिली च अत्रत्याः प्रमुखभाषाः । परन्तु हिन्दी उर्दू च केवलं राज्यस्य आधिकारिक भाषे स्तः । बिहारस्य मैथिली मात्र भारतस्य अष्टम् अनुसुच्याम् योजिता। बिहारस्य संस्कृतिः मगध-अङ्ग-मिथिला-वज्जी-संस्कृतीनां मिश्रणमस्ति। ग्रामनगरसंस्कृत्योः अधिकः भेदः न विद्यते। पारम्परिकरीतिनीतयः नगरजनैः अपि पाल्यन्ते सश्रद्धम् । समाजः अस्ति पुरुषप्रधानः। छठ, होली, दीपावलिः, नवरात्रम्, महाशिवरात्रिः, नागपञ्चमी, श्री पञ्चमी, मोहरम्, ईद्, क्रिस्मस् च प्रमुखाः उत्सवाः । सिक्खानां दशमः गुरुः गोविन्दसिंहस्य जन्मस्थानम् इत्यतः पटनायां तस्य जयन्तीमहोत्सवः परमश्रद्धया आचर्यते। विवाहपद्धतिः प्रदेशस्य संस्कृतिद्योतिका भवति। जातिगताग्रहस्य कारणेन अधिकांशाः विवाहाः पित्रोः सम्बन्धिनां द्वारा परिवारेषु एव भवन्ति। विवाहस्य शोभायात्रा वैभवादीनि परिवारयोः आर्थिकस्थितिम् अवलम्ब्य भवति । लोकगीतानां गानं सर्वेषु समुदायेषु अपि प्रचलति । आधुनिक-पुरातनचलच्चित्राणां सङ्गीतं श्रावितं भवति। विवाहेषु शहनायीवादनं सामान्यतया श्रूयते । अस्य वाद्यस्य वादकेषु प्रसिद्धतमः बिस्मिल्लाखानः बिहारराज्ये एव जन्म प्राप्तवान् ।
जातिवादः
जातिवादः बिहारस्य देशस्य अन्यभागतुल्ये राजनीतेः सामाजिकजीवनसय अविभाज्यम् अङ्गं जातमस्ति । पूर्वम् अस्य विराट्स्वरूपः दृष्टिगोचरः जातः आसीत् । अद्यत्वे अयं भेदभावः न्यूनः जायमानः अस्ति। अस्य जातिवादस्य निर्मूलनाय जनैः अवलम्बितः मार्गः अस्ति - उपनाम्नः परिवर्तनम् । उपनान्मः श्रवणात् जातिबोधः न भवेत् इति कारणतः यादवः, शर्मा, मिश्रः, वर्मा, झा, सिंह, श्रीवास्तवः, रायः इत्यादीनि परिवर्त्य प्रकाशः, सुमनः, प्रभाकरः, रञ्जनः, भारती इत्यादीनि कृतवन्तः ।
मनोरञ्जनम्
बिहारस्य नगरेषु ग्रामेषु च चलच्चित्राणि लोकप्रियाणि जातानि सन्ति । हिन्दीचित्रसङ्गीतं सर्वेभ्यः रोचन्ते । मैथिली-भोजपुरीचलच्चित्राणि अपि प्रभुत्वं साधितवन्ति सन्ति । नगरेषु निवसद्भिः आङ्ग्लचित्राणि वीक्ष्यन्ते । नृत्य-नाटक-चित्रकलादिषु परिश्रमं कुर्वन्ति बहवः उच्चकुलीयाः ।
क्रीडाः
भारते अन्यत्र इव अत्रापि क्रिकेट्-क्रीडा अधिकलोकप्रिया वर्तते। पादकन्दुकः, हाकीक्रीडा, टेनिस्-क्रीडा, गोल्फ्-क्रीडा अपि अत्र प्रसिद्धाः । ग्रामप्रदेशः अधिकः इत्यतः पारम्परिकक्रीडा कबड्डी अपि अत्र प्रसिद्धा अस्ति ।
आर्थिकस्थितिः
बिहारजनानां मुख्यम् आयमूलं वर्तते कृषिः। वाणिज्यं सर्वकारीयोद्योगः च आयमूलमस्ति । सर्वकारस्य प्रयत्नेन अधुना स्थितिः उत्तमा भवन्ती अस्ति । ७५% जनाः कृषिकार्यं कुर्वन्ति । झारखण्डस्य पृथक्करणानन्तरम् इदं राज्यं खनिजसम्पदा वञ्चितं जातम् । जनसङ्ख्यायाः वृद्धेः कारणतः अर्थव्यवस्था दुर्बला एव वर्तते ।
शिक्षणम्
बिहारराज्यं विश्वस्मिन् विश्वे प्रसिद्धं शिक्षणकेन्द्रम् आसीत्। जगत्प्रसिद्धाः विश्वविद्यालयाः अस्मिन् राज्ये राराजन्ते स्म। प्राचीनकाले नालन्दाविश्वविद्यालयः, विक्रमशिलाविश्वविद्यालयः,ओदन्तपुरीविश्वविद्यालयाः च बिहारस्य गौरववर्धकानि अध्ययनकेन्द्राणि आसन् । १९१७ तमवर्षपर्यन्तं पटनाविश्वविद्यालयस्य प्रतिष्ठायुतं स्थानम् आसीत् ।
नलन्दाविश्वविद्यालयः
नालन्दास्थाने क्रिस्ताब्दस्य पञ्चमशतकतः द्वादशशतकपर्यन्तं कश्चन सवसतिकः विश्वविद्यालयः आसीत् इति इतिहासद्वारा ज्ञायते । अस्य प्रथमः सवसतिकः विश्वविद्यालयः इति प्रख्यातिः आसीत् । द्विसहस्रप्राध्यापकाः दशसहस्राधिकाः विद्यार्थिनः अत्र आसन् । जनाः देशविदेशतः विद्याप्राप्तये अत्र आगच्छन्ति स्म इति विदेशीयानां यात्रिकाणाम् उल्लेखेन ज्ञातुं शक्यते । चीनीचात्रिकः ह्यु येन् त्साङ्गः अस्य स्थानस्य स्पष्टतया उल्लेखं कृतवान् अस्ति ।
अस्मिन् विश्वविद्यालये बौद्धशास्त्रं, वेदाः, तर्कशास्त्रं, शब्दविद्या (व्याकरणम्) । मेडिसिन् (चिकित्साविद्या) इत्यादीनां शिक्षणं भवति स्म । सप्तमे शतके साम्राट् हर्षवर्धनः, पालवंशीयाः राजानः च एतं विश्वविद्यालयं सगौरवं पोषितवन्तः । कुमारगुप्तः एतस्य विश्वविद्यालयस्य आरम्भम् कृतवान् इति इतिहासद्वारा ज्ञायते ।
नालन्दाविश्वविद्यालयः ५० चतुरस्रकि.मी प्रदेशे व्याप्तः आसीत् । प्रथमः महम्मदः भक्तियारखिल्जीद्वारा अत्र अग्निदाहं कारितवान् । तदा प्रज्ज्वालितः अग्निः षण्मासान् यावत् ज्वलन्नासीत् इति वदन्ति । रत्नोदधिः, रत्नसागरः, रत्नरञ्जकः इत्येते ग्रन्थालयाः भस्मीकृताः अभवन् । अनन्तरम् अत्र भूकम्पः अभवत् । तदा सर्व नष्टं भवत् । बौद्धसंन्यासिनः तिब्बत्देशं गतवन्तः केचन मारिताः च ।
नालन्दाप्रदेशे पूर्वम् आम्रवाटिकाः आसन् । गौतमबुद्धः अत्र किञ्चित्कालं स्थितवान् । सारिपुत्रः तथा महामोग्गालयन् इत्येतयोः बुद्धस्य शिष्ययोः जन्मस्थानम् एतत् । तयोः गृहम् इदानीमपि अस्ति । किन्तु देवालयरुपेण परिवर्तितम् अस्ति । अशोकचक्रवर्ती अत्र चैत्यं निर्मितवान् ।
अलेग्झाण्डर्र कन्निङ्गह्यां महोदयः क्रिस्ताब्दे १८६१ तमे वर्षे उत्खननद्वारा संशोधनं कृतवान् । क्रिस्ताब्दे १९१५ तमवर्षतः आर्कियालजीविभागेन १४ हेक्टरप्रदेशे उत्खननं कृत्वा स्मारकाणां भवनानां विषये ज्ञानसङ्ग्रहणं कृतम् अस्ति ।
अत्र १०८ विशालभवनानि (The Great Stupa) आसन् । सुभद्रायाम् आधारभूमौ निर्मितानि एतानि भवनानि अपूर्वाणि आसन् इति पञ्चमशतके आगतः चीनी यात्रिकः ह्यु येन् त्साङ्गमहोदयः उल्लिखितवान् अस्ति । आरम्भे एषः छात्रः आसीत् अनन्तर प्राध्यापकः । हर्षवर्धनस्य काले एषः सर्वधर्मसम्मेलनाध्यक्षः आसीत् ।
अत्र विश्वविद्यालये प्रवेशार्थं प्रवेशपरीक्षा आसीत् इति तु विशेषः अस्ति । इदानी चीना-जापान-दक्षिणैशियादेशेभ्यः जनाः दर्शनार्थम् अत्र आगच्छन्ति । एकः वस्तुसङ्ग्रहालयः अपि अत्र स्थापितः अस्ति ।
वसतिः
बर्मी-जापानी-जैनविश्रान्तिगृहाणि सन्ति ।
मार्गः
गयातः ६५ कि.मी । राजगिरतः १९ कि.मी । पटनातः ९० कि.मी ।
पटना
बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।
कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नळन्दा इत्यादीनि ।
धूमशकटमार्गः
पूर्वविभागे देहली-पटना, कोलकाता-पटना धूमशकटमार्गौ स्तः । पटना बृहन्निस्थानमस्ति ।
विमानमार्गः
देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।
सासाराम मान्युमेण्ट्
सासारामनगरं बिहारराज्ये भोजपुरमण्डलस्य लघुपत्तनम् अस्ति । अत्र देहलीं शास्तवताम् सूरवंशीयानां वंशजः चक्रवर्ती शेरषाहः स्वस्य निमित्तं समाधिमन्दिरमेकं निर्मितवान् आसीत् । एतत् स्थानं चारित्रिकं अभूतपूर्वं च अस्ति । एषः क्रिस्ताब्दस्य १५४० तः १५४५ पर्यन्तं हुमायूनं जित्वा प्रशासनं कृतवान् । एतस्य वंशस्य नाम फरीद इति । एषः शूरः आसीत् । अस्य पिता हसन् । शेरषाहसूरी एकदा मृगयार्थं गत्वा व्याघ्रेण साक युद्धं कृतवान् । अतः एव अस्यनाम शेरषाह इत्यभवत् ।
समाधिमन्दिर एतत् कृतकसरोवरे १४०० चतुरस्रपादमिते जले निर्मितमस्ति । षड्भुजाकृतियुक्तं ४६ मीटरोन्नत्तवक्रभित्तियुतं जालन्ध्रयुतं गोलच्छदयुक्तं (Tomb) चैतत् रक्तवालुका शिलाभिः निर्मितम् अस्ति । अस्य प्रतिबिम्बं सरोवरजले सुन्दरतया प्रकाशते । जले प्लवते एव एषा रचना दृष्टिगोचरा भवति । अतः एव Island Tomb इति एतत् स्थानं कथयन्ति । पथानशैली रचना एषा भारते एव अत्युतमास्ति ।
वाहनमार्गः
ग्राण्ट् ट्रङ्क मार्गस्य पार्श्वेऽस्ति । गया-वाराणसी-पटना- इत्यादिनगरेभ्यः वाहनानि सन्ति ।
धूमशकटमार्गः
गयानिस्थानतः २०३ कि.मी ।
बौद्धपरिक्रम-एक्सप्रेस् विशेषधूमशकटयानम्
बौद्धपरिक्रम-एक्सप्रेस्
एतत् विशेषधूमशकटयानं गौतमबुद्धस्य सम्बद्धानि स्थानानि सर्वाणि प्रदर्श्य आगच्छति ।
मार्गः
उत्तरप्रदेशबिहारपश्चिमबङ्गालराज्येषु सञ्चरति । कोलकातातः–गोरखपुरम्-कुशिनगरम् –वाराणसी– सारनाथः-राजगिर-नलन्दा-बुद्धगया स्थानानि दर्शयति ।
विवरणम्
वैस् प्रेसिडेण्ट्, अशोकट्रावेल्स् अण्ड टूर्स् (I.T.D.C) नवादेहली ।
राजगिर
बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् ।
मार्गः
नलन्दातः १९ कि.मी
वैशाली
भगवतः महावीरस्य जन्मस्थलमेतत् । प्राचीनकाले राजधानी आसीत् । २००० वर्षेभ्यः पूर्वम् अत्र प्रजाप्रभुत्वराज्यमासीत् ।
मार्गः
पटनातः ४४ कि.मी
विश्वविद्यालयाः
पटनाविश्वविद्यालयः पटना
मगधविश्वविद्यालयः बोधगया
बाबासाहेबभीमरावअम्बेडकरबिहारविश्वविद्यालयः मुजफ्फरपुरम् ।
तिलकामाञ्झीभागलपुरविश्वविद्यालयः भागलपुरम् ।
ललितनारायणमिथिलाविश्वविद्यालयः दरभङ्गा ।
कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयः दरभङ्गा ।
जयप्रकाशनारायणविश्वविद्यालयः छपरा ।
भूपेन्द्रनारायणमण्डलविश्वविद्यालयः मधेपुरा ।
वीरकुँवरसिंहविश्वविद्यालयः आरा ।
नालन्दामुक्तविश्वविद्यालयः पटना ।
मजहरुलहक़अरबीफरसीविश्वविद्यालयः पटना ।
राजेन्द्रकृषिविश्वविद्यालयः पूसा, समस्तीपुरम् ।
चिकित्साकेन्द्राणि
पटना मेडिकल कॉलेज और अस्पताल पटना
इन्दिरागान्धी आयुर्विज्ञान संस्थानम् पटना
नालन्दा मेडिकल कॉलेज और अस्पताल पटना
बुद्धा दन्त चिकित्सा संस्थानम् अस्पताल पटना
श्रीकृष्ण मेडिकल कॉलेज, अस्पताल मुजफ्फरपुर
अनुग्रह नारायण मगध मेडिकल कॉलेज, अस्पताल गया
दरभङ्गा मेडिकल कॉलेज अस्पताल लहेरियासराय
कटिहार मेडिकल कॉलेज अस्पताल कटिहार
अन्यानि प्रमुखशैक्षणिकसंस्थानानि
चाणक्यविधिविश्वविद्यालयः पटना
अनुग्रहनारायणसामाजिकपरिवर्तनसंस्थानम्, पटना
ललितनारायणमिश्रासामाजिकपरिवर्तनसंस्थानम्, पटना
केन्द्रीय प्लास्टिक् इञ्जिनियरिङ्ग् रिसर्च् इन्स्टीच्युट् (सिपेट्), हाजीपुर
केन्द्रीय औषधीय शिक्षा एवं शोध संस्थानम् (नाइपर), हाजीपुर
होटल् प्रबन्धन, खानपान एवं पोषाहार संस्थानम्, हाजीपुर
प्राकृत जैनशास्त्र एवं अहिंसा संस्थानम्, वैशाली
दर्शनीयानि स्थानानि
पटनां परितः
राज्यस्य राजधानी पटना ऐतिहासिकं स्थलं वर्तते । पूर्वम् इदं धर्मज्ञानयोः केन्द्रमासीत् । तत्रत्यानि दार्शनिकस्थलानि एतानि -
प्राचीनानि मध्यकालीनानि भवनानि- कुम्रहार परिसरः, अगमकुआँ, महेन्द्रघाट्
ब्रिटिशकालीनं भवनम्- जालानम्यूजियम, गोलघर, पटना सङ्ग्रहालयः, विधानसभाभवनम्, हैकोर्टभवनम्, सदाकत-आश्रमः
धार्मिकस्थलानि:-हरमन्दिरम्, बडीपटनादेवी, छोटीपटनादेवी, महावीरमन्दिरं, पादरी की हवेली, शेरशाह की मस्जिद, बेगू ह्जाम की मस्जिद, पत्थर की मस्जिद, जामा मस्जिद, फुलवारीशरीफ में बड़ी खानकाह, मनेरशरीफ - सूफी संत हज़रत याहया खाँ मनेरी स्मारकम्
ज्ञान-विज्ञानसम्बद्धानि केन्द्राणि- पटना विश्वविद्यालयः, सच्चिदानन्दसिन्हा लैब्ररी, सञ्जयगान्धिजैविक-उद्यानम्, श्रीकृष्णसिन्हाविज्ञानकेन्द्रम्, इन्दिरागान्धिताराघर, खुदाबक़्शग्रन्थालयः, विज्ञानपरिसरः
वैशालीं परितः
षष्ठशतकात् पूर्वं वज्जिसङ्घद्वारा स्थापितः विश्वस्य प्रथमगणराज्यस्य अवशेषः, अशोकस्तम्भः, बसोकुण्डे भगवतः महावीरस्य जन्मस्थली, अभिषेकपुष्करणी, विश्वशान्तिस्तूपः, राजा विशाल का गढ, चौमुखीमहादेवमन्दिरम्, भगवतः महावीरस्य जन्मदिने आयोज्यमानः वैशालीमहोत्सवः च प्रसिद्धाः सन्ति ।
टिप्पणी
वीथिका
बाह्यानुबन्धाः
जालस्थानम्
बिहारः - सांस्कृतिकपरिचयः ।
बिहारस्य सांस्कृतिकवैभवम्
प्रातिनिधिकजालस्थानम् - बिहाराङ्कितम् ।
बिहारकार्यसमूहः। - बिहरस्य विषये नैके विषयाः अत्र विनिविष्टाः।
जयभोजपुरी
बिहारीवार्ता
बिहारराज्यनिर्माणस्य इतिहासः ।
बिहारः (आङ्ग्लभाषयासमाचारविचारस्य प्रवेशाः)
बिहारस्य प्राचीनेतिहासः ।
स्वर्णयुगम्।
बुद्धस्य विषये बिहारसर्वकारस्य जालस्थानम् ।
बिहारस्य प्रमुखानि ऐतिहासिकस्थानानि ।
बिहारे सर्वप्रथमम्, सर्वलघु, सर्वबृहत्
अभिवृद्धिपथे बिहारः ।
IIM अभिवृद्धिशीलबिराहारं छात्राः गच्छन्ति ।
विषये माध्यमस्य वार्ताः।
बिहारस्य बालानां कृते विशेषशाला
प्रवासोद्यमे गोवापेक्षया अग्रे ।
प्रवासोद्यमैः बिहारनिर्माणम् ।
बिहारे निवेशनप्रस्तावानां सम्मर्दः ।
बिहारस्य कन्याम् गौरीशङ्करशिखरे ध्वजं प्रसारितवती ।
अधुना बिहारस्य दुग्धं पिबति भारतम् ।
बिहारीबन्धूनां हस्ते देहल्याः अधिकरसूत्रम् ।
अस्माकं बिहारः
भ्रष्टानापुपरि नितीशस्य प्रहारः।
बिहारराज्ये सुशाशन्स्य ध्वजः भ्रष्टाधिकारिणां गृहशोद्धनम् ।
सम्बद्धाः विषया:
बिहारराज्यम् |
1012 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | मध्यप्रदेशराज्यम् | मध्यप्रदेशराज्यं (, ) भारतस्य मध्येखण्डे विद्यमानं किञ्चन राज्यम् अस्ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।
भौगोलिकम्
मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति । क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च । अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति । किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति । इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते । प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति । मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च । मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति । तस्य विस्तारः ३२,८९६ चतुरस्रकिलोमीटर्मितः अस्ति । इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति । प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति । “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः ८६,००० चतुरस्रकिलोमीटर्मितः अस्ति । इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति । अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते । सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति । सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते । अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति ।
अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति । अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति ।
नद्यः
मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति । नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति । नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते । अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते । इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते । सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति ।
अरण्यम्
मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति । अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं (३५) भागः वनविस्तारः अस्ति । राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति । मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति । व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति । आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च । मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति । उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च । सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम् । इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां १९ प्रतिशतं व्याघ्राः सन्ति । अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति । सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च । मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति । राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति ।
राष्ट्रियोद्यानानि
कान्हा-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य मण्डला-मण्डले स्थितम् अस्ति । अस्य विस्तारः ९४० चतुरस्रकिलोमीटर्मितः अस्ति । चित्रकायः, कृष्णमृगः, सिंहः, व्याघ्रः च वन्यप्राणिनः सन्ति ।
फासिल-राष्ट्रियोद्यानः – इदम् अपि मध्यप्रदेशराज्यस्य मण्डला-मण्डले विराजते । अस्य विस्तारः २७ चतुरस्रकिलोमीटर्मितम् अस्ति । जीवाश्मः, पादपाः च अस्य उद्यानस्य वन्यजीवाः सन्ति ।
बान्धवगढ-राष्ट्रियोद्यानम् – मध्यप्रदेशराज्यस्य उमरिया-मण्डले स्थितम् अस्ति इदम् उद्यानम् । अस्य विस्तारः ४३७ चतुरस्रकिलोमीटर्मितः अस्ति ।
पन्ना-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य पन्ना-मण्डले स्थितम् अस्ति । अस्य विस्तारः ५४३ किलोमीटर्मितः वर्तते । चित्रकायः, व्याघ्रः, भल्लुकः च इत्यादयः वन्यप्राणिनः सन्ति ।
सतपुडा-राष्ट्रियोद्यानम् – मध्यप्रदेशस्य होशङ्गाबाद-मण्डले स्थितमिदम् उद्यानम् । अस्य विस्तारः ५२५ चतुरस्रकिलोमीटर्मितः अस्ति । भल्लुकः, व्याघ्रः, चित्रकायः, मृगः चेत्यादयः प्राणिनः सन्ति ।
वनविहार-राष्ट्रियोद्यानम् – इदम् उद्यानं मध्यप्रदेशराज्यस्य भोपाल-मण्डले स्थितम् अस्ति । अस्य विस्तारः ४.४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य सर्वे प्राणिनः प्राप्यन्ते ।
माधव-राष्ट्रियोद्यानम् – उद्यानमिदं मध्यप्रदेशराज्यस्य शिवपुरी-मण्डले स्थितम् अस्ति । अस्य विस्तारः ३७७ चतुरस्रकिलोमीटर्मितः वर्तते । कलङ्कमृगः, वराहः, चित्रकायः च वन्यप्राणिनः सन्ति ।
इतिहासः
मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति । पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते । षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत् । चेदि, अवन्ती च । विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत् । तेन विक्रमसंवतः आरम्भः कृतः । राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम् । समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत् । समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत् । भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत् । नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम् । तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता । “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत् । चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम् । अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम् ।
एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः । अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम् । मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम् । किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत् । तेन कारणेन मराठा-शासकाः पराजिताः । ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत् । “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत् । “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत् । उच्यते यत् ई. स. १८१० पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत् ।
विभागाः, मण्डलानि च
मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-
भोपालविभागः - भोपालमण्डलं, रायसेनमण्डलं, राजगढमण्डलं, सीहोरमण्डलं, विदिशामण्डलम् इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भूतानि ।
चम्बलविभागः - मुरैनामण्डलं, श्योपुरमण्डलं, भिण्डमण्डलम् इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भूतानि ।
ग्वालियरविभागः - ग्वालियरमण्डलम्, अशोकनगरमण्डलं, दतियामण्डलं, गुनामण्डलं, शिवपुरीमण्डलम् इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भूतानि ।
इन्दौरविभागः - इन्दौरमण्डलम्, अलीराजपुरमण्डलं, बडवानीमण्डलं, बुरहानपुरमण्डलं, धारमण्डलं, झाबुआमण्डलं, खण्डवामण्डलं, खरगौनमण्डलम् इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भूतानि ।
जबलपुरविभागः - जबलपुरमण्डलं, बालाघाटमण्डलं, छिन्दवाडामण्डलं, कटनीमण्डलं, मण्डलामण्डलं, नरसिंहपुरमण्डलं, सिवनीमण्डलम् इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भूतानि ।
नर्मदापुरविभागः - बैतूलमण्डलं, हरदामण्डलं, होशङ्गाबादमण्डलम् इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भूतानि ।
रीवाविभागः - रीवामण्डलं, सतनामण्डलं, सीधीमण्डलं, सिङ्गरौलीमण्डलम् इत्येतानि चत्वारि मण्डलानि रीवाविभागे अन्तर्भूतानि ।
सागरविभागः - सागरमण्डलं, छतरपुरमण्डलं, दमोहमण्डलं, पन्नामण्डलं, टीकमगढमण्डलम् इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भूतानि ।
उज्जैनविभागः - उज्जैनमण्डलं, देवासमण्डलं, मन्दसौरमण्डलं, नीमचमण्डलं, रतलाममण्डलं, शाजापुरमण्डलम् इत्येतानि षण्मण्डलानि उज्जैनविभागे अन्तर्भूतानि ।
शहडोलविभागः - शहडोलमण्डलम्, अनूपपुरमण्डलं, डिण्डोरीमण्डलम्, उमरियामण्डलम् इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भूतानि ।
महानगराणि
मध्यप्रदेशराज्ये चत्वारि महानगराणि सन्ति । इन्दौर, भोपाल, जबलपुरं, ग्वालियर च ।
इन्दौर
मध्यप्रदेश-राज्यस्य किञ्चन इन्दौर-मण्डलम् अस्ति, तस्य केन्द्रम् इन्दौर-नगरम् । इदं मालवा-शैलप्रस्थे स्थितम् अस्ति । मध्यप्रदेश-राज्यस्य हृदयं मन्यते इदं नगरम् । अस्मिन् नगरे द्वे नद्यौ प्रवहतः । एका खान-नदी, अपरा सरस्वती-नदी च । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । एतेषु स्थलेषु अधिकानि स्थलानि मानवनिर्मितानि सन्ति । इन्दौर-नगरं मध्यप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति । अष्टादशशताब्द्यां भगवतः इन्द्रेश्वरस्य एकं मन्दिरम् आसीत् । अस्य मन्दिरस्य नाम्ना एव “इन्दौर” इति नाम अभवत् । “राव नन्दलाल चौधरी” इत्याख्येन अस्य नगरस्य अन्वेषणं कृतम् आसीत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् । अतः अस्य नगरस्य इतिहासः समृद्धः अस्ति । तेष्वपि होलकर-राजवंशजाः प्रसिद्धाः सन्ति ।
इन्दौर-महानगरे प्राचीनानि भवनानि, स्मारकाणि, मन्दिराणि च सन्ति । अतः पर्यटकाः भ्रमणार्थम् इन्दौर-नगरं गच्छन्ति । अस्य नगरस्य पर्यटनस्थलानि जनेषु लोकप्रियानि सन्ति । राजवाडा, कांच-मन्दिरं, ग्लास-मन्दिरं, बीजासेन टेकरी च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । तत्र “लालबाग पैलेस्” इत्येतत् होलकर-शासकस्य निवासस्थलम् आसीत् । अतः मध्यप्रदेश-राज्ये तत्प्रसिद्धम् अस्ति । मेघदूत-उपवनम् अस्य नगरस्य सुन्दरम् उद्यानं वर्तते । गीताभवनम् अस्य नगरस्य प्रार्थनास्थलं वर्तते । तत्र समीपस्थेषु स्थलेषु प्रत्येकं धर्माणां जनाः गच्छन्ति । इन्दौर-महानगरे सङ्ग्रहालयः अपि अस्ति । तत्र बहुप्राचीनानि स्मारकाणि सन्ति । “राजवाडा” इत्येतत् स्थलम् इन्दौर-नगरस्य सर्वाधिकं चर्चितं स्थलम् अस्ति । अस्य नगरस्य शिल्पोद्योगाः, कलाः च मध्यप्रदेशराज्ये प्रसिद्धम् अस्ति । एते सर्वे उद्योगाः विश्वस्तरे प्रचलन्ति । इन्दौर-नगरे पर्यटनाय यातायातसौकर्यं विस्तृतं वर्तते । अतः बहुमात्रायां जनाः पर्यटनाय इन्दौर-महानगरं गच्छन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।
इन्दौर-महानगरं मध्यप्रदेश-राज्यस्य औद्योगिकं नगरम् अपि अस्ति । अतः इदं नगरं भारतस्य प्रमुखनगरेषु सम्बद्धम् अस्ति । “तृतीयक्रमाङ्कस्य राष्ट्रियराजमार्गेण”, नवषष्टीतमेन राष्ट्रियराजमार्गेण, षडशीतितमेन राष्ट्रियराजमार्गेण च सह इन्दौर-नगरं संलग्नम् अस्ति । इन्दौर-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । इतः परं भाटययानानि अपि प्राप्यन्ते । तत्र चत्वारि रेलस्थानकानि सन्ति । राजेन्द्रनगर-रेलस्थानकं, लोकमान्यनगर-रेलस्थानकं, सैफीनगररेलस्थानकं, लक्ष्मीबाई-नगर-रेलस्थानकं च । एतानि रेलस्थानकानि समीपस्थैः नगरैः ग्रामैः च सम्बद्धानि सन्ति । भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । इन्दौर-नगरे “देवी अहिल्याबाई होलकर” इति नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुकनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
भोपाल
मध्यप्रदेश-राज्यस्य चतुर्षु महानगरेषु अन्यतमम् अस्ति इदं भोपाल-महानगरम् । इदं मध्यप्रदेशराज्यस्य भोपालमण्डलस्य मुख्यालयः, मध्यप्रदेशराज्यस्य राजधानी च वर्तते । नगरमिदं तडागानां नगरत्वेन ज्ञायते । पुरा भोपाल-महानगरं राजवंशजानां राजधानी अपि आसीत् । भोपाल-नगरं भारतस्य स्वच्छनगरेषु अन्यतमम् अस्ति । भोपाल-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । केवरा-जलबन्धः अस्य नगरस्य प्रसिद्धं पर्यटनस्थलम् अस्ति । “मनुबहन की टेकरी” इत्येतत् स्थलम् अपि भ्रमणाय उत्तमं स्थलं वर्तते । इदं स्थलं पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं स्थलं जैनधर्मस्य अपि धार्मिकस्थलम् अस्ति । शाहपुरा-तडागः भोपाल-नगरस्य बाह्यक्षेत्रे स्थितः अस्ति । स्थानीयजनेषु अयं तडागः लोकप्रियः वर्तते । भोपाल-नगरात् ७ किलोमीटर्मिते दूरे स्थितं भगवतः शिवस्य गुहा-मन्दिरं प्रसिद्धम् अस्ति । भोपाल-नगरे बहूनि ऐतिहासिकानि भवनानि सन्ति । तेषु भवनेषु गौहर-भवनं, शौकत-भवनं, “पुराना किला”, “सदर मञ्जिल” च अन्यतमानि सन्ति ।
राज्ञा भोजेन ई. स. १००० तः १०५५ पर्यन्तं भोपाल-नगरं संस्थापितम् आसीत् । राजा भोजः परमारवंशस्य शासकः आसीत् । “दोस्त मुहम्मद खान” इत्याख्येन अष्टादशशताब्द्याः उत्तरार्धे अस्य नगरस्य आधुनिकविकासः कृतः । अनन्तरं बहुभिः शासकैः शासनं कृतम् आसीत् । “हसीदुल्लाह खान” इत्याख्यः अस्य नगरस्य अन्तिमः शासकः आसीत् । भोपाल-नगरस्य वास्तुकलासु, भोजने, सङ्गीते, कलासु, संस्कृतिषु, पाककलासु च वैदेशिकप्रभावाः दृश्यन्ते । ई. स. १९४९ तमस्य वर्षस्य अप्रैल-मासे भारते अस्य नगरस्य विलयः जातः । ततः प्रभृति भोपाल-नगरं विकासशीलम् अस्ति । भारतभवनं, मोती मस्जिद्, बिरलामन्दिरं, जामा मस्जिद् च भोपालनगरस्य आकर्षणस्य केन्द्राणि सन्ति । भोपालनगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणं पर्यटनाय उत्तमं भवति ।
भोपाल-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरे एकं रेलस्थानकम् अस्ति । भोपाल-नगरात् देहली-महानगराय, कोलकाता-महानगराय, मुम्बई-महानगराय, इन्दौर-महानगराय, चेन्नै-महानगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकं स्थितम् अस्ति । इदं विमानस्थानकं भोपालनगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् प्रतिदिनं राष्ट्रियाणि, अन्ताराष्ट्रियाणि च वायुयानानि प्राप्यन्ते । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय, ग्वालिय-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भोपाल-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।
जबलपुरम्
जबलपुर-नगरं मध्यप्रदेशराज्यस्य जबलपुर-मण्डलस्य मुख्यालयः वर्तते । अत्र भेडाघाट-स्थले श्वेतशैलानां शिलाः सन्ति । अतः सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अनेन कारणेन इदं नगरं “श्वेतशैलस्य नगरम्” इति कथ्यते । “भेडाघाट” इत्येतत् स्थलं जबलपुरनगरस्य पर्यटनस्थलं वर्तते । साम्प्रतं जबलपुर-नगरं महानगरम् अपि अस्ति । यतः औद्योगिकदृष्ट्या, शैक्षणिकदृष्ट्या च विकासशीलम् अस्ति । इदं नगरम् ऐतिहासिकम् अपि अस्ति । पुरा अस्मिन् नगरे गोण्ड-वंशजैः, कलीचुरी-वंशजैः च शासनं कृतम् आसीत् । अनन्तरं मराठा-वंशजैः, मुगल-वंशजैः च अपि शासनं कृतम् आसीत् । अनन्तरम् इदं नगरं ब्रिटिश्-सर्वकाराधीनम् आसीत् । अस्मिन् नगरे बहूनि तीर्थस्थलानि, पर्यटनस्थलानि च सन्ति । “चौंसठ योगिनी मन्दिर”, “पिसनहारी की मढिया”, “त्रिपुर सुंदरी मन्दिर” एतानि तीर्थस्थलानि प्रसिद्धानि सन्ति । तत्र “डुमना नेचर रिसर्व्” इत्येतत् अभयारण्यम् अपि वर्तते । जबलपुर-नगरस्य बरघी-जलबन्धः सम्पूर्णे भारते विख्यातः अस्ति । जनाः पर्यटनाय तत्र गच्छन्ति । तिलवारा-घट्टः, हनुमान-तडागः, सङ्ग्रामसागर-तडागः, मदनमहल-दुर्गः, “रानी दुर्गावती मेमोरियल म्यूजियम्” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।
साम्प्रतम् अपि प्राचीनकालावशेषाः दुर्गेषु, मन्दिरेषु च प्राप्यन्ते । तेन कारणेन प्रतिवर्षं पर्यटकानां सङ्ख्या वर्धते । जबलपुर-नगरं मध्यप्रदेश-राज्यस्य “संस्कारधानी” इति अपि कथ्यते । कलाक्षेत्रे संस्कृतिक्षेत्रे च जबलपुर-नगरस्य ख्यातिः वर्तते । “राममनोहर सिन्हा” इत्याख्यस्य जन्म अपि जबलपुर-नगरे अभवत् । तेन भारतीयसंविधानस्य मूलप्रस्तावनायाः परिकल्पना (Design) कृता आसीत् । क्रीडाक्षेत्रे अपि जबलपुर-नगरं ख्यातम् अस्ति । यतः ब्रिटिश्-शासनकाले स्नूकर-क्रीडायाः आविष्कारः अस्मिन् नगरे एव अभवत् । शीतर्तौ जबलपुर-नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् काले जनाः भ्रमणार्थं तत्र गच्छन्ति ।
जबलपुर-नगरं मध्यप्रदेश-राज्यस्य, महाराष्ट्र-राज्यस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । जबलपुर-नगरे वैयक्तिकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्रचलन्ति । जबलपुर-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह संलग्नम् अस्ति । जबलपुर-नगरे एकं रेलस्थानकम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, अहमदाबाद-महानगराय, चेन्नै-महानगराय, भोपाल-महानगराय च जबलपुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । जबलपुर-नगरे “डुमना” इत्याख्यम् एकं लघुविमानस्थानकम् अस्ति । तद्विमानस्थानकं जबलपुर-नगरात् २० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्माद् विमानस्थानकात् मुम्बई-महानगराय, इन्दौर-महानगराय, देहली-महानगराय, भोपाल-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जबलपुर-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तेन पर्यटकाः सरलतया जबलपुर-नगरं प्राप्तुं शक्नुवन्ति ।
ग्वालियर
ग्वालियर-नगरम् आग्रा-नगरस्य दक्षिणदिशि १२२ किलोमीटर्मिते दूरे स्थितमस्ति । इदं नगरं मध्यप्रदेशस्य पर्यटनराजधानी वर्तते । नगरमिदं मध्यप्रदेशराज्यस्य चतुर्थं बृहत्तमं नगरम् अस्ति । इदं नगरम् औद्योगिकं नगरं, प्रगतिशीलं च वर्तते । नगरमिदम् ऐतिहासिकं वर्तते । तत्र प्राचीनमन्दिराणि, प्राचीनभवनानि, स्मारकाः च सन्ति । तत्र एकः दुर्गः अस्ति । तस्मै दुर्गाय ग्वालियर-नगरं भारते प्रसिद्धम् अस्ति । सः दुर्गः उत्तरभारतीयराजवंशानां प्रशासनिककेन्द्रम् आसीत् । आधुनिकभारतस्य इतिहासे अपि ग्वालियर-नगरस्य स्थानं महत्त्वपूर्णम् अस्ति । अष्टमशताब्द्यां सूरजसेन इत्याख्येन राज्ञा ग्वालियर-नगरस्य स्थापना कृता । “ग्वालिपा” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नाम “ग्वालियर” इति कृतम् । तेन साधुना राज्ञः कुष्ठरोगस्य उपचारः कृतः । षष्ठीशताब्द्यां हूणवंशस्य शासनम् आसीत् । अनन्तरम् कन्नौज-साम्राज्यस्य परिहारवंशजस्य आधीन्ये अभवत् । ई. स. ९२३ तमवर्षपर्यन्तं परिहार-राजभिः शासनं कृतम् आसीत् । ई. स. ११९६ तमे वर्षे देहली-साम्राज्यस्य “कुतुबुद्दीन ऐबक” इत्याख्येन राज्ञा इदं साम्राज्यं जितम् । ततः परं “शमसुद्दीन अल्तमश” इत्याख्येन राज्ञा ई. स. १२३२ तमवर्षपर्यन्तं शासनं कृतम् आसीत् । अस्मिन् नगरे मुगल-शासकैः अपि शासनं कृतम् । ई. स. १५५३ तमे वर्षे विक्रमादित्य-राज्ञा ग्वालियर-नगरं जितम् । अष्टादशशताब्द्यां, नवदशशताब्द्यां च “सिन्धिया” इत्याख्येन मराठा-शासकेन ब्रिटिश-जनैः सह ग्वालियर-नगरे शासनं कृतम् । ई. स. १८५७ तमे वर्षे मराठावंशस्य राज्ञ्या लक्ष्मीबाई इत्याख्यया ब्रिटिशशासकैः सह युद्धं कृतम् । तदा तस्याः मृत्युः अभवत् ।
ग्वालियर-दुर्गः, “फुल बाग”, सूरजकुण्डः, “हाथी पूल”, “मान मन्दिर महल”, “जय विलास महल” इत्यादीनि ग्वालियर-नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । भारतस्य प्रसिद्धः गायकः तानसेनः अपि अस्मिन् नगरे एव जनिं लेभे । ग्वालियर-नगरे प्रतिवर्षं “तानसेनसङ्गीतसमारोहः” आचर्यते । नगरमिदं सिक्ख-धर्मस्य, जैन-धर्मस्य च प्रसिद्धं तीर्थस्थलम् अस्ति ।
ग्वालियर-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः च सह सम्बद्धम् अस्ति । देहली, आग्रा, इन्दौर, जयपुर, भोपाल च इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरात् बसयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं रेलस्थानकम् अस्ति । तद् ग्वालियर-नगरस्य मध्ये स्थितम् अस्ति । इदं रेलस्थानकं देहली-चेन्नै-रेलमार्गस्य मुख्यं रेलस्थानकम् अस्ति । देहली, चेन्नै, कोलकाता, भोपाल, उज्जैन, इन्दौर, मुम्बई च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः प्रतिदिनं रेलयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं विमानस्थानकम् अपि विद्यते । ग्वालियर-नगरात् विमानस्थानकं ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः देहली, वाराणसी, जयपुर, आग्रा, इन्दौर, मुम्बई इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । ग्वालियर-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकं देहली-नगरे अस्ति । ग्वालियर-नगरात् देहली-नगरस्य विमानस्थानकं ३२० किलोमीटर्मिते दूरे स्थितमस्ति । अनेन जनाः ग्वालियर-नगरं सरलतया प्राप्तुं शक्नुवन्ति ।
राजनीतिः
मध्यप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायाः सदस्यानां सङ्ख्या २३० अस्ति । राज्ये लोकसभायाः २९ स्थानानि, राज्यसभायाः ११ स्थानानि च सन्ति । “पं. रविशङ्कर शुक्ल” इत्याख्यः मध्यप्रदेश-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “पं. कुञ्जीलाल दुबे” इत्याख्यः मध्यप्रदेशराज्यस्य विधानसभायाः प्रथमः अध्यक्षः आसीत् । “डॉ. बी. पट्टाभि सीतारामैया” इत्याख्यः मध्यप्रदेशराज्यस्य प्रथमः राज्यपालः अभवत् । ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य २५ तमे दिनाङ्के मध्यप्रदेशे “पञ्चायतराज-अधिनियमः” प्रस्थापितः । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, गोण्डवाना गणतन्त्र पार्टी, बहुजन समाज पार्टी, राष्ट्रीय समानता पार्टी च इत्यादयः मध्यप्रदेश-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । अस्य राज्यस्य मुख्यन्यायालयः जबलपुर-नगरे स्थितः अस्ति ।
शिक्षणम्
२०११ वर्षस्य जनगणनानुसारं मध्यप्रदेश-राज्यस्य साक्षरतामानं ७०.२८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८०.५३ प्रतिशतं, स्त्रीणां साक्षरतामानं ६०.०२ प्रतिशतम् अस्ति । ई. स. १९४६ तमे वर्षे सागर-नगरे “डॉ. हरिसिंह गौर विश्वविद्यालयस्य” स्थापना अभवत् । अयं मध्यप्रदेशराज्यस्य सर्वप्रथमः विश्वविद्यालयः आसीत् । अस्य राज्यस्य जबलपुर-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । जबलपुर-मण्डलस्य साक्षरतामानं ८२.५ प्रतिशतम् अस्ति । अलीरजपुर-मण्डलस्य साक्षरतामानं न्यूनतमम् अस्ति । अस्य साक्षरतामानं ३७.२ प्रतिशतम् अस्ति ।
सागर-नगरस्य “डॉ. हरिसिंह विश्वविद्यालयः”, उज्जैन-नगरस्य “विक्रम विश्वविद्यालयः”, जबलपुर-नगरस्य “रानी दुर्गावती विश्वविद्यालयः”, इन्दौर-नगरस्य “देवी अहिल्या विश्वविद्यालयः”, ग्वालियर-नगरस्य “जीवाजी विश्वविद्यालयः”, रीवा-नगरस्य “अवधेश प्रतापसिंह विश्वविद्यालयः”. जबलपुर-नगरस्य “जवाहरलाल नेहरू कृषि विश्वविद्यालयः”, चित्रकूट-नगरस्य “महात्मा गान्धी चित्रकूट ग्रामोदय विश्वविद्यालयः”, भोपाल-नगरस्य “माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारिता विश्वविद्यालयः”, भोपाल-नगरस्य “मध्यप्रदेश भोज मुक्त विश्वविद्यालयः” च इत्येतानि मध्यप्रदेशराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।
भाषा
हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी (भिल), गोण्डी, कोर्कु, कालटो (निहाली) इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति ।
साहित्यम्
सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी, गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति ।
नृत्यं सङ्गीतञ्च
मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते ।
कला, संस्कृतिश्च
मध्यप्रदेशराज्यं साहित्यिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये बहवः प्राचीनाः साहित्यकाराः, कवयः च अभवन् । तेषु शरभङ्गः, अगस्त्यः, महाकविः कालिदासः, नागार्जुनः, भवभूतिः, मण्डनमिश्रः गङ्गाधरः, ईशानः इत्यादयः अस्य राज्यस्य प्राचीनसाहित्यकाराः सन्ति । इतः परं “माखनलाल चतुर्वेदी", “सुभद्रा कुमारी चौहान”, “सेठ गोविन्ददास”, “द्वारिकाप्रसाद मिश्र” इत्यादयः आधुनिकसाहित्यकाराः सन्ति । अस्य प्रदेशस्य राजभाषा हिन्दी अस्ति । किन्तु अस्मिन् प्रदेशे अनुसूचितजातयः, अनुसूचितजनजातयः च निवसन्ति । अतः तासां भाषाः अपि विभिन्नाः भवन्ति । मध्यप्रदेशराज्यस्य ग्वालियर-नगरे राजवंशः निवसति स्म । तस्मिन् समये मानसिंहः ग्वालियर-नगरस्य राजा आसीत् । तेन भारतस्य प्रथमः सङ्गीतविद्यालयः प्रस्थापितः । तानसेनः अपि अस्मिन् विद्यालये सङ्गीतशिक्षणम् अधीतवान् । तानसेनस्य जन्म अपि मध्यप्रदेशे एव अभवत् । “उस्ताद् अलाउद्दीन खाँ” इत्याख्यः प्रसिद्धः सितार-वादकः आसीत् । सः “पं. रविशङ्करस्य” गुरुः आसीत् । “अली अकबर खाँ”, “उस्ताद हाकिम खाँ” च सरोद-वादकः आसीत् । एतौ अपि मध्यप्रदेश-राज्येन सह सम्बद्धौ आस्ताम् ।
मध्यप्रदेशराज्ये पञ्च सांस्कृतिकक्षेत्राणि सन्ति । निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर च । प्रत्येकं क्षेत्रस्य संस्कृतिः भिन्ना वर्तते । तेषां क्षेत्राणां साहित्यम्, इतिहासः, कला, भाषा, वेशभूषा च भिन्ना अस्ति । मध्यप्रदेशस्स्य संस्कृतिः बहुधा वर्तते । मध्यप्रदेशे पञ्चसंस्कृतीनां समावेशः अस्ति । अपरं च जनजातीनाम् आदिमसंस्कृतेः अपि विस्तारः मध्यप्रदेशराज्ये अस्ति । अनेन प्रकारेण निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर इत्येतानि क्षेत्राणि सांस्कृतिकक्षेत्राणि सन्ति । धार-मण्डलं, झाबुआ-मण्डलं, मण्डला-मण्डलं, बालाघाटा-मण्डलं, छिन्दवाडा-मण्डलं, होशङ्गाबाद-मण्डलं, खण्डवा-मण्डलं, बुरहानपुर-मण्डलं, बैतूल-मण्डलं, रीवा-मण्डलं, सीधी-मण्डलं, शहडोल-मण्डलं च इत्यादीनि मण्डलानि जनजातीयक्षेत्राणि सन्ति । इन्दौर-नगरे, खजुराहो-नगरे, उज्जैन-नगरे, पचमढी-नगरे च नगरे मेला-उत्सवः आचर्यते । पचमढी-नगरे शिवरात्रिपर्वणि जनाः महोत्सवम् आचरन्ति । झाबुआ-नगरे “भगोरिया” इत्ययम् उत्सवः प्रमुखः वर्तते । “अखिल-भारतीय-कालिदास-महोत्सवः”, “तानसेन-महोत्सवः”, “अलाउद्दीन खाँ-उत्सवः”, “कुमारगन्धर्व-उत्सवः”, “खजुराहो-नृत्य-उत्सवः” च इत्यादयः मध्यप्रदेशराज्य प्रमुखाः सांस्कृतिकोत्सवाः सन्ति । दीपावलिपर्व, रक्षाबन्धनं, विजयादशमी चेत्यादयः उत्सवाः अपि आचर्यन्ते ।
निमाड
निमाड-क्षेत्रं मध्यप्रदेशस्य पश्चिमभागे स्थितम् अस्ति । अस्य क्षेत्रस्य एकस्मिन् पक्षे विन्ध्याचलपर्वतशृङ्खला, अपरे पक्षे सतपुडापर्वतशृङ्खला च वर्तते । अस्य क्षेत्रस्य मध्यभागे नर्मदा प्रवहति । पौराणिककाले निमाड-क्षेत्रम् “अनूप-जनपदः” कथ्यते स्म । समयान्तरे इदं “निमाड-क्षेत्रम्” इति नाम्ना ख्यातम् । अनन्तरम् इदं “पूर्व निमाड”, “पश्चिम निमाड” इत्येतयोः द्वयोः भागयोः विभागौ कृतौ ।
मालवा
मालवा-क्षेत्रं कालिदासस्य जन्मभूमिः अस्ति । अस्य क्षेत्रस्य भूमिः उर्वरा वर्तते । विन्ध्याचलशैलप्रस्थे स्थितम् इदं मालवाक्षेत्रम् । इदं क्षेत्रं मध्यप्रदेशराज्यस्य पश्चिमभागे स्थितम् अस्ति । मालवा-क्षेत्रस्य अधिकांशभागस्य कृषिः चम्बल-नदीजलेन क्रियते । अस्य क्षेत्रस्य पश्चिमभागः माही-नद्या सेसिच्यते । प्राचीनकाले इदं मालव इति नाम्ना ज्ञायते स्म । समुद्रतलात् अस्य क्षेत्रस्य औन्नत्यं ४९६ मी. अस्ति । चतुर्थशताब्द्याम् अस्मिन् क्षेत्रे मालव-जातेः जनाः निवसन्ति स्म । अतः तेन कारणेन अस्य नाम मालवा इत्यभवत् ।
बुन्देलखण्ड
बुन्देलखण्डक्षेत्रं मध्यभारतस्य प्राचीनक्षेत्रं वर्तते । “बुन्देली” इत्येषा अस्य क्षेत्रस्य प्रमुखा भाषा वर्तते । यद्यपि अस्य क्षेत्रस्य भौगोलिकी, सांस्कृतिकी च स्थितिः विविधा वर्तते । तथापि अस्य क्षेत्रस्य जनेषु ऐक्यं भवति । अस्मिन् क्षेत्रे बहुभिः शासकैः शासनं कृतम् । बुन्देलखण्ड-क्षेत्रस्य पश्चिमदिशि यमुनानदी, दक्षिणदिशि विन्ध्यपर्वतशृङ्खला, उत्तर-पश्चिमदिशि चम्बलनदी, दक्षिणपूर्वदिशि अजमगढश्रेणयः सन्ति । अस्मिन् क्षेत्रे उत्तरप्रदेशस्य जालौन-मण्डलं, झाँसी-मण्डलं, हमीरपुर-मण्डलं, बांदा-मण्डलम् इत्यादीनि चत्वारि मण्डलानि स्थितानि अस्ति । एवं च मध्यप्रदेशराज्यस्य सागर-मण्डलं, दतिया-मण्डलं, टीकमगढ-मण्डलं, छतरपुर-मण्डलं, पन्ना-मण्डलम् इत्यादीनि पञ्च मण्डलानि स्थितानि सन्ति । “अल्हा-ऊदल”, “ईसुरी”, “कविः पद्माकरः”, “झाँसी की रानी लक्ष्मीबाई”, “हरिसिंह गौर” इत्यादयः अस्य क्षेत्रस्य प्रमुखाः प्रसिद्धाश्च व्यक्तयः सन्ति ।
बघेलखण्ड
बघेलखण्ड-क्षेत्रं मध्यप्रदेशस्य उत्तरपूर्वदिशि स्थितम् अस्ति । अनूपपुर-मण्डलं, रीवा-मण्डलं, सतना-मण्डलं, शहडोल-मण्डलं, सीधी-मण्डलं, उमरिया-मण्डलम्, उत्तरप्रदेशराज्यस्य सोनभद्र-मण्डलं च अस्मिन् क्षेत्रे गण्यते । बघेलखण्ड-क्षेत्रं पौराणिककालीनं वर्तते । रामायणकाले इदं क्षेत्रं कोसल-प्रान्ते स्थितम् आसीत् । वर्तमानकालस्य सोहागपुर-नगरं पुरा विराटनगरम् इति नाम्ना ज्ञायते स्म । तत् विराट्नगरं महाभारतकाले बघेलखण्डे स्थितम् आसीत् । अस्य क्षेत्रस्य जनाः शैवाः, शाक्ताः, वैष्णवाः च सन्ति ।
ग्वालियर
इदं क्षेत्रं मध्यप्रदेशस्य मध्यभागः वर्तते । इदं चम्बलक्षेत्रम् अपि कथ्यते । अस्मिन् क्षेत्रे भारतस्य इतिहासस्य बहव्यः घटनाः घटिताः । ग्वालियर-नगरम् अस्य क्षेत्रस्य सांस्कृतिकम् आर्थिकं च केन्द्रम् आसीत् ।
खाद्यानि
विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति ।
खाद्यानाम् आवलिः
मावा बाटि
खोपरा-पाक
श्रीखण्ड
मालपुवा
रोगन् जोश्
भूपाली मुर्ग् रेजाला
पनीर् रेजाला
गोष्टकूर्मा
पिलाफ् (पुलाव्)
बाप्ला रोटिका
पोहा
जलेबी
दाल-बाटी
चूर्मा
अर्थव्यवस्था, कृषिः च
मध्यप्रदेशराज्यं कृष्याधारितम् अस्ति । अस्मिन् राज्ये कृषिकार्यं प्रधानं वर्तते । अस्य राज्यस्य ७५ प्रतिशतं जनाः कृषिकार्ये आधारिताः सन्ति । अस्य राज्यस्य प्रायः ५० प्रतिशतं स्थलं कृषियोग्यम् अस्ति । चणकः, गोधूमः, तण्डुलाः, तैलबीजं, सोयाबीन् , कार्पासः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । सम्पूर्णभारतस्य ८२ प्रतिशतं सोयामाष (Soybean)-सस्यम् अस्मिन् राज्ये उत्पाद्यते । अतः इदं “सोयामाष-प्रान्तः” इति नाम्ना अपि ज्ञायते । मध्यप्रदेशराज्यस्य इन्दौर-महानगरे “राष्ट्रिय-सोयाबीन-अनुसंधानकेन्द्रम्” अपि विद्यते । अस्मिन् राज्ये कृष्णमृत्तिका अधिकमात्रायां प्राप्यते । अतः कार्पासस्य, गोधूमस्य च कृषिः पर्याप्तमात्रायां क्रियते । शाजापुर-नगरं लवेटिका-सस्यस्य (corn) प्रमुखकेन्द्रं विद्यते । सेन्धवा-उपमण्डले, बडवानी-उपमण्डले लङ्गुरायाः (Millet) उत्पादनं क्रियते । निमाड-क्षेत्रे चणकस्य सर्वाधिकमात्रायाम् उत्पादनं भवति । मन्दसौर-मण्डलं पुलोमह्याः (Opium) उत्पादनाय भारते प्रसिद्धम् अस्ति । यद्यपि मध्यप्रदेशराज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । प्राकृतिकसंसाधनैः, स्वस्थवातावरणेन, उर्वराकृष्या च इदं राज्यं समृद्धम् अस्ति । अतः मध्यप्रदेश-राज्यं विकासशीलं वर्तते । औद्योगिकक्षेत्रे, कृषिक्षेत्रे च मध्यप्रदेश-राज्ये व्यापारानुसारं निवेशः क्रियते ।
उद्योगाः
मध्यप्रदेशराज्यं कृष्युत्पादनानां, वनोत्पादनानां, खानिजानां च उत्पादने अग्रगण्यं वर्तते । कार्पासवस्त्राणां, कौशेयवस्त्राणां, चर्मणः, कर्गजानां च उद्योगाः अस्मिन् राज्ये प्रचलन्तः सन्ति । ई. स. १९६५ तमे वर्षे भोपाल-नगरे “मध्यप्रदेश औद्योगिक विकास निगम” इत्यस्याः संस्थायाः स्थापना जाता । खण्डवा-मण्डलस्य नेपानगरे “नेशनल न्यूज् प्रिण्ट् एण्ड् पेपर् मिल्” इत्ययं यन्त्रागारः स्थितः अस्ति । राज्ये राष्ट्रियमुद्राणां यन्त्रागाराः अपि सन्ति । होशङ्गाबाद-नगरे राष्ट्रियमुद्राणां कर्गजाः निर्मीयन्ते । अनन्तरं देवास-नगरस्य यन्त्रागारे राष्ट्रियप्रचलितमुद्राणां मुद्रणं क्रियते । ग्वालियर-नगरे अग्निशलाकायाः यन्त्रागारः विद्यते । ई. स. १९६० तमे वर्षे भोपाल-नगरे “भारत भारी विद्युत् उपकरण लिमिटेड्” इत्याख्यः यन्त्रागारः ब्रिटेन्-देशस्य सर्वकारस्य साहाय्येन संस्थापितः ।
वीक्षणीयस्थलानि
मध्यप्रदेश-राज्ये पर्यटनस्य बहूनि स्थलानि सन्ति । पर्यटनदृष्ट्या मध्यप्रदेशराज्यं समृद्धम् अस्ति । अस्मिन् राज्ये प्राकृतिकस्थलानि, वन्याभयारण्यानि ऐतिहासिकस्थलानि च सन्ति । मध्यप्रदेश-राज्यं भारतस्य हृदयं मन्यते । अस्य राज्यस्य इतिहासः, भौगोलिकस्थितिः, प्राकृतिकं सौन्दर्यं, सांस्कृतिकभवनानि च राष्ट्रियसम्पत्तिः अस्ति । भारतस्य विभिन्ननगरेभ्यः, विभिन्नदेशेभ्यः च जनाः मध्यप्रदेशराज्यस्य भ्रमणं कर्तुं समागच्छन्ति ।
खजुराहो
खजुराहो इत्येतत् रमणीयं स्थलं मध्यप्रदेश-राज्यस्य छतरपुर-मण्डले स्थितम् अस्ति । इदं बुन्देलखण्ड-क्षेत्रे विराजते । विन्ध्यपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं स्थलम् । प्राचीनकाले खजुराहो इत्यस्य स्थलस्य “खजूरपुरा”, “खजूर वाहिका” इत्यादीनि नामानि आसन् । अत्र बहूनि हिन्दुमन्दिराणि, जैनमन्दिराणि च सन्ति । अस्मिन् स्थले खजुराहो-मन्दिरं विद्यते । तन्मन्दिरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य स्तम्भेषु, भित्तिषु च मूर्तयः सन्ति । ताः मूर्तयः बलुआ-पाषाणेषु उत्कीर्णाः सन्ति । अतः मन्दिरमिदं विख्यातम् अस्ति । खजुराहो-स्थलस्य इतिहासः सहस्राधिकवर्षेभ्यः पुरातनः अस्ति । इदं चन्देल-साम्राज्यस्य राजधानी आसीत् । चन्द्रवर्मन् इत्याख्यः शासकः अस्य स्थलस्य स्थापकः आसीत् । चन्द्रवर्मणा मध्यकाले बुन्देलखण्ड-क्षेत्रे शासनं कृतम् आसीत् । दशमशताब्दीतः द्वादशशताब्दीपर्यन्तं चन्देल-राजभिः मध्यभारते शासनं कृतम् । ई.स. ९५० तः १०५० पर्यन्तं खजुराहो-मन्दिराणां निर्माणं चन्देल-राजभिः कारितम् आसीत् । तैः आहत्य पञ्चाशीतिः मन्दिराणि निर्मापितानि आसन् । साम्प्रतं तेषु मन्दिरेषु द्वाविंशतिः मन्दिराणि एव सन्ति । मन्दिरेऽस्मिन् शृङ्गारदृश्यानि उत्कीर्णानि सन्ति । ई. स. १९८६ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं मन्दिरं वैश्विकसम्पत्तित्वेन उद्घोषितम् । तानि उत्कीर्णानि दृष्टुं जनाः तत्र गच्छन्ति । चतुष्षष्ठीयोगिनीमन्दिरं, जावेरीमन्दिरं, देवीजगदम्बामन्दिरं, विश्वनाथमन्दिरं, केन्द्रीयमहादेवमन्दिरं, लक्ष्मणमन्दिरं च इत्येतानि मन्दिराणि खजुराहो-स्थलस्य प्रसिद्धानि मन्दिराणि सन्ति । खजुराहो-स्थले नृत्यमहोत्सवः अपि आयोज्यते । इमं महोत्सवं प्रतिवर्षं फरवरी-मासस्य २५ दिनाङ्कतः मार्च-मासस्य २ दिनाङ्कपर्यन्तं जनाः आचरन्ति । विश्वस्य विभिन्नदेशेभ्यः जनाः उत्सवे समागच्छन्ति । अस्य स्थलस्य वातावरणं यद्यपि मनोहरं भवति, किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ उष्णतायाः आधिक्येन तत्कालः न वरः ।
खजुराहो-स्थलं मध्यप्रदेश-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । महोबा, जबलपुर, भोपाल, झांसी, ग्वालियर च इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः अपि तत्र गच्छन्ति । तत्र एकं रेलस्थानकम् अस्ति । तत् मध्यप्रदेश-राज्यस्य समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं लघु अस्ति । महोबा-नगरे अस्य समीपस्थं रेलस्थानकम् अस्ति । खजुराहो-स्थलात् महोबा-नगरं ६३ किलोमीटर्मिते दूरे स्थितम् अस्ति । खजुराहो-नगरे एकं विमानस्थानकम् अपि अस्ति । खजुराहो-नगरात् विमानस्थानकं ५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य मुम्बई, देहली, कोलकाता इत्यादिभिः प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । विमानस्थानकात् भाटकयानानि, बसयानानि च प्राप्यन्ते । जनाः सरलतया खजुराहो-नगरं गन्तुं शक्नुवन्ति ।
उज्जैन
उज्जैन-नगरं मध्यप्रदेशराज्यस्य उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे बहूनि धार्मिकस्थलानि सन्ति । उज्जैन-नगरे अशोक-राज्ञा, विक्रमादित्य-राज्ञा च इत्यादिभिः राजभिः शासनं कृतम् आसीत् । वेदेषु, पुराणेषु च अपि उज्जैन-नगर्याः वर्णनं प्राप्यते । महाभारतकाले इदं नगरम् अवन्तिराज्यस्य राजधानी आसीत् । वराहमिहिरः, ब्रह्मगुप्तः च इत्यादयः प्रसिद्धाः पुरुषाः अनेन नगरेण सह सम्बद्धाः सन्ति । द्वादशज्योतिर्लिङ्गेषु महाकालेश्वरज्योतिर्लिङ्गम् अपि उज्जैन-नगरे स्थितम् अस्ति । चिन्तामणिगणेश-मन्दिरं, बडे गणेशमन्दिरं, हरसिद्धिमन्दिरं, विक्रमकीर्तिमन्दिरं, गोपालमन्दिरं, नवग्रहमन्दिरं च इत्यादीनि मन्दिराणि उज्जैन-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । भर्तृहरिगुहाः, सान्दीपनी-आश्रमः, कालभैरवमन्दिरं, गढकालिकामन्दिरं, मङ्गलनाथमन्दिरं, मत्स्येन्द्रनाथमन्दिरं च अस्य नगरस्य पर्यटनस्थलानि सन्ति । तेषु “कालियादेह महल” इत्येतत् स्थलं वास्तुकलायै प्रसिद्धम् अस्ति । अतः जनाः तत्र गच्छन्ति ।
पुरा जयसिंह-राज्ञा वेद्यशाला निर्मापिता आसीत् । तेन भारतस्य बहुषु स्थानेषु अपि नैकाः वेद्य शालाः निर्मापिताः । ज्योतिषविद्यायै अपि उज्जैन-नगरं प्रसिद्धम् अस्ति । तत्र “कालिदास अकादमी” इत्याख्या संस्था स्थिता अस्ति । ई. स. १९७८ तमे वर्षे मध्यप्रदेशसर्वकारेण इयं संस्था संस्थापिता । तत्र कालिदासस्य कृतिषु अध्ययनकार्यं, संशोधनकार्यं च प्रचलति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । यतः ग्रीष्मर्तौ उष्णतायाः आधिक्येन वातावरनम् अनुकूलं न भवति । किन्तु अक्टूबर-मासतः मार्च-मार्च् पर्यन्तं वातावरणं शीतलं भवति । तेन जनाः आनन्देन तत्र भ्रमन्ति ।
उज्जैन-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । भोपाल, इन्दौर, अहमदाबाद, ग्वालियर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । उज्जैन-नगरे एकं रेलस्थानकम् अस्ति । इन्दौर, मुम्बई, पुणे, कोलकाता, भोपाल च इत्यादिभिः प्रमुखनगरैः रेलयानानि प्राप्यन्ते । उज्जैन-नगरे विमानस्थानकं नास्ति । उज्जैन-नगरात् ५५ किलोमीटर्मिते दूरे इन्दौर-नगरं स्थितम् अस्ति । तस्मिन् नगरे “देवी अहिल्याबाई होल्कर विमानस्थानकम्” विद्यते । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।
पेंच
पेंच-नगरं मध्यप्रदेश-राज्यस्य सिवनी-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् “पेंच-राष्ट्रियोद्यानम्”, “पेंच टाईगर रिजर्व्” च अस्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । उद्याने विविधप्रकारकाः वनस्पतयः, जीवजन्तवः च सन्ति । औषधीयपादपाः अपि बहुप्रकारकाः भवन्ति । वानरः, गन्धमार्जारः, भल्लूकः, व्याघ्रः, श्वा, शूकरः, चित्रकायः, मृगः च इत्यादयः उद्यानस्य मुख्याः पशवः सन्ति । पचधार-ग्रामः, नवेगांव-राष्ट्रियोद्यानं, कान्हा-राष्ट्रियोद्यानं, नागपुर-नागझिरा-अभयारण्यं च इत्यादयः पेंच-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “पेंच तुरिया गेट” इत्यस्मात् स्थलात् पचधार-ग्रामः १८ किलोमीटर्मिते दूरे स्थितः अस्ति । पेंच-नगरस्य समीपे विभिन्नजनजातीनां जनाः निवसन्ति । तेषां जनानां परम्परा, संस्कृतिः च अपि भिन्ना भवन्ति । पेंच-नगरात् कान्हा-राष्ट्रियोद्यानम् १९८ किलोमीटर्मिते दूरे स्थितम् अस्ति । प्रतिवर्षम् अक्टूबर-मासस्य १६ दिनाङ्कतः जून-मासस्य २३ तमदिनाङ्कपर्यन्तं पेंच-राष्ट्रियोद्यानस्य भ्रमणं कर्तुं शक्यते । यतः जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तौ इदम् उद्यानं पिहितं भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं भ्रमणाय उत्तमकालं भवति ।
सिवनी-नगरस्य बसस्थानकं पेंच-नगरस्य समीपस्थं बसस्थानकम् अस्ति । ततः सिवनी-नगरं ३० किलोमीटर्मितम् अस्ति । सिवनी-नगरात् महाराष्ट्रस्य, मध्यप्रदेशस्य च प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । पेंच-नगरस्य समीपस्थं रेलस्थानकं सिवनी-नगरे अस्ति । तत् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पेंच-नगरात् नागपुर-नगरस्य सोनेगांव-विमानस्थानकम् अस्ति । तत् १३२ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः पुणे, मुम्बई, देहली इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।
साँची
साँची-ग्रामः मध्यप्रदेश-राज्यस्य रायसेनमण्डले स्थितः अस्ति । पुरा अयं ग्रामः “विदिशागिरि” इति नाम्ना ज्ञायते स्म । अयं ग्रामः भोपाल-नगरस्य पूर्वोत्तरदिशि ४६ किलोमीटर्मिते दूरे स्थितः अस्ति । बेसनगरात्, विदिशा-नगरात् च १० किलोमीटर्मिते दूरे स्थितमस्ति । ग्रामः अयं मध्यप्रदेशराज्यस्य मध्यभागे विराजते । ग्रामेऽस्मिन् बहवः बौद्धस्मारकाणि सन्ति । तानि स्मारकाणि ई. स. पूर्व तृतीयशताब्दीतः द्वादशशताब्दीपर्यन्तकालस्य सन्ति । अस्मिन् ग्रामे बौद्धधर्मस्य एकः स्तूपः अपि स्थितः अस्ति । सः स्तूपः “साँचीस्तूपः” इति नाम्ना विश्वस्मिन् प्रसिद्धः अस्ति । बौद्धविहारः, साँचीसङ्ग्रहालयः, द ग्रेट् बाउल् ऑफ् गुप्ता, अशोकस्तम्भः च इत्यादीनि साँची-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “साँची-ग्रामे बहूनि बौद्धस्मारकाणि सन्ति” इति सत्यम् अस्ति । साँची-ग्रामस्य इतिहासः भगवता बुद्धेन सह सम्बद्धः अस्ति । किन्तु आश्चर्यमस्ति यत् – “भगवान् बुद्धः साँची-ग्रामं कदापि न आगतवान्” इति ।
पुरा साँची-ग्रामः व्यापारिणां केन्द्रम् आसीत् । तैः व्यापारिभिः बौद्धप्रथायाः प्रचारः अपि कृतः । साँचीस्तूपस्य विषये एका कथा प्राप्यते यत् - “अशोकस्य शासनकाले “देवी” इत्याख्या कन्या आसीत् । सा बौद्धभक्ता आसीत् । अशोकः तस्यां स्निहति स्म । देव्या एव बौद्धस्तूपानां निर्माणाय अशोकः प्रेरितः । साँचीस्तूपस्य प्रवेशद्वाराणां वास्तुकला अद्भुता अस्ति । इदं स्थलं भारतस्य विशिष्टबौद्धस्थलेषु अन्यतमम् अस्ति । नवम्बर-मासतः फरवरी-मासपर्यन्तं साँची-ग्रामे धार्मिकोत्सवाः आचर्यन्ते । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।
साँची-ग्रामात् मध्यप्रदेशस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः, भाटकवाहनैः च तत्र गच्छन्ति । इन्दौर, भोपाल, विदिशा च इत्यादीनि नगराणि साँची-ग्रामेण सह सम्बद्धानि सन्ति । भोपाल-नगरे साँची-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । भोपाल-नगरं साँची-ग्रामात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-रेलस्थानकात् भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ततः साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकम् विद्यते । साँची-ग्रामात् तद्विमानस्थानकं ४६ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली, मुम्बई, जबलपुर, इन्दौर, ग्वालियर इत्यादिभिः नगरैः सह राजाभोज-विमानस्थानकं सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । राजाभोज-विमानस्थानकात् साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । जनाः सरलतया साँची-ग्रामं गन्तुं शक्नुवन्ति ।
इटारसी
इटारसी-नगरं मध्यप्रदेश-राज्यस्य होशङ्गाबाद-मण्डले स्थितम् अस्ति । मध्यप्रदेशस्य प्रसिद्धं रेलस्थानकं, व्यापारिकं केन्द्रं च अस्ति इदं नगरम् । अस्य नगरस्य रेलस्थानकं प्राचीनतमं रेलस्थानकम् अस्ति । कृषिक्षेत्रे, औद्योगिकक्षेत्रे च अस्य नगरस्य विशिष्टं स्थानं वर्तते । इटारसी-नगरं हस्तकलायै, शिल्पकलायै, प्राचीनकलायै च भारते प्रसिद्धम् अस्ति । भोपाल-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति इदं नगरम् । हिन्दी-भाषायाः “ईंट”, “रस्सी” इत्येताभ्यां शब्दाभ्यां “इटारसी” नामोत्पत्तिः जाता । यतः अस्मिन् नगरे ईष्टिकायाः, रज्जोः व्यापारः प्रमुखः अस्ति । इटारसी-नगरे खानिजस्य प्रचूरमात्रा लभ्यते । अतः तत्र भारतीयसेनायै शस्त्रास्त्राणि निर्मीयन्ते । अस्मिन् नगरे बहवः यन्त्रागाराः सन्ति । अतः एव व्यावसायिकेन्द्रत्वेन सम्पूर्णे भारते विख्यातम् इदं नगरम् । इटारसी-नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । बोरी-अभयारण्यं, तवा-जलबन्धः, बूढीमाता-मन्दिरं, बडा हनुमन् मन्दिरं, स्वप्नेवरहनुमन्-मन्दिरं, विन्ध्येश्वरीमाता-मन्दिरं, द्वारकाधीशमन्दिरं, मलोथर च इत्यादीनि इटारसी-नगरस्य वीक्षणीयस्थलानि सन्ति । शीतर्तुः अस्य नगरस्य भ्रमणाय उत्तमः कालः अस्ति ।
इटारसी-नगरं मध्यप्रदेशराज्यस्य व्यावसायिकं नगरम् अस्ति । अतः तत्र आवागमस्य श्रेष्ठव्यवस्था अस्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य इन्दौर, भोपाल, उज्जैन, ग्वालियर इत्यादिभिः प्रमुखनगरैः सम्बद्धम् अस्ति । इटारसी-नगरात् तेभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । इटारसी-नगरे मध्यप्रदेशराज्यस्य प्राचीनतमं, बृहत्तमं च रेलस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते ।भोपाल-नगरस्य राजाभोज-विमानस्थानकम् इटारसी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इटारसी-नगरात् तद्विमानस्थानकं ९० किलोमीटर्मिते विद्यते । राजाभोज-विमानस्थानकात् इटारसी-नगराय भाटकयाननि, बसयानानि च प्राप्यन्ते ।
माण्डवगढ
माण्डवगढ-नगरं मध्यप्रदेशराज्यस्य धार-मण्डले स्थितम् अस्ति । माण्डू, शादियाबाद च इत्येते अस्य अपरे नामानि स्तः । पर्यटनदृष्ट्या माण्डवगढ-नगरं रमणीयं स्थलं, ऐतिहासिकं स्थलं च वर्तते । इदं नगरं मालवा-क्षेत्रे अस्ति । अतः मध्यप्रदेशसर्वकारः प्रतिवर्षं मालवा-समारोहस्य आयोजनं करोति । अतः तस्मिन् उत्सवे बहवः जनाः समागच्छन्ति । पुरा माण्डवगढ एकं लघुराज्यम् आसीत् । अफगान-देशस्य “दिलावर खान” इत्याख्येन राज्ञा अस्मिन् राज्ये शासनं कृतम् । “दिलावर खान” इत्याख्यस्य पुत्रः “होसाङ्ग शाह” आसीत् । तेन अपि ग्वालियर-राज्ये शासनम् कृतम् । सः एकः श्रेष्ठः राजा आसीत् । तेन ग्वालियर-राज्यस्य विकासः कृतः । अनन्तरम् अस्मिन् राज्ये मुगल-शासकैः अपि शासनं कृतम् । ई. स. १७३२ तमे वर्षे मराठा-शासकैः अस्मिन् राज्ये विजयः प्राप्तः । वर्षर्तौ माण्डवगढ-नगरस्य वातावरणं सौम्यं, मनोहरं च भवति । अतः तस्मिन् काले ग्वालियर-नगरस्य भ्रमणं वरम् । माण्डवगढ-नगरम् ऐतिहासिकदृष्ट्या अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् नगरे वास्तुकलायाः अपि प्रतिकृतयः प्राप्यन्ते । “होसाङ्ग शाह” इत्याख्येन “होसाङ्ग मकबरा” श्वेतशैलैः निर्मापितम् आसीत् । “होसाङ्ग मकबरा” भारतस्य सर्वप्रथमं श्वेतशैलनिर्मिता रचना अस्ति । अस्याधारेण एव “शाहजहां” इत्याख्यः राजा “ताजमहल” निर्मापितुं प्रेरितः जातः ।
माण्डवगढ-नगरं राष्ट्रियराजमार्गेण, राजकीयराजमार्गेण च सम्बद्धम् अस्ति । माण्डवगढ-नगरात् भारतस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । माण्डु-नगरे रेलस्थानकं नास्ति । रतलाम-नगरस्य रेलस्थानकं माण्डवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माण्डवगढ-नगरात् रतलाम-नगरं १०५ किलोमीटर्मिते दूरे स्थितम अस्ति । रतलाम-रेलस्थानकं देहली-मुम्बई-रेलमार्गस्य मुख्यरेलस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । रतलाम-नगरात् बसयानैः माण्डवगढ-नगरं प्राप्यते । माण्डवगढ-नगरस्य समीपस्थं विमानस्थानकम् इन्दौर-नगरे अस्ति । इन्दौर-नगरं १०० किलोमीटर्मिते दूरे स्थितमस्ति । देहली, मुम्बई, ग्वालियर, भोपाल इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते ।
पन्ना
पन्ना-नगरं भारतस्य पन्नामण्डलस्य केन्द्रमस्ति । हीरकमणये सम्पूर्णभारते प्रसिद्धम् अस्ति इदं नगरम् । पन्ना-नगरस्य हीरकमणयः विश्वस्मिन् विक्रीयन्ते । पन्ना-नगरस्य हीरकमणीनां गुणवत्ता उत्तमा भवति । हिन्दुधर्मस्य अस्मिन् नगरे महत्त्वम् अधिकं विद्यते । पन्नाराष्ट्रियोद्यानं पन्ना-नगरस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । पाण्डवगुहाः, पाण्डवजलप्रपाताः, उद्यानानि च अस्य नगरस्य प्राकृतिकस्थलानि सन्ति ।
पन्ना-नगरं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । देहली, आग्रा, झाँसी, लखनऊ, फरीदाबाद, वाराणसी, नागपुर, जबलपुर, इलाहाबाद, ढोलपुर, इन्दौर, भोपाल च इत्यादिभिः प्रमुखनगरैः सह सम्बद्धम् अस्ति । पन्ना-नगरे रेलस्थानकं नास्ति । पन्ना-नगरस्य समीपे खजुराहो, सतना च इत्येते द्वे रेलस्थानके स्तः । पन्ना-नगरात् खजुराहो-नगरं ४५ किलोमीटर्मिते, सतना-नगरं ७५ किलोमीटर्मिते च दूरे स्थितमस्ति । ते रेलस्थानके भारतदेशस्य प्रमुखनगरैः च सम्बद्धे स्तः । ताभ्यां रेलस्थानकाभ्यां पन्ना-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । पन्ना-नगरे विमानस्थानकम् अस्ति किन्तु साम्प्रतं तस्य उपयोगः न क्रियते । किन्तु खजुराहो-नगरे पन्ना-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जनाः सरलतया पन्ना-नगरं प्राप्नुवन्ति ।
पचमढी
पचमढी-नगरं मध्यप्रदेश-राज्यस्य एकाकि एव पर्वतीयक्षेत्रम् अस्ति । पचमढी-स्थलं “सतपुडा की रानी”, “क्वीन् ऑफ् सतपुडा” वा इति नाम्ना ज्ञायते । सतपुडापर्वतशृङ्खलायाः भागः अस्ति इदं क्षेत्रम् । इदं स्थलं १११० मीटर्मिते औन्नत्ये स्थितम् अस्ति । पचमढी-नगरं गौण्ड्-जनजातेः आदिवासिवंशस्य राजधानी आसीत् । “भावुत सिंह” इत्याख्यः गौण्ड-आदिवासिनां राजा आसीत् । ई. स. १८५७ तमे वर्षे ब्रिटिश-सेनायाः जेम्स् फोरसिथ् इत्याख्येन नायकेन पचमढी-पर्वतीयक्षेत्रम् अन्विष्टम् । अस्य क्षेत्रस्य विकासाय तस्य योगदानम् अपि अस्ति । ई. स. २००९ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं क्षेत्रं जीवमण्डलारक्षितक्षेत्रम् उद्घोषितम् आसीत् । पचमढी-क्षेत्रे बहूनि पर्यटनस्थलानि सन्ति । तत्र स्थितं “धूपगढ” इत्येतत् स्थलं विन्ध्य-सतपुडापर्वतशृङ्खलायाः, मध्यभारतस्य च उच्चतमः बिन्दुः अस्ति । पचमढी-स्थले प्राचीनगुहाः, स्मारकाणि, जलप्रपाताः, वनानि च सन्ति । एतानि स्थलानि पचमढी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । हांडी खोह, जटाशङ्करगुहा, पाण्डवगुहाः, अप्सराविहारः, बी फॉल्, डचेस् फॉल् च इत्यादयः पचमढी-नगरस्य वीक्षणीयस्थलानि सन्ति । यद्यपि पचमढी-नगरस्य वातावरणं सर्वदा सुखमयम्, आनन्दमयं च भवति, तथापि अक्टूबर-मासतः जून-मासपर्यन्तं पचमढी-नगरस्य वातावरणं सर्वोत्तमं भवति ।
पचमढी-नगरं मध्यप्रदेश-राज्यस्य विभिन्ननगरैः भूमार्गेण संलग्नम् अस्ति । महाराष्ट्र-राज्यस्य सर्वकारसञ्चालितानि बसयानानि अपि पचमढी-नगराय प्राप्यन्ते । भोपाल-नगराय, पिपरिया-नगराय, नागपुर-नगराय च अपि पचमढी-नगरात् बसयानानि प्राप्यन्ते । पिपरिया-नगरस्य रेलस्थानकं पचमढी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । इदं पचमढी-नगरात् ४७ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे अपि रेलस्थानकम् अस्ति । तत् पचमढी-नगरात् २०० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” पचमढी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पचमढी-नगरात् १९५ किलोमीटर्मिते दूरे स्थितमस्ति । तस्माद् विमानस्थानकात् दिल्ली-महानगराय, मुम्बई-महानगराय, ग्वालियर-नगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । “राजा भोज-विमानस्थानकात् पचमढी-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।
बान्धवगढ
बान्धवगढ इत्येतत् स्थलं मध्यप्रदेश-राज्यस्य रीवा-मण्डले स्थितम् अस्ति । इदं नगरं राष्ट्रियोद्यानाय भारते प्रसिद्धम् अस्ति । इदं नगरं श्वेतव्याघ्राणां निवासस्थानं मन्यते । रीवा-प्रान्तस्य राजा आखेटाय बान्धवगढ-स्थलस्य उपयोगं करोति स्म । तत्र पर्वतक्षेत्रे एकः दुर्गः अपि स्थितः अस्ति । प्रागेव इदं स्थलं राष्ट्रियोद्यानत्वेन मन्यते । पुरा इदम् अभयारण्यम् आखेटाय प्रसिद्धम् आसीत् । किन्तु साम्प्रतं सर्वकारेण अवैधाखेटाय प्रतिबन्धः कृतः । तेन व्याघ्राणां सङ्ख्या वर्धते । ई. स. १९६८ तमे बान्धवगढ-नगरं राष्ट्रियोद्यानत्वेन विख्यातम् अभवत् । भारते सर्वाधिकाः व्याघ्राः अस्मिन् अभयारण्ये वसन्ति । इतः परं चित्रकायाणां (Panthers), मृगानां च विभिन्नप्रजातयः प्राप्यन्ते । तत्र बहवः वन्यजीवाः अपि प्राप्यन्ते । अस्मिन् उद्याने विहगानां पञ्चाशताधिकद्विशतं प्रजातयः प्राप्यन्ते । तत्र विभिन्नप्रकाराकाः वृक्षाः, वनौषधयः चापि सन्ति ।
बान्धवगढ-दुर्गः, विन्ध्यपर्वतशृङ्खला च अस्य स्थलस्य प्रसिद्धे पर्यटनस्थले स्तः । मध्यप्रदेश-राज्ये नव राष्ट्रियोद्यानानि, पञ्चविंशति अभयारण्यानि च सन्ति । अतः एव इदं राज्यं सम्पूर्णे भारते विख्यातम् अस्ति । तेषु अभयारण्येषु बान्धवगढ-राष्ट्रियाभयारण्यं सर्वाधिकं प्रसिद्धम् अस्ति । अनेन कारणेन मध्यप्रदेशराज्यं “टाईगर् स्टेट्” इति कथ्यते । बान्धवगढ-नगरस्य प्राचीनाः गुहाः, घारपुरी-जलबन्धः, शेषशय्या, घोराडेमांव-जलप्रपातः, बघेल-सङ्ग्रहालयः च इत्यादीनि अस्य नगरस्य आकर्षणस्य स्थलानि सन्ति ।
बान्धवगढ-नगरं भूमार्गेण मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि नियमितरूपेण प्राप्यन्ते । कटनी-नगरस्य रेलस्थानकं बान्धवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कटनी-रेलस्थानकात् वडोदरा-नगराय, मुम्बई-नगराय, बेङ्गळूरु-महानगराय, चेन्नै-महानगराय च इत्यादिभ्यः भारतस्य प्रमुकनगरेभ्यः रेलयानानि प्राप्यन्ते । कटनी-रेलस्थानकात् बान्धवगढ-नगराय बसयानानि, भाटकयानानि च सरलतया प्राप्यन्ते । जबलपुर-नगरस्य विमानस्थानकं बान्धवगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते ।
रीवा
रीवा-नगरं मध्यप्रदेश-राज्यस्य रीवा-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे सङ्ग्रहालयाः, दुर्गाः, जलप्रपाताः, ऐतिहासिकस्थलानि च सन्ति । एतानि सर्वाणि स्थलानि प्राकृतिकानि, मानवनिर्मितानि च सन्ति । तत्र श्वेतव्याघ्राः अपि प्राप्यन्ते । इदं स्थलं चतुर्षु भागेषु विभक्तम् अस्ति यत् – “बिञ्झ-पर्वतः, अधस्तात् उत्तरीस्थलं, कायमोर-पर्वतः, रीवा-शैलप्रस्थः च । नर्मदा-नद्याः अपरं नाम रीवा अपि अस्ति । अतः अस्य नगरस्य नाम रीवा इति अभवत् । ई. पूर्व तृतीयशताब्द्यां मौर्यशासकानां शासनम् आसीत् । बाघैल-सङ्ग्रहालयः, रीवा-दुर्गः, “पीली कोठी”, गोविन्दगढ-दुर्गः, गोविन्दगढ-भवनं, वैङ्कट-भवनम्, “रानी तालाब”, “एपीएस् विश्वविद्यालय स्टेडियम्”, “भाईरोम बाबा - इत्याख्यस्य प्रतिमा”, रानीपुर कारचुलियन्, केओंती-जलप्रपातः, पुरवा-जलप्रपातः, चाचाय-जलप्रपातः च रीवा-नगरस्य पर्यटनस्थलानि सन्ति । वर्षतुः रीवा-नगरस्य भ्रमणार्थम् उत्तमः ऋतुः वर्तते । जुलाई-मासतः सितम्बर-मासपर्यन्तं जनाः तत्र पर्यटनाय गच्छन्ति । तस्मिन् काले रीवा-नगरस्य सौन्दर्यम् अतीव आह्लादकं दृश्यते ।
रीवा-नगरे मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । इदं नगरं भूमार्गेण मध्यप्रदेशराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । रीवा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं रीवा-नगरात् ५.८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य, मध्यप्रदेशस्य च प्रमुकनगरेभ्यः रीवा-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । रीवा-नगरं भोपाल-नगरेण, देहली-महानगरेण, जयपुर-नगरेण इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । खजुराहो-नगरे रीवा-नगरस्य समीपस्थं विमानस्थानकमस्ति । खजुराहो-नगरात् रीवा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते ।
महेश्वर
महेश्वर-पत्तनं मध्यप्रदेश-राज्यस्य खरगौन-मण्डले स्थितम् अस्ति । अस्मिन् पत्तने हस्तनिर्मितानि वस्त्राणि प्राप्यन्ते । तत्र हस्तनिर्मिताः शाटिकाः अपि प्राप्यन्ते । अत एव इदं भारते प्रसिद्धम् अस्ति । सांस्कृतिकदृष्ट्या इदं पत्तनं समृद्धम् अस्ति । दुर्गाः, भवनानि, मन्दिराणि च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । अस्य नगरस्य भवनानां वास्तुकला अपि अद्भुता अस्ति । अस्मिन् नगरे भगवतः शिवस्य बहूनि मन्दिराणि सन्ति । अस्य नगरस्य जनाः सर्वाणि पर्वाणि उत्साहपूर्वकम् आचरन्ति । शीतर्तौ महेश्वर-पत्तनं गन्तुम् उत्तमं भवति । अतः एव जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं महेश्वर-पत्तनं गच्छन्ति ।
महेश्वर-पत्तने मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह इदं पत्तनं सम्बद्धम् अस्ति । इन्दौर-महानगरस्य रेलस्थानकं महेश्वर-पत्तनस्य निकटतमं रेलस्थानकम् अस्ति । तत् महेश्वर-पत्तनात् ६६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इन्दौर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इन्दौर-नगरात् महेश्वर-पत्तनाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । इन्दौर-नगरस्य विमानस्थानकम् अपि महेश्वर-पत्तनस्य समीपस्थं विमानस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण महेश्वर-पत्तनस्य परिवहनं सरलम् अस्ति । अतः जनाः सरलतया महेश्वर-पत्तनं प्राप्तुं शक्नुवन्ति ।
विदिशा
मध्यप्रदेशराज्यस्य विदिशामण्डलस्य मुख्यालयः अस्ति इदं नगरम् । अस्य नगरस्य प्राचीनं नाम “भिलसा” इति आसीत् । नगरमिदम् ऐतिहासिकम् अस्ति । नगरे प्राचीनावशेषाः, स्मारकाणि च प्राप्यन्ते । बेसनगरस्य अवशेषाः, उदयगिरि-नगरस्य गुहाः च गुप्तसाम्राज्यस्य प्रमाणभूताः सन्ति । २६०० वर्षेभ्यः पूर्वम् इदं नगरं प्रमुखव्यापारकेन्द्रम् आसीत् । १००० वर्षेभ्यः पूर्वम् अशोक-राजा विदिशा-साम्राज्यस्य राज्यपालः आसीत् । इदं स्थलं भोपाल-नगरस्य समीपे एव स्थितम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र प्राचीनमूर्तयः, शिलालेखाः, भग्नावशेषाः च प्राप्यन्ते । गिरधारी-मन्दिरं, उदयेश्वर-मन्दिरं, दशावतार-मन्दिरं, मालादेवी-मन्दिरं, बाजरामठ-मन्दिरं, गाडरमल-मन्दिरं, “सोला खम्बी-मन्दिरं” च इत्येतानि विदिशा-नगरस्य वीक्षणीयस्थलानि सन्ति । बीजामण्डलम् अस्य नगरस्य प्रमुखं तीर्थस्थलम् आसीत् । किन्तु साम्प्रतं तस्य मन्दिरस्य भग्नावशेषाः एव प्राप्यन्ते । सिरोञ्ज-जैनसमुदायस्य प्रसिद्धं तीर्थस्थलं मन्यते इदं नगरम् । तत्र हेलियोडोरस-स्तम्भः वर्तते । सः स्तम्भः “खम्बा बाबा” इति नाम्ना ज्ञायते । उदयगिरि-गुहाः, शालभञ्जिका, ग्यारसपुरस्य मूर्तयः च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । “लोहङ्गी पीर”, “हिण्डोला तोरण” च इमे अपि अस्य नगरस्य ऐतिहासिके स्थले स्तः । शीतर्तौ जनाः विदिशा-नगरं गच्छन्ति । तस्मिन् समये वातावरणं मनोहरं भवति ।
विदिशा-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरात्, उदयपुर-नगरात् च विदिशा-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । विदिशा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं देहली-चेन्नैरेलमार्गस्य प्रमुखं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इन्दौर-नगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” विदिशा-नगरस्य समीपस्थं विमानस्थानकमस्ति । तद् विमानस्थानकं विदिशा-नगरात् ५६ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरात् अन्ताराष्ट्रियवायुयानानि अपि प्राप्यन्ते । अनेन प्रकारेण सरलतया विदिशा-नगरं प्राप्तुं शक्यते ।
खण्डवा
खण्डवा-नगरं मध्यप्रदेशराज्यस्य खण्डवा-मण्डलस्य मुख्यालयः अस्ति । इदम् एकम् ऐतिहासिकं नगरं वर्तते । अस्मिन् प्राचीने नगरे बहूनि मन्दिराणि, तीर्थस्थलानि, कुण्डाः च सन्ति । अत एव इदं नगरं “मन्दिराणां, कुण्डानां च नगरम्” इति कथ्यते । खण्डवा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । द्वादशशताब्द्यां खण्डवा-नगरे जैनधर्मानुयायिनां सङ्ख्या अधिका आसीत् । अतः इदं नगरं जैनधर्मस्य केन्द्रं मन्यते स्म । ब्रिटिश-शासनकाले खण्डवा-नगरं निमाड-क्षेत्रस्य प्रमुखं वाणिज्यकेन्द्रं मन्यते स्म । खण्डवा-नगरं चलच्चित्रजगतः “किशोरकुमार” इत्याख्यस्य पार्श्वगायकस्य जन्मस्थलम् अपि अस्ति । किशोरकुमारस्य “गौरीकुञ्ज” नामकं स्मारकम् अपि विद्यते । खण्डवा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “भवानीमाता-मन्दिरं” खण्डवा-नगरस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । प्रतिवर्षं सहस्राधिकजनाः दर्शनार्थं तत्र गच्छन्ति । खण्डवा-नगरस्य समीपे ओङ्कारेश्वर-मन्दिरं स्थितम् अस्ति । तत्र “सिद्धवरकूट-मन्दिरं”, “ममलेश्वर-मन्दिरं” च स्थितम् अस्ति । तयोः सिद्धवरकूटं जैनधर्मस्य, ममलेश्वरं च हिन्दुधर्मस्य तीर्थस्थलं वर्तते । असीरगढ-दुर्गः अपि खण्डवा-नगरस्य आकर्षणस्य केन्द्रं विद्यते । अयं दुर्गः “डेक्कन्” इत्यस्य नेत्रत्वेन मन्यते । विश्वस्य विभिन्ननगरेभ्यः पर्यटकाः इमं दुर्गं दृष्टुं गच्छन्ति । खण्डवा-नगरे नैकाः जलबन्धाः सन्ति । तेषु जलबन्धेषु इन्दिरासागर-जलबन्धः, नग्चुन-जलबन्धः च पर्यटनाय महत्त्वपूर्णः अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।
खण्डवा-नगरे मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । मध्यप्रदेश-राज्यस्य विभिन्ननगरेभ्यः खण्डवा-नगराय बसयानानि प्राप्यन्ते । खण्डवा-नगरं भूमार्गेण मध्यप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । खण्डवा-नगरे एकं रेलस्थानकम् अस्ति । इदं भोपाल-रेलस्थानकेन, इन्दौर-रेलस्थानकेन च सह सम्बद्धम् अस्ति । ताभ्यां नगराभ्यां प्रतिदिनं खण्डवा-नगराय रेलयानानि प्राप्यन्ते । देहली-महानगराय, मुम्बई-महानगराय, कोलकात-महानगराय, कोचीन-नगराय, बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, जम्मू-नगराय, पटना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । इन्दौर-नगरस्य “देवी अहिल्याबाई होलकर” इत्येतत् विमानस्थानकं खण्डवा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । खण्डवा-नगरात् इन्दौर-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण खण्डवा-नगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।
उज्जयिनी-वैशिष्ट्यम्
मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्त(अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका, द्वारावती)पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासाभ्यान्तरं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासाभ्यान्तरम् उत्तमं वातावरणं भवति ।
महाकुम्भोत्सवः
द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।
परिवहनम्
भूमार्गः
मध्यप्रदेशराज्यस्य मार्गाणां दैर्घ्यं ७३,३११ किलोमीटर्मितम् अस्ति । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४२८० किलोमीटर्मिते, प्रान्तीयराजमार्गाणां दैर्घ्यं ८७२९ किलोमीटर्मिते च अस्ति । अस्मिन् राज्ये भूमार्गाणां निर्माणकार्यं निरन्तरं प्रचलत् अस्ति । प्रायः ६०,००० किलोमीटर्मिते मार्गाणां निर्माणं, नवीनीकरणं च भविष्यति । राज्ये सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । राज्यस्य पर्यटनस्थलानि गन्तुं तानि बसयानानि उपयुज्यन्ते । इदं राज्यं भूमार्गेण भारतस्य विभिन्नराज्यानां महानगरैः, नगरैः च सह सरलतया सम्बद्धम् अस्ति । मध्यप्रदेशराज्ये ई. स. २००५ तमं वर्षं “मार्गाणां वर्षम्” इति नाम्ना आचरितम् ।
धूमशकटमार्गः
मध्यप्रदेशराज्यस्य भोपाल-नगरे, बीना-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, इटारसी-नगरे, जबलपुर-नगरे, कटनी-नगरे, रतलाम-नगरे, उज्जैन-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । भोपाल-नगरे, रतलाम-नगरे, जबलपुर-नगरे च रेलविभागस्य क्षेत्रीयमुख्यालयाः स्थिताः सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य मुख्यनगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । अनेन प्रकारेण इदं राज्यं भारतस्य सर्वैः राज्यैः सह धूमशकटमार्गेण सम्बद्धम् अस्ति ।
वायुमार्गः
मध्यप्रदेशराज्यस्य भोपाल-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, जबलपुर-नगरे, रीवा-नगरे, खजुराहो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि भारतस्य, विदेशस्य प्रमुखविमानस्थानकैः सह सम्बद्धाः सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
सम्बद्धाः लेखाः
शिवराजसिंह चौहान
पशुपतिनाथमन्दिरं
सन्दर्भाः
बाह्यानुबन्धाः
http://www.mp.nic.in/ MP Portal
http://www.mpgovt.nic.in/ Govt. of MP
http://www.mptourism.com/ MP Tourism
भारतस्य राज्यानि |
1013 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | महाराष्ट्रराज्यम् | महाराष्ट्रराज्यम् ( ) भारतस्य पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति । मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबसागरः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी ।
भौगोलिकम्
महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति ।
भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति । अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम “कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । अस्मिन् राज्ये स्थिताः शैलप्रस्थाः अस्य राज्यस्य प्राकृतिकवैशिष्ट्यं वर्तते । तेषु शैलप्रस्थेषु बुलढाना-शैलप्रस्थः, अहमदनगर-शैलप्रस्थः, यवतमाल-शैलप्रस्थः च इत्यादयः प्रमुखाः सन्ति । अतः इदं राज्यं शैलप्रस्थानां शैलप्रस्थः” कथ्यते । महाराष्ट्रराज्यस्य उत्तरभागे सतपुडा-पर्वतशृङ्खला अस्ति । महाराष्ट्रराज्यस्य उत्तरदिशि गुजरात-राज्यम्, उत्तर-पूर्वदिशि मध्यप्रदेश-राज्यं, छत्तीसगढ-राज्यं च, दक्षिणदिशि गोवा-राज्यं, कर्णाटक-राज्यम्, आन्ध्रप्रदेश-राज्यं च, पश्चिमदिशि दादरा-नगरहवेली-केन्द्रशासितप्रदेशः, अरबसागरश्च स्थितः अस्ति ।
नद्यः
गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति ।
अस्मिन् राज्ये सर्वकारेण नदीषु बहव्यः परियोजनाः प्रचालिताः सन्ति । कृष्णा-नद्यां “कृष्णा परियोजना”, पावना-कृष्णा-नद्योः “भीमा परियोजना”, कार्ली-नद्यां “कार्ली सरार परियोजना”, कार्ली-नद्यां “बावन छडी परियोजना”, पूर्णा-नद्यां “पूर्णा परियोजना” च प्रचालिता अस्ति । अस्मिन् राज्ये बहवः तडागाः अपि सन्ति । लोनार, लोनवाली, कोयना, बेल, शिवरता, बलहनान इत्यादयः तडागाः सन्ति । ब्रान्द्रा-मण्डले, चन्द्रपुर-मण्डले च सर्वाधिकाः तडागाः सन्ति । अतः इदं क्षेत्रं “तडागानां देशः” कथ्यते ।
जलवायुः
अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मार्च-मासतः जून-मासपर्यन्तं ग्रीष्मकालः भवति । तदनन्तरम् अक्टूबर-मासपर्यन्तं वर्षतुः भवति । वर्षर्तौ प्रदेशस्य तटीयक्षेत्रेषु अधिकमात्रायां वर्षा भवति । ग्रीष्मर्तौ महाराष्ट्रस्य मध्य-पूर्व-क्षेत्राणां तापमानं ४३ डिग्री सेल्सियस् मात्रात्मकं भवति । शीतर्तौ तेषां क्षेत्राणां तापमानं प्रायः २० डिग्री सेल्सियस् मात्रात्मिकं भवति ।
जनसङ्ख्या
महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं भारते तृतीयं तथा लोकसङ्ख्यादृष्ट्या द्वितीयं राज्यम् अस्ति ।
नाम्नः उद्गमः
अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र" इति नाम्ना प्रसिद्धः अयं परिसरः इति ह्युएन्-त्सांगादि पथिकानां मतम् । राज्यस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायां 'महाराष्ट्री' शब्दात् निर्मितं जातम् इति मन्यते । केषाञ्चित् मते अस्य राज्यस्य नाम "महाकान्तार" (महान् वनम्-दण्डकारण्यम्) इति शब्दस्य अपभ्रंशः वर्तते ।
इतिहासः
भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।
संयुक्तमहाराष्ट्रान्दोलनम्
महाराष्ट्रराज्यस्थापना ऐतिहासिकः महत्वपूर्णविषयः । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभागः 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णयः १९५० तमे वर्षे एव कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजनाः, कर्मकरजनाः, कृषकाः, विचारवन्तः जनाः भागं गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
सह्याद्री पर्वतश्रेणिः (वा पश्चिमघट्टाः) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन शैलप्रस्थः अस्ति । एषः बह्वीनां नदीनां स्रोतः अस्ति । महाराष्ट्रे ३५ मण्डलानि अपि च षड्विभागाः सन्ति । ते -औरङ्गाबाद, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः । विदर्भः (नागपुरम्अमरावती), मराठवाडा (औरङ्गाबाद), खान्देशः उत्तरमहाराष्ट्रं (नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोङ्कणं च ते पञ्चविभागाः ।
विभागाः, मण्डलानि च
महानगराणि
महाराष्ट्रराज्ये सप्त बृहत्तमनगराणि सन्ति । मुम्बई, नागपुरं, नासिक, वर्धा, औरङ्गाबाद, अहमदनगरं, कोल्हापुरं च ।
मुम्बई
मुम्बई-महानगरं भारतस्य बृहत्तमं नगरं विद्यते । इदं महानगरं महाराष्ट्रराज्ये स्थितम् अस्ति । मुम्बई-महानगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः तत्र बहूनि समुद्रतटानि सन्ति । महानगरेऽस्मिन् बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् महानगरे त्रीणी समुद्रतटानि प्रसिद्धानि सन्ति । जुहू-समुद्रतटं, चौपाटी-समुद्रतटं, गोराई-समुद्रतटं च । तत्र “मरीन ड्राईव” इत्येतत् स्थलं वर्तते । एतत्स्थलं “क्वीन्स् नेकलेस्” इति नाम्ना अपि ज्ञायते । मुम्बई-महानगरे धार्मिकस्थलानि अपि सन्ति । सिद्धिविनायक-मन्दिरं, “हाजी अली मस्जिद्” च अस्य नगरस्य प्रसिद्धे धार्मिकस्थले स्तः । अनयोः मन्दियोः वास्तुकला प्रायः समाना एव अस्ति । अनयोः स्थलयोः जनसम्मर्दः अपि सर्वाधिकः भवति । मुम्बई-नगरस्य रात्रिजीवनं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । यतः जनाः दिवाकाले व्यवसायं कुर्वन्ति । किन्तु रात्रिकाले भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे द्युतक्रीडायाः स्थानानि अपि सन्ति । जनः द्युतक्रीडां कर्तुं तत्र गच्छन्ति । महाराष्ट्र-राज्यस्य सर्वकारेण मुम्बई-महनगरस्य दर्शनाय बसयानानि प्रचालितानि सन्ति । अतः ये जनाः कारयानैः मुम्बई-नगरस्य भ्रमणं कर्तुं नेच्छन्ति, तैः बसयानद्वारा भ्रमणं कर्त्तव्यम् । तानि बसयानानि “गेटवे ऑफ् इण्डिया” इत्यस्मात् स्थलात् मुम्बई-दर्शनं कारयन्ति । सायंकाले मुम्बई-नगरस्य भ्रमणं कृत्वा पुनः “गेटवे ऑफ् इण्डिया” इतीदं स्थलं प्राप्नुवन्ति । अनेन प्रकारेण यात्रिकाः मुम्बई-महानगरस्य प्रमुखाणि स्थलानि दृष्टुं शक्नुवन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ, वर्षर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।
मुम्बई-महानगरं भूमार्गेण सम्पूर्ण-भारतस्य प्रसिद्धनगरैः सह सम्बद्धम् अस्ति । महानगरमिदम् उत्तरदिशि आगरा-मार्गेण, पूर्वदिशि इन्दौर-मार्गेण, उत्तरदिशि अहमदाबाद-मार्गेण च सह सम्बद्धम् अस्ति । मुम्बई-महानगरे महाराष्ट्र-राज्यस्य सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । तैः बसयानैः गमने सौकर्यं भवति । मुम्बई-महानगरं रेलमार्गाय प्रसिद्धम् अस्ति । अस्य नगरस्य निवासिनः गमनाय रेलयानानां सर्वाधिकम् उपयोगं कुर्वन्ति । रेलयानम् अस्य नगरस्य तीव्रतमं साधनं वर्तते । मुम्बई-रेलस्थानकम् इन्दौर-नगरेण, बेङ्गळूरु-नगरेण, देहली-नगरेण, कोलकाता-नगरेण, पुणे-नगरेण, भोपाल-नगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । एतैः नगरैः मुम्बई-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः सरलतया मुम्बई-महानगरं गन्तुं शक्नुवन्ति ।
पुणे
पुणे-नगरं महाराष्ट्रराज्यस्य पुणे-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् “सदाचारस्य नगरम्” अपि कथ्यते । पुरा इदं “पुणेवाडी” इति नाम्ना ज्ञायते स्म । “छत्रपति शिवाजी” इत्याख्येन मराठा-शासकेन कथ्यते स्म । पुणे-नगरे ऐतिहासिकानि, धार्मिकानि च स्थलानि सन्ति । आगा खान पैलेस्, शिन्दे छतरी, सिंहगढ-दुर्गः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “ओशो रजनीश” इत्याख्येन पुणे-नगरे “ओशो कम्यून् इण्टरनेशनल् सेण्टर्” इत्याख्या संस्था स्थापिता । अस्मिन् नगरे कार्ला-भाजा इत्यनयोः बौद्धगुहाः अपि प्रसिद्धाः सन्ति । पटलेश्वर-मन्दिरं पुणे-नगरस्य प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं १४०० वर्षेभ्यः पुरातनम् अस्ति । अस्त नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति ।
पुणे-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, नागपुर-महानगराय च पुणे-नगरात् बसयानानि प्राप्यन्ते । पुणे-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । पुणे-नगरात् १२ किलोमीटर्मिते दूरे लोहेगांव-विमानस्थानकम् अस्ति । लोहेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुणे-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया पुणे-नगरं गन्तु शक्नुवन्ति ।
नागपुरम्
नागपुर-नगरं महाराष्ट्र-राज्यस्य नागपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्र-राज्यस्य बृहत्तमेषु नगरेषु तृतीयम् अस्ति । इदं भारतस्य “टाईगर राजधानी” इति नाम्ना ज्ञायते । गोड-राजवंशजैः नागपुर-नगरम् अन्विष्टम् । समयान्तरे बहुभिः राजवंशैः नागपुर-नगरे शासनं कृतम् आसीत् । अन्ते आङ्ग्लैः नागपुर-नगरं प्रान्तस्य केन्द्रियराजधानीत्वेन स्थापितम् । नाग-नद्याः नाम्ना अस्य नगरस्य नाम नागपुरम् इत्यभवत् । समुद्रतलात् इदं नगरं ३१० मीटर्मितम् उन्नतं वर्तते । इदं नगरं १०,००० किलोमीटर्मितं विस्तृतम् अस्ति । नवेगांव-जलबन्धः, सीताबुल्दी-दुर्गः, पेंच-राष्ट्रियोद्यानं च अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नागपुर-नगरे “दीक्षाभूमिः” इत्येतत् स्थलं प्रसिद्धम् अस्ति । तस्मिन् स्थाने सहस्राधिकजनैः “डॉ. बी. आर्. अम्बेडकर” इत्याख्यम् अनुसृत्य बौद्धधर्मः आचरितः । नागपुर-नगरस्य मध्ये एकः पाषाणस्तम्भः स्थितः अस्ति । तस्मिन् स्तम्भे नागपुर-नगरात् भारतस्य प्रमुखनगराणाम् अन्तरम् उल्लिखितम् अस्ति । अस्य निर्माणं ब्रिटिश्-शासनकाले अभवत् । नगरेऽस्मिन् मानवनिर्मितः, प्राकृतिकः च तडागः अपि वर्तते । “सेमिनरी हिल्स्” इत्यत्र बालाजी-मन्दिरं स्थितम् अस्ति । ततः नागपुर-नगरस्य सम्पूर्णं दृश्यं दृश्यते । इदं पर्वतीयक्षेत्रं पर्वतारोहिणां मनोहरं स्थलम् अस्ति ।
अस्मिन् नगरे पोदेश्वर-मन्दिरं, वेङ्कटेश-मन्दिरं च स्थितम् अस्ति । तत्र भगवतः बुद्धस्य मन्दिरम् अपि विद्यते । तस्य नाम ड्रैगन्-मन्दिरम् अस्ति । नामानुसारम् अस्य मन्दिरस्य परिचयं ज्ञातुं न शक्यते । तत्र गुबलीगढ-दुर्गः स्थितः अस्ति । अयं दुर्गः ३०० वर्षेभ्यः पुरातनः अस्ति । नागपुर-नगरे नवरात्रिमहोत्सवः, विजयादशमी, गणेशमहोत्सवः, दुर्गामहोत्स्वः, मोहर्रम् च इत्यादयः उत्सवाः आचर्यन्ते । नागपुर-नगरं “नारङ्गफलस्य नगरी” इति कथ्यते । अस्मिन् नगरे प्रचुरमात्रायां नारङ्गफलस्य उत्पादनं क्रियते । नगरमिदं दक्कन-शैलप्रस्थस्य समीपे स्थितम् अस्ति । अतः तस्मिन् नगरे जलस्रोतांसि न सन्ति ।
नागपुर-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, पुणे-महानगराय च नागपुर-नगरात् बसयानानि प्राप्यन्ते । नागपुर-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नागपुर-नगरात् ६ किलोमीटर्मिते दूरे सोनेगांव-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सोनेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नागपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नागपुर-नगरं गन्तु शक्नुवन्ति ।
नाशिक
नाशिक-नगरं महाराष्ट्र-राज्यस्य नाशिक-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं “मदिरायाः राजधानी” इति कथ्यते । यतः अस्मिन् नगरे द्राक्षाफलस्य उत्पादनम् अधिकमात्रायां क्रियते । नाशिक-नगरं मुम्बई-महानगरात् १८० किलोमीटर्मिते, पुणे-नगरात् २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । इदं नगरं “नापा घाटी” इत्यस्य पश्चिमघट्टे स्थितम् अस्ति । पुरा इदं नगरं सत्वहना-राजवंशस्य राजधानी आसीत् । षोडशशताब्द्याम् अस्मिन् नगरे मुगल-शासनम् आसीत् । तस्मिन् समये इदं “गुल्शानाबाद” इत्यपि कथ्यते स्म । एकोनविंशतितमशतब्द्याम् अस्मिन् नगरे आङ्ग्ल-शासनम् आसीत् । भारतीयस्वातन्त्र्यान्दोलने नैके क्रान्तिकारिणः नाशिक-नगरेण सह सम्बद्धाः आसन् । पुराणानुसारं ज्ञायते यत् – “भगवान् रामः चतुर्दशवर्षाणां वनवासस्य कानिचन वर्षाणि नाशिक-नगरस्य समीपे एकस्मिन् तपोवने यापितवान् । अत्रैव भगवता लक्ष्मणेन शूर्पणखायाः नासिकाछेदनं कृतम् आसीत् । अतः एव अस्य नाम “नाशिक” इत्यभवत् । नाशिक-नगरं महाराष्ट्रराज्यस्य विकासशीलनगरेषु अन्यतमं वर्तते । कालिदासेन, वाल्मीकिना अपि स्वस्य ग्रन्थेषु नाशिक-नगरस्य उल्लेखः कृतः अस्ति । नाशिक-नगरस्य समीपे त्र्यम्बकेश्वर-मन्दिरम् अस्ति । इदं मन्दिरं भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमं वर्तते । नगरेऽस्मिन् मुद्राणां सङ्ग्रहालयः अस्ति । अयं सङ्ग्रहालयः एशिया-खण्डस्य एकः एव मुद्रा-सङ्ग्रहालयः अस्ति ।
नगरमिदं मन्दिराणां नगरम् अस्ति । यतः अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । कालाराममन्दिरं नाशिक-नगरस्य विशिष्टमन्दिरेषु एकम् अस्ति । अस्मिन् मन्दिरे भगवतः रामस्य कृष्णपाषाणनिर्मिता प्रतिमा अस्ति । सीता-गुहा, पञ्चवटी च अस्य नगरस्य धार्मिकस्थले स्तः । अस्मिन् नगरे जनाः प्रतिचतुर्वर्षेषु नाशिक-नगरे कुम्भोत्सवम् आचरन्ति । जनाः उत्साहपूर्वकम् उत्सवम् आचरन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । महात्मना असहयोगान्दोलनस्य आरम्भः नाशिक-नगरादेव कृतः । “डॉ. बी. आर्. अम्बेडकर” महात्मनः समर्थनं प्रदत्तम् आसीत् । नाशिक-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः अस्य नगरस्य तापमानम् अधिकं भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य यात्रा न कर्त्तव्या । शीतर्तौ अस्य नगरस्य यात्रा लाभकरी, स्वास्थ्यप्रदा च भवति । इदं नगरं भारतस्य केन्द्रे स्थितम् अस्ति । अतः अस्य नगरस्य यात्रा सरलतया भवितुं शक्नोति ।
नाशिक-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नाशिक-नगरस्य भ्रमणे सारल्यं भवति । पुणे-नगरात् नाशिक-नगरं २२० किलोमीटर्मिते दूरे अस्ति । मुम्बई-महानगराय, पुणे-महानगराय, नागपुर-नगराय च नाशिक-नगरात् बसयानानि प्राप्यन्ते । नाशिक-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-नगरस्य “छत्रपति शिवाजी”- विमानस्थानकं नाशिक-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मात् विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नाशिक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नाशिक-नगरं गन्तु शक्नुवन्ति ।
वर्धा
वर्धा-नगरं महाराष्ट्र-राज्यस्य वर्धा-मण्डलस्य मुख्यालयः स्ति । वर्धा-नद्याः तटे स्थितम् इदं वर्धा-नगरम् । ई. स. १८५६ तमे वर्षे अस्य नगरस्य स्थापना जाता । इदं नगरं ६३१० किलोमीटर्मितं विस्तृतम् अस्ति । साम्प्रतम् इदं नगरं कार्पास-व्यापाराय भारते प्रसिद्धम् अस्ति । अस्य नगरस्य इतिहासः अपि महत्त्वपूर्णः वर्तते । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । तेषु चालुक्य-राजवंशः, मौर्य-राजवंशः, शतवाहन-राजवंशश्च मुख्यः अस्ति । ई. स. १३५१ तमे वर्षे नगरमिदं बहमनी-राजवंशजानाम् आधीन्ये आसीत् । समयान्तरे ब्रिटिश्-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । गीताई-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, महाकाली-मन्दिरं, केल्जर्-मन्दिरं च अस्य नगरस्य प्रसिद्धानि मन्दिराणि सन्ति । “विश्वशान्तिस्तूपः”, परमधाम-आश्रमः, “गान्धी आश्रम बापू कुटी” च इत्यादिनी अस्य नगरस्य समीपस्थानि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । वर्धा-नगरस्य वातावरणं सर्वदा सुखकरं, स्वास्थ्यकरं च भवति ।
महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः वर्धा-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । वर्धा-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोङ्कण-रेलमार्गे वर्धा-नगरस्य रेलस्थानकं स्थितम् अस्ति । इदं रेलस्थानकम् भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः प्रमुखनगरेभ्यः वर्धा-नगरात् रेलयानानि प्राप्यन्ते । नागपुर-नगरे स्थितं “डॉ. बी. आर्. अम्बेडकर”-विमानस्थानकं वर्धा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । वर्धा-नगरात् इदं विमानस्थानकं ७४ किलोमीटर्मिते दूरे स्थ्तम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरस्य विमानस्थानकात् बसयानैः, भाटकयानैः वा वर्धा-नगरं गन्तुं शक्यते । अनेन प्रकारेण वर्धा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति ।
औरङ्गाबाद
औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य नाम औरङ्गजेब-राज्ञः नाम्ना अभवत् । खामनद्याः तटे स्थितम् इदं नगरम् । ई. स. १६८१ तमे वर्षे औरङ्गजेब-राज्ञा स्वस्य राज्यस्य राजनैतिकव्यवस्थायै, रणनैतिकव्यवस्थायै च इदं नगरम् आधारत्वेन स्थापितम् । औरङ्गजेब-राज्ञः मृत्योः अनन्तरम् अस्मिन् नगरे निजाम-शासकनाम् आधिपत्यम् अभवत् । ई. स. १९५६ तमे वर्षे अस्य नगरस्य महाराष्ट्रराज्ये विलयः जातः । अस्मिन् नगरे जनैः मराठी-भाषायाम्, उर्दू-भाषायां च व्यवह्रियते । औरङ्गाबाद-नगरं “सिटी ऑफ् गेट्स्” इति नाम्ना अपि ख्यातम् अस्ति । इदं स्थलं महाराष्ट्रराज्यस्य आधिकारिकी सम्पत्तिः वर्तते । यदा अस्मिन् नगरे मुगल-शासनम् आसीत्, तत्पूर्वं बौद्धधर्मस्य महत्प्रभावः वर्तते स्म । साम्प्रतम् अजन्ता-एलोरा-गुहाः अस्य प्रमाणिभूताः सन्ति । अस्य नगरस्य संस्कृतिः हैदराबाद-नगरस्य संस्कृत्या सह सम्बद्धा अस्ति । अस्मिन् नगरे “बीबी का मकबरा” इति नामकः प्रसिद्धं स्मारकं वर्तते । तत्र औरङ्गजेब-राज्ञः पत्न्याः समाधिः वर्तते । अस्य नगरस्य जलवायुः शीतोष्णः वर्तते । अतः वर्षर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं मनोहरं भवति । आवर्षं तत्र जनानां सम्मर्दः दृश्यते । मुम्बई-नगरात् इदं नगरं ३७५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।
औरङ्गाबाद-नगरं महाराष्ट्रराज्यस्य बृहत्तमेषु नगरेषु अन्यततमं वर्तते । अस्मिन् नगरे बसयानानां, भाटकयानानां व्यवस्था पर्याप्तमात्रायाम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरात् १२० किलोमीतर्मिते दूरे मनमाद-रेलस्थानकम् अस्ति । तद्रेलस्थानकम् अपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् विद्यते । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति ।
अहमदनगरम्
अहमदनगरं महाराष्ट्रराज्यस्य अहमदनगर-मण्डलस्य मुख्यालयः अस्ति । सिना-नद्याः तटे स्थितम् अस्ति इदं नगरम् । नगरमिदं ५०० वर्षेभ्यः पुरातनम् अस्ति । ई. स. १४९४ तमे वर्षे “अहमद निजाम शाह” इत्याख्येन राज्ञा अस्य नगरस्य स्थापना कृता । अतः एव अस्य नाम अहमदनगरम् अभवत् । प्रायः ई. स. १६३६ तमे वर्षे शाहजहां-राज्ञा अस्मिन् नगरे आधिपत्यं स्थापितम् । समयान्तरे अस्मिन् नगरे बहुभिः राजभिः शासनं कृतम् । कथ्यते यत् - “निजाम-शासकैः अस्मिन् नगरे १५० वर्षाणि शासनं कृतम् आसीत्” इति । ई. स. १७५९ तमे वर्षे पेशवा-राजवंशजैः, मराठा-शासकैः च अस्य नगरस्य स्वरूपं परिवर्तितम् । ई. स. १८१७ तमे वर्षे आङ्ग्लाः पराजयं प्राप्य अहमदनगरं समागतवन्तः । अहमदनगरे अहमदनगर-दुर्गः स्थितः अस्ति । अयं दुर्गः अस्य नगरस्य मुख्यं पर्यटनस्थलं वर्तते । “शलाबत खान का मकबरा”, “राउजा बाग”, “कोट बाघा निजाम” इत्यादीनि स्थलानि ऐतिहासिकानि सन्ति । नगरमिदम् एकं धार्मिकस्थलम् अपि अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि अपि सन्ति । मोहाता-देवीमन्दिरं, सिद्धेश्वर-मन्दिरं, श्रीगणपति-मन्दिरं च इत्यादीनि धार्मिकस्थलानि सन्ति । अस्मिन् नगरे ऐतिहासिकभवनानि, सङ्ग्रहालयाः, संशोधनकेन्द्राणि च सन्ति । तेषु टैङ्क-सङ्ग्रहालयः प्रसिद्धः अस्ति । अस्य पूर्णं नाम “कावालेरी टैङ्क सङ्ग्रहालयः” इति । ई. स. १९९४ तमे वर्षे “बी. सी जोशी” इत्याख्येन अस्य सङ्ग्रहालयस्य उद्घाटनं कृतम् आसीत् । अस्मिन् सङ्ग्रहालये अग्निगोलकाः, युद्धयानानि च सङ्गृहीतानि सन्ति । अस्मिन् सङ्ग्रहालये चत्वारिंशद् देशानां युद्धयानानि प्रदर्शितानि सन्ति । अहमदनगरस्य जलवायुः सामान्यः एव भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कम्, उष्णं च भवति । किन्तु वर्षर्तौ वातावरणं सुखदं भवति । अतः जनाः विहाराय तत्र गच्छन्ति ।
महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तेन जनाः अहमदनगरस्य समीपस्थानि वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । अहमद-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, पुणे-नगरेण च इत्यादिभिः महाराष्ट्र-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकम् अहमदनगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अहमदनगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयाननि प्राप्यन्ते । पुणे-विमानस्थानकात् बसयानैः भाटकयानैः वा अहमदनगरं प्राप्यते । अनेन प्रकारेण अहमदनगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अहमदनगरं प्राप्नुवन्ति ।
कोल्हापुरम्
कोल्हापुरं महाराष्ट्र-राज्यस्य कोल्हापुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य धार्मिकस्थलत्वेन सम्पूर्णे भारते प्रसिद्धम् अस्ति । प्रतिवर्षं लक्षाधिकजनाः दर्शनार्थं तत्र गच्छन्ति । महालक्ष्मीदेव्या कोलासुर-राक्षसः हतः । तावदेव अस्य नगरस्य नाम कोल्हापुरम् इत्यभवत् । अस्मिन् नगरे ऐतिहासिकानि स्थलानि अपि सन्ति । दुर्गाः, ऐतिहासिकभवनानि च अस्य नगरस्य पर्यटनस्थलानि सन्ति । इदं नगरम् अतीव प्राचीनं विद्यते । सह्याद्रिपर्वतशृङ्खलायाः समीपे स्थितम् इदं नगरम् । “छत्रपति ताराबाई” इत्याख्यया कोल्हापुरस्य विकासः कृतः । अनन्तरं “छत्रपति शाहु महाराज” इत्याख्यः राजा राज्यस्य सञ्चालनं कुर्वन् आसीत् । तेन अस्य नगरस्य सामाजिकः शैक्षणिकः च विकासः कृतः । पुराणानुसारं कथ्यते यत् – कोल्हापुरं भगवतः शिवस्य निवासस्थलम् मन्यते । इदं नगरं “दक्षिणकाशी” इत्यपि कथ्यते । शाहु-सङ्ग्रहालयः अस्य नगरस्य प्राचीनतमः सङ्ग्रहालयः अस्ति । कोल्हापुर-नगरे कुशबाग-प्राङ्गणम् अस्ति । अस्मिन् प्राङ्गणे मल्लयुद्धाभ्यासः क्रियते । नगरेऽस्मिन् तडागाः अपि सन्ति । कोल्हापुर-नगरस्य पादत्राणानि विश्वस्मिन् प्रसिद्धानि सन्ति । कोल्हापुर-नगरे चर्मणः श्रेष्ठवस्तूनि प्राप्यन्ते । “राजा हरिशचन्द्र” नामकं चलच्चित्रं भारतस्य सर्वप्रथमं चलच्चित्रम् अस्ति । अस्य चलच्चित्रस्य निर्माणं कोल्हापुर-नगरे एव अभवत् ।
महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः कोल्हापुर-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । कोल्हापुर-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोल्हापुरनगरे “छत्रपति शाहु महाराज टर्मिनस्” इति नामकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च कोल्हापुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । कोल्हापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् उजलाईवाडी-स्थले स्थितम् अस्ति । इदं कोल्हापुर-नगरात् ९ किलोमीटरमिते दूरे स्थितम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । यात्रिकाः सरलतया अस्य नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।
राजनीतिः
महाराष्ट्रे द्विसदनात्मकं विधानमण्डलं वर्तते । एकं विधानपरिषद्, अपरं विधानसभा च । विधानसभायाः आहत्य २८८ स्थानानि सन्ति । विधानसभायाः अध्यक्षः “स्पीकर्” इति कथ्यते । अस्य राज्यस्य विधानपरिषदः आहत्य ७८ सदस्याः सन्ति । परिषदः सर्वोच्चपदाधिकारी “सभापतिः” इति कथ्यते । “वाय्. वी. चौहान” इत्याख्यः अस्य राज्यस्य सर्वप्रथमः मुख्यमन्त्री आसीत् । ई. स. १९८० तमस्य वर्षस्य फरवरी-मासस्य अष्टादशदिनाङ्के (१८ फरवरी १९८०) अस्मिन् राज्ये सर्वप्रथमं राष्ट्रपतिशासनम् अभवत् । महाराष्ट्रराज्ये लोकसभायाः एकोनपञ्चाशत् (४९) स्थानानि, राज्यसभायाः एकोनविंशतिः (१९) स्थानानि च सन्ति । “शिवसेना”, “राष्ट्रवादी-कॉङ्ग्रेस्-पक्षः”, “भारतीय-राष्ट्रीय-कॉङ्ग्रेस्-पक्षः”, ”भारतीयजनतापक्षः”, “कम्युनिस्ट् पार्टी ऑफ् इण्डिया” च अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । मुम्बई-नगरे उच्चन्यायालयः स्थितः अस्ति । ई. स. १८६२ तमे वर्षे अस्य स्थापना जाता । नागपुर-नगरे, पणजी-नगरे, औरङ्गाबाद-नगरे च अस्य उच्चन्यायालयस्य खण्डपीठानि सन्ति । महाराष्ट्र-राज्यम् अस्य उच्चन्यायालयस्य अधिकारक्षेत्रम् अस्ति । अपि च गोवा-राज्यं, दादरा-नगरहवेली-केन्द्रशासितप्रदेशं, दमनदीव-केन्द्रशासितप्रदेशं च इत्येतानि प्रदेशानि अस्यैव उच्चन्यायालयस्य अधिकारक्षेत्रे सन्ति ।
अर्थव्यस्था, कृषिः च
महाराष्ट्र-राज्यस्य राजधानी मुम्बई-महानगरम् अस्ति । इदं महानगरं भारतस्य “वाणिज्यराजधानी” इति कथ्यते । अस्य प्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ६५ प्रतिशतं जनाः कृषिकार्येषु आधारिताः सन्ति । तण्डुलाः, गोधुमः, हरिद्रा च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । द्राक्षाफलम्, आम्रफलं, कदलीफलं, नारङ्गफलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति । एतेषां फलानाम् उत्पादनं प्रचुरमात्रायां क्रियते । महाराष्ट्रराज्यस्य आहत्य कृषिक्षेत्रस्य १०.९८ हेक्टेयर् परिमिते कृषिक्षेत्रे फलानाम् उत्पादनं भवति ।
उद्योगाः
महाराष्ट्रराज्यम् औद्योगिकरूपेण, आर्थिकरूपेण च समृद्धम् अस्ति । इद् भारतस्य प्रमुखम् औद्योगिकं राज्यम् अस्ति । भारतस्य आहत्य औद्योगिकोत्पादनस्य २५ प्रतिशतम् उत्पादनं महाराष्ट्रराज्ये भवति । भारतस्य आहत्य वैद्युतकोत्पादनस्य १९ प्रतिशतम् उत्पादनम् अस्मिन् राज्ये भवति । पुणे-नगरं, मुम्बई-महानगरं, थाणे-नगर, च वैद्युतकोत्पादनानां केन्द्राणि सन्ति । खाद्योद्योगः, वैद्युतोद्योगः, मुद्रण-प्रकाशनोद्योगः, कर्गजोद्योगः, रसायनोद्योगः, वस्त्रोद्योगः, यन्त्रोद्योगः, वाहनोद्योगः च महाराष्ट्रराज्यस्य उद्योगाः सन्ति । मुम्बई-महानगरं चलच्चित्रोद्योगस्य गृहम् अस्ति । अस्मिन् महानगरे उच्चस्तरात्मकं चलच्चित्रनिर्माणं क्रियते । इदं “बॉलिवुड्” इति कथ्यते । महाराष्ट्र-राज्ये पर्यटनस्थलानि अपि बहूनि सन्ति । अतः पर्यटनस्थलेषु अपि जनाः व्यापारं कुर्वन्ति ।
शिक्षणम्
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं महाराष्ट्रराज्यस्य साक्षरतामानं ८२.६५ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८९.८२ प्रतिशतं, स्त्रीणां साक्षरतामानं ७५.४८ प्रतिशतं च अस्ति । “मुम्बई-विश्वविद्यालयः”,मुम्बई ; “डॉ बाबा साहेब अम्बेडकर मराठवाडा विश्वविद्यालयः”, औरङ्गाबाद; “भारतीय प्रौद्योगिकी संस्थानम्” (I.I.T.), मुम्बई; “पुणे-विश्वविद्यालयः”, पुणे; “उत्तरी महाराष्ट्र विश्वविद्यलयः”, जलगांव; “शिवाजी-विश्वविद्यालयः”, कोल्हापुर; “अमरावती-विश्वविद्यालयः, अमरावती; “महात्मागान्धी-अन्ताराष्ट्रियहिन्दीविश्वविद्यालयः”, वर्धा; “भारतीयविद्यापीठं”, पुणे; “जनसङ्ख्या विज्ञान का अन्तरराष्ट्रीय संस्थानम्”, मुम्बई; “महाराष्ट्र युनिवर्सिटी ऑफ् मेडिकल् सायन्स्”, नाशिक; “टाटा इन्स्टीट्यूट् ऑफ् सोशल् सायन्स्”, मुम्बई; “यशवंतराव चौहान महाराष्ट्र मुक्त विश्वविद्यालय”, नाशिक; “इन्दिरा गान्धी इन्स्टीट्यूट् ऑफ् डेवलपमेण्ट् रिसर्च्”, मुम्बई; “केन्द्रीय मत्स्य पालन शिक्षा संस्थान”, मुम्बई; “गोखले इन्स्टीट्यूट् ऑफ् पॉलिटिक्स् एण्ड् इकोनॉमिक्स्”, पुणे च इत्यादीनि महाराष्ट्रराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।
कला, संस्कृतिश्च
कलादृष्ट्या इदं राज्यम् अत्यधिकं समृद्धम् अस्ति । मुम्बई-महानगरं भारतस्य चलच्चित्रोद्योगस्य केन्द्रं विद्यते । मुम्बई-महानगरं भारतीयचलच्चित्रजगतः राजधानी” अस्ति । इदं नगरं “भारतस्य हॉलीवुड्” इत्यपि कथ्यते । “दादा साहेब फाल्के” इत्याख्येन ई. स. १९१३ तमे वर्षे “हरिशचन्द्र” नामकं भारतस्य सर्वप्रथमं चलच्चित्रं निर्मितम् आसीत् । अतः सः एव भारतीयचलच्चित्रोद्योगस्य संस्थापकः अस्ति ।
महाराष्ट्र-राज्यस्य नृत्यकलासु तमाशा, लावणी, पोवाडा इत्यादयः नृत्यकलाः प्रमुखाः वर्तन्ते । मराठी-भाषा महाराष्ट्रराज्यस्य मातृभाषा अस्ति । किन्तु लिपिः देवनागरी अस्ति । “स्वामी मुकुन्द राव” इत्याख्यः मराठी-भाषायाः साहित्यकारः आसीत् । सर्वप्रथमं तेन एव मराठी-भाषायां साहित्यिकरचना कृता आसीत् । समयान्तरे सन्तज्ञानेश्वरः, नामदेवः, तुकारामः, रामदासः इत्यादिभिः मराठी-भाषायाः साहित्ये योगदानं प्रदत्तम् । अतः एव मराठीभाषासाहित्यं समृद्धम् अस्ति । महाराष्ट्रराज्ये भारतीयशास्त्रीयसङ्गीतम् अपि प्रचलितम् अस्ति । “पं. विष्णु दिगम्बर पलुस्कर” इत्याख्यः भारतीयशास्त्रीयसङ्गीतस्य मूर्धन्येषु अन्यतमः आसीत् । “विष्णुदास भावे” इत्याख्यः महाराष्ट्रराज्यस्य प्रथमः नाट्यकारः आसीत् । “विष्णुदास भावे” इत्याख्येन एव मराठी-भाषायाः नाटकस्य आधारः संस्थापितः ।
गणेश-महोत्सवः महाराष्ट्रराज्यस्य महत्त्वपूर्णः उत्सवः अस्ति । अयम् उत्सवः दशदिवसात्मकः भवति । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । एलिफेण्टा-उत्सवः, पुणे-उत्सवः, बाणगङ्गा-उत्सवः, एलोरा-उत्सवः, कालिद-उत्सवः इत्यादयः महाराष्ट्रराज्यस्य प्रमुखाः उत्सवाः सन्ति । एलिफेण्टा-उत्सवः औरङ्गाबाद-नगरस्य समीपे आचर्यते । नागपुर-नगरे कालिदासोत्सवः आचर्यते । महाराष्ट्रराज्ये दीपावलि-पर्व, रामनवमी, विजयादशमी च इत्यादीनि धार्मिकपर्वणि जनाः आचरन्ति । महाराष्ट्रराज्यस्य जनाः सर्वे उत्सवान् उत्साहपूर्वकम् आचरन्ति । तेन जनेषु प्रीतिः अपि वर्धते । जनाः सङ्घटिताः अपि भवन्ति ।
महाराष्ट्र राज्यस्य लोकसंस्कृतिः विशिष्टा । राज्यस्य यथा पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोदः, नाटकं, चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुमः । वैविध्यपूर्णा एषा संस्कृतिः । इदानीं महाराष्ट्रराज्ये सर्वे भाषिकाः जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री-मराठी एव । महाराष्ट्रस्य विस्तारः अपि बृहत् अतः तावत् वैविध्यमपि अनुभवामः । राज्यमिदं कृषिप्रधानम् अतः तस्य प्रभावमपि दृश्यते ।
आहारपद्धतिः
ये पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यतः प्रतिदिने आहारे रोटिका 'भाकरी'वा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेहः, उपसेचनं, पर्पटश्च समाविष्टः अस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्थान् यथा - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगर, ग्राम निवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवामः ।
वीक्षणीयस्थलानि
महाराष्ट्र-राज्यं जनसङ्ख्यादृष्ट्या भारते द्वितीयम् अस्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । अस्य राज्यस्य पश्चिमदिशि समुद्रः स्थितः अस्ति । अतः तत्र बहूनि मनोहराणि समुद्रतटानि सन्ति । इतः परं सङ्ग्रहालयाः, स्मारकाः, दुर्गाः, मन्दिराणि चापि सन्ति । तेन कारणेन इदं राज्यं समृद्धम् अस्ति । अजन्ता-एलोरा-गुहाः, “महाबलेश्वर माथेरान”, “पञ्चगनी”, “जवाहर माथेरान”, “मालशेज घाट”, “चिकलधारा”, “पन्हाला” च इत्यादयः महाराष्ट्र-राज्यस्य पर्यटनस्थलानि सन्ति । शिरडी, पंढरपुर, हरिहरेश्वर, कोल्हापुर, अम्बजोगई, शेगाँव, नासिक, त्र्यम्बकेश्वर च इत्यादयः महाराष्ट्रस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । महाराष्ट्र-राज्ये “गेटवे ऑफ् इण्डिया” अपि अस्ति । ई. स. १९११ तमे वर्षे “जॉर्ज् पञ्चम” इत्याख्यस्य ब्रिटिश्-शासकस्य, मेरी इत्याख्यायाः राज्ञ्याः च स्वागतार्थं तस्य निर्माणं कारितम् आसीत् ।
भीमाशङ्कर
“भीमाशङ्कर” इत्येतत् स्थलं महाराष्ट्रराज्यस्य धार्मिकं स्थलं वर्तते । इदं स्थलं महाराष्ट्रराज्यस्य पुणे-मण्डलात् १२७ किलोमीटर्मिते दूरे शिरधाव-ग्रामे स्थितम् अस्ति । इदं सह्याद्रिपर्वतशृङ्खलायाः क्षेत्रे स्थितम् अस्ति । भारते स्थितेषु द्वादशज्योतिर्लिङ्गेषु अन्यतमं ज्योतिर्लिङ्गम् अस्मिन् स्थले स्थितमस्ति । अतः तेन कारणेन इदं स्थलं प्रसिद्धम् अस्ति । इदं मन्दिरं समुद्रतलात् ३२५० पादोन्नतम् अस्ति । द्वादशज्योतिर्लिङ्गेषु पञ्च ज्योतिर्लिङ्गानि महाराष्ट्रे स्थितानि सन्ति । भीमाशङ्करस्थलात् भीमानदी उद्भवति । सा दक्षिणपश्चिमदिशि प्रवहति । अन्ते इयं नदी कृष्णानद्यां सम्मिलति । एका पौराणिकी कथा अस्ति यत् – “देवतानां निवेदनेन भगवान् शिवः सह्याद्रिपर्वते निवसन् आसीत् । तस्मिन् समये त्रिपुरासुरेण राक्षसेन सह भगवतः शिवस्य युद्धम् अभवत् । तस्मिन् युद्धे भगवता शिवेन त्रिपुरासुरः हतः । किन्तु युद्धस्य उष्णतायाः कारणेन भीमानदी शुष्का जाता । अनन्तरं भगवतः शिवस्य स्वेदेन पुनः भीमानदी उद्भूता । अस्य स्थलस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । “कमलजा”, मोक्षकुण्डतीर्थं, कुशरान्यतीर्थं च अस्य स्थलस्य धार्मिकस्थानानि सन्ति । अस्य स्थलस्य समीपे वनक्षेत्रम् अपि विद्यते । तस्मिन् बहवः वन्यजीवाः दृश्यन्ते । ये जनाः धार्मिकाः भवन्ति, तेभ्यः अपि इदं स्थलं दर्शनीयम् अस्ति ।
महाराष्ट्रराज्यस्य सर्वकारेण परिवहनाय बसयानानि प्रचालितानि सन्ति । बसयानैः एकस्मात् स्थानात् अन्यत्र गन्तुं शक्यते । भीमाशङ्कर-स्थलात् पुणे-नगरं १२७ किलोमीटर्मिते, मुम्बई-महानगरं २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । पुणे-नगरात्, मुम्बई-नगरात् च भीमाशङ्कर-स्थलाय बसयानानि, भाटकयानानि च प्राप्यन्ते । पुणे-नगरस्य रेलस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । तद् रेलस्थानकं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, मुम्बई, देहली, इन्दौर, अहमदाबाद, वडोदरा, चेन्नै च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे “लोहगांव” नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । लोहगांव-विमानस्थानकं मुम्बई, हैदराबाद, देहली च इत्यादिभिः अन्ताराष्ट्रियविमानस्थानकैः सह सम्बद्धमस्ति । अस्मात् विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्नुवन्ति ।
माळशेज घाट
“माळशेज-घाट” इत्ययं घट्टः महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितः अस्ति । अयं घट्टः पश्चिमभागस्य घट्टेषु अन्यतमः अस्ति । महाराष्ट्रराज्ये अयं घट्टः ख्यातः वर्तते । अयं समुद्रतटात् ७०० मीटर्मितः उन्नतः वर्तते । अस्य जलवायुः शान्तः, सुखदश्च अस्ति । क्षेत्रमिदं पर्वतीयम् अपि अस्ति । अतः पर्वतारोहणाय अपि स्थलमिदं प्रसिद्धं वर्तते । तत्र बहवः तडागाः, नद्यः च अपि सन्ति । तत्र बहवः ऐतिहासिकाः दुर्गाः सन्ति । तस्मिन् क्षेत्रे जलप्रपाताः अपि सन्ति । जलप्रपातानां दृश्यं मनोहरं भवति । तत्र अभयारण्ये बहुप्रकाराकाः जीवजन्तवः, वनस्पतयः च प्राप्यन्ते । तस्मिन् अभयारण्ये “फ्लेमिङ्गो” इति नामकाः विहगाः अपि दृश्यन्ते । वर्षाकाले भ्रमणार्थं स्थलमिदं सर्वश्रेष्ठं वर्तते । पर्वतप्रदेशे मेघाः स्पृशन्तः भवन्ति । तत्र मेघेषु स्वर्गीयानुभवं कर्तुं शक्यते । अस्य स्थलस्य समीपं पिम्पल-ग्रामे “जोग-जलबन्धः” स्थितः अस्ति । अयं जलबन्धः पुष्पावतीनद्यां निर्मितः वर्तते । “अजोबा हिल् फोर्ट्” अयं पर्वते स्थितः एकः दुर्गः अस्ति । अस्य दुर्गस्य वास्तुकला दृष्टुं योग्या । इतः परम् अपि “जीवधन चावण्ड्” इति नामकः दुर्गः”, हरिशचन्द्रगढ-दुर्गः च अपि अस्ति । एतौ दुर्गौ विख्यातौ स्तः । अनन्तरम् अन्यः एकः दुर्गः अपि विद्यते । तस्य नाम “शिवनेरी-दुर्गः” इति । अयं तु आकर्षणस्य केन्द्रं विद्यते । “शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलम् अस्ति अयं दुर्गः । अस्य क्षेत्रस्य समीपम् अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः तत्र वर्षर्तौ भ्रमणार्थं गच्छन्ति ।
माळशेज-घट्टः महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह संलग्नः अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तानि बसयानानि सम्पूर्णे महाराष्ट्रराज्ये प्रचलन्ति । मुम्बई-नगरात्, पुणे-महानगरात् च इत्यादिभ्यः नगरेभ्यः “माळशेज-घट्टाय बसयानानि प्राप्यन्ते । भाटकयानैः अपि तत्र गन्तुं शक्यते । कल्याण-रेलस्थानकम् अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । इदं रेलस्थानकं महाराष्ट्र-राज्यस्य प्रमुखनगरैः, भारतस्य प्रमुखनगरैः च सम्बद्धम् अस्ति । मालशेज-घट्टात् कल्याण-रेलस्थानकं ८६ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं माळशेज-घट्टात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा माळशेज-घट्टः प्राप्तुं शक्यते ।
गुहागर
गुहागर-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि, समुद्रतटानि सन्ति । अतः इदं “मन्दिराणां तटानां च नगरम्” इति कथ्यते । भारत प्रमुखेषु पर्यटनस्थलेषु नगरमिदं प्रसिद्धम् अस्ति । इदं नगरं महाराष्ट्रराज्यस्य पश्चिमतटे स्थितम् अस्ति । गुहागर-नगरस्य पश्चिमदिशि अरबसागरः अस्ति । अस्य पूर्वदिशि सह्याद्रिपर्वतशृङ्खला च वर्तते । अस्मिन् नगरे हिन्दुधर्माणां बहूनि मन्दिराणि सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । बालकेश्वर-मन्दिरम्, उदसेश्वर-मन्दिरं, व्यादेश्वर-मन्दिरं, वेलनेश्वर-मन्दिरं, तालकेश्वर-मन्दिरं च एतानि अस्य नगरस्य शिवमन्दिराणि सन्ति । एतेषु मन्दिरेषु भगवतः शिवस्य विभिन्नरूपाणि दृश्यन्ते । गुहागर-नगरे चन्द्रिका-मन्दिरं स्थितम् अस्ति । मन्दिरमिदं सम्पूर्णे भारते विख्यातम् अस्ति । तस्य मन्दिरस्य समीपं भगवतः गणपतेः मन्दिरं विद्यते । यात्रिकाः गणेशदेवस्थानस्य, उमामहेश्वर-मन्दिरस्य च दर्शनं कुर्वन्ति । नगरेऽस्मिन् बहूनि समुद्रतटानि सन्ति । तानि सर्वाणि सुन्दराणि सन्ति । तत्र वर्जिन-समुद्रतटम् अस्ति । अयं तटः ६ किलोमीटर्मितः विस्तृतः वर्तते । तत्र नारिकेलस्य वृक्षाः पर्याप्तमात्रायां सन्ति । अस्मिन् नगरे कोङ्कण-संस्कृतेः प्रभावः अधिकः वर्तते । इदं नगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः अस्य नगरस्य तापमानं सर्वदा सामान्यम् एव भवति । मई-मासतः सितम्बर-मासपर्यन्तम् अस्य नगरस्य तापमानं सुखदं भवति । अस्य नगरस्य अधिकतमं तापमानं ३९ डिग्री सेल्सियस्-मात्रात्मकं, न्यूनतमं तापमानं १८ डिग्री सेल्सियस्-मात्रात्मकं च भवति । अस्मिन् नगरे सर्वाधिकम् औष्ण्यं मई-मासे भवति ।
गुहागर-नगरात् चिपलून-नगरं ४० किलोमीटर्मिते दूरे स्थितम् अस्ति । सर्वकारप्रचालितैः बसयानैः चिपलून-नगरं सरलतया प्राप्यते । चिपलून-नगरं महाराष्ट्रराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । चिपलून-नगरे एकं रेलस्थानकम् अपि अस्ति । तस्मात् रेलस्थानात् पुणे-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च रेलयानानि प्राप्यन्ते । रेलस्थानात् भाटकयानैः, बसयानैः वा गुहागर-नगरं गन्तुं शक्यते । मुम्बई-नगरे स्थितं “छत्रपति शिवाजी” इत्याख्यं विमानस्थानकं गुहागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-नगरे वैयक्तिकवाहनानि, भाटकवाहनानि, बसयानानि च प्रचलन्ति । भूमार्गेण ततः गुहागर-नगरं गन्तुं शक्यते ।
जुन्नर
“जुन्नर” इत्येतत् पर्यटनस्थलं महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितम् अस्ति । इदं नगरं पुणे-नगरात् ९० किलोमीटर्मिते दूरे उत्तरदिशि स्थितम् अस्ति । मुम्बई-महानगरात् जुन्नर-नगरं १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं समुद्रतलात् २२६० पादोन्नतं विद्यते । इदं नगरं धार्मिकम्, ऐतिहासिकं, पौराणिकं च वर्तते । इदम् अत्यन्तं लोकप्रियं स्थलम् अस्ति । जुन्नर-नगरं प्राचीनमन्दिरेभ्यः, वास्तुकलाभिः निर्मिताभ्यः गुहाभ्यः, दुर्गेभ्यः च भारते प्रसिद्धम् अस्ति । अस्य इतिहासः सहस्रवर्षेभ्यः पुरातनः अस्ति । पुरा इदं नगरं “जिमा-नगरम्” इति नाम्ना ज्ञायते स्म । तस्मिन् समये अस्मिन् नगरे नहापन-राजा शासनं कुर्वन् आसीत् । सः शक-राजवंशस्य राजा आसीत् । अनन्तरं सप्तवाहन-राजवंशजैः तत्र शासनं कृतम् । सप्तवाह-राजवंशस्य सातकर्ण-राज्ञा एव शिवनेरी-दुर्गः निर्मापितः । सः दुर्गः “छत्रपति शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलं वर्तते ।
जुन्नर-नगरे याः गुहाः सन्ति, तासां गुहानां वास्तुकला विश्वस्मिन् प्रसिद्धा वर्तते । अत एव तत्स्थलं वास्तुकलायाः केन्द्रत्वेन ख्यातम् अस्ति । तत्र गुहानां त्रयः समूहाः सन्ति । “मनमोदी-हिल-समूहः”, “गणेश-लेना-समूहः”, “तुलजा-लेना-समूहः” च । इतः परं लेन्याद्रि-गुहाः सन्ति । ताः गुहाः शिलाछेदनेन निर्मिताः सन्ति । तस्मिन् समूहे त्रिंशत् गुहाः सन्ति । ताः गुहाः अस्य नगरस्य आकर्षणकेन्द्रं वर्तते । अस्य स्थलस्य ५०० चतुरस्रकिलोमीटर्मितं क्षेत्रे बहवः चित्रकायाः (Panther) प्राप्यन्ते । अस्य स्थलस्य जलवायुः शीतलः अस्ति । अतः आवर्षं जनाः सुखेन भ्रमणं कुर्वन्ति ।
महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि प्रचालितानि सन्ति । पुणे-नगरात् जुन्नर-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरात् बसयानैः जुन्नर-नगरं प्राप्यते । पुणे-नगरे रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं जुन्नर-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पुणे-नगरस्य रेलस्थानकात् भारतस्य प्रमुख-नगरेभ्यः रेलयानानि नियमितरूपेण प्रचलन्ति । तस्मात् रेलस्थानकात् भाटकयानैः जुन्नर-नगरं गन्तुं शक्यते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं जुन्नर-नगरात् १७७ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।
”वधु”, “तुलापुर” द्वौ ग्रामौ
“वधु”, “तुलापुर” एतौ द्वौ लघु ग्रामौ महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितौ स्तः । एतौ ऐतिहासिकौ ग्रामौ स्तः । “सम्भाजी” इत्याख्येन शिवाजी-राज्ञः पुत्रेण अत्रैव प्राणत्यागः कृतः आसीत् । तुलापुर-ग्रामः पुणे-नगरात् ४० किलोमीटर्मिते दूरे उत्तरपूर्वदिशि स्थितः अस्ति । अस्मिन् ग्रामे ब्रह्मा-भामा-इन्द्रायणीनदीनां सङ्गमः अस्ति । पुरा तुलापुर-नगरं “नागरगांव” इति नाम्ना ज्ञायते स्म । वधू-ग्रामे “सम्भाजी” इत्याख्यस्य समाधिः अस्ति । मराठाशासनस्य इतिहासे एतयोः ग्रामयोः महत्त्वपूर्णं स्थानम् अस्ति । ई. स. १८२२ तमे वर्षे युद्धस्मारकं निर्मापितम् आसीत् । साम्प्रतं तस्य नाम “रणस्तम्भः” इति । तुलापुर-ग्रामे भगवतः शिवस्य सङ्गमेश्वर-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । अस्य मन्दिरस्य समीपे एव “सम्भाजी” इत्याख्यस्य समाधिः विद्यते ।
ताभ्यां ग्रामाभ्यां पुणे-नगराय बसयानानि प्राप्यन्ते । पुणे-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं ताभ्यां ग्रामाभ्यां ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरस्य रेलस्थानकात् ताभ्यां ग्रामाभ्यां भाटकयानानि, बसयानानि च प्राप्यन्ते । इदं रेलस्थानकात् मुम्बई-महानगराय, अहमदनगराय, नागपुर-नगराय, अहमदाबाद-नगराय च रेलयानानि प्राप्यन्ते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया तौ ग्रामौ प्राप्तुं शक्नुवन्ति ।
कर्जत
“कर्जत” इत्येतत् स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं स्थलं पर्वतीयक्षेत्रम् विद्यते । इदं सह्याद्पर्र्तिशृङ्खलाः क्षेत्रे स्थितम् अस्ति । इदं स्थलम् उल्हास-नद्याः तटे स्थितम् अस्ति । “कर्जत” इत्येतत् स्थलं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । तत्र बहवः जलप्रपाताः सन्ति । वर्षर्तौ ते जलप्रपाताः दृश्यन्ते । इद स्थलं मुम्बई-महानगरात् ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । समीपस्थाः जनाः सप्ताहान्ते तत्र भ्रमणार्थं गच्छन्ति । पर्वतारोहणाय इदं स्थलं श्रेष्ठं वर्तते । तत्र पेठ-दुर्गः, कोण्डाना-गुहाः च सन्ति । बौद्धधर्मस्य प्राचीनावशेषाः अपि प्राप्यन्ते । इदं स्थलं २०० मीटर्मितं पादोन्नतं वर्तते । इदं नगरं पारम्परिकं वर्तते । अस्य नगरस्य ऐतिहासिकं महत्त्वं विद्यते ।
कर्जत-नगरे महाराष्ट्र-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । कर्जत-नगरात् मुम्बई-महानगराय, पुणे-नगराय, पनवेल-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । कर्जत-नगरे एकं रेलस्थानकम् अपि विद्यते । कर्जत-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कर्जत-नगरं खण्डाला-नगरस्य, लोनावाला-नगरस्य च समीपे स्थितम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्जत-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।
मुरुड जञ्जीरा
“मुरुड जञ्जीरा” इतीदं स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डलस्य मुरुड-ग्रामे स्थितम् अस्ति । स्थलमिदं समुद्रतटे स्थितम् अस्ति । तत्र एकः दुर्गः अस्ति । अस्मिन् दुर्गे सिद्दी-राजवंशस्य शासनम् आसीत् । मराठा-शासकैः, पुर्तगाली-शासकैः, डच-शासकैः इत्यादिभिः शासकैः अस्मिन् दुर्गे बहुवारम् आक्रमणं कृतम् । तथापि ते तं दुर्गं जेतुं न अशक्नुवन् । “जञ्जीरा” इत्ययं शब्दः अरबी-भाषायाः अस्ति । अरबी-भाषायां “जजीरा” शब्दस्य अर्थः “द्वीपः” भवति ।
द्वादशशताब्द्यां सिद्दी-राजवंशेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । तस्मिन् समये मरुड-नगरं सिद्दी-राजवंशस्य राजधानी आसीत् । वैदेशिकशासकैः बहुवारम् अस्मिन् दुर्गे आक्रमणं कृतम्, किन्तु सर्वदा ते सर्वे वैफल्यं प्राप्तवन्तः । शिवाजी-राज्ञा अपि षड्वारम् आक्रमणं कृतम् आसीत् । किन्तु सः अपि निष्फलः जातः । पुरा अयं दुर्गः काष्ठैः निर्मितः आसीत् । पुरा ये मत्स्यपालकाः आसन्, समुद्रतस्करेभ्यः रक्षणाय तैः अयं दुर्गः काष्ठैः निर्मितः आसीत् । अनन्तरं “पीर खान” इत्याख्येन अस्मिन् दुर्गे स्वस्याधिकारः प्रस्थापितः । सः अहमदनगर-साम्राज्यस्य शासकः आसीत् । तेन अस्य दुर्गस्य दृढतया निर्माणं कारितम् । अतः अयं दुर्गः अभेद्यः अस्ति । “मालिक अम्बर” इत्याख्यः अहमदनगर-साम्राज्यस्य राजा आसीत् । तेन अस्य दुर्गस्य पुनर्निमाणं कारितम् ।
मुरुड-ग्रामः भूमार्गेण पुणे-नगरेण, कल्याण-नगरेण, मुम्बई-महानगरेण इत्यादिभिः महाराष्ट्र-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । रोहा-नगरस्य रेलस्थानकं मुरुड-नगरस्य समीपस्थं रेलस्थानकं वर्तते । इदं कोङ्कण-रेलमार्गे स्थितम् अस्ति । इदं रेलस्थानकं महाराष्ट्रराज्यस्य प्रमुकरेलस्थानकैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं मुरुड-नगरात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मुरुड-नगरं प्राप्तुं शक्यते । पुणे-नगरस्य लोहगांव-विमानस्थानकं, नासिक-नगरस्य गान्धीनगर-विमानस्थानकं च अपि समीपस्थे विमानस्थानके स्तः । ताभ्यां विमानस्थानकां मुरुड-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।
खोडाला
खोडाला-ग्रामः महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितः अस्ति । अयं ग्रामः समुद्रतलात् १८०० पादोन्नतः अस्ति । खोडाला-ग्रामस्य वातावरणं शान्तम् अस्ति । वैतरना-तडागः, इगतपुरी-कसार-घट्टः, त्रिङ्गलवाडी-दुर्गः च इत्यादीनि अस्य ग्रामस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अयं ग्रामः पर्वतक्षेत्रे स्थितः अस्ति । अतः पर्वतारोहणाय अपि अयं ग्रामः विशिष्टः वर्तते । अस्मिन् ग्रामे आदिवासिनः निवसन्ति । साम्प्रतम् अपि ते पशुबलिं ददति । प्रतिवर्षम् आदिवासिनः स्वस्य पारम्परिकोत्सवान् आचरन्ति । तेषु उत्सवेषु आदिवासि-नृत्यं दर्शनीयं भवति । तत्र “अमला-वन्यजीवाभयारण्यम्” अस्ति । अस्मिन् अभयारण्ये बहवः वन्यपशवः दृश्यन्ते ।
खोडाला-ग्रामः पुणे-नगरेण, मुम्बई-नगरेण, इगतपुरी-नगरेण च भूमार्गेण सम्बद्धः अस्ति । तेभ्यः नगरेभ्यः खोडाला-ग्रामाय प्रतिदिनं नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इगतपुरी-नगरस्य रेलस्थानकं खोडाल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तस्मात् रेलस्थानकात् पुणे-नगराया, मुम्बई-महानगराय इत्यादिभ्यः महाराष्ट्र-राज्यस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं खोडाला-ग्रामात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा खोडाला-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च खोडाला-ग्रामः सरलतया गन्तुं शक्यते ।
यवतमाल
यवतमाल-नगरं महाराष्ट्रराज्यस्य यवतमाल-मण्डलस्य मुख्यालयः वर्तते । इदं नगरं समुद्रतलात् १४६० पादोन्नतं वर्तते । विदर्भक्षेत्रे गण्यते इदं यवतमाल-नगरम् । इदं नगरं परितः चन्द्रपुर-मण्डलं, परभणीमण्डलम्, अकोला-मण्डलम्, अमरावती-मण्डलं च स्थितम् अस्ति । यवत, माल इत्याभ्यां शब्दाब्यां “यवतमाल” इति शब्दस्य उत्पत्तिर्जाता । मराठी-भाषायां “यवत” इत्यर्थः पर्वतः, “माल” इत्यर्थः पङ्क्तिः च । अस्य नगरस्य इतिहासः अति रोचकः वर्तते । तत्र बहुभिः शासकैः शासनं कृतम् आसीत् । पुरा इदं नगरं “यावाते चा महल”, “योत-लोहार” इति नामभ्यां ज्ञायते स्म । तस्मिन् समये यवतमाल-नगरं डेक्कन्-साम्राज्यस्य मुख्यनगरम् आसीत् । मुगल-शासकैः अहमदनगर-साम्राज्यस्य शासकाः पराजिताः । तदा मुगल-शासकैः शासनं कृतम् । मुगल-शासकस्य अन्तिमशासकस्य मृत्योः अनन्तरं मराठा-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । तदनन्तरं ब्रिटिश-शासकैः अधिकारः प्राप्तः । पुरा इदं नगरं मध्यभारतस्य किञ्चन नगरम् आसीत् । किन्तु समयान्तरे महाराष्ट्रराज्ये अस्य नगरस्य विलयः जातः ।
यवतमाल-नगरे बहूनि मन्दिराणि, वीक्षणीयस्थलानि च सन्ति । नरसिंह-मन्दिरं, दत्त-मन्दिरं, खाटेश्वरमहाराज-मन्दिरं, जगत-मन्दिरं, “खोजोची-मस्जिद्” च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्य नगरस्य समीपं कलम्ब-ग्रामः वर्तते । तस्मिन् ग्रामे चिन्तामणिगणेश-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनं वर्तते । अस्य समीपे गणेश-कुण्डः अपि अस्ति । अस्मिन् नगरे द्वे प्रमुखे अभयारण्ये स्तः । बैनगङ्गा-वन्यजीवाभयारण्यं, तिपेश्वर-वन्यजीवाभयारण्यं च । एतयोः अभयारण्ययोः प्राकृतिकसौन्दर्यं महत्त्वपूर्णं वर्तते । शीतर्तौ जनाः यवतमाल-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।
यवतमाल-नगरं महाराष्ट्रराज्यस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अमरावती-नगरात्, चन्द्रपुर-नगरात् च यवतमाल-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः इदं नगरं महाराष्ट्रस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । यवतमाल-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय, अहमदनगराय च रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरे “डॉ. बाबासाहेब आम्बेडकर” नामकं विमानस्थानकं वर्तते । इदं यवतमाल-नगरस्य समीपस्थं विमानस्थानकं वर्तते । यवतमाल-नगरात् नागपुर-नगरं १२६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । हैदराबाद-नगरस्य “राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकम्” अपि समीपे स्थितम् अस्ति । इदं यवतमाल-नगरात् ३५६ किलोमीटर्मिते दूरे स्थितम् अस्ति ।
कर्नाला
कर्नाला-नगरं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं नगरं समुद्रतलात् ४७.५ किलोमीटर्मितम् उन्नतं वर्तते । इदं नगरं परितः सघनानि वनानि, उन्नताः पर्वताः च स्थिताः सन्ति । तुगलक-वंशस्य राज्ञां शासनकाले कर्नाला-नगरं कोङ्कण-मण्डलस्य राजधानी आसीत् । ततः परं तस्मिन् “निजाम शाह” इत्याख्येन राज्ञा आधिपत्यं स्थापितम् । सः अहमदनगरस्य संस्थापकः आसीत् । समयान्तरे अस्मिन् क्षेत्रे “ईस्ट् इण्डिया कम्पनी” इत्याख्यायाः संस्थायाः स्थापना जाता । तत्र एकं विहगाभयारण्यं वर्तते । तस्मिन् अभयारण्ये विहगानां १५० जातयः सन्ति । ये जनाः पर्वतारोहणाय उत्सुकाः भवन्ति, तेभ्यः इदं स्थलम् अत्युत्तमं वर्तते । अस्य स्थलस्य वातावरणं सर्वदा सुखदं, स्वास्थ्यप्रदं, मनोहरं च भवति ।
इदं स्थलं मुम्बई-महानगरात् ६० किलोमीटर्मिते, पनवेल-नगरात् १२ किलोमीटर्मिते च दूरे स्थितम् अस्ति । पनवेल-नगरात् गोवा-राजमार्गेण अपि कर्नाला-नगरं गन्तुं शक्यते । महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः अपि भ्रमणे सारल्यं भवति । पनवेल-नगरस्य रेलस्थानकं कर्नाला-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं मुम्बई-रेलविभागस्य मुख्यं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्नाला-नगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । पुणे-नगरस्थं लोहगांव-विमानस्थानकम् अपि कर्नाला-नगरस्य समीपे एव अस्ति । लोहगांव-विमानस्थानकं कर्नाला-नगरात् १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया कर्नाला-नगरं प्राप्तुं शक्नुवन्ति ।
बोरदी
बोरदी-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डलस्य दहानू-नगरात् १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं नगरं समुद्रतटे स्थितः अस्ति । अतः जलक्रीडाः अपि कर्तुं शक्यन्ते । अस्य नगरस्य समुद्रतटं शान्तं, कृष्णवर्णीयं च वर्तते । अस्य समुद्रतटस्य जलस्तरः न्यूनः एव भवति । अतः अस्मिन् तटे जलक्रीडाः सुरक्षितरूपेण क्रियन्ते । महाराष्ट्र-राज्यस्य “वुड्स्-संरक्षणविभागः” अस्य समुद्रतटस्य निरीक्षणं करोति । बोरदी-नगरे पारसी-समुदायस्य बहूनि धार्मिकस्थलानि सन्ति । पारसी-जनैः अस्मिन् नगरे पर्यटकेभ्यः पारसी-भोजनस्य, निवासस्य च व्यवस्था कृता । बोरदी-नगरात् ८ किलोमीटर्मिते दूरे बहरोट-गुहाः स्थिताः सन्ति । ताः गुहाः अस्य स्थलस्य आकर्षणस्य केन्द्रं वर्तते । तत्र पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं पारसीसमुदायस्य पवित्रस्थलं वर्तते । इदं क्षेत्रं १५०० पादोन्नतं वर्तते । तत्र मल्लीनाथतीर्थं, कोदबाद-मन्दिरं च अस्ति । एते मन्दिरे जैनधर्मस्य तीर्थस्थले स्तः । बोरदी-नगरात् १० किलोमीटर्मिते दूरे कल्पतरू-उद्यानं स्थितम् अस्ति । अस्य नगरस्य समीपे वृन्दावन-चलच्चित्रनिर्माणगृहं स्थितम् अस्ति । तत्र “महाभारत”, “रामायण” इत्यादीनाम् ऐतिहासिकचलच्चित्राणां निर्माणं क्रियते स्म । बोरदी-नगरे दहानू-दुर्गः अस्ति । कथ्यते यत् – “एकवारं दहानू-दुर्गस्य उपयोगः कारागारत्वेन अपि कृतः” इति । अयं दुर्गः भारतस्य संस्कृतेः प्रतीकं वर्तते । वर्षतोः अनन्तरं, शीतर्तोः पूर्वं च अस्य नगरस्य वातावरणं लाभकरं, सुखदं च भवति । नवम्बर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य तापमानं १२ डिग्री सेल्सियस् मात्रात्मकं भवति । तस्मिन् काले जलवायुः अपि स्वास्थ्यकरः, समशीतोष्णः च भवति ।
महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । बोरदी-नगरात् दहानू-रेलस्थानकं १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं बोरदी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । घोलवद-रेलस्थानकम् अपि समीपे एव स्थितम् अस्ति । बसयानैः भाटकयानैः वा ताभ्यां रेलस्थानकाभ्यां बोरदी-नगरं प्राप्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं बोरदी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकात् भाटकयानैः बसयानैः वा बोरदी-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च बोरदी-नगरं गन्तुं सारल्यं भवति ।
सतारा
सतारा-नगरं महाराष्ट्र-राज्यस्य सतारा-मण्डलस्य मुख्यालयः अस्ति । सतारा-मण्डलस्य उत्तरदिशि, पुणे-मण्डलं, दक्षिणदिशि साङ्गली-मण्डलं, पूर्वदिशि सोलापुर-मण्डलं, पश्चिमदिशि रत्नागिरि-मण्डलं च अस्ति । एतत् परितः सप्तपर्वताः सन्ति । जरन्देश्वर-पर्वतः, यवतेश्वर-पर्वतः, जिङ्क्यात्रा-पर्वतः, “कित्लिचा डोङ्गर”-पर्वतः, सज्जनगढ-पर्वतः, “पैदयाचा बैरोबा”-पर्वतः, “नक्दिचा डोङ्गर”-पर्वतः, अतः एव इदं नगरं “सतारा” इति कथ्यते । पुरा अस्मिन् नगरे राष्टकूट-राजवंशस्य शासनम् आसीत् । अनन्तरं चालुक्यवंशस्य, मौर्यवंशस्य शासनम् आसीत् । सप्तदशशताब्द्याम् अत्र मराठा-वंशस्य शासनम् आसीत् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । अस्य नगरस्य पर्यटनस्थलेषु जिङ्क्यात्रा-दुर्गः प्रसिद्धः अस्ति । अस्य दुर्गस्य निर्माणं भोज-राज्ञा कारितम् । अयं दुर्गः ३००० पादोन्नतः अस्ति । अस्मिन् दुर्गे मङ्गलाईदेव्याः मन्दिरम् अपि अस्ति । सतारा-नगरस्य इतिहासः समृद्धः वर्तते । अस्य नगरस्य दुर्गाः, मन्दिराणि, वन्याभयारण्यानि, प्राकृतिकसौन्दर्यं च आकर्षणस्य केन्द्रं विद्यते ।
सतारा-नगरं पुणे-बेङ्गळूरु-राजमार्गे स्थितम् अस्ति । सतारा-नगरात् पुणे-नगरं १२० किलोमीटर्मितं, मुम्बई-महानगरं २७० किलोमीटर्मितं च दूरे स्थितम् अस्ति । महाराष्ट्रस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । सतारा-नगरे एकं रेलस्थानकं वर्तते । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, बेङ्गळूरु-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकं सतारा-नगरस्य समीपस्थं विमानस्थानकं वर्तते । सतारा-नगरात् पुणे-विमानस्थानकं १०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । अनेन प्रकारेण सतारा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः भ्रमणार्थम् इच्छुकाः यात्रिकाः सरलतया सतारा-नगरं गन्तुं शक्नुवन्ति ।
रत्नागिरि
रत्नागिरि-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अरबसागरस्य तटे स्थितमिदं नगरम् । ई. स. १७३१ तमे वर्षे शिवाजी-राज्ञः शासनानन्तरम् अस्मिन् नगरे सात्र-राजभिः स्वस्य आधिपत्यं स्थापितम् । ई. स. १८१८ तमात् वर्षात् ब्रिटिश्-शासकैः शासनं कृतम् । पुराणानानुसारं कथ्यते यत् – “यदा पाण्डवैः चतुर्दशवर्षाणां वनवासः कृतः । तदा तैः तेषु वर्षेषु कश्चित् कालः रत्नागिरि-नगरे यापितः । तस्मिन् समये यः राजा अत्र शासनं कुर्वन् आसीत् , तेन कौरवाणां विरोधाय पाण्डवानां साहाय्यं कृतम् । एवं च महाभारतयुद्धे अपि तेन भागः गृहीतः । रत्नागिरि-नगरे जयगढ-दुर्गः आकर्षणस्य केन्द्रम् अस्ति । अस्य नगरस्य समीपे रत्नादुर्ग-दुर्गः अपि अस्ति । अयं दुर्गः ६०० वर्षेभ्यः प्राचीनः अस्ति ।
रत्नागिरि-नगरे इतिहासस्य, धर्मस्य, प्रकृतेः इत्यादीनां सर्वेषां मिश्रणम् अस्ति । अत्र मराठासंस्कृतेः अत्यधिकः प्रभावः अस्ति । रत्नागिरि-नगरे माण्डवी-समुद्रतटम् अस्ति । अस्य समुद्रतटस्य सिकता कृष्णवर्णीया अस्ति । गणपतिपुले-समुद्रतटं, गणेशघुले इत्येते द्वे स्थले अपि मुख्ये स्तः । गणपतिपुले-समुद्रतटस्य समीपे स्वयंभूगणपतेः प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं ४०० वर्षेभ्यः पुरातनम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ यात्रिकाः भ्रमणार्थं तत्र गच्छन्ति । किन्तु यदि येभ्यः जनेभ्यः आम्रं रोचते, तैः ग्रीष्मर्तौ तत्र गन्तव्यम् ।
रत्नागिरि-नगरं महाराष्ट्रराज्यस्य बृहत्तमनगरेषु अन्यतमं वर्तते । अतः अत्र परिवहनाय कष्टं नास्ति । इदं नगरं सप्तदशक्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय अल्पमूल्यकानि बसयानानि प्रचालितानि सन्ति । तैः बसयानैः यात्रिकाः रत्नागिरि-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति । रत्नागिरि-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं कोङ्क-रेलमार्गे स्थितम् अस्ति । भारतस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति इदं रेलस्थानकम् । रत्नागिरि-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगरा, गोवा-नगराय, कोल्हापुर-नगराय, च नियमितरूपेण रेलयानानि प्राप्यन्ते । रत्नागिरि-नगरे एकं विमानस्थानकम् अपि स्थितम् अस्ति । रत्नागिरि-नगरात् इदं विमानस्थानकं १२ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं रत्नागिरि-ग्रामात् ३७० किलोमीटर्मिते दूरे स्थितः अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः, धूमशकटयानैः वा रत्नागिरि-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च रत्नागिरि-ग्रामः सरलतया गन्तुं शक्यते ।
सजन
सजन-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितम् अस्ति । इदं नगरं मुम्बई-नगरात् १३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् नगरे “चीकू”-फलस्य, आम्रस्य च विपुलतया उत्पादनं क्रियते । पुर्तगाली-जनैः यदा भारते आक्रमणं कृतम् आसीत्, तदा तैः सजन-नगरं विश्रामस्थलत्वेन उपयुक्तम् । ई. स. १३०० तमवर्षतः १६६० तमवर्षपर्यन्तम् अस्मिन् नगरे मुस्लिम-शासनम् आसीत् । मराठा-शासकानां शासनकाले सजन-नगरस्य उन्नतिः जाता । अस्मिन् नगरे बहूनि धार्मिकस्थलानि स्थितानि सन्ति । अस्मिन् नगरे पलूसा-जलप्रपातः अस्ति । अयं जलप्रपातः ६० पादोन्नतः वर्तते । टाईगर-गुहाः, कोहेज-दुर्गः इत्येते अस्य नगरस्य ऐतिहासिके स्थले स्तः ।
महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः सजन-नगरं गन्तुं शक्यते । सजन-नगरं मुम्बई-नगरेण, पुणे-नगरेण, ठाणे-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ठाणे-नगरस्य रेलस्थानकं सजन-नगरस्य समीपस्थं रेलस्थानकं वर्तते । ठाणे-रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ठाणे-नगरात् भाटकयानैः, बसयानैः च सजन-नगरं गन्तुं शक्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं सजन-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा सजन-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सजन-नगरं सरलतया गन्तुं शक्नुवन्ति ।
अजन्ता-गुहाः
अजन्ता-गुहाः महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । ई. स. २०० वर्षाणि पूर्वतः ई. स. द्वितीयशताब्दीपर्यन्तम् एतासां गुहानां निर्माणकाः मन्यते । एतासु गुहासु भगवतः बुद्धस्य मूर्तयः, चित्राणि च दृश्यन्ते । भगवतः बुद्धस्य जन्मकालस्य प्रसङ्गाः अपि चित्रेषु दृश्यन्ते । तत्र आहत्य नवविंशतिः गुहाः सन्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्पत्तित्वेन उद्घोषिताः । एतासु गुहासु बौद्ध-धर्मस्य, हिन्दुधर्मस्य,. जैनधर्मस्य च कलाकृतयः सन्ति । एकोनविंशतितमायां शताब्द्यां ब्रिटिश्-सैनिकाः औरङ्गाबाद-नगरस्य समीपस्थानि वनानि आखेटाय गतवन्तः, तस्मिन् समये ते एताः गुहाः दृष्टवन्तः । तैः त्वरितमेव पुरातत्त्वविभागाय सन्देशः प्रेषितः । तत्पूर्वं न कोऽपि एतासां गुहानां विषये जानाति स्म ।
अजन्ता-स्थलात् औरङ्गाबाद-नगरं ९६ किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । अजन्ता-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् अजन्ता-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्मात् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि अजन्ता-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अजन्ता-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अजन्ता-स्थलं प्राप्तुं शक्नुवन्ति ।
एलोरा-गुहाः
एलोरा-गुहाः महाराष्ट्रराज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । औरङ्गाबाद-नगरात् इदं स्थलं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्प्रतित्वेन उद्घोषिताः । मन्यते यत् – “इमाः गुहाः राष्ट्रकूट-राजवंशस्य शासनकाले निर्मिताः आसन्” इति । एतासां गुहानां भागत्रयं वर्तते । बौद्धभागः, हिन्दुभागः, जैनभागश्च । बौद्धभागे द्वादश गुहाः, हिन्दुभागे सप्तदश गुहाः, जैन भागे पञ्च गुहाः च सन्ति । एतासु गुहासु सुन्दरकलाकृतयः सन्ति । “सर्वासु गुहासु जलस्रोतांसि सन्ति” इति सर्वासां गुहानां वैशिष्ट्यम् अस्ति । अतः एव साधवः, भिक्षवः च एतासु गुहासु निवसन्ति स्म । यतः तत्र जलसौकर्यम् आसीत् ।
एलोरा-स्थलात् औरङ्गाबाद-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । एलोरा-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् एलोरा -स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्माद् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि एलोरा -स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण एलोरा-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया एलोरा-स्थलं प्राप्तुं शक्नुवन्ति ।
परिवहनम्
भूमार्गः
ई. स. २००५ वर्षस्य मार्चमासपर्यन्तं महाराष्ट्रराज्यस्य मार्गाणाम् आहत्य दैर्घ्यं २.२९ लक्षकिलोमीटरमितम् आसीत् । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४,३६७ किलोमीटरमितं, प्रान्तीयराजमार्गाणां दैर्घ्यं ३३,४०६ किलोमीटरमितं, प्रमुखमण्डलस्थमार्गाणां दैर्घ्यं ४८,८२४ किलोमीटरमितम्, अन्यमण्डलस्थमार्गाणां दैर्घ्यं ४४,७९२ किलोमीटरमितं, ग्राम्यमार्गाणां दैर्घ्यं ९७,९१३ किलोमीटरमितं च आसीत् । अस्य राज्यस्य पञ्च राजमार्गाः इदं राज्यं देहली-महानगरेण, इलाहाबाद-नगरेण, कोलकाता-महानगरेण, हैदराबाद-महानगरेण, बेङ्गळूरु-महानगरेण च सह योजयन्ति । सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति ।
धूमशकटमार्गः
महाराष्ट्रराज्ये रेलमार्गाणां दैर्घ्यं ५,५२७ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये मुम्बई-नगरस्य, पुणे-नगरस्य, वर्धा-नगरस्य, नागपुर-नगरस्य इत्यादीनां नगराणां रेलस्थानकानि प्रमुखाणि सन्ति । एतैः रेलस्थानकैः इदं राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।
वायुमार्गः
महाराष्ट्रराज्ये सप्तदश-विमानस्थानकानि सन्ति । तैः महाराष्ट्रराज्यं भारतस्य विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरस्य “छत्रपति शिवाजी”-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तस्माद् विमानस्थानकात् अमेरिका, यूरोप, सिङ्गापुर, ऑस्ट्रेलिया इत्यादीन् देशान् गन्तुं वायुयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य विमानस्थानकानि महाराष्ट्रराज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयन्ति ।
बाह्यानुबन्धः
Maharashtra Government Website
Department of Tourism, Government of Maharashtra
भारतस्य राज्यानि
महाराष्ट्रराज्यम्
विषयः वर्धनीयः |
1014 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | राजस्थानराज्यम् |
राजस्थानराज्यम्
राजस्थानराज्यं भारतस्य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरपक्षिधाम इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम्
मुख्यराजस्थानराज्यं
मुख्यराजस्थानराज्यस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि राजस्थानराज्यस्य मुख्यस्थानानि सन्ति । मुख्यराजस्थानराज्यप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र राजस्थानराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, Jaipur-jodhpur-bharatpur सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति ।
राजस्थानराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरराजस्थानमं, मध्यराजस्थानमं, दक्षिणराजस्थानमं इति ।
वातावरणम्
भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव राजस्थानराज्यस्यऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । राजस्थानराज्यमं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र ।
अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । राजस्थानराज्यस्य अन्यभागेषु समवर्षा भवति ।
आङ्ग्लशासनम्
स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । 30 March 1949 तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः राजस्थानराज्यमं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण | राजस्थानराज्यस्य गणना जाता । १९-२० शताब्दे राजस्थानराज्यमं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । राजस्थानराज्यस्य Dungarpur - Banswara- Bikaner | यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं राजस्थानराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत्।
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
अष्टाङ्गयोगः
हठयोगः
राजस्थानराज्यम् |
1015 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%9A%E0%A4%B2%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | हिमाचलप्रदेशराज्यम् | हिमाचलप्रदेशराज्यम् भारतस्य उत्तर भूभागे विद्यमानं किञ्चन राज्यम् । यत् राज्यस्य राजधानी शिमला अस्ति । अस्मिन् प्रदेशे द्वादश जनपदाः सन्ति । अस्य क्षेत्रविस्तीर्णं ५५६७३ व॰कि॰मी॰। अधिकमस्ति हिमाचलप्रदेशः देवभूमिः इति नाम्ना अपि प्रसिद्धः । क्षेत्रे अस्मिन् आर्याणां प्रभावः ऋग्वेदकालादपि पुरातनः वर्तते । आङ्ग्लगोरखायुद्धात् परमिदं राज्यम् आङ्ग्लेयौपनिवेशकसर्वकारस्य अधीनं जातम् । सा.श. १९४८ तमवर्षस्य एप्रिल् मासस्य १५तमे दिने हिमाचलप्रदेशस्य उद्घोषणम् अभवत् । एतत् राज्यं समुद्रस्तरात् ४५० तः ६५००मी॰ परिमिते औन्नत्ये वर्तते ।
शिमला (गिरिधाम)
पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्ग्लेयानां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिमला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति । "Queen of hills, Jewel of the orient" इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगरम् अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति ।
(Mall) माल् मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः), चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।
भाक्राजलबन्धः
भारतसर्वकारस्य बृहत् रचनाकार्येषु विविधोद्देशयोजनासु एषः जलबन्धः अपि अन्यतमः अस्ति । सत्लज्नद्याः मार्गे एषः जलबन्धः अतीवव्ययेन निर्मितः अस्ति । पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः अस्ति । अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।
विमानमार्गः
देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।
धूमशकटमार्गः
काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।
वाहनमार्गः
चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी, देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।
कालः
एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।
कुलुप्रपातः
पूर्वम् अस्य स्थानस्य "कुलन्तपित" इति नाम आसीत् । अस्य अर्थः निवासयोग्यस्य जगतः अन्तः इति । हिमालयस्य उन्नतस्थले १२१९ मीटर् उन्नतस्थाने स्थितं पर्वतस्थानम् एतत् । बियास्(व्यासनदी)नदीतीरे स्थितम् एतत् स्थानं मण्डलकेन्द्रमस्ति । अत्र फलवाटिकाः पैनवृक्षाः च अतीव सुन्दराः सन्ति । पर्वतारोहणं पादचारणं मीनानां ग्रहणं च अत्र मनोरञ्जनार्थं क्रीडारुपेण च जनानां कार्याणि सन्ति । एतस्य रजत ग्राम इति अपि नाम वर्तते ।
कुलुप्रदेशे दसरामहोत्सवं वैभवेण आचरन्ति । तदा जनाः काहलानि, तालवाद्यानि, शृङ्गवाद्यानि च गृहीत्वा स्थानीयदेवतायाः यात्रां कुर्वन्ति । प्रमुखाय देवाय रघुनाथाय वन्दनानि अर्पयन्ति । इतः बिजलीमहादेवमन्दिरस्य दर्शनमपि कर्तुं शक्यते । नग्गर (२४ कि.मी) मणिकर्ण (४५ कि.मी) इतरदर्शनीयस्थानानि सन्ति । मणिकर्णप्रदेशे उष्णजलनिर्झराणि सन्ति । नग्गर् पत्तनं पूर्वं राजधानी आसीत् । अस्मिन् दुर्गे राज्ञः निवासः प्रशासनम् इत्यादिकम् आसीत् । दुर्गसमीपे चतुर्भुजविष्णुदेवालयः, त्रिपुरसुन्दरीदेवालयः मुरलीधरकृष्णमन्दिरं च आकर्षकाणि सन्ति । शिवदेवालयः ११ शतके निर्मितः अस्ति ।
मार्गः
शिम्लातः २३५ कि.मी ।
मनाली (प्रपातनगरम्)
‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति । अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग्, उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति । बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।
मार्गः
शिमलातः २३५ कि.मी ।
विमाननिस्थानम्
भुन्तार् इति
धूमशकटनिस्थानम्
चण्डीगढ समीपनिस्थानम् ।
वाहनमार्गः
जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।
काल्का-शिम्लाधूमशकटयानम् (K.S.R. Train)
शिम्लानगरं ये गच्छन्ति ते एतस्य विशिष्टस्य धूमशकटयानस्य प्रयाणम् अवश्यं स्मरन्ति । एतत् धूमशकटयानं सावधानेन गच्छत् ९६ कि.मी गमनाय षड्घण्टात्मकं समयं स्वीकरोति । पर्वतप्रदेशे वक्रमार्गे अस्य यानस्य गत्यर्थं न्यारोगेज् मार्गः निर्मितः अस्ति । क्रिस्ताब्दे १९०३ तमे वर्षे लार्ड कर्जन् नामकः आङ्गलाधिकारी एतत् यानम् आरब्धवान् ।
अस्मिन् याने प्रयाणसमये मनः उल्लसितं भवति । रोमाञ्चकारी अनुभवः अत्र भवति । शिवालिक् पर्वतप्रदेशे अस्य गमनम् अपूर्वम् अस्ति । चण्डीगढसमीपे स्थितात् काल्कानगरतः प्रयाणस्य आरम्भः भवति । सागरस्तरतः काल्कानगरं २२०० पादोन्नते स्थलेऽस्ति । ततः शिम्ला प्रति ७२६२ पादोन्नतं प्रदेश वक्रमार्गेण गच्छति ।
धूमशकटमार्गे अष्टादशनिस्थानानि सन्ति । सुरङ्गाः १०३ सङ्ख्याकाः, सेतवः ९८८ सन्ति । बारोगटनल् सुरङ्गमार्गः ३७५२ पादमितदीर्घः अस्ति । सेतवः इष्टिकाभिः निर्मिताः सन्ति । धूमशकटप्रयाणम् आह्लादकरं सुरक्षितं च अस्ति । मार्गे सेवफलवृक्षाणां दर्शनं भवति । मार्गः यदि हिमावृतः भवति तदा स्नोकर् यन्त्रेण हिमम् निष्कासयन्ति । एतत् धूमशकटयानं विश्वे एव अतिविशिष्टमिति गिन्नीस् बुक् आफ् रैल् एण्ड् फ्याक्ट्स् इत्यत्र वर्णितम् अस्ति ।
मार्गः
चण्डीगढतः काल्का प्रति प्रयाणम् । काल्कातः K.S.R. Train
मणिकर्ण – भारतस्य सेबभूमिः उष्णनिर्झरस्थान
हिमाचलप्रदेशराज्ये स्थितम् एतत् स्थानम् अनेकाश्चर्याणां अद्भुतस्थलमस्ति । उपरि वनभागे सवत्र भूप्रदेशे अतीव शीतलं वातावरणम् अस्ति । किन्तु अधः उष्णजलनिर्झराणि सन्ति । बदरीनाथः केदारनाथः इत्यादिप्रदेशेषु अपि एतादृशानि निर्झराणि सन्ति । हिमालयपर्वतश्रेण्यां पार्वतीप्रपाते दक्षिणभागे ४५ कि.मी गत्वा एतत् स्थान प्राप्तुं शक्यते । एतत् स्थानं अपूर्वम् अस्ति । एतस्य दर्शनार्थं यात्रिकाः विज्ञानिनः च कुलूहलेन आगच्छन्ति । अत्र पुराणकथा एवम् अस्ति । एकदा शिवः पार्वती च अत्र आगत्य स्थातुं निर्धारं कृतवन्तौ । निर्झरे स्नानं कर्तुं पार्वत्याः गमनसमये वस्त्रैः साकम् एकं वज्रं स्थापितवती । शेषनागः सर्पः तत् वज्रम् अपहृत्य भूमिं प्रविश्य पातालं गतवान् । पार्वती यदा स्नानं कृत्वा आगता तदा वज्रं न दृष्टवती । वज्रार्थं शिवं प्रार्थितवती । शिवः तृतीयं नयनम् उद्घाट्य वज्रं प्राप्तुम् इष्टवान् ।
शिवस्य तृतीयनयनस्य उद्घाटनेन विश्वं दग्घं भवति इति भीताः देवाः शोषनागं वज्रं समर्पयितुं प्रार्थितवन्तः । वज्रं प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्यं जलम् उष्णम् अभवत् । इदानीमपि तत्र जलम् अतीव उष्णम् एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम् आगच्छन्ति । श्रीरामचन्द्रदेवालयः, सप्तस्तरीयं गुरुद्वारं च अत्र निर्मितानि सन्ति । सदा अत्र गुरुग्रन्थसाहेबस्य पठनं प्रचलति । सायं वाद्यैः साकं भजनं प्रचलति । अत्रत्यजले उष्णता९४.५ सेण्टिग्रेड भवति । तेन जलेनैव स्नानं भोजनं चायकरणं च अत्र भवन्ति । अनेन जलेन चर्मव्याधिः अपगता भवति । अत्र आगन्तु अतीव श्रमः अनिवार्यः अस्ति । सन्धाकालिका पूजा अत्र विशिष्टा ।
धूमशकटमार्गः
पठानकोट समीपस्थं धूमशकटनिस्थानम् अस्ति । धर्मशालातः जोगीन्दरनगरात् च गन्तु शक्यते ।
वाहनमार्गः
कुलुतः ४० कि.मी । मनालीतः ८० कि.मी । वसत्यर्थम् अत्र अतिथिगृहाणि सन्ति ।
बारोग् सुरङ्गः
‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता । एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० -१९०३ मध्ये एषः सुरङ्गः रचितः अस्ति "UNESCO" संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाणम् भवति ।
वीथिका
बाह्यानुबन्धः
Himachal Pradesh Tour Packages
Himachal Pradesh Culture - Being Himachali
Official website of Himachal Pradesh Government
Himachal Pradesh Census 2001
Himachal tourism department Co.
Himachal Tourism Website
Himachal News
Himachal NGO
Himachal Tourist Guide
Wooden Temples in Himachal Pradesh
Himachal Month/Day in USA
Explore Himachal
Birds of Himachal Pradesh
Butterflies of Himachal Pradesh
Landscapes of Himachal Pradesh
भारतस्य राज्यानि
हिमाचलप्रदेशराज्यम् |
1016 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A4%BF%E0%A4%95%E0%A5%8B%E0%A4%AC%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%B8%E0%A4%AE%E0%A5%82%E0%A4%B9%E0%A4%83 | अण्डमाननिकोबारद्वीपसमूहः | अण्डमान् निकोबार् च द्वीपौ
(संस्कृत: नारिकेलद्वीप) भारतस्य केन्द्रशासितप्रदेशौ स्तः।
अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी पोर्ट ब्लेयर । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशिया म्यान्मार्म्यान्मारवंशीयाः सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । भारतस्य लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।
स्वान्तन्त्र्यस्मारकम्
कारागृहे ६९८ प्रकोष्ठाः आसन् । प्रमुखाः स्वातन्त्र्यवीराः वीरसावरकरः, सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोशी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतीकत्वेन रक्षितम् । अत्र कारागृहे बन्द्यः अतीव कष्टम् अनुभवन्ति स्म । उत्तमाहारः न दीयते स्म । ताः बन्दयः प्राणिनः इव जीवनं यापयन्ति स्म । भूषण रे, किशोरनामधारी इत्यादयः भारतस्वातन्त्र्ययोद्धारः जुगुप्सया आत्महत्यां कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं जापानदेशीयानां वशे आसीत् । सुभाषचन्द्रबोसः अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री मोरारजी देसायी अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानीम् अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति ।
पर्यटककेन्द्रम्
अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पङ्क्तिः प्रवलपर्वतः हरिद्वर्णवनपर्वताः सर्वाणि सुन्दराणि सन्ति । सागरे तरणं विहारः स्नानम् इत्यादीनि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा ह्यावलाक् द्वीपः, चेतां सामिल्(एशियाखण्डे एव बृहत्), विङ्को कार्यागारः इत्यादीन् दर्शयन्ति । त्रिषु दिनेषु एकवारं प्रवासव्यवस्था अस्ति ।
विमानमार्गः
पोर्ट ब्लेयर पर्यन्तं विमानसम्पर्कःअस्ति ।
जलमार्गः
चेन्नैतः विशाखापत्तणतः कोलकातातः च नौकाः गच्छन्ति । द्वीपे सञ्चाराय फेर्रीसर्विस् नौकाव्यवस्थाः सन्ति ।
वसतिः
वसत्याः कृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसतिगृहाण्यपि सन्ति ।
दूरम्
कोलकातातः १२०५ कि.मी. दूरे चेन्नैतः ११९१ कि.मी. दूरे एतदस्ति ।
कालः
अक्टोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः ।
सम्बद्धाः-विषया:
राजधानी -- पोर्ट ब्लेयर
भारतस्य केन्द्रशासितप्रदेशाः |
1017 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%B0%E0%A5%81%E0%A4%A3%E0%A4%BE%E0%A4%9A%E0%A4%B2%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | अरुणाचलप्रदेशराज्यम् | अरुणाचलप्रदेशः (Arunachal Pradesh) भारते विद्यमानेषु राज्येषु अन्यतमं राज्यम्। अयं प्रदेशः ईशान्य भारते अस्ति। अरुणाचलप्रदेशः दक्षिणास्सां तथा नागाल्याण्ड राज्ययोः सीमायाम् अस्ति । एवं पश्चिमे भूतान्, पूर्वे म्यान्मार् तथा उत्तरे चीना पीपल् रिपब्लिक् एतैः सह विभजितम् एवम् अन्ताराष्ट्रीय सीमासु अरुणाचलप्रदेशः अस्ति। इटानगरम् अरुणाचलप्रदेशस्य राजधानी अस्ति। अरुणाचलप्रदेशः “उषःकालस्य लिट् पर्वताणां भूमिः” इत्यर्थः । “आफ् दि रैसिङ्ग् सन्” इति अस्य प्रदेशस्य प्रसिद्धिरस्ति । अरुणाचलप्रदेशे विद्यमानाः ईशान्य भारतस्य, टिबेट प्रदेशस्य एवं बर्मन् देशस्यच जनाः भवन्ति । अस्य प्रदेशस्य मुख्यभाषे ’हिन्दी’ तथा असमिया च भवतः।
भूगोलम्
अरुणाचलप्रदेशस्य अधिकः भागः हिमालये अस्ति । किन्तु लोहित,चाङ्गलाङ्ग, तिरपपतकाई इत्यादयाः प्रदेशाः पर्वतप्रदेशेषु सन्ति । काङ्ग्तो, न्येगीकाङ्गसाङ्ग, मुख्यगोरीचन चोटी तथा पूर्व गोरीचन चोटी इत्यादि क्षेत्रेषु हिमालयस्य उन्नत शिखराणि सन्ति । ४४ वर्षाणाम् अनन्तरं, प्रप्रथमवारं २००६ तमे संवत्सरे तवाङ्गे स्थित बुम्लापास् प्रदेशम् उद्घाटितवन्तः । उभयप्रदेशेषु विद्यमानेभ्यः व्यापारार्थम् अवकाशं कल्पितवन्तः। हिमालयस्य पर्वतमालाः चिनादेशात् विभागं कुर्वन्ति । अत्र विद्यमानाः पर्वताः हिमालयस्यापेक्षया कुब्जाः भवन्ति ।
वायुमण्डलम्
अरुणाचलप्रदेशस्य वायुमण्डलस्य व्यत्यासः उन्नतप्रदेशेषु भवति । हिमालये स्थित टिबेट् प्रदेशस्य निकटक्षेत्रेषु अल्वैन् उत कर्सर् प्रकारयोः वातावरणं भवति । मध्यहिमालयस्य क्षेत्रेषु वातावरणं समशीतोष्णं भवति । अत्र सेब,नारङ्ग इत्यादि फलानां वृक्षाणि सन्ति । अरुणाचलप्रदेशे ८०तः १६०(२००० तः ४००० मि.मी.) अङ्गुलपरिमितवृष्टिः भवति । मे तथा सेप्टम्बरमासयोः अधिकवृष्टिः भवति । अत्र ओक्, फैन्, मेपल्, फर्, साल् तथा जुनिपर् इत्यादि वृक्षाः सन्ति।
इतिहासः
अरुणाचलप्रदेश-राज्यस्य ऐतिह्यविषयिणी काऽपि चर्चा न प्राप्यते । अस्य राज्यस्य इतिहासः केवलं कथारूपेण एव श्रूयते । इतः परम् तत्र ध्वंसावशेषाः अपि सन्ति । ते पर्वतीयक्षेत्रे प्राप्यन्ते । यदा पर्वतीयक्षेत्रे उत्खननम् अभवत्, तदा ज्ञातं यत् – “ते ध्वंसावशेषाः ख्रीष्टब्दात् पूर्वम् एव स्थिताः सन्ति । ऐतिहासिकप्रमाणैः ज्ञायते यत् – जनाः तत्र निवसन्ति स्म । भारतस्य समीपस्थैः राज्यैः सह तेषां जनानां सम्पर्कः अपि आसीत् ।
प्राप्तभग्नावशेषैः अनुमीयते यत् – ये जनाः ब्रह्मपुत्रा-नद्याः उत्तरीतटे निवसन्ति स्म, ते राजनैतिकक्षेत्रे, सांस्कृतिकक्षेत्रे, अन्यक्षेत्रेषु च प्रगतिशीलाः आसन् । प्रारम्भिकाभिलेखेषु अरुणाचलप्रदेश-असमराज्ययोः सम्बन्धः अपि आसीत् । पुरा अस्मिन् राज्ये अहोम-वंशजानां राज्ञां शासनम् आसीत् । तथापि स्वतन्त्रतायाः अनन्तरम् एव तत्र सुप्रशासनस्य आरम्भः जातः । ई. स. १८२६ तमस्यवर्षस्य फरवरी-मासस्य २४ तमे दिनाङ्के (२४ फरवरी १८२६) यण्डाबूसन्धिः समाप्तः जातः । तदनन्तरम् असम-राज्ये ब्रिटिश्-शासनम् आरब्धम् । तावदेव अरुणाचलप्रदेश-राज्यस्य आधुनिकेतिहासः आरब्धः ।
राज्यस्य स्थापना
ई. स. १९६२ तमवर्षात् पूर्वम् अरुणाचलप्रदेश-राज्यं “पूर्वोत्तर सीमान्त एजेन्सी (North-East Frontier Agency - NEFA)” इति नाम्ना ज्ञायते स्म । यतः अस्य पश्चिमदिशि भूटान्-देशः, उत्तरपूर्वदिशि तिब्बत्-देशः, चीनदेशः च, पूर्वदिशि म्यान्मार-देशः, दक्षिणदिशि नागालैण्ड-राज्यम्, असम-राज्यं च स्थितम् अस्ति । संवैधानिकरूपेण अरुणाचलप्रदेश-राज्यम् असम-राज्यस्य भागः एव आसीत् । तथापि ई. स. १९६५ तमवर्षपर्यन्तम् अरुणाचलप्रदेश-राज्यस्य प्रशासनं विदेशमन्त्रालयस्य आधीन्ये आसीत् । ततः परम् असम-राज्यस्य राज्यपालस्य आदेशानुसारम् अस्य राज्यस्य प्रशासनं गृहमन्त्रालयस्य अधीने अभवत् । तदैव अस्य अरुणाचलप्रदेशः इति नामकरणं जातम् ।
ई. स. १९८७ तमे वर्षे फरवरी-मासस्य २० तमे दिनाङ्के (२० फरवरी १९८७) अरुणाचलप्रदेशेन भारतीयसङ्घस्य चतुर्विंशतितमं राज्यत्वं प्राप्तम् ।
मण्डलानि
अरुणाचलप्रदेशः १७ जनपदेषु (विभागेषु) विभक्तोऽस्ति। तेषु तेषु जनपदेषु जनपदाधिकारि एव मुख्यः भवति । जनपदेषु जनापेक्षित अंशान् सः एव पूरयति । सीमाप्रदेशेषु भारतीय सेनायाः रक्षणाकार्यम् अहर्निशं भवति । अन्तः आगन्तुकानां सर्वविधपरीक्षणं कुर्वन्ति।
अरुणाचलप्रदेशस्य मण्डलानि
तिरप् मण्डलम्
अञ्जावमण्डलम्
चङ्लङ् मण्डलम्
पूर्वकमेङ्गमण्डलम्
पूर्वसियाङ्गमण्डलम्
कुरुङ्गकुमेमण्डलम्
लोहितमण्डलम्
दक्षिणदिबाङ्गव्यालीमण्डलम्
दक्षिणसुबनसिरीमण्डलम्
पपुम्पारेमण्डलम्
तवाङ्गमण्डलम्
उत्तरदिबाङ्गव्यालीमण्डलम्
उत्तरसुबनसिरीमण्डलम्
उत्तरसियाङ्गमण्डलम्
पश्चिमसियाङ्गमण्डलम्
पश्चिमकामेङ्गमण्डलम्
लोन्गडिङ्गमण्डलम्
महानगराणि
ईटानगरम्
ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अपि अस्ति । इदं नगरं हिमालयपर्वतस्य तले स्थितम् अस्ति । नगरमिदं पापुमपरेमण्डलस्य प्रशासनिकाधिकारक्षेत्रं वर्तते । ई. स. १९७४ तमस्य वर्षस्य अप्रैल-मासस्य विंशतितमे (२०) दिनाङ्के (२० अप्रैल १९७४) ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानीत्वेन उद्घोषितम् । अरुणाचलप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति ईटानगरम् । ईटानगरं लघुभारतत्वेन अपि ख्यातम् अस्ति । यतः भारतदेशस्य प्रत्येकराज्यस्य जनाः तत्र निवसन्ति । अस्य नगरस्य बौद्धमन्दिरं यात्रिकाणाम् आकर्षकं केन्द्रं विद्यते | ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अस्ति अतः भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा ईटानगरं प्राप्तुं शक्यते । असम-राज्यस्य हरमूती-रेलस्थानकम् ईटानगरस्य निकटतमं रेलस्थानकम् अस्ति ।
तवाङ्ग
तवाङ्ग-नगरम् अरुणाचलप्रदेशस्य पश्चिमदिशि स्थितम् अस्ति । नगरमिदम् अतीव सुन्दरं विद्यते । तवाङ्ग-नगरं स्वस्य अलौकिकसौन्दर्याय विख्यातम् अस्ति । अस्य उत्तरदिशि तिब्बत-देशः, दक्षिणपूर्वदिशि भूटान-देशः, पूर्वदिशि पश्चिमकमेङ्गमण्डलस्य सेलापर्वतशृङ्खला च विद्यते । तवाङ्ग-शब्दस्य व्युत्पत्तिः तवाङ्गमठाधारिता अस्ति । “ता” इत्युक्ते अश्वः, वाङ्ग इत्युक्ते चितः । अर्थात् “अश्वेन चितः” इत्यर्थः भवति ।
पौराणिककथानुसारं प्राप्यते यत् – “मेराग लामा लोड्रे ग्यामत्सो” इत्याख्यः मठं निर्मातुं योग्यस्थानम् अन्विषन् आसीत् । किन्तु सः तावत् योग्यं स्थलं न प्राप्तवान् । अन्ते तेन दिव्यशक्त्याः मार्गदर्शनं प्राप्तुं निर्णयः कृतः । अतः सः प्रार्थनां चकार । प्रार्थनं समाप्य यदा तेन नेत्रे उद्घाटिते, तदा तस्य अश्वः तत्र नासीत् । सः अश्वम् अन्वेष्टुं सर्वत्र भ्रमणं कृतवान् । पर्वतशिखरे तेन स्वस्य अश्वः प्राप्तः । तत्रैव तेन मठः निर्मितः । तदा एव “तवाङ्ग” इति शब्दस्य आविर्भावः जातः । प्राकृतिकसौन्दर्यदृष्ट्या तवाङ्ग-नगरं महत्समृद्धं वर्तते । अस्य सौन्दर्यं दृष्ट्वा जनाः मुग्धाः भवन्ति । सूर्यस्य प्रथमः किरणः सर्वप्रथमं तत्रैव निपतति । तद्दृश्यं दृष्टव्यं भवति । तवाङ्ग-नगरस्य वातावरणं सामान्यम् एव भवति । तथापि मार्च-मासतः अक्टूबर-मासपर्यन्तं तत्र गन्तव्यम् । तस्मिन् समये वातावरणं विशिष्टं भवति । भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा तवाङ्ग-नगरं प्राप्तुं शक्यते । असम-राज्यस्य गुवाहाटी-नगरं तवाङ्ग-नगरस्य निकटतमं नगरं वर्तते । गुवाहाटी-नगरस्य विमानस्थानकं समीपस्थं वर्तते ।
जनसङ्ख्या
अरुणाचलप्रदेशे १९ प्रमुखजातीयाः तथा ८५ उपजातीयाः जनाः भवन्ति । प्रायशः अधिकाः जनाः टिबेट्-बर्मी उत ताई-बर्मी तः प्रव्रज्यागताः भवन्ति । प्रायः ३५% प्रतिशतं जनाः बङ्गालः, बोडो, हजोन्ग, बाङ्ग्लादेशादिभिः आगताः सन्ति । एवम् अस्साम्, नागाल्याण्ड तथा भारतस्य अन्येभ्यः राज्येभ्यः आगताः यात्रिकाः अपि भवन्ति । प्रसिद्धजातिषु आदि, गालो, निशि, खम्ति, मोंपा तथा अपातनि मुख्याः भवन्ति । अरुणाचलप्रदेशे १९९१ तमे संवत्सरे ४१.५९% प्रतिशतं जनाः साक्षराः आसन् । ४८७७९६ व्यक्तयः साक्षराः आसन् । २००१ तमे संवत्सरे कृत भारतसार्वकारस्य गणनानुसारं २०% प्रतिशतं प्रकृतिधर्मीयाः अर्थात् डोन्यी-पोलो तथा रङ्गफ्राह योः पालनं कुर्वाणाः जनाः सन्ति इति । मिरि तथा नोक्ते जनयोः मिलित्वा प्रायः ३५% प्रतिशतं जानाः हैन्दवः सन्ति । १३% प्रतिशतं जनाः बौद्धाः सन्ति । टिबेट् बौद्धधर्मः मुख्यतया तवाङ्ग, पश्चिम कामेङ्ग तथा टिबेट् पार्ष्वस्थ प्रदेशेषु प्रचलितम् अस्ति । थेरावादबौद्धधर्मः बर्मी सीमायाः समीपे विद्यमानैः जनैः पालितम् अस्ति। प्रायः १९% प्रतिशतं यवनाः सन्ति।
भाषाः
अरुणाचलप्रदेशराज्ये विभिन्नानि क्षेत्राणि सन्ति । अतः राज्ये भाषाः अपि विविधानि सन्ति । यथा – निशिङ्ग, मोनपा, मिजी, अङ्का, शेरदुकपेन, अपतानी, तगिन, हिलमिरी, अदी गैलोङ्ग, दिगारू मिशमी, इदु-मिशमी, मिजु मिशमी, खामटी, नोकटे, तङ्गसा, वांचू च एताः भाषाः अरुणाचलप्रदेशराज्ये प्रचलिताः सन्ति ।
शिक्षणम्
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अरुणाचलप्रदेश-राज्यस्य साक्षरतामानं ६६.६३ प्रतिशतं वर्तते । पुरुषाणां साक्षरतामानं ७३.६९ प्रतिशतं, महिलानां च साक्षरतामानं ५९.५७ अस्ति । “अरुणाचलविश्वविद्यालयः”, अरुणाचलप्रदेश-राज्यस्य प्रमुखं शैक्षणिकसंस्थानं विद्यते । अयं विश्वविद्यालयः ईटानगरे स्थितः अस्ति । “नॉर्थ्-ईस्टर्न् रीजनल् इंस्टीट्यूट् ऑफ् साइन्स् एण्ड् टेक्नोलॉजी” इतीयं संस्था अपि अरुणाचलप्रदेशे शैक्षणिकसंस्थासु प्रमुखतमा वर्तते । इयम् अपि ईटानगरे स्थिता अस्ति ।
राजनीतिः
अरुणाचलप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्ये विधानसभायाः षष्ठीः (६०) स्थानानि (Seats), लोकसभायाः द्वे (२) स्थाने (Seats), राज्यसभायाः एकं (१) स्थानम् (Seat) एव अस्ति । ई. स. १९७५ तमे वर्षे विधानसभायाः, मन्त्रिपरिषदः व्यवस्था जाता । ई. स. १९८६ तमे वर्षे सर्वकारेण अस्मै राज्याय विशेषराज्यत्वेन स्थानं प्रदत्तम् आसीत् । यत्र जनसङ्ख्याघनत्वं न्यूनं भवेत्, यत्र आर्थिकविकासः अपि न स्यात्, यत्र पर्वतीयक्षेत्राणि भवेयुः, तादृशेभ्यः राज्येभ्यः विशेषराज्यस्य स्थानं प्रदीयते । तत्र प्रमुखाः त्रयः राजनैतिकपक्षाः सन्ति । ते - राष्ट्रीय कॉङ्ग्रेस्-पक्षः, अरुणाचल कॉङ्ग्रेस्-पक्षः, भारतीयजनतापक्षः च ।
अर्थव्यवस्था, कृषिः च
अरुणाचलप्रदेशराज्यस्य अर्थव्यवस्थायाः मूलाधारः कृषिः एव अस्ति । अस्य राज्यस्य अशीतिः प्रतिशतं जनाः कृष्या सह संलग्नाः सन्ति । राज्ये पर्वतरोधसि स्थानान्तरणकृषिः क्रियते । कुत्रचित् सोपानात्मिका कृषिः अपि क्रियते । पूर्वोत्तरपरिषदः साहाय्येन कृषिसम्बद्धानां गतिविधीनां प्रोत्साहनार्थं राज्ये तवाङ्ग-नगरे “रीजनल् सीड् फाउण्डेशन् पोटेटो फार्म्”, दीराङ्ग-नगरे “क्षेत्रीय सेब नर्सरी”, शेरगाँव इत्यत्र “राज्य बागबानी फार्म्” च उद्घाटितम् अस्ति ।
राज्येऽस्मिन् तण्डुलानां, लवेटिका (Corn), गोधूमः, लङ्गुरा (Millet) च इत्यादीनि सस्यानि प्रमुखाणि सन्ति । इतः परं निर्यासस्य (Rubber), कॉफी (Coffee), चाय (Tea) चेत्येतेषाम् अपि उत्पादनं भवति । राज्ये कदलीफलं, हरिद्रा, नारिङ्गफलं, द्राक्षाफलम्, अक्षोटं (Walnut), बीजपूरं (Guava) चापि उत्पाद्यन्ते । अरुणाचलप्रदेशीयाः जनाः कृषिमवलम्बैव जीवनं यापयन्तः सन्ति। अत्रत्य अर्थव्यवस्था “झूम” कृष्याश्रिता अस्ति। उन्नतपर्वतादिषु विद्यमानानां जनानां “झूम” कृषिप्रकारस्य पारंपरिकविधिः भवति। अस्य कृषिप्रकारस्य मुख्य फलचयाः तण्डुलम्,यावानलः,आर्द्रकः,तिलं तथा इक्षु इत्यादि भवन्ति। अद्यत्वे आलू एवं सेब,नारङ्गं तथा पनसादि फलानि अत्रत्य फलचयाः भवन्ति।
उद्योगाः, खानिजश्च
अरुणाचलप्रदेश-राज्ये कुटीरोद्योगः प्रसिद्धः वर्तते । कुटीरोद्योगः वनाधारितः भवति । इतः परं फलनिर्माणं, सिक्थवर्तिकानिर्माणम् (Candle), काष्ठकार्याणि, चायकृषिश्च प्रमुखोद्योगाः सन्ति । राज्ये शिल्पस्य, वयनस्य च बहूनि केन्द्राणि सन्ति । तेषु केन्द्रेषु दैनिकोपयोगीवस्तूनि सज्जीकर्तुं प्रशिक्षणं प्रदीयते । राज्ये प्रायः अष्टादश औद्योगिकघटकानि मध्यमस्तरीयानि सन्ति । ई. स. १९९१ तमे वर्षे “खनिज विकास और व्यापार निगम लिमिटेड्” इत्यस्याः संस्थायाः स्थापना अभवत् । राज्ये वज्रचूर्णस्य यन्त्रागारः अपि अस्ति । राज्ये प्रौद्योगिकशिक्षणसंस्थानद्वयम् अस्ति । तत्र यन्त्रसम्बन्धिनं शिक्षणं प्रदीयते । ये स्थानीयाः सन्ति, तेभ्यः चायस्य उद्यानाय प्रोत्साहनं प्रदीयते । तयोः एकं संस्थानं रोहङ्ग-नगरे, अपरं च तबीरीजो-नगरे च स्थितम् अस्ति । अरुणाचलप्रदेशस्य विशालस्य खनिजस्य रक्षणार्थं १९९१ तमे संवत्सरे “अरुणाचलप्रदेश खनिजविकासः तथा व्यापार निगम लिमिटेड्” इति संस्था सार्वकारेण स्थापिता । सार्वकारस्य पक्षतः “सार्वकार औद्योगिक प्रशिक्षण संस्थाः” सन्ति । क्रयविक्रयणप्रशिक्षणम्, रोयिङ्ग, टबारीजो, दिरांग, युपैया तथा मैओ इत्यादि प्रशिक्षणकेन्द्राणि सन्ति ।
सिञ्चनं, विद्युदुत्पादनं च
ई. स. १९९८ तमवर्षपर्यन्तं राज्ये ८७,५७८ हेक्टेयर् परिमितायाः भूमेः सिञ्चनाय व्यवस्था जाता । अरुणाचलप्रदेश-राज्ये विद्युदुत्पादनस्य क्षमता अपि अधिका अस्ति । अरुणाचलप्रदेश-राज्यस्य विद्युदुत्पादनक्षमता ३०,७३५ मेगावाट् परिमिता जाता । सम्पूर्णे राज्ये ३,६४९ ग्रामाः सन्ति, तेषु २,५९७ ग्रामेषु विद्युतः व्यवस्था कृता ।
कला, संस्कृतिः च
अरुणाचलप्रदेशे बह्वीनां जनजातीनां जनाः निवसन्ति । सर्वासां जनजातीनां भिन्नाः नृत्यशैल्यः सन्ति । अरुणाचलप्रदेश-राज्यस्य अधिकतमानि लोकनृत्यानि समूहे क्रियन्ते । अस्य राज्यस्य वस्त्राभूषणानि, सामाजिकस्थितिः, धर्मः, भाषाः च तिब्बत-देशेन प्रभाविताः सन्ति । तिब्बत-देशीयानां महत्त्वपूर्णः मठः ल्हासा-नगरे स्थितः अस्ति । अपरः महत्त्वपूर्णः मठः अरुणाचलप्रदेश-राज्यस्य तवाङ्ग-नगरे स्थितः अस्ति । अयं विश्वस्य बृहत्तमः मठः अस्ति । अरुणाचलप्रदेश-राज्ये बह्व्यः जातयः सन्ति । तासु ताङ्गसा-जातिः अपि अन्यतमा अस्ति । तस्यां जातौ विविधाः प्रथाः प्रचलिताः सन्ति । तासु प्रथासु एकस्याः प्रथायाः अनुसारं प्रत्येकस्य गृहस्य द्वितीयः पुत्रः भगवते बुद्धाय समर्प्यते । अस्मिन् राज्ये काष्ठकार्याणि, हस्तशिल्पकार्यं, मृत्पात्रनिर्माणकार्यम् इत्यादिकार्याणि प्रचलितानि सन्ति ।
उत्सवाः
अरुणाचलप्रदेश-राज्ये बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु परशुरामकुण्डमेला-उत्सवः, मालीनीयानमेला-उत्सवः च प्रमुखः वर्तते । इतः परम् अपि बहवः उत्सवाः सन्ति । यथा – सी-डोनची, सोलङ्ग, न्योकुम, बुरी-बूट, चालो-लोकु, सङ्गकोन, मोपीन, ओरिआ चेत्यादयः ।
वीक्षणीयस्थलानि
अरुणाचलप्रदेश-राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । यतः इदं राज्यं पर्वतीयक्षेत्रं वर्तते । अपि च इदं सूर्यस्य प्रथमः किरणः अस्य राज्यस्य भूमौ एव निपतति । अतः एव अस्य राज्यस्य नामकरणम् अपि तथैव कृतम् । तेन जनाः पर्वतीयक्षेत्रस्य विहारार्थं तत्र गच्छन्ति ।
तेजू
अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले तेजू-नामकः लघुग्रामः स्थितः अस्ति । इदं स्थलं सौन्दर्याय, नदीभ्यः च प्रसिद्धमस्ति । तत्र मिशमि-जनाजातेः जनाः निवसन्ति । इयं जनजातिः प्राचीना अस्ति । महाभारतकालादेव अस्य अस्तित्त्वं विद्यमानम् अस्ति । कथ्यते यत् – भगवतः कृष्णस्य राज्ञी रुक्मिणी मिशमि-जनजातेः युवती आसीत् । तेजू-ग्रामस्य जनैः मिशमि-उत्सवः आचर्यते । सः उत्सवः तमलाडू-पूजा इति ज्ञायते । अयमुत्सवः मिशमिजनजातेः प्रमुखोत्सवः अस्ति । प्रतिवर्षं फरवरी-मासस्य १५ दिनाङ्के अयमुत्सवः आचर्यते । उत्सवेऽस्मिन् प्रत्येकस्य समुदायस्य जनाः समुपस्थिताः भवन्ति । तेजू-ग्रामे प्रतिवर्षं जनवरी-मासे मेला-उत्सवः आयोज्यते । वायुमार्गेण, भूमार्गेण, धूमशकटमार्गेण च इदं स्थलं प्राप्तुं शक्यते । तिनसुकया-रेलस्थानकं तेजू-ग्रामस्य समीपस्थः रेलस्थानकं वर्तते । जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । तत्र बहूनि वीक्षणीयस्थलानि सन्ति । तेषु ‘ग्लो झील’, ‘हवा कैम्प’, ‘उष्णजलप्रपातः’, ‘परशुरामकुण्डः’ च प्रसिद्धः अस्ति ।
परशुरामकुण्डः
इदं स्थलं कोठार इति नाम्ना अपि ज्ञायते । अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले स्थितमिदं स्थलम् । तेझु-नगरात् २४ किलोमीटर्मितं दूरे स्थितम् अस्ति इदं वीक्षणीयस्थलम् । अयं कुण्डः परशुरामेण सह सम्बद्धः अस्ति । एकदा जमदग्नेः पत्नी रेणुका पतये स्नानार्थं जलमानेतुं गतवती आसीत् । कारणवशात् सा जलम् नीत्वा विलम्बेन आगतवती । तस्मात् खिन्नेन जमदग्निना परशुरामः मातुः वधाय आदिष्टः । पितुः आज्ञया परशुरामेण मातुः रेणुकायाः शिरः अच्छिद्यत । अनन्तरं परशुरामेण पापात् मुक्त्यर्थम् अस्मिन् कुण्डे स्नानं कृतम् आसीत् । ततः प्रभृतिः अयं कुण्डः परशुरामकुण्डः इति विख्यातः अस्ति ।
समयान्तरे इदं वीक्षणीयस्थलं प्रसिद्धं जातम् । साम्प्रतम् इदं स्थलं लोहित-मण्डलस्य परिचयत्वेन ज्ञायते । प्रतिवर्षं जनाः जनवरी-मासस्य १४ दिनाङ्के मकरसङ्क्रान्तौ स्नानार्थं तत्र गच्छन्ति । अतः अरुणाचलप्रदेश-राज्यस्य सर्वकारेण यात्रिकेभ्यः निवासाय धर्मशालायाः, भोजनाय भोजनशालायाः च व्यवस्था कृता अस्ति ।
दुर्गः
अरुणाचलप्रदेशस्य राजधानी ईटानगरम् अस्ति । तस्मिन् नगरे ईटा-दुर्गः अस्ति । तेन एव अस्य नगरस्य नाम ईटानगरम् इत्यभवत् । चतुर्दशशताब्द्याम् ईटा-दुर्गस्य निर्माणं जातम् आसीत् । दुर्गेऽस्मिन् बहूनि प्राकृतिकदृश्यानि सन्ति । तानि दृष्टुम् आत्मानं नन्दयितुं च जनाः तत्र गच्छन्ति ।
पौराणिकगङ्गाद्रुहः
इदं स्थलम् ईटानगरात् ६ किलोमीटर्मितं दूरे स्थितम् अस्ति । तस्य समीपं वनम् अपि वर्तते । इदं वनम् अतीव सुन्दरम् अस्ति । वने सुन्दराः वृक्षाः, पादपाः, वन्यजीवाः, पुष्पाणि, उद्यानानि च सन्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति ।
बौद्धमन्दिरम्
इदं मन्दिरं प्राचीनं वर्तते । बौद्धधर्मस्य गुरुणा दलाई लामा इत्याख्येन अपि अस्य मन्दिरस्य यात्रा कृता अस्ति । अस्य मन्दिरस्य छदिः पीतवर्णीया अस्ति । मन्दिरस्यास्य निर्माणं तिब्बतीयशैलिभिः कृतम् अस्ति । अस्मिन् मन्दिरे एकः सङ्ग्रहालयः अपि अस्ति । तस्य नाम “जवाहरलालनेहरू-सङ्ग्रहालयः” अस्ति । इदं मन्दिरम् आकर्षणकेन्द्रम् अस्ति । यतः इतः सम्पूर्णस्य ईटानगरस्य सुन्दराणि दृश्यानि दृष्टुं शक्यन्ते ।
पापुम पारे
अरुणाचलप्रदेश-राज्ये पापुमपारेमण्डलं स्थितम् अस्ति । तस्मिन् मण्डले पापुमपारे-नगरं विद्यते । इदं नगरम् ईटानगरात् २० किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलम् अत्यन्तं सुन्दरम् अस्ति । हिमालय-पर्वतस्य तले स्थितम् अस्ति इदं रमणीयस्थलम् । अतः वीक्षकाः पर्वतस्य शिखराणि दृष्टुं शक्यन्ते । इतः परं वनानि, नद्यः चापि सन्ति । तत्र निशीजातीयाः जनाः निवसन्ति । सम्पूर्णे राज्ये ते जनाः वीरतायै प्रसिद्ध्यन्ति ।
भीष्मकनगरम्
इदं नगरं दिबाङ्गवेलीमण्डले स्थितम् अस्ति । नगरमिदम् अरुणाचलप्रदेश-राज्यस्य लोकप्रियं, ऐतिहासिकं च स्थलं वर्तते । नगरेऽस्मिन् एकः दुर्गः अस्ति । सः दुर्गः राइङ्ग-नगरात् ३० किलोमीटर्मितं दूरे स्थितः अस्ति । अयं दुर्गः प्राचीनपुरातात्त्विकेषु दुर्गेषु अन्यतमः अस्ति । अष्टमशताब्द्यां पक्वेष्टिकाभिः अस्य दुर्गस्य निर्माणम् कृतम् आसीत् । इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य “इदु मिस्मीस्” इति जनजातेः पवित्रतमं तीर्थस्थलम् अस्ति । यदा अत्र उत्खननं कृतम् आसीत्, तदा ततः कलाकृतयः, मृद्वस्तूनि, मृत्प्रतिमाः, मृत्पात्राणि च प्राप्तानि
आकाशीगङ्गा
इदं स्थलं पौराणिकं स्थलं वर्तते । उच्यते यत् – “भगवान् शिवः सत्याः मृतशरीरं निधाय आकाशे भ्रमणं कुर्वन् आसीत् । अतः भगवता विष्णुना सुदर्शनचक्रेण सत्याः मृतशरीराङ्गानि छेदितानि । तत्र एकः कुण्डः अस्ति । सः कुण्डः अद्भुतः वर्तते । तस्य कुण्डस्य वस्तूनि शनैः शनैः अदृश्यानि भवन्ति । यदि स्नानं करणीयं चेत् १०० मीटर् मितम् अधः गत्वा कर्तुं शक्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति ।
मालिनीथान
“मालिनीथान” इदं स्थलं पुरातनं विद्यते । इदं स्थलम् असम-अरुणाचलप्रदेशराज्ययोः सीमायां स्थितम् अस्ति । इदं सियाङ्ग-नगरस्य पर्वतक्षेत्रे अस्ति । तत्र उत्खनने चतुर्दशशताब्द्यां निर्मिताः दुर्गामन्दिरस्य अवशेषाः प्राप्ताः । अपि च विभिन्नदेवतानां पाषाणप्रतिमाः, वनस्पतयः, पशूनां प्रतिरूपाणि चापि प्राप्तानि । इदं स्थलं पवित्रं मन्यते । अतः बहवः दर्शनार्थिनः तत्र गच्छन्ति । इदं स्थलं पौराणिककथया सह सम्बद्धं वर्तते । कथ्यते यत् – “ विवाहात्पूर्वमेव भगवता कृष्णेन रुक्मिणी आनीता। अनन्तरं पार्वत्या तयोः पुष्पमालाभिः स्वागतं कृतम् आसीत्” । तदा कृष्णेन पार्वत्यै “सुचारू मालिनी” इति नाम प्रदत्तम् । तन्नाम्ना एव अस्य स्थलस्य नामकरणम् अभवत् । इदं स्थलम् आलोङ्ग-नगरात् १५० किलोमीटर्मितम् दूरे स्थितम् अस्ति ।
रोइङ्ग
रोइङ्ग-नगरम् अरुणाचलप्रदेश-राज्यस्य दियाङ्गवैली-मण्डलस्य मुख्यालयः वर्तते । इदम् अरुणाचलप्रदेश-राज्यस्य पूर्वभागस्य अंशः वर्तते । रोइङ्ग-नगरस्य उत्तरभागः दिबाङ्गपर्वतेन, नदिभिः च आश्लिष्टम् अस्ति । अस्य पूर्वदिशि लोहितमण्डलं, पश्चिमदिशि मैकमोहनरेखा च वर्तते । हिमाच्छादितानि शिखराणि, अशान्तनद्यः, रहस्यमयः पर्वतः, जीवजन्तवः, वनस्पतयः, जनजातयः, प्राचीनपुरातत्त्विकस्थलानि च इत्यादीनि रोइङ्ग-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । तत्र वन्यजीवाभयारण्यम् अपि विद्यते । रोइङ्ग-नगरं मिस्मीपर्वतस्य तले स्थितम् अस्ति । तत्र जनाः मैत्रीपूर्णं निवसन्ति । रोइङ्ग-नगरे प्रमुखत्वेन मिस्मीजनजातेः, अदिजनजातेः च जनाः निवासं कुर्वन्ति । मिस्मी-जनजातेः जनैः प्रतिवर्षं फरवरी-मासे रेह-उत्सवः आचर्यन्ते । अदि-जनजातेः जनाः प्रतिवर्षं सितम्बर-मासे सोलाङ्ग-उत्सवम् आचरन्ति । शीतर्तौ अक्टूबर-मासे, जनवरी-मासे च जनाः तत्र भ्रमणार्थं गच्छन्ति । जनाः तत्रत्यैः मनोहरदृश्यैः आकृष्टाः भवन्ति । असम-राज्यस्य तिनसुकिया-रेलस्थानकात् रोइङ्ग-नगरं गन्तुं शक्यते । यतः रोइङ्ग-नगरे परिवनाय रेलस्थानकं, विमानस्थानकं च नास्ति ।
मियाओ
अरुणाचलप्रदेशस्य चाङ्गलाङ्ग-मण्डालस्य उपसम्भागः अस्ति मियाओ-नगरम् । मियाओ-नगरे उत्तरपूर्वभारतस्य राज्यापेक्षया सर्वाधिकी वृष्टिः जायते । इदं नगरम् अरुणाचलप्रदेश-राज्यस्य प्रगतिशीलनगरेषु अन्यतमं वर्तते । नोआ-दिहिङ्ग-नदी ततः एव वहति । इयं नदी बृहत्तमासु नदीषु अन्यतमा अस्ति । तस्मिन् नगरे “पटकाई बुम” इत्याख्या पर्वतशृङ्खला अपि अस्ति । तत्र वातावरणं शीतलं भवति । वनानि अपि सघनानि सन्ति । अतः एव इदं नगरम् अरुणाचलप्रदेशराज्यस्य लोकप्रियवीक्षणीयस्थलं वर्तते । तत्र ‘नमदाफा बाघ परियोजना’, लघुप्राणीसङ्ग्रहालयः, सङ्ग्रहालयः च अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । मियाओ-नगरे बहूनि हिन्दुमन्दिराणि, ख्रिस्त्-उपासनागृहाणि (Church) च सन्ति ।
मियाओ-नगरस्य समीपे अपि बहूनि दर्शनीयस्थलानि सन्ति । तानि – बोरदुमसा, नमसाई, नामपोङ्ग जैरमपुरं च । मियाओ-नगरं समीपस्थैः बृहन्नगरैः सह सम्बद्धम् अस्ति । अतः सरलतया तत्र गन्तुं शक्यते । वायुमार्गेण, धूमशकटमार्गेण भूमार्गेण वा मियाओ-नगरं प्राप्यते ।
नमदाफा-राष्ट्रियोद्यानम्
नमदाफा-राष्ट्रियोद्यानम् अरुणाचलप्रदेशस्य आकर्षणकेन्द्रं वर्तते । इदम् उद्यानं चाङ्गलाङ्ग-मण्डले स्थितम् अस्ति । हिमालयस्य पूर्वभागः जैवविविधतायै विख्यातः अस्ति । नमदाफा पूर्वभागस्य संरक्षितं क्षेत्रं विद्यते । क्षेत्रफलदृष्ट्या अपि इदं भारतदेशस्य द्वितीयं बृहत्तमम् उद्यानं वर्तते । अतः इदं राष्ट्रियोद्यानत्वेन उद्घोषितम् । उद्याने बहूनि सुघनानि वनानि सन्ति । उद्यानं परितः मिश्मी-पर्वतशृङ्खला, पाटकी-पर्वतशृङ्खला च अस्ति । नमदाफा-स्थलं मियाओ-नगरस्य समीपे एव अस्ति । इदं राष्ट्रियोद्यानं भारतस्य १५१ तमं व्याघ्राभयारण्यं वर्तते । इदम् अभयारण्यं १९८५ चतुरस्रकिलोमीटर् मितं विस्तृतम् अस्ति । उद्याने नमदाफा-नदी वहति । अतः एव अस्य उद्यानस्य नाम नमदाफा-राष्ट्रियोद्यानम् अस्ति । येभ्यो जनेभ्यः वन्यजीवनं रोचते, तेभ्यः वीक्षणार्थम् इदं स्थलम् उत्तमं वर्तते । अस्मिन् उद्याने विविधाः पशवः, वनस्पतयः च प्राप्यन्ते । औषधयः अपि विविधप्रकारकाणि प्राप्यन्ते । उद्याने अपि काश्चन जनजातयः प्राप्यन्ते । यथा – चकमा, तङ्ग्सा, सिङ्ग्फो च ।
बोमडिला
बोमडिला-स्थलम् अरुणाचलप्रदेश-राज्यस्य कामेङ्ग-मण्डले स्थितम् एकं रमणीयं स्थलं वर्तते । इदं कामेङ्ग-मण्डलस्य मुख्यालयः अस्ति । समुद्रतलात् इदं स्थलं ८००० पादपरिमिते औन्नत्ये अस्ति । हिमालस्य पूर्वभागस्य पर्वतशृङ्खलासु बोमडिला-स्थलं विद्यमानम् अस्ति । प्राकृतिकसौन्दर्याय, बौद्धमठेभ्यः इदं स्थलं प्रसिद्धम् अस्ति । पुरा मध्यकालीनयुगे बोमडिला तिब्बत-देशस्य राज्यम् आसीत् । कथ्यते यत् – भूटान-देशस्य शासकाः अपि अस्मिन् राज्ये शासनं कृतवन्तः । इदं स्थलं महत्वपूर्णं वीक्षणीयस्थलं वर्तते । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् आश्चर्यमयम् अस्ति । अस्मिन् नगरे केचन बौद्धमठाः अपि सन्ति । बहवः यात्रिणः दर्शनार्थं तत्र गच्छन्ति । बोमडिला-नगरे दर्शनार्थिनः तिब्बत-देशीयानि मोमोस, थूपा इत्यादीनि व्यञ्जनानि खादन्ति । इदं स्थलं पारम्परिकहस्तशिल्पकलायाः कृते प्रसिद्धम् अस्ति । अतः जनाः स्मृतिचिह्नानि अपि क्रीणन्ति । बोमडिला-नगरे “सेसा आर्किड् अभयारण्यम्”, “ईगलनेस्ट् वन्यजीवाभयारण्यं”, “कामेङ्ग् गजाभयारण्यं” च अस्ति । बोमडिला-नगरं तेजपुर-नगरात् ८० किलोमीटरपरिमिते, तवाङ्ग-नगरात् १६० किलोमीटरपरिमिते च दूरे स्थितम् अस्ति । अतः तेजपुर-नगरात्, तवाङ्ग-नगरात् च बस-यानेन बोमडिला-नगरं प्राप्तुं शक्यते ।
पेके टाईगर् रिजर्व्
इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य पूर्वीकामेङ्गमण्डले स्थितम् अस्ति । इदम् अभयारण्यं ८६२ चतुरस्रकिलोमीटर मितं विस्तृतम् अस्ति । पुरा इदं खेलाङ्गवनविभागस्य क्षेत्रम् आसीत् । ई. स. १९७७ तमे वर्षे खेल-अभयारण्यत्वेन उद्घोषितम् आसीत् । तदनन्तरम् ई. स. २००२ तमे वर्षे टाईगर् रिजर्व् इति नाम्ना उद्घोषितम् । अस्मिन् अभयारण्ये बहवः वन्यपशवः निवसन्ति । अस्य अभयारण्यस्य वायुः प्रदुषणमुक्तः अस्ति । तथापि अक्टूबर-मासतः मार्च-मासपर्यन्तं यात्रायै वातावरणम् अनुकूलं भवति ।
अलोङ्ग
अलोङ्ग इति एकः लघुग्रामः वर्तते । अयं ग्रामः अरुणाचलप्रदेशस्य पश्चिमसियाङ्ग-मण्डले स्थितः अस्ति । अयम् अतीव सुन्दरः ग्रामः विद्यते । योमगो, सीपू इत्यनयोः नद्योः तटे स्थितः अयं ग्रामः । समुद्रतलात् अयं ग्रामः ३०० मीटर मितम् औन्नत्ये वर्तते । तत्र पर्वतशृङ्खला विद्यते । अस्मिन् ग्रामे बह्व्यः जनजातयः सन्ति । तासां जनजातीनां जनाः विभिन्नान् उद्योगान् कुर्वन्ति । तत्र काफीपेयम् अत्यधिकं लोकप्रियं वर्तते । अलोङ्ग-ग्रामस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । यथा – पातुम ब्रिज्, हैङ्गिग् ब्रिज्, मेचुका की घाटी, आकाशीगङ्गा-मन्दिरं, डोनियो-मन्दिरं, मिथुन और जर्सी क्रॉस् ब्रीडिङ्ग् फर्म्, पुवकघाट, मालिनीथान, रामकृष्णाश्रमः, कमकी हाइड्रोपावर् डैम् चेत्यादयः । अलोङ्ग-ग्रामस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । शीतर्तौ अस्य ग्रामस्य वातावरणम् अपि आकर्षकं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति ।
पासीघाट
पासीघाट-नगरं पूर्वसियाङ्ग-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् अरुणाचलप्रदेशस्य प्राचीनतमं नगरं विद्यते । ई. स. १९११ तमे वर्षे इदं नगरम् आङ्ग्लैः स्थापितम् आसीत् । इदं नगरम् अरुणाचलप्रदेशस्य प्रवेशद्वारं विद्यते । नगरमिदं सियाङ्ग-नद्याः तटे स्थितम् अस्ति । समुद्रतलात् १५२ मी. उन्नतम् अस्ति इदं नगरम् । पासीघाट-नगरस्य जनानां मुख्यव्यवसायः कृषिः अस्ति । तत्र विशेषतः चायस्य कृषिः क्रियते । पासीघाट-नगरे डी एरिङ्ग् अभयारण्यं, केकर् मोइङ्ग्, कोंसिङ्ग्, पनगिन इत्यादीनि वीक्षणीयस्थलानि सन्ति । तत्रत्याः जनाः सोत्साहम् उत्सवम् आचरन्ति । मोपिन, सोलुङ्ग् इत्येतौ प्रमुखोत्सवौ स्तः । मोपिन्-उत्सवः दुष्टात्मानां निवारणार्थम् आचर्यते । सोलुङ्ग्-उत्सवः अगस्त-मासे पञ्चदिवसात्मकः आचर्यते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । तत्र प्रत्येकमपि संवत्सरे सर्वाधिकी वृष्टिः भवति ।
जाइरो
अयं ग्रामः अरुणाचलप्रदेशस्य प्राचीनतमेषु स्थलेषु अन्यतमः वर्तते । अयं ग्रामः पर्वतीयवीक्षणीयस्थलं वर्तते । तत्र व्रीहेः कृषिः क्रियते । जाइरो-ग्रामं परितः खलिद्रुमाः (Palm Tree) सन्ति । अयं ग्रामः समुदतलात् १५०० मीटरमितम् उन्नतः अस्ति । तत्र विविधप्रकारकाः पादपाः, जन्तवश्च सन्ति । अतः ये प्रकृतिप्रेमिणः सन्ति, ते तत्र उत्साहपूर्वकं भ्रमणं कुर्वन्ति । जाइरो-ग्रामे “अपा टनी”-इत्याख्याः आदिवासिनः सन्ति । ते प्रकृतिं देवं मत्वा पूजयन्ति । तत्र कृषिः अपि क्रियते । इतः परम् अपि हस्तकलाकृतीनाम् उद्योगः क्रियते । जाइरो-ग्रामस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – टैली घाटी, जाइरो पुटु, तरीन मछली केन्द्र, कर्दो का शिवलिङ्ग चेत्यादीनि आकर्षणस्य केन्द्राणि सन्ति । “अपा टनी”-आदिवासिभिः बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु म्योको, मुरुङ्ग, द्री च प्रमुखाः उत्सवाः सन्ति । म्योको-उत्सवः मार्च-मासे, मुरुङ्ग-उत्सवः जनवरी-मासे, द्री-उत्सवः जुलाई-मासे च आचर्यते । जाइरो-ग्रामे वातावरणानुसारं जलवायुपरिवर्तनं भवति ।
दिबाङ्ग घाटी
“दिबाङ्ग घाटी” इत्येतत् स्थलम् अरुणाचलप्रदेश-राज्यस्य पर्वतीयक्षेत्रं विद्यते । इदं क्षेत्रं हिमालयपर्वतशृङ्खलायां स्थितम् अस्ति । अस्य क्षेत्रस्य उत्तरदिशः, पूर्वदिशः च क्षेत्रं तिब्बत-देशे अस्ति । अस्याः पर्वतशृङ्खलायाः औन्नत्यं ४,५०० मीटरमितम् अस्ति । अस्मिन् क्षेत्रे दिबाङ्ग-नदी प्रवहति । अतः अस्य क्षेत्रस्य नाम “दिबाङ्ग घाटी” इति अभवत् । दिबाङ्ग-नदी दक्षिणदिशि प्रवहति । अनन्तरं ब्रह्मपुत्रा-नद्यां मिलति । मिशमी, मिजू, इदू, खामती, सिङ्गफो इत्यादयः जनजातयः अस्मिन् क्षेत्रे निवसन्ति । अस्मिन् क्षेत्रे सोपानकृषिः क्रियते । यतः अस्मिन् राज्ये बहूनि पर्वतीयक्षेत्राणि सन्ति । तण्डुलाः, आलूकः, कार्पासः इत्यादयः अरुणाचलप्रदेश-राज्यस्य प्रमुखाणि सस्यानि सन्ति । अस्मिन् क्षेत्रे स्निग्धमृत्तिकायाः, चूर्णपाषाणस्य, ताम्रधातोः उत्खननं क्रियते । अनन्तरम् एतेषां वस्तूनां व्यापारः क्रियते । अस्मिन् क्षेत्रे जनाः भ्रमणार्थं गच्छन्ति । “दिबाङ्ग घाटी” इत्येतत् स्थलं स्वस्य सुन्दरायाः कारणेन जनान् आकर्षति । प्राकृतिकसौन्दयस्य परिपूर्णतायै इदं स्थलं अरुणाचलप्रदेशस्य वीक्षणीयस्थलेषु अन्यतमम् अस्ति ।
परिवहनम्
भूमार्गः
अरुणाचलप्रदेशराज्यं परिवहनदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये द्वौ राष्ट्रियराजमार्गौ स्तः । तयोः ५२ क्रमाङ्कस्य राष्ट्रियराजमार्गः अस्ति । अयं मार्गः ३३६ किलोमीटरमितः दीर्घः अस्ति । अस्य ई. स. १९९८ तमे वर्षे अस्य मार्गस्य निर्माणकार्यं सम्पन्नम् । अयं जोनाई-नगरं दिराक-नगरेण सह सञ्योजयति । अपरः राजमार्गः तेजपुर-नगरं तवाङ्ग-नगरेण सह सञ्योजयति । केन्द्रियसर्वकारस्य साहाय्येन ई. स. २००७ तमे वर्षे अरुणाचलप्रदेशस्य सर्वे ग्रामाः भूमार्गेण सह सम्बद्धाः जाताः । प्रत्येकस्मिन् नगरे बस-स्थानकम् अस्ति । ततः नियमितरूपेण बसयानानि प्रचलन्ति । अरुणाचलप्रदेशास्य प्रत्येकं स्थलम् असम-राज्येन सह सलंग्नम् अस्ति । अरुणाचलप्रदेशस्य प्रमुखनगराणि राष्ट्रियराजमार्गेण सह सम्बद्धानि सन्ति । अरुणाचलप्रदेश-राज्यं भारतस्य सर्वैः राज्यैः सह श्रेष्ठतया सम्बद्धम् अस्ति ।
धूमशकटमार्गः
अरुणाचलप्रदेश-राज्यं धूमशकटमार्गेण अपि भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । यद्यपि अरुणाचलप्रदेश-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः रेलमार्गनिर्माणाय काठिन्यं भवति । तथापि ई. स. २०१५ तमे वर्षे भारतस्य प्रधानमन्त्रिणः नरेन्द्रमहोदयस्य आदेशानुसारं दीर्घमार्गाय धूमशकटयानं प्रचालितम् आसीत् । शनैः शनैः अस्मिन् राज्ये अपि धूमशकटमार्गाः समृद्धाः भविष्यन्ति ।
वायुमार्गः
अरुणाचलप्रदेश-राज्ये षड्विमानस्थानकानि प्रमुखाणि सन्ति । डापोरिजो-नगरे, ईटानगरे, तेजू-नगरे, अलोङ्ग-नगरे, पासीघाट-नगरे, जाइरो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि देहली-महानगरेण, मुम्बई-महानगरेण, बेङ्गळूरु-महानगरे, चेन्नै-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अरुणाचलप्रदेशराज्यं वायुमार्गेण भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।
वीथिका
बाह्यानुबन्धः
Tourism in Arunachal Pradesh (Official)
Arunachal Pradesh Territorial Dispute between India and China , Inventory of Conflict and Environment
reviewNE - all things North East India
STD Codes of Arunachal Pradesh
Languages of Arunachal Pradesh (Roger Blench)
सन्दर्भाः
भारतस्य राज्यानि
अरुणाचलप्रदेशः |
1019 | https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A5%82%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%B0%E0%A4%AE%E0%A5%8D | जम्मूकाश्मीरम् | जम्मूकाश्मीरम् इति सन्दर्भयितुं शक्नोति –
काश्मीरम्: भारतीय उपमहाद्वीपस्य उत्तरतमं भौगोलिकक्षेत्रम्
जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः): भारतेन केन्द्रशासितप्रदेशरूपेण प्रशासितः प्रदेशः
जम्मूकाश्मीरराज्यम्: १९५४ तः २०१९ पर्यन्तं भारतेन राज्यरूपेण प्रशासितः प्रदेशः
जम्मूकाश्मीरम् (राज्यप्रदेशः): १८४६ तः १९४७ पर्यन्तं भारतीय उपमहाद्वीपे ब्रिटिशराजस्य राज्यप्रदेशः
आजादजम्मूकाश्मीरम् अथवा आजादकाश्मीरम्: स्वायत्तप्रशासनिकविभागरूपेण पाकिस्थानेन प्रशासितः प्रदेशः |
1020 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%AE%E0%A4%BF%E0%A4%B3%E0%A4%A8%E0%A4%BE%E0%A4%A1%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | तमिळनाडुराज्यम् | तमिऴनाडॖराज्यम् (तमिऴ्: தமிழ்நாடு) भारतस्य दक्षिणभागे विद्यमानं राज्यम् अस्ति । भारतदेशे सुप्रसिद्धं तमिऴ्नाडॖराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिऴ्नाडॖराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिऴ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिऴ् मुख्यभाषा अस्ति ।
भौगोलिकस्थितिः
तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः । पश्चिमे केरलम् अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव श्रीलङ्काद्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति ।
एतस्य राज्यस्य प्रमुखा नदी कावेरी। सा कर्णाटकस्य कोडगुमण्डलस्य तलकावेरीनामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं १९९६ तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । १९९६ तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः २००० वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।
कालावस्था
तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासाभ्यान्तरम् अत्र वर्षाकालः भवति । जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति ।
पूर्वचरितम्
तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् अरियलूर् मण्डले आविष्कृतवन्तः सन्ति ।
मध्यकालः(६००-१३००)
सङ्घकाले चोळानाम् आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । पाण्ड्यानां ,पल्लवानां च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये पाण्ड्या: पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । चेराः सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । ईजिप्तदेशः , ग्रीस , श्रीलङ्का , फ्रोनीसिया , अरेबिया , मेसफोटोमिया , पर्शिया इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् ।
कलभराणाम् आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । कलभराः सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं , सरलजीवनं , त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां , बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । पल्लवा: दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ महाबलिपुरे नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् मधुरै । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।
चोळसाम्राज्यम्
नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: आन्ध्रप्रदेशस्य कांश्चन भागान् , कर्णाटकस्य भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । राजराजचोळः दक्षिणभारतद्वीपगर्भं , श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । बर्मा(अधुना मियान्मर्) तः वियट्नां ,दक्षिणपूर्व-एशियायाम् अण्डमान् निकोबार् द्वीपाः , लक्षद्वीप: , सुमात्रा,माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण गङ्गैकोण्डचोळपुरम् नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् बृहदीश्वरमन्दिरम् । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । तिरुवण्णामलै नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।
विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६)
यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा ताळीकोटेयुद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।
नवाबानां,निजामानां कालः(१६९२-१८०१)
१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: हैदराले: तस्य पुत्रस्य टिप्पुसुल्तानस्य च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।
युरोपीयाणां शासनम्(१८०१-१९४७)
१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।
स्वतन्त्रभारते तमिळ्नाडु
१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः आन्ध्रप्रदेशः , ओरिस्सायाः गञ्जां मण्डलम् कर्णाटके दक्षिणकन्नडमण्डलपर्यन्तं, केरळस्य केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।
शासनं , निर्वहणञ्च
गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , जे.जयललिता , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । चेन्नै (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते । भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च ।
स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।
राजनीति क्षेत्रम्
स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।
१९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । १९६० तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: १९६७ तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् ।
अण्णातुरै महोदयस्य मरणानन्तरम् १९६९ तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। १९७२ तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः १९७७ तः१९८७ पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन १९८९ तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।
मण्डलानि -३०
चेन्नै
काञ्चिपुरमण्डलम्
तिरुवळ्ळूरुमण्डलम्
वेलूरमण्डलम्
तिरुवण्णामलैमण्डलम्
कडलूरुमण्डलम्
विऴुप्पुरमण्डलम्
सेलं मण्डलम्
नामक्कलमण्डलम्
धर्मपुरीमण्डलम्
पुदुक्कोट्टैमण्डलम्
ईरोडमण्डलम्
नीलगिरीमण्डलम्
कोयम्बत्तूरुमण्डलम्
तिरुचिरापळ्ळिमण्डलम्
फखर
पेरम्बलूरुमण्डलम्
अरियलूर् मण्डलम्
तिरुवारूरुमण्डलम्
मधुरैमण्डलम्
तेनिमण्डलम्
दिन्डुगलमण्डलम्
रामनाथपुरमण्डलम्
शिवगङ्गामण्डलम्
विरुदुनगरमण्डलम्
तिरुनेल्वेलीमण्डलम्
तूतुकुडिमण्डलम्
कन्याकुमारी
येङ्गलपेटे
तञ्जावूरुमण्डलम्
इतिहासः
तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् ।
तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति।
नद्यः
ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै
सम्बन्धितविषया:
अस्य राज्यस्य भाषा - तमिऴ्
भरणकेन्द्रम् -- चेन्नै
बाह्यानुबन्धाः
Tamil Nadu Government - Official home page
Tamil Nadu Maps - Government website for maps
Tamil Nadu Tourism - Government tourism site
TIDCO - Economic Window by the Tamil Nadu Italic textGovernment
- UN report on Human Development in Tamil Nadu
Tamil Nadu Home Page - Site with some details about Tamil Nadu
भारतस्य राज्यानि
तमिळ्नाडुराज्यम् |
1021 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | त्रिपुराराज्यम् | त्रिपुराराज्यम् (Tripura) भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।
इतिहासः
ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान् । अतः त्रिपुराराज्यमिति नाम जातम् ।
अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति ।
कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति ।
उल्लेखः
त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. १९४९ तमे संवत्सरे गणराज्यम् अभवत्। सा.श. १९७१ तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।
प्रेक्षणीयस्थानानि
वेस्ट - साउथ त्रिपुरा विभागः
अगरतला
कमलसागर
सेफाजाला
नीलमहल
उदयपुर
पिलक
महामुनि
वेस्टन - नॉर्थ त्रिपुरा विभागः
उनोकोटि
जामपुई हिल
मण्डलानि
धलाइमण्डलम्
खोवइमण्डलम्
गोमतीमण्डलम्
पश्चिमत्रिपुरामण्डलम्
उत्तरत्रिपुरामण्डलम्
दक्षिणत्रिपुरामण्डलम्
सिपाहीजाला
उनाकोटी
त्रिपुरसुन्दर्याः मन्दिरम्
त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरम् अस्ति । पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति । भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।
वीथिका
बाह्यसम्पर्कतन्तुः
कार्यालयीय जालस्थानम्
भारतस्य राज्यानि
त्रिपुराराज्यम्
स्टब्स् भारतसम्बद्धाः
सर्वे अपूर्णलेखाः |
1023 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%B0%E0%A4%BE%20%E0%A4%A8%E0%A4%97%E0%A4%B0%E0%A4%B9%E0%A4%B5%E0%A5%87%E0%A4%B2%E0%A5%80%20%E0%A4%9A | दादरा नगरहवेली च | दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति।
क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति ।
हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति ।
वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति ।
धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।
सिलवासा
भारतस्य केन्द्रशासितप्रदेशाः
स्टब्स् भारतसम्बद्धाः
सर्वे अपूर्णलेखाः |
1024 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A4%BE%E0%A4%B2%E0%A5%88%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | नागालैण्डराज्यम् | नागाल्याण्डराज्यं (Nagaland) भारतस्य ईशान्यदिशि विद्यमानं राज्यम् । अस्य राज्यस्य पश्चिमसीमायाम् असमराज्यम्, अरुणाचलप्रदेशराज्यम्, उत्तरदिशि असमभागः, पूर्वदिशि बर्मा, दक्षिणदिशि मणिपुरराज्यञ्च विद्यते । राज्यस्य राजधानी कोहिमा, बृहत्तमं नगरं दीमापुरम् । अस्य विस्तारः १६,५७९ च कि मी। २०११ तमे वर्षे जातायाः जनगणनायाः अनुसारम् अत्रत्या जनसङ्ख्या अस्ति १९, ८०, ६०१ । सीमायां विद्यमानम् असम-उपत्यकाप्रदेशं विहाय आराज्यं पर्वतप्रदेशैः युक्तमस्ति । इदं राज्यं समभाजकवृत्तस्य पूर्वदिशि ९८० ९६० रेखांशे उत्तरदिशि २६.६० - २७.४० अक्षांशे विद्यते । भारतस्य १६ तमं राज्यं नागाल्याण्ड् १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के प्रतिष्ठापितं जातम् । इदं ११ मण्डलैः युक्तम् - कोहिमा, फेक्, मोकोक्चङ्ग्, वोख, झन्हेबोटो, त्यून्साङ्ग्, मान्, दीमापुर्, किफिर्, लाङ्ग्लेङ्ग्, पेरेन् च । कृषिकार्यम् अत्रत्यं प्रमुखम् आर्थिकमूलम् । व्रीहिः, धान्यकं, तमाखुः, तैलबीजानि, इक्षुदण्डः, आलूकम् इत्यादयः अत्रत्याः फलोदयाः । सस्यविज्ञानम्, गृहोद्यमः, योगक्षेमयोजना, स्थावरसम्पदा, प्रवासोद्यमः च अन्यानि आर्थिकमूलानि ।
भौगोलिकम्
नागाल्याण्ड्राज्यं पर्वतीयराज्यम् । असमप्रदेशे ब्रह्मपुत्रस्य उपत्यकायां नागापर्वताः २००० पादमिताः उन्नताः । आग्नेयदिशी ६००० पादमिताः उन्नताः । १२,५५२ पादमितोन्नतः सारामतिपर्वतः राज्यस्य उन्नततमं स्थानम् । अत्रैव नागापर्वताः बर्मायाः पट्कै-आवल्या सह संयोजिताः भवन्ति । दोयाङ्ग्-दिफूनद्यौ उत्तरे, बारक्नदी नैरुत्ये, बर्मायाः चिन्द्विन्नदी आग्नेये च राज्यं विभजन्ति । राज्यस्य भूप्रदेशे २०% भागः विविधैः सस्यैः प्राणिभिः सह युक्तं घनारण्यं वर्तते । नागाल्याण्ड्राज्यं मान्सून्वातावरणेन युक्तम् आर्द्रताधिक्ययुक्तञ्च । वार्षिकवृष्टिः ७०-१०० इञ्च्मिता भवति आधिक्येन मेतः सेप्टेम्बर्मासं यावत् । तापः २१० से - ४०० सेण्टिग्रेड्मितः । शैत्यकाले तापः ४० से अपेक्षया न्यूनः तु न भवति । ग्रीष्मकाले तापः १६०-३१० सेण्टिग्रेड्मितः भवति । राज्यस्य केषुचित् भागेषु शैत्यस्य शीघ्रागमनं महत् शैत्यं शुष्कवातावरणञ्च अनुभूयते । फेब्रवरि-मार्चमासयोः महान् वातः दृश्यते ।
नद्यः
नागालैण्ड-राज्यं पर्वतीयप्रदेशः अस्ति । अतः नद्यः अपि बहव्यः सन्ति । धानसिरि-नदी, झाँझी-नदी, दीसाई-नदी, लैनिपर-नदी, दोयाङ्ग-नदी, दीखो-नदी इत्यादयः नागालैण्ड-राज्यस्य प्रमुखाः नद्यः सन्ति । नागालैण्ड-राज्यस्य प्रमुखाः नद्यः शिवसागर-पर्यन्तं गच्छन्ति । मिलक-नदी, जुङ्गकी-नदी च अस्य राज्यस्य अन्ये नद्यौ स्तः । “लेचाम” इत्ययम् नागालैण्ड-राज्यस्य प्रमुखः तडागः अस्ति । राज्येऽस्मिन् बहवः जलप्रपाताः, तडागाः अपि सन्ति । राज्यमिदं पर्वतीयक्षेत्रम् अस्ति अतः जलप्रपाताः अधिकमात्रायां सन्ति । ।
इतिहासः
नागावनवासिनां सम्प्रदायाः आर्थिककार्याणि एव अस्य पूर्वतनः इतिहासः । मूलतः बर्मीस्-भाषया एते जनाः आदौ नाकाः इति निर्दिश्यन्ते स्म । अस्य अर्थः विद्धकर्णाः जनाः इति । 'नाग'इति शब्दः ब्रिटिश्जनैः दत्तमिति श्रूयते अर्थः अस्ति 'नग्नः' इति । ब्रिटिश्जनाः मणिपुरस्य वनवासिनः स्थूलतया द्विधा विभक्तवन्तः 'नागाः' 'कुकीजनाः' इति । नागावनवासिनः असमप्रदेशस्य बर्माप्रदेशस्य वनवासिभिः सह सामाजिक-आर्थिक-राजनैतिकसम्पर्कं रक्षितवन्तः आसन् । अद्यत्वे अपि अधिकांशाः नागाः असमप्रदेशे निवसन्ति । १८१६ तमस्य उपप्लवस्य अनन्तरं असमप्रदेशेन सह इदं स्थलं बर्मायाः आधीन्ये अन्तर्भूतम् । १८२६ तमे वर्षे ब्रिटिश्-ईस्ट्-इण्डिया-संस्थया असमप्रदेशः आक्रान्तः । तदा ब्रिटनेन आधुनिक-नागापर्वताः आक्रान्ताः । १८९२ समये यून्सेङ्ग्प्रदेशं विहाय अवशिष्टाः नागापर्वतप्रदेशाः ब्रिटिशसर्वकारस्य अधीनाः आसन् । ते असमप्रदेशेन योजिताः आसन् । क्रिश्चियन्-मतप्रचारकाणां व्यापकप्रयत्नेन नागालेण्डस्य नागावनवासिनः क्रिश्चियन्मतस्थाः जाताः । ततः पूर्वतनः इतिहासः न ज्ञायते ।
राज्यत्वप्राप्तेः मार्गः
प्रथमजागतिकयुद्धावसरे ब्रिटीश्जनाः नागाजनान् रहस्यकार्याय नियोजितवन्तः फ्रान्स्देशे । ततः तैः चिन्तितं यत् स्वस्य अस्तित्वस्य रक्षणाय अस्माभिः एकता रक्षणीया इति । १९१८ तमे वर्षे मातृभूमिं प्रति प्रत्यागमनानन्तरं ते सङ्घटिताः जाताः । आन्दोलनम् आरब्धवन्तः च। वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं सः प्रदेशः असमराज्ये अन्तर्भूतः जातः। नागाजनेषु केचन क्रान्तिकारिणः उत्पन्नाः। फिझोनायकत्वयुक्तः नागाराष्ट्रियायोगः मूलजनाः पूर्वजाः च राजनैतिकदृष्ट्या युक्ताः स्युः इति आग्रहम् अकरोत् । सर्वकारः विध्वस्तः, विप्लवः उत्पन्नः । १९५५ तमे वर्षे भारतीयसैन्यम् अत्र प्रेषितं शान्तिस्थापनाय। १९५७ तमे वर्षे सर्वकारेण सन्धानकार्यम् आरब्धम् । असमराज्ये स्थिताः नागापर्वतप्रदेशाः त्यून्सङ्ग्प्रदेशश्च संयोजितः । इदं केन्द्रसर्वकारेण एव शास्यते स्म । इदं नागाजनैः न इष्टम् इत्यतः शीघ्रमेव विरोधः अहिंसा च आरब्धा । १९६० तमे वर्षे भारतस्य प्रधानमन्त्रिणा नागागणस्य नायकैः च गभीरचर्चा कृता। ततः १६ बिन्दु-अङ्गीकारेण सह नागाग्याण्डराज्यस्य उगमः जातः। १९६१ तमे वर्षे विविधसम्प्रदाययुक्तैः वनवासिगणैः ४५ नागाः चिताः ये च अन्तर्गणे योजिताः जाताः । ततः तस्य राज्यत्वं प्राप्तम् । १९६३ तमस्य वर्षस्य नवेम्बर् ३० तमे दिनाङ्के अन्तर्गणस्य विलयनं जातं, विध्युक्तरीत्या राज्यत्वस्य घोषणं जातम् । १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के कोहिमा राजधानीत्वेन परिगणिता । १९६४ तमे वर्षे जातस्य निर्वाचनस्य अनन्तरं फेब्रवरी ११ दिनाङ्के प्रथमा विधानसभा संरचिता जाता ।
जनसङ्ख्या
नागाल्याण्ड्राज्यस्य जनसङ्ख्या २० लक्षात्मिका । तेषु अधिकांशाः कृषकाः । ७५% जनाः ग्रामेषु निवसन्ति । एतेषु ग्रामनिवासेषु ३५% जनाः दारिद्र्यरेखातः अधः निर्दिष्टाः । नगरनिवासिषु पञ्चमांशाः परमदरिद्राः ।
मण्डलानि -मण्डलकार्यालयाश्च
दीमापुरमण्डलम् - दीमापुरम्-चुम्केडिमा
किफिरेमण्डलम् - किफिरे
कोहिमामण्डलम् - ग्रेटर् कोहिमा
लाङ्ग्लेङ्ग्मण्डलम् - लाङ्ग्लेङ्ग्
मोकोचुङ्ग्मण्डलम् - मोकोचुङ्ग्
मान्मण्डलम् - मान्
पेरेन्मण्डलम् - पेरेन्
फेक्मण्डलम् - फेक्
त्युयेन्साङ्मण्डलम् - त्युयेन्साङ्ग्
वोखामण्डलम् - वोखा
झुन्हेबोटोमण्डलम् - झुन्हेबोटो
महानगराणि
कोहिमा
कोहिमा-नगरं नागालैण्ड-राज्यस्य कोहिमा-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं पूर्वोत्तर-भारतस्य सुन्दरस्थलेषु अन्यतमम् अस्ति । अतः जनाः आकृष्टाः भवन्ति । अस्मिन् मण्डले “केवही” नामकं पुष्पम् उत्पद्यते । अतः पुरा अस्य नाम केवहीमा, केवहीरा वा आसीत् । किन्तु आङ्ग्लजनाः इमं शब्दं वक्तुं न शक्नुवन्ति । अतः काठिन्ये सति ते “कोहिमा” इति उच्चारणं कुर्वन्ति स्म । तावदेव अस्य नाम कोहिमा इति अभवत् । “केवही-पुष्पं” समीपस्थेषु पर्वतप्रदेशेषु प्राप्यन्ते । पुरा अस्मिन् मण्डले अङ्गामी-जनजातिः निवसति स्म । किन्तु साम्प्रतं तु विभिन्नजनजातयः निवसन्ति । ई. स. १८४० तमे वर्षे ब्रिटिश्-जनाः तत्र गतवन्तः । नागा-जनैः ब्रिटिश्-जनानां विरोधः कृतः आसीत् । चत्वारिंशद्वर्षाणि यावत् नागा-जनैः तेषां विरोधः कृतः । अनन्तरं ब्रिटिश्-जनैः अस्मिन् मण्डले स्वस्याधिपत्यं स्थापितम् आसीत् । ततः परं कोहिमा-क्षेत्रं मुख्यालयत्वेन उद्घोषितम् । ई. स. १९६३ तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के (१ दिसम्बर १९६३) कोहिमा-नगरं नागालैण्ड-राज्यस्य राजधानीत्वेन उद्घोषितम् ।
अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भुतम् अस्ति । अस्य नगरस्य प्राकृतिकदृश्यानि मनोहराणि भवन्ति । उच्चशिखराणि, पर्वताः, मेघाः, वनानि, नद्यः च अस्य नगरस्य प्राकृतिकदृश्यानि सन्ति । कोहिमा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-प्राणीसङ्ग्रहालयः, राज्य-सङ्ग्रहालयः, चुफु-शिखरं च इत्यादीनि अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । दझुलेकि-जलप्रपातः अपि कोहिमा-नगरस्य समीपस्थं स्थलम् अस्ति । कोहिमा-नगरे एकम् ईसाई-उपासनागृहम् (चर्च्) अस्ति । इदं भारतस्य ईसाई-उपासनागृहेषु बृहत्तमं, सुन्दरं च अस्ति । अस्य नगरस्य जनाः पर्यटकानां हृदयपूर्वकं स्वागतं कुर्वन्ति । अस्य नगरस्य नागा-जनेभ्यः भोजने मांसं, मत्स्यः च रोचते । नागालैण्ड-राज्यं सम्पूर्णे भारते संस्कृतयै प्रसिद्धम् अस्ति । अस्य नगरस्य नागा-जनानां संस्कृतिः अपि भिन्ना भवति । मृतजानां केशैः, विहगानां पक्षैः, गजदन्तैः च तेषां वस्त्राणि निर्मितानि भवन्ति । अस्य स्थलस्य पर्यटनाय सर्वकारस्य अनुमतिः आवश्यकी भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः सन्ति । तेभ्यः कार्यालयेभ्यः अनुमतिं प्राप्य जनाः अस्य मण्डलस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति ।
कोहिमा-नगरं ३९ क्रमाङ्कस्य, ३७ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । एताभ्यां राजमार्गाभ्याम् इदं नगरं नागालैण्ड-राज्यस्य, असम-राज्यस्य च विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति । कोहिमा-नगरात् गुवाहाटी-नगरं ३४५ किलोमीटरमिते दूरे स्थितम् अस्ति । कोहिमा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं कोहिमा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-नगरं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कोहिमा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं कोहिमा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-विमानस्थानकं ६८ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा कोहिमा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया कोहिमा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।
दीमापुरम्
दीमापुर-नगरं नागालैण्ड-राज्यस्य दीमापुर-मण्डलस्य केन्द्रं विद्यते । नगरमिदम् उत्तर-पूर्वदिशः विकासशीलनगरेषु अन्यतमम् अस्ति । पुरा इदं नगरं दीमासास-साम्राज्यस्य राजधानी आसीत् । इदं नगरं नागालैण्ड-राज्यस्य प्रवेशद्वारम् अस्ति । साम्प्रतम् इदं नागालैण्ड-राज्यस्य राजधानी नास्ति । तथापि अत्र सर्वसौकर्याणि प्राप्यन्ते । दिमासा-शब्दात् दीमापुर-शब्दस्य उत्पत्तिर्जाता । दी अर्थात् जलं, मा अर्थात् विशालं च इत्यर्थः बोध्यते । बृहद्नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुरा धनसिरि-नदी अत्र प्रवहति स्म । दीमापुर-नगरस्य इतिहासः अपि पुरातनम् अस्ति । दीमापुरस्य समीपे पुरावशेषाः प्राप्ताः । तैः अवशेषैः ज्ञायते यत् – “दिमासाम्राज्यं समीपस्थेषु क्षेत्रेषु स्थितम् आसीत् । नगरेऽस्मिन् मन्दिराणि, तटानि, तटबन्धाः इत्यादयः प्राप्यन्ते । दिमामास-जनाः अनार्याः आसन् । पुरा प्राचीनादिवासिनः शासनं कुर्वन्ति स्म । आधुनिकेतिहासे अपि दीमापुर-नगरस्य महद्योगदानम् अस्ति । द्वितीयविश्वयुद्धस्य समये इदं नगरं प्रशासनिकं केन्द्रम् आसीत् ।
दीमापुर-मण्डलं नागालैण्ड-राज्यस्य पश्चिमभागे स्थितम् अस्ति । अस्य मण्डलस्य दक्षिण-पूर्वदिशि कोहिमा-मण्डलं, पश्चिमदिशि असम-राज्यस्य कार्बी-आङ्गलोङ्ग-मण्डलम्, उत्तरदिशि असम-राज्यस्य गोलाघाट-मण्डलं च स्थितम् अस्ति । नागालैण्ड-राज्ये केवलं दीमापुर-नगरे एव रेलपरिवहनं, वायुपरिवहनं च अस्ति । “नागा” नामकानि हस्तनिर्मितानि वस्तूनि अस्मिन् राज्ये प्रसिद्धानि सन्ति । विश्वस्य बहवः जनाः इदं वस्तु धरन्ति । साम्प्रतम् अपि दीमापुर-नगरं हस्तनिर्मितेभ्यः वस्तुभ्यः भारते प्रसिद्धम् अस्ति । नगरेऽस्मिन् एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये नागालैण्ड-राज्यस्य कलाकृतीनां सङ्ग्रहः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । अतः अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “दीज्फे-हस्तशिल्पग्रामः” हस्तनिर्मितवस्तूभ्यः नागालैण्ड-राज्ये प्रसिद्धम् अस्ति । “नागालैण्ड हैण्डलूम एण्ड् हैण्डीक्राफ्ट् डेवलपमेण्ट् कॉर्पोरेशन्” इत्यनया संस्थया अयं ग्रामः सञ्चालितः अस्ति । “राज्यस्य हस्तकलानां विकासः भवेत्” इति अस्य ग्रामस्य लक्ष्यम् अस्ति । हस्तकलायाः विविधाः प्रकाराः अस्मिन् ग्रामे दृश्यन्ते । “रङ्गापहाड रिजर्व् फॉरेस्ट्”, “चुमुकेदिमा”, “रुजाफेमा”, “ट्रिपल फॉल्स्” च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः भ्रमणार्थं तत्र गच्छन्ति ।
दीमापुर-नगरं ३९ क्रमाङ्कस्य, ३६ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गः कोहिमा-नगरं, इम्फाल-नगरं, दीमापुर-नगरं च भारतस्य अन्यैः राज्यैः सह सञ्योजयति । नगरेऽस्मिन् नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । भूमार्गेण दीमापुर-नगरं सरलतया प्राप्यते । दीमापुर-नगरे नागालैण्ड-राज्यस्य एकाकि रेलस्थानकम् अस्ति । दीमापुर-रेलस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय इत्यादिभिः भारतस्य विभिन्ननगरैः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । दीमापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । नागालैण्ड-राज्यस्य एकाकी एव विमानस्थानकम् अस्ति । दीमापुर-विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । भारतस्य प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । अनेन प्रकारेन दीमापुर-नगरं भूमार्गेण, धूमशकटामार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।
त्वेनसाङ्ग
त्वेनसाङ्ग-नगरं नागालैण्ड-राज्यस्य त्वेनसाङ्ग-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । ई. स. १९४७ तमे वर्षे “नॉर्थ् ईस्ट् फ्रण्टियर् एजेन्सी (NEFA)” इत्यनया संस्थया त्वेनसाङ्ग-नगरं स्थापितम् आसीत् । त्वेनसाङ्ग-मण्डलस्य पूर्वसीमा म्यान्मार-देशेन सह सम्बद्धा अस्ति । नगरमिदं नेफा (NEFA) इत्यस्याः संस्थायाः प्रशासनिकः मुख्यालयः आसीत् । ई. स. १९५७ तमे वर्षे त्वेनसाङ्ग-नगरं म्यान्मार-देशस्य, भारतस्य च भागः नासीत् । किन्तु यदा असम-राज्यम् अविभाजितम् आसीत्, तदा कोहिमा-मण्डले, मोकोकचुङ्ग-मण्डले त्वेनसाङ्ग-मण्डलस्य विलयः जातः । तस्मिन् समये इदं मण्डलम् औपचारिकत्वेन भारतीयक्षेत्रस्य भागः अभवत् । तस्मिन् काले त्वेनसाङ्ग-नगरं “नागाहिल्स्”-क्षेत्रस्य प्रशासनिकः मुख्यालयः आसीत् । अनन्तरम् ई. स. १९६३ तमे वर्षे त्वेनसाङ्ग-मण्डलं, कोहिमा-मण्डलं, मोकोकचुङ्ग-मण्डलम् एतैः त्रिभिः मण्डलैः नागालैण्ड-राज्यं सङ्घटितम् आसीत् ।
त्वेनसाङ्ग-नगरं समुद्रतलात् १३७१ मीटरमितम् उन्नतम् अस्ति । त्वेनसाङ्ग-नगरं “मिनी नागालैण्ड” अपि कथ्यते । यतः अस्मिन् नगरे बह्व्यः जनजातयः निवसन्ति । अतः सांस्कृतिकदृष्ट्या इदं नगरं समृद्धम् अस्ति । “चङ्ग्स”, “सङ्गताम”, “यिम्चुङ्गर”, “खिअम्निउन्गन” इत्यादयः अस्य नगरस्य प्रमुखाः जनजातयः सन्ति । इदं नगरं हस्तनिर्मितवस्तुभ्यः प्रसिद्धम् अस्ति । लोङ्ग्त्रोक, किफिर, पुन्ग्रो च इत्यादयः अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।
त्वेनसाङ्ग-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः त्वेनसाङ्ग-नगरं दीमापुर-नगरेण सह सञ्योजयति । नगरेऽस्मिन् सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । अतः जनाः त्वेनसाङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि बसयानैः भ्रमन्ति । अमगुरी-रेलस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । त्वेनसाङ्ग-नगरात् अमगुरी-नगरं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । अमगुरी-रेलस्थानकात् बसयानैः, भाटकयानैः वा त्वेनसाङ्ग-नगरं प्राप्यते । मरियानी-रेलस्थानकम् अपि समीपे एव वर्तते । दीमापुर-नगरस्य विमानस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जोरहाट-नगरस्य विमानस्थानकम् अपि समीपे एव स्थितम् अस्ति । जोरहाट-विमानस्थानकं त्वेनसाङ्ग-नगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोलकाता-नगराय, गुवाहाटी-नगराय, देहली-नगराय च अस्मात् विमानस्थाकात् वायुयानानि प्राप्यन्ते । अतः जनाः सरलतया त्वेनसाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।
शिक्षणम्
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं नागालैण्ड-राज्यस्य साक्षरतामानं ७९.९९ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८३.२९ प्रतिशतं, स्त्रीणां च ७६.६९ प्रतिशतम् अस्ति । ई. स. १९७८ तमे वर्षे नागालैण्ड-राज्यस्य कोहिमा-नगरे एकस्य विश्वविद्यालयस्य स्थापना कृता । ई. स. १९९४ तमे वर्षे नागालैण्ड-विश्वविद्यालयः अपि स्थापितः ।
भाषाः
नागान्याण्ड्राज्यस्य एकैकस्य वनवासिगणस्य अपि विशिष्टा भाषा विद्यते । सिनो-टिबेटन्कुटुम्बे अन्तर्भूताः ६० विविधाः भाषाः अत्र विद्यन्ते । एतासां भाषाणां लिपिः न विद्यते । रोमन्लिप्या एताः लिख्यन्ते । १९६७ तमे वर्षे राज्यसर्वकारेण आङ्ग्लभाषा अधिकृतभाषात्वेन अङ्गीकृता । अत्रत्य शिक्षणमाध्यमम् अस्ति आङ्ग्लभाषा। "नागमीस्भाषा" आधिक्येन उपयुज्यते । प्रतिवनवासिगणः परस्परं मातृभाषया अन्यगणीयैः सह नागामीस्भाषया च भाषन्ते। किन्तु इयं भाषा कस्यापि गणस्य मातृभाषा न, लिपियुक्ता अपि न।
शासनम्
राज्यपालः राष्ट्रपतेः प्रतिनिधिः सन् राज्यस्य नायकः । शासनसम्बद्धैः दायित्वैः सह तस्य अनुष्ठानिकदायित्वानि भवन्ति । विधानसभायां ६० जनाः विद्यन्ते । ते एव कार्यनिर्वाहकाः चिताः सदस्याः । एतेषां प्रमुखः मुख्यमन्त्री । नागाल्याण्ड्राज्याय विशिष्टं स्वातन्त्र्यम् अधिकाराः दत्ताः सन्ति । अत्रत्याः नागावनवासिनः स्वीया न्यायनिर्णयादिव्यवस्थां रक्षितवन्तः । तत्र विभिन्नेषु स्तरेषु स्थानीयाः विवादाः परिह्रीयन्ते ।
राजनीतिः
नागालैण्ड-राज्ये एकसदनात्मकं विधानमण्डलं विद्यते । राज्येऽस्मिन् विधानसभायाः ६० स्थानानि सन्ति । नागालैण्ड-राज्ये लोकसभायाः २ स्थाने, राज्यसभायाः च १ स्थानकम् एव अस्ति । ई. स. १९६९ तमे वर्षे इदम् राज्यं विशेषराज्यत्वेन उद्घोषितम् आसीत् । “नागालैण्ड पीपुल्स् फ्रण्ट्”, “नेशनलिस्ट् डेमोक्रेटिक् मूवमेण्ट्”, “जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी” इत्यादयः नागालैण्ड-राज्यस्य राजनैतिकसमूहाः सन्ति । “पी. शीलु. आओ” इत्याख्यः नागालैण्ड-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् ।
अर्थव्यवस्था, कृषिः, उद्योगश्च
नागालैण्ड-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्यं कुर्वन्ति । अस्मिन् प्रदेशे “झूम-कृषिः” अधिकमात्रायां क्रियते । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यम् अस्ति । अस्य राज्यस्य जलवायुः उष्णः आर्द्रश्च भवति । गोधूमः, लवेटिका च इत्यादयः अपि प्रमुखाणि सस्यानि सन्ति । कदलीफलं, नारङ्गफलं च इत्यादीनि फलानि उत्पाद्यन्ते । अस्य राज्यस्य प्रायः सर्वेषु ग्रामेषु विद्युत्सौकर्यं सम्प्राप्तम् अस्ति । औद्योगिकदृष्ट्या इदं राज्यम् अविकसितम् अस्ति । यद्यपि अस्मिन् प्रदेशे कर्गजोद्योगः विकसितः अस्ति । अस्मिन् राज्ये कौशेयोद्योगः अपि प्रचलति । अस्मिन् राज्ये लघूद्योगेषु हस्तनिर्मितानि वस्तूनि प्रसिद्धानि सन्ति ।
सस्यसम्पत्तिः, प्राणिसम्पत्तिश्च
नागाल्याण्ड्राज्यं सस्यसम्पत्या युक्तं वर्तते । राज्यस्य षष्ठांशः घानारण्येन युक्तः वर्तते यत्र तालवृक्षः, वंशवृक्षः, वेतसवृक्षः, दारुवृक्षः च विद्यन्ते । गजाः, चित्रकाः, विविधजातीयाः वानराः, वृषभाः, महिष्यः च अत्र विद्यन्ते । भारतीयः चातकपक्षी अत्र दृश्यमानेषु प्रसिद्धपक्षिषु अन्यतमः। 'ब्रित्स् ट्रगोपन्' इत्येषः पक्षी राज्यपक्षी वर्तते। अयं पक्षी कोहिमामण्डलस्य जप्तु-झुकु-पर्वतयोः उपत्यकासु, जुन्हेबोटोमण्डलस्य् सटोप्रदेशे, फेक्मण्डले फुसेरोप्रदेशे च दृश्यते ।
संस्कृतिः
नागल्याण्ड्राज्यस्य १६ वनवासिगणाः - अङ्गमि, ओ, छखेसङ्ग्, चाङ्ग्, खियम्नियुङ्गन्, कोन्याक्, लोथा, फोम्, पोचुरि, रेङ्ग्मा, सङ्ग्तम्, सुमि, यिम्चुङ्गर्, कुकि झिलियाङ्ग् च । "वयनम्" अत्रत्यानां साम्प्रदायिकी कला । एकैकस्य वनवासिगणस्य च विशिष्टः विन्यासः वर्णाश्च भवन्ति । तैः राङ्कवः, स्कन्दस्यूतः, उत्पीठिका-आवरणिका, काष्ठकृतिः , वंशिकला , आलङ्कारिकाणि वस्तूनि च निर्मीयन्ते । बहुषु वनवासिगणेषु तैः ध्रियमाणस्य राङ्कवस्य विन्यासः तेषां सामाजिकं स्तरं द्योतयति । जनपदगानं नृत्यञ्च नागासंस्कृतेः प्रमुखः भागः। जनपदकथानां गीतानां च द्वारा मौखिकीपद्धतिः रक्षिता अस्ति । नागाजनपदगीतानि शृङ्गारात्मकानि ऐतिहासिकानि च भवन्ति यत्र पूर्वजानां कथाः जीवनघटनाश्च भवन्ति । युद्धनृत्यानि अन्यानि च नागल्याण्ड्राज्यस्य प्रमुखः कलाप्रकारः । नागाल्याण्ड्वनवासिनः महता आनन्देन उत्साहेन च उत्सवान् आचरन्ति। ६०% जनाः कृषकाः इत्यतः उत्सवाः अपि कृषिसम्बन्धिनः । उत्सवाः पवित्राः अतः अनिवार्यतया एतेषु भागः वोढव्यः इति ते चिन्तयन्ति । एकैकोपि गणः स्वीयान् उत्सवान् श्रद्धया निष्ठया च आचरति इत्यनेन इदम् उत्सवराज्यं मन्यते। अत्र आचर्यमाणाः प्रमुखाः उत्सवाः सन्ति - जनवरिमासे चाकेसाङ्ग्स्जनैः आचर्यमाणः सुखेन्यी, कुकिभिः आचर्यमाणः मिङ्कुत्, कचरिभिः आचर्यमाणः बुषु, अङ्गमिभिः आचर्यमाणः सेकेन्यी, ओलिङ्ग्, मोत्सु, तुलुनि, न्यक्न्य्लुम्, माङ्ग्माङ्ग्, तोखु एमाङ्ग्, येम्शे इत्यादयः।
नागाल्याण्डस्य हार्न् बिल् उत्सवः
अयम् उत्सवः नागाल्याण्ड्सर्वकारेण डिसेम्बर् २००० तमे वर्षे आरब्धः। वनवासिगणानां परस्परस्नेहसम्बन्धः वर्धनीयः, राज्यस्य सांस्कृतिकी परम्परा रक्षणीया च इति धिया । अयम् उत्सवः डिसेम्बर्मासस्य १ तः ७ दिनाङ्केषु भवति । प्रवासोद्यम-कला-संस्कृतिविभागाः च अस्य आयोजनं कुर्वन्ति । तदा सांस्कृतिकप्रदर्शनानि एकस्मिन् छदि उपस्थाप्यन्ते । सप्ताहात्मकः अयम् उत्सवः कोहिमातः १२ कि मी दूरे स्थिते नागासाम्प्रदायिकग्रामे किसमायां प्रचलति । सर्वे वनवासिगणाः अस्मिन् भागं वहन्ति । उत्सवस्य लक्ष्यमस्ति यत् नागाल्याण्ड्राज्यस्य वैभवयुतसंस्कृतेः प्रदर्शनं रक्षणञ्च । हार्न्बिल्नाम्ना उत्सवः नामाङ्कितः यस्मिन् विषये सर्वेषु वनवासिगणेषु जनपदकथाः श्रूयन्ते । साप्ताहिके अस्मिन् उत्सवे सर्वे एकत्र मिलिताः भवन्ति । कला, क्रीडा, आहारः, मेला, गृहवैद्यम्, पुष्पप्रदर्शनम्, गीतम्, नृत्यम् इत्यादिषु सर्वे विनोदम् अनुभवन्ति । साम्प्रदायिकाः कलाः चित्रकला, काष्ठकृतिः इत्यादयः प्रदर्श्यन्ते । विविधाः साहसस्पर्धाः, साहित्यकूटम्, वाहनस्पर्धाश्च आयोज्यन्ते।
धर्मः
नागाल्याण्ड्राज्ये क्रिश्चियन्मतम् आधिक्येन विद्यते । जनसङ्ख्यायां ९०.०२% जनाः क्रैस्ताः एव । क्रिस्तमन्दिरगन्तॄणां सङ्ख्या अपि अत्यधिका विद्यते ग्रामेषु नगरेषु च । कोहिमा, दीमापुर, मोकोचङ्ग्प्रदेशेषु महाक्रिस्तमन्दिराणि विद्यन्ते । भारतस्य त्रिषु क्रैस्तजनसङ्ख्याधिकएषु राज्येषु अन्यतमम् वर्तते इदम्।
वीक्षणीयस्थलानि
नागालैण्ड-राज्यं भारतस्य पूर्वदिशि स्थितम् अस्ति । राज्यमिदम् अत्यन्तं सुन्दरं दृश्यते । अस्य राज्यस्य वातावरणं शान्तं, सुखदं, स्वच्छं, प्राकृतिकं च वर्तते । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-नगरस्य सङ्ग्रहालयः, जपकू, पीक, माता सीमिवयाङ्ग, वॉर सीमेट्री, मध्यकालीनस्य कचारी-राज्यस्य अवशेषाः, दीमापुरं, चुमुकेडीमा इत्यादीनि अस्य राज्यस्य पर्यटनस्थलानि सन्ति । कोहिमा-मण्डलस्य इनटानकी-राष्ट्रियोद्यानम् अपि आकर्षणस्य केन्द्रं विद्यते ।
मोकोकचुङ्ग
मोकोकचुङ्ग-नगरं नागालैण्ड-राज्यस्य मोकोकचुङ्ग-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे एओ-प्रजातिः निवसन्ति । इदं नगरं सांस्कृतिकदृष्ट्या, बौद्धिकदृष्ट्या च राज्ये प्रसिद्धम् अस्ति । इदं नगरं समुद्रतलात् १३२५ मीटरमितम् उन्नतम् अस्ति । नगरस्य समीपे बहवः जलप्रपाताः, पर्वताश्च सन्ति । मोकोकचुङ्ग-नगरस्य जनाः “क्रिसमस्”, नूतनवर्षं, “मोत्सू” इत्यादयः उत्सवाः आचरन्ति । तेषु मोत्सू-उत्सवः एओ-जातेः प्रमुखोत्सवः मन्यते । अस्य उत्सवस्य प्रमुखं केन्द्रं चुचुयिमलाङ्ग-ग्रामः अस्ति । अयं ग्रामः मोकोकचुङ्ग-नगरस्य समीपे एव अस्ति । अयम् उत्सवः मई-मासस्य प्रथमे सप्ताहे आचर्यते । उत्सवेऽस्मिन् एओ-जनाः सम्मिलन्ति । अस्मिन् नगरे ईसाईधर्मस्य प्रामुख्यं वर्तते । अस्मिन् नगरे ९५ प्रतिशतं जनाः ईसाई-धर्मम् आचरन्ति ।
मोकोकचुङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोकोकचुङ्ग-नगरं कोहिमा-नगरेण, वोखा-नगरेण, चाङ्गटोङ्ग्या-नगरेण, तुली-नगरेण च सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अस्मिन् नगरे रेलस्थानकं नास्ति । असम-राज्यस्य मरियानी-रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं समीपस्थराज्यानां प्रमुखनगरैः सह सम्बद्धम् अस्ति । मरियानी-नगरात् मोकोकचुङ्ग-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । दीमापुर-नगरस्य विमानस्थानकं, असम-राज्यस्य जोरहट-नगरस्य विमानस्थानकं च मोकोकचुङ्ग-नगरस्य समीपस्थे विमानस्थानके स्तः । मोकोकचुङ्ग-नगरात् दीमापुर-नगरं २१२ किलोमीटरमिते, जोरहट-नगरं १०५ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते विमानस्थानके गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । भारतस्य प्रमुख-नगरेभ्यः अपि वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोकोकचुङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । जनाः सरलतया मोकोकचुङ्ग-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।
पेरेन
पेरेन-नगरं नागालेण्ड-राज्यस्य पेरेन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं वनेभ्यः प्रसिद्धम् अस्ति । यतः अस्य मण्डलस्य वनानि जनरहितानि सन्ति । आदिवासिनः एतेषां वनानां संरक्षणं कुर्वन्ति । अस्य मण्डलस्य पश्चिमदिशि असम-राज्यं, पूर्वदिशि कोहिमा-मण्डलं, दक्षिणदिशि मणिपुर-राज्यं च स्थितम् अस्ति । स्थलमिदं प्राकृतिकं वर्तते । पेरेन-नगरं पर्वते स्थितम् अस्ति । अतः पेरेन-नगरात् असम-राज्यस्य, मणिपुर-राज्यस्य च दृश्यं दृश्यते । इदं मण्डलं बरेल-पर्वतशृङ्खलायाः कस्मिँश्चिद्भागे स्थितम् अस्ति । अस्मिन् मण्डले विविधाः वनस्पतयः, नद्यः, पर्वताः सन्ति । विहगाः, पशवः च अपि बहवः सन्ति । वनेषु ईक्षुवृक्षाः अधिकमात्रायां प्राप्यन्ते । एतेषु वनेषु विविधाः वृक्षाः दृश्यन्ते । मण्डलेऽस्मिन् खानिजाः अपि प्राप्यन्ते । किन्तु अधिकमात्रायां तेषां खानिजानाम् उत्पादनं न क्रियते । अस्मिन् मण्डले बहूनि पर्यटनस्थलानि सन्ति । “नताङ्गकी-राष्ट्रियोद्यानं”, “माउण्ट् पाओना”, “माउण्ट् कीसा”, “बेनरुइ”, “पुइलवा-ग्रामस्य गुहाः” च इत्यादीनि पेरेन-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।
पेरेन-मण्डले जीलिङ्ग्स-जनजातिः निवसति । अस्याः जनजातेः उद्भवः मणिपुर-राज्यस्य सेनापति-मण्डले नकुइलवाङ्गदी-स्थले अभवत् । इयं जनजातिः “काचा नागा” इति नाम्ना ज्ञायते । ते कृषिं कुर्वन्ति । पेरेन-मण्डलस्य जलवायुः शान्तः, मृत्तिका उर्वरा च अस्ति । अतः इदं मण्डलं नागालैण्ड-राज्यस्य कृषिकार्ये उत्तमं मण्डलम् अस्ति । जीलिङ्ग्स-जनजातेः कलाकृतिः, नृत्यं, सङ्गीतं च भिन्नम् अस्ति । अतः इयं जनजातिः नागालैण्ड-राज्यस्य महत्त्वपूर्णा जनजातिः मन्यते । अस्मिन् राज्ये “मिशनरी-इन्स्टीट्यूट्” इतीयं संस्था स्थिता अस्ति । यदा आङ्ग्लानाम् आगमनम् अभवत् तदैव इयं संस्था अपि आरब्धा । अनया संस्थया अस्य राज्यस्य संस्कृतिः, जीवनशैली च प्रभाविता जाता । अस्मिन् मण्डले बहवः उत्सवाः आचर्यन्ते । “मिमकुट”, “चेगा गादी” “हेवा” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । एते सर्वे सस्योत्सवाः सन्ति । एवं च क्रिसमस्-उत्सवः पेरेन-मण्डलस्य जनानां मुख्योत्सवः अस्ति ।
अस्मिन् मण्डले भ्रमणं कर्तुम् अनुमतिः आवश्यकी भवति । देहली-नगरे, कोलकाता-नगरे, गुवाहाटी-नगरे अस्य अनुमतिं प्राप्तुं कार्यालयाः स्थिताः सन्ति । ततः सरलतया अनुमतिं प्राप्यते । ये वैदेशिकाः पर्यटकाः भवन्ति, तेभ्यः अनुमतेः आवश्यकता न भवति । तथापि तैः “फॉरेन् रजिस्ट्रार कार्यालये” पञ्जीकरणं करणीयम् भवति ।
पेरेन-मण्डले नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । अतः तैः बसयानैः पेरेन-मण्डलस्य भ्रमणं कर्तुं शक्यते । पर्यटकाः भाटकयानैः अपि पर्यटनं कुर्वन्ति । पेरेन-मण्डलस्य भूमार्गः समीपस्थैः मण्डलैः सह सम्बद्धः अस्ति । दीमापुर-नगरस्य रेलस्थानकम् पेरेन-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । दीमापुर-नगरात् पेरेन-नगरं ७७ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-रेलस्थानकात् देहली-महानगराय, कोलकाता-महानगराय, गुवाहाटी-नगराय इत्यादिभिः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । दीमापुर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । दीमापुर-रेलस्थानकात् पेरेन-नगरं बसयानैः, भाटकयानैः वा गन्तुं शक्यते । पेरेन-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं पेरेन-नगरस्य निकटतमम् विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् कोलकाता-नगराय, गुवाहाटी-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पेरेन-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्यते । विदेशस्य, भारतस्य च विभिन्ननगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति ।
किफिर
किफिर-नगरं नागालैण्ड-राज्यस्य किफिर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं नागालैण्ड-राज्यस्य आकर्षकं स्थलम् अस्ति । नगरमिदम् उच्चपर्वते स्थितम् अस्ति । अस्मात् नगरात् नागालैण्ड-राज्यस्य मनोहरं दृश्यं दृश्यते । ई. स. २००४ तमे वर्षे किफिर-मण्डलं सङ्घटितम् । इदं मण्डलं त्वेनसाङ्ग-मण्डलस्य कश्चन भागः अस्ति । इदं नागालैण्ड-राज्यस्य नवमं मण्डलम् अस्ति । अस्य मण्डलस्य उत्तरदिशि त्वेनसाङ्ग-मण्डलं, पूर्वदिशि म्यान्मार-देशः, पश्चिमदिशि फेक-मण्डलं च स्थितम् अस्ति । मण्डलेऽस्मिन् काश्चित् नागा-जनजातयः निवसन्ति । “यिमचुङ्गर्स”, “खियमनिनगन”, “फोम”, “सङमा”, “सुमि” इत्यादयः जनजातयः प्राप्यन्ते । किफिर-नगरस्य समीपे “सारामाटी-पर्वतः” स्थितः अस्ति । अयं पर्वतः समुद्रतलात् ३८४१ किलोमीटरमितः उन्नतः अस्ति । अयं पर्वतः नागालैण्ड-राज्यस्य उच्चतमं शिखरम् विद्यते । अयं पर्वतः सर्वदा हिमाच्छादितः भवति । अतः तेन अयं पर्वतः अत्यधिकः सुन्दरः दृश्यते । मन्यते यत् – “सारामाटी-पर्वतः किफिर-मण्डलस्य रक्षणं करोति” इति । किफिर-मण्डले पर्यटनाय बहूनि स्थलानि सन्ति । “फाकिम-वन्यजीवाभयारण्यं” “सलोमी-मिमी-गुहाः”, “लवर्स् पैराडाइज्” च इत्यादीनि किफिर-मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । किफिर-नगरस्य समीपे सिमी-ग्रामः अस्ति । तस्मिन् ग्रामे ववाडॆ-जलप्रपातः अपि अस्ति । इतः परं सङ्गथम-स्थले प्राचीनजनजातिः निवसति । तत्र “निङ्ग्थसलाङ्ग” इति नामकः शिलालेखः स्थितः अस्ति । अनेन प्रकारेण जनाः भारतस्य विभिन्ननगरेभ्यः भ्रमणार्थं किफिर-मण्डलं गच्छन्ति । एवं च तत्र गत्वा आनन्दं प्राप्नुवन्ति ।
किफिर-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः किफिर-नगरं कोहिमा-नगरेण, मेलुरी-नगरेण, दीमापुर-नगरेण, मोकोचुङ्ग-नगरेण च सह सञ्योजयति । नागालैण्ड-नगरस्य सर्वकारेण नागरिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः किफिर-मण्डलं गन्तुं शक्यते । किफिर-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं किफिर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । किफिर-नगरात् दीमापुर-नगरं ३१२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः भाटकयानैः वा किफिर-नगरं प्राप्यते । दीमापुर-नगरस्य विमानस्थानकं किफिर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, देहली-नगराय च दीमापुर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेन पर्यटकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया किफिर-मण्डलं प्राप्तुं शक्नुवन्ति ।
मोन
मोन-नगरं नागालैण्ड-राज्यस्य मोन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । मोन-नगरं गत्वा जनाः प्रकृतौ लीनाः भवन्ति । इदं मण्डलं नागालैण्ड-राज्यस्य पूर्वोत्तदिशि स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि असमराज्यं, दक्षिणदिशि म्यान्मारदेशः, पश्चिमदिशि मोकोकचुङ्ग-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । मोन-नगरं “सांस्कृतिकस्वर्गः” इति नाम्ना विख्यातम् अस्ति । मोन-मण्डलं “कोन्यक्षस्य भूमिः” इति नाम्ना ज्ञायते । “कोन्यक्ष” इतीयं टैटू-योद्धाजनजातिः अस्ति । अस्य मण्डलस्य जनाः साम्प्रतमपि पारम्परिकापरिधानानि धरन्ति । तेषु परिधानेषु कुण्डलानि, वस्त्राणि इत्यादीनि भारसहितानि भवन्ति । कोन्यक्ष-जनजातिः द्वयोः भागयोः विभक्ता अस्ति । थेण्डु, थेन्थु च । पुरा अस्याः जनजातेः जनानां मुखे त्वगुत्किरणं (Tatoo) भवति स्म । किन्तु साम्प्रतं ते मुखे त्वगुत्किरणं न कारयन्ति । थेण्डु-समूहस्य जनाः मण्डलस्य अधस्थले निवसन्ति । किन्तु थेन्थु-समूहस्य जनाः मण्डलस्य उच्चस्थले निवसन्ति । तत्स्थलं “टोबू” इति कथ्यते । थेण्डु-समूहस्य शासकाः “अङ्ग्स्” इति नाम्ना ज्ञायन्ते । कोन्यक्ष-जनजातेः जनाः अप्रैल-मासे “आओलेन्योग मोनयू” इति उत्सवम् आचरन्ति । उत्सवः अयं साप्ताहिकः भवति । अतः अप्रैल-मासे मोन-मण्डलं गन्तव्यम् ।
मोन-मण्डलं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोन-मण्डलं नागालैण्ड-राज्यस्य अन्यैः मण्डलैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः मोन-मण्डस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्यते । असम-राज्यस्य लकवा-नगरस्य रेलस्थानकं मोन-नगरस्य निकटतमं रेलस्थानकम् अस्ति । मोन-नगरात् लकवा-रेलस्थानकं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । लकवा-रेलस्थानकं भारतस्य प्रमुख-नगरैः सह सम्बद्धम् अस्ति । मोन-नगरात् दीमापुर-रेलस्थानकं २५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः दीमापुर-नगरादपि मोन-नगरं बसयानैः, भाटकयानैः वा प्राप्यते । मोन-नगरात् गुवाहाटी-विमानस्थानकम् ४२३ किलोमीटरमिते, जोरहाट-विमानस्थानकं ११९ किलोमीटरमिते दूरे, दीमापुर-विमानस्थानकं २५१ किलोमीटरमिते दूरे च स्थितम् अस्ति । एतानि विमानस्थानकानि भारतस्य प्रमुख-नगरैः सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः बसयानैः मोन-नगरं प्राप्यते । अनेन प्रकारेन जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया मोन-नगरं प्राप्तुं शक्नुवन्ति ।
वोखा
वोखा-नगरं नागालैण्ड-राज्यस्य वोखा-मण्डलस्य मुख्यालयः विद्यते । वोखा-मण्डले लोथा-जनजातिः निवसति । इयं जनजातिः बृहत्तमासु जनजातीषु अन्यतमा अस्ति । इदं मण्डलं परितः पर्वताः सन्ति । तेन इदं मण्डलं रमणीयं दृश्यते । अतः एव इदं मण्डलं जनेषु लोकप्रियम् अस्ति । अस्य मण्डलस्य उत्तरदिशि मोकोकचुङ्ग-मण्डलं, पूर्वदिशि जुन्हेबोटो-मण्डलं, पश्चिमदिशि असम-राज्यं च स्थितम् अस्ति । लोथा-आदिवासिनः पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । “तोखू”, “पिखुचक”, “ईमोङ्ग” इत्यादयः अस्य राज्यस्य प्रमुखोत्सवाः सन्ति । अस्मिन् उत्सवे स्थानीयनृत्यानि, सङ्गीतानि च भवन्ति । वोखा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तीयी-पर्वतः, तोत्सु-शिखरं, दोयाङ्ग-नदी इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नागालैण्ड-राज्ये प्रवेशाय पर्यटकैः अनुमतिः आवश्यकरूपेण स्वीकर्त्तव्या भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः अपि सन्ति ।
वोखा-मण्डलं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः वोखा-नगरं दीमापुर-नगरेण सह सञ्योजयति । नागालैण्ड-राज्यस्य राजधानी कोहिमा-नगरं वोखा-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । नागालैण्ड-राज्यस्य सर्वकारप्रचालितैः बसयानैः अपि वोखा-मण्डलं प्राप्यते । वोखा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं वोखा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-नगरं १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । वोखा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं वोखा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-विमानस्थानकं १६२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगराद् बसयानैः, भाटकयानैः वा वोखा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया वोखा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।
जून्हेबोटो
जुन्हेबोटो-नगरं नागालैण्ड-राज्यस्य जुन्हेबोटो-मण्डलस्य केन्द्रत्वेन विद्यते । इदं नगरं समुद्रतलात् १८०० किलोमीटरमितम् उन्नतम् अस्ति । अस्य मण्डलस्य पूर्वदिशि मोकोकचुङ्ग-मण्डलं, पश्चिमदिशि वोखा-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले सूमी-जनजातिः निवसन्ति । अस्याः जनजातेः जनाः यौधकलासु निपुणाः भवन्ति । सूमि-जनैः उत्सवेषु विविधानि नृत्यानि, सङ्गीतानि च प्रस्तूयन्ते । सूमि-जनानां परिधानानि अपि भिन्नानि भवन्ति । “अहूना” इत्ययं सूमी-जनानां प्रमुखोत्सवः मन्यते । सूमि-जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । जनाः जुलाई-मासे जुन्हेबोटो-मण्डलं गच्छन्ति । तस्मिन् समये सूमि-आदिवासिनः जनाः उत्सवान् आचरन्ति । मण्डलेऽस्मिन् विहगाभयारण्यं, विशालवनानि च सन्ति । तिजु-नदी, दोयाङ्ग-नदी, सुथा-नदी इत्येताः जुन्हेबोटो-मण्डलस्य प्रमुखाः नद्यः सन्ति ।
जुन्हेबोटो-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । नागालैण्ड-सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । जुन्हेबोटो-नगरात् कोहिमा-नगरं १५२ किलोमीटरमिते, मोकोकचुङ्ग-नगरं ७० किलोमीटरमिते च दूरे स्थितम् अस्ति । ताभ्यां नगराभ्यां बसयानैः जुन्हेबोटो-नगरं प्राप्यते । जुन्हेबोटो-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं जुन्हेबोटो-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-नगरं २०७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । जुन्हेबोटो-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं जुन्हेबोटो-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-विमानस्थानकं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा जुन्हेबोटो-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया जुन्हेबोटो-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।
फेक
फेक-नगरं नागालैण्ड-राज्यस्य फेक-मण्डलस्य मुख्यालयः अस्ति । स्थलमिदं नागालैण्ड-राज्यस्य अज्ञातस्थलेषु अन्यतमम् अस्ति । ये समीपस्थाः जनाः भवन्ति, ते एव अस्य स्थलस्य विषये जानन्ति । अस्मिन् मण्डले पर्वताः, नद्यः, क्षेत्राणि च सन्ति । फेक-नगरे अत्यधिकं प्राकृतिकं सौन्दर्यं वर्तते । फेक-मण्डलं नागालैण्ड-राज्यस्य दक्षिणपूर्वभागे स्थितम् अस्ति । अस्य मण्डलस्य पूर्वदिशि म्यामार-देशः, दक्षिणदिशि मणिपुर-राज्यं, पश्चिमदिशि कोहिमामण्डलं, उत्तरदिशि जून्हेबोटो-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । पुरा फेक-मण्डलं कोहिमा-मण्डलस्य कश्चनभागः आसीत् । इदं नगरं कोहिमा-नगरात् १४५ किलोमीटरमिते दूरे स्थितम् अस्ति । “चाकेसङ्ग”, “पोचुरी” इत्येते फेक-मण्डलस्य जाती स्तः । चाकेसङ्ग-जातेः विभागत्रयम् अस्ति । “चोकरी”, “खेज्हा”, “साङ्ग” च । अस्मिन् मण्डले तेंयिदी-भाषा, नागामीस-भाषा च व्यवह्रियते । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । तिजू-नदी, लान्ये-नदी, सेद्जु-नदी च । मण्डलेऽस्मिन् बहूनि वीक्षणीयस्थलानि सन्ति । “शिल्लोई”, “चिडा”, “जुदु-तडागः” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । “खुथोन्ये”, “थुरिन्ये”, “तुर्हिन्ये”, “गुन्ये”, “तुखन्ये”, “सुखरुन्ये” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । जनाः उत्साहपूर्वकम् एतान् उत्सवान् आचरन्ति ।
फेक-नगरं भूमार्गेण कोहिमा-नगरेण, दीमापुर-नगरेण, जून्हेबोटो-नगरेण इत्यादिभिः नागालैण्ड-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । तैः बसयानैः सरलतया फेक-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्यन्ते । अस्मिन् मण्डले भाटकयानानि अपि प्रचलन्ति । फेक-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं फेक-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । फेक-नगरात् दीमापुर-नगरं ३७७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । फेक-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं फेक-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । फेक-नगरात् दीमापुर-विमानस्थानकं ३७२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा फेक-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया फेक-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।
लॉङ्गलेङ्ग
लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य लॉङ्गलेङ्ग-मण्डलस्य मुख्यालयः अस्ति । ई. स. २००४ तमस्य वर्षस्य जनवरी-मासस्य २४ तमे दिनाङ्के (२४ जनवरी २००४) “लॉङ्गलेङ्ग” क्षेत्रं मण्डलत्वेन उद्घोषितम् । इदं मण्डलं समुद्रतलात् १०६६ मीटरमितम् उन्नम् अस्ति । अस्मिन् नगरे भ्रमणाय सर्वकारस्य अनुमतिः आवश्यकी भवति । लॉङ्गलेङ्ग-मण्डलं पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं नागालैण्ड-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अस्मिन् मण्डले पर्यटकाः पर्वतारोहणाय अपि गच्छन्ति । स्थलमिदम् अत्यन्तं शान्तम् अस्ति । “फोम नागस” लॉङ्गलेङ्ग-मण्डलस्य जनजातिः अस्ति । एते जनाः मृत्पात्राणि निर्मान्ति । एते आदिवासिनः पाषाणकालीनाः सन्ति । एतेषु जनेषु बहुभिः जनैः ईसाई-धर्मः आचरितः । अस्य जनजातेः जनाः ग्रीष्मर्तोः स्वागतार्थं मोन्यु-उत्सवम् आचरन्ति । अयम् उत्सवः अप्रैल-मासे षड्दिनात्मकः आचर्यते । जनाः इमम् उत्सवं दृष्टुं लॉङ्गलेङ्ग-मण्डलं गच्छन्ति ।
लॉङ्गलेङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः लॉङ्गलेङ्ग-नगरं गन्तुं शक्यते । लॉङ्गलेङ्ग-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं लॉङ्गलेङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-नगरं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । लॉङ्गलेङ्ग-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं लॉङ्गलेङ्ग-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-विमानस्थानकं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा लॉङ्गलेङ्ग-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया लॉङ्गलेङ्ग-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।
परिवहनम्
भूमार्गः
नागालैण्ड-राज्यस्य परिवहनं मुख्यत्वे भूमार्गेषु आधारितम् अस्ति । नागालैण्ड-राज्यस्य आहत्य मार्गाः ९,८६० किलोमीटरमिताः दीर्घाः सन्ति । एतेषु राष्ट्रियराजमार्गाः, प्रान्तीयराजमार्गाः, ग्राम्यमार्गाः च सम्मिलिताः सन्ति । अस्य राज्यस्य राष्ट्रियराजमार्गाः नागालैण्ड-राज्यं मणिपुर-राज्येन, असम-राज्येन च सह सञ्योजयति । नागालैण्ड-राज्यं गन्तुं भूमार्गः सर्वोत्तमः अस्ति ।
धूमशकटमार्गः
नागालैण्ड-राज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य एकमेव रेलस्थानकं दीमापुर-नगरे अस्ति । दीमापुर-नगरम् असम-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । दीमापुर-नगरस्य रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । जनाः दीमापुर-नगरात् बसयानैः भाटकयानैः वा नागालैण्ड-राज्यस्य अन्यानि नगराणि गन्तुं शक्नुवन्ति ।
वायुमार्गः
नागालैण्ड-राज्यस्य एकमात्रं विमानस्थानकम् अपि दीमापुर-नगरे एव अस्ति । अस्माद् विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।
अनेन प्रकारेण नागालैण्ड-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति ।
वीथिका
बाह्यानुबन्धाः
State Portal of the Government of Nagaland
Department of IT & Technical Education
Department of Forest, Ecology, Environment and Wildlife
Department of Horticulture
Nagaland - Journey Through The Choir Of Clouds (Documentary)
A photojournalist in Nagaland
सन्दर्भाः
भारतस्य राज्यानि
नागालैण्डराज्यम् |
1026 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%BE%E0%A4%AC%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | पञ्जाबराज्यम् | पञ्जाबराज्यं (पञ्जाबी: ਪੰਜਾਬ) भारतस्य किञ्चन राज्यम् । नाम पञ्जाब् संस्कृतेन आगतम्। सन्धि-विच्छेदम् (पञ्च+आपः); आपः-जलं इति पदस्य अन्वयः। सिखधर्मस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटानीयैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।
चण्डीगढ (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।
इतिहासः
पञ्जाब-राज्यं हिन्दुघाटीसभ्यतया सम्बद्धम् अस्ति । भारतीयपुरातात्त्विकसर्वेक्षणानुसारं पञ्जाब-राज्ये हिन्दुघाटीसभ्यतया सम्बद्धानां नगराणाम् अवशेषाः प्राप्ताः । अस्मिन् सर्वेक्षणे हडप्पासभ्यतायाः, मोहनजोदडोसभ्यताया अपि अवशेषाः प्राप्ताः । किन्तु वर्तमानकाले इमे द्वे सभ्यते पाकिस्तान-देशे स्थिते स्तः । पञ्जाब-राज्यस्य वर्णनं महाभारते अपि प्राप्यते । ई. पू. ३२६ वर्षे सिकन्दर-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । तेन पौरव-राजा पराजितः । समयान्तरे मौर्य-वंशस्य, शुङ्ग-वंशस्य, गुप्त-वंशस्य राजभिः अस्मिन् राज्ये आक्रमणानि कृतानि आसीत् । मध्यकाले अस्मिन् राज्ये मुस्लिम-शासकानां शासनम् आसीत् । “महमूद गजनवी” इत्याख्येन मुस्लिम-राज्ञा पञ्जाब-राज्ये आक्रमणं कृतम् आसीत् । अयं प्रथमः मुस्लिमशासकः आसीत् । ई. स. १२०० तमवर्षतः देहली-साम्राज्यस्याधीन्ये आसीत् । अष्टादशशताब्दीपर्यन्तम् इदं राज्यं मुगल-साम्राज्यस्य कश्चन भागः आसीत् । अफगान-शासकाः, मराठा-शासकाः, सिक्ख-शासकाः च अस्य राज्यस्य शासनाय युद्धम् अकुर्वन् । ई. स. १७६४ पर्यन्तं सिक्ख-शासकैः पञ्जाब्-राज्ये स्वस्य आधिपत्यं स्थापितम् । अस्य राज्यस्य विकासः अपि कृतः । ई. स. १८४९ तमे वर्षे अस्मिन् राज्ये “ईस्ट् इण्डिया कम्पनी” अस्याः संस्थायाः आधिपत्यम् अभवत् । ई. स. १९३७ तमे वर्षे इदं राज्यं ब्रिटिश्-साम्राज्यस्य प्रान्तत्वेन स्थितम् आसीत् । स्वातन्त्र्यानन्तरं पञ्जाब-राज्यस्य विभाजनं कृतम् । अस्य राज्यस्य कश्चन भागः पाकिस्तान-देशे विलीनः जातः । अपरः भागश्च भारतदेशे अस्ति । ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९६६) पञ्जाब-राज्यस्य पुनर्गठितम् ।
भौगोलिकम्
प्राकृतिकरूपेण पञ्जाब-राज्यं त्रिषु भागेषु विभक्तम् अस्ति । प्रथमः शिवालिकक्षेत्रं, द्वितीयः थार-मरुभूमिः, तृतीयः च उर्वरक्षेत्रम् । अस्य राज्यस्य पश्चिमदिशि पाकिस्तान-देशस्य अन्ताराष्ट्रियसीमा अस्ति । अस्य राज्यस्य उत्तरदिशि जम्मू-काश्मीर-राज्यं, दक्षिणदिशि हरियाणा-राज्यं, राजस्थान-राज्यं च, पूर्वोत्तरदिशि हिमाचलप्रदेश-राज्यं च स्थितम् अस्ति । रावी-नदी, ब्यास-नदी, सतलुज-नदी, सिन्धु-नदी, घग्घर-नदी च अस्य राज्यस्य प्रमुखाः नद्यः सन्ति ।
जलवायुः
अस्य राज्यस्य जलवायुः उपोष्णकटिबन्धीयः भवति । पञ्जाब-राज्ये प्रमुखाः त्रयः ऋतवः सन्ति । तासु अप्रैल-मासतः जून-मासपर्यन्तं ग्रीष्मर्तुः भवति । अस्मिन् ऋतौ अस्य राज्यस्य तापमानं प्रायः ४५ डिग्रीसेल्सियस् मात्रात्मकं भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । अस्मिन् ऋतौ उपपर्वतीयक्षेत्रेषु ९६० मिलिमीटरमिता, अन्यक्षेत्रेषु ५८० मिलिमीटरमिता च वर्षा भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं शीतर्तुः भवति । अस्मिन् ऋतौ अस्य नगरस्य तापमानं प्रायः ४ डिग्रीसेल्सियसमात्रात्मकं भवति ।
मण्डलानि
पञ्जाबराज्ये आहत्य द्वाविंशतिः मण्डलानि सन्ति ।
अमृतसरमण्डलम्
बरनालामण्डलम्
बठिण्डामण्डलम्
फरीदकोटमण्डलम्
फतेहगढसाहिबमण्डलम्
फजिल्कामण्डलम्
फिरोजपुरमण्डलम्
गुरदासपुरमण्डलम्
होशियारपुरमण्डलम्
जालन्धरमण्डलम्
कपूरथलामण्डलम्
लुधियानामण्डलम्
मानसामण्डलम्
मोगामण्डलम्
पटियालामण्डलम्
पठानकोटमण्डलम्
रूपनगरमण्डलम्
साहिबजादा-अजितसिंहनगरमण्डलम्
श्रीमुक्तसर-साहिब-मण्डलम्
शहीद-भगतसिंहनगरमण्डलम्
सङ्गरूरमण्डलम्
तरन-तारनमण्डलम्
मालेरकोटलामण्डलम्
महानगराणि
पञ्जाब-राज्ये मुख्यानि त्रीणि महानगराणि सन्ति । तानि – अमृतसर-नगरं, लुधियाना-नगरं, पटियाला-नगरं च । एतानि अस्य राज्यस्य बृहत्तमानि नगराणि सन्ति ।
अमृतसर
अमृतसर-नगरं भारतस्य पञ्जाब-राज्यस्य अमृतसर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं सिक्खधर्मस्य आध्यात्मिकं सांस्कृतिकं च केन्द्रं वर्तते । भारतस्य उत्तर-पश्चिमभागस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति इदं नगरम् । षोडशशताब्द्यां “रामदासः” इत्याख्येन चतुर्थसिक्खगुरुणा इदं नगरं स्थापितम् आसीत् । अस्मिन् नगरे अमृतसरोवरः स्थितः अस्ति । अतः एव अस्य नगरस्य नाम “अमृतसर” इति अभवत् । ई. स. १६०१ तमे वर्षे रामदासस्य उत्तराधिकारिणा अर्जुनदेवेन अमृतसर-नगरस्य विकासः कृतः । रामदासेन तत्र एकस्य मन्दिरस्य निर्माणकार्यम् आरब्धम् आसीत् । अनन्तरम् अर्जुनदेवेन तस्य मन्दिरस्य निर्माणकार्यं समापितम् । ई. स. १९४७ तमस्य वर्षस्य विभाजनात् पूर्वम् अमृतसर-नगरम् अविभाजितस्य पञ्जाब-राज्यस्य व्यापारिकं केन्द्रम् आसीत् । किन्तु विभाजनानन्तरम् अमृतसर-नगरं पाकिस्तान-भारतयोः सीमायां स्थितम् अस्ति । अमृतसर-नगरे बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । तेषु “हरमन्दिर साहिब” महत्त्वपूर्णम् अस्ति । इदं “स्वर्णमन्दिरम्” इति नाम्ना सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । “बिबेकसर साहिब”, “बाबा अटल साहिब”, “रामसर साहिब”, “सन्तोखसर साहिब” च अस्य नगरस्य अन्यानि पर्यटनस्थलानि सन्ति । अमृतसर-नगरे हिन्दुधर्मस्य मन्दिराणि अपि सन्ति । दुर्गियाना-मन्दिरं, मातालालदेवीमन्दिरं, इस्कॉन्-मन्दिरं, हनुमन्-मन्दिरं, रामतीर्थमन्दिरम् इत्यादीनि हिन्दुधर्मस्य स्थलानि सन्ति ।
ई. स. १९१९ तमे वर्षे अस्मिन् नगरे एका दुर्घटना जाता । सा दुर्घटना पौनःपुन्येन स्मरणीया भवति । सा अतीव दुःखदः दुर्घटना आसीत् । इयं घटना अमृतसर-नगरस्य “जलियांवाला बाग” इत्यस्मिन् स्थले अभवत् । तदा बहवः क्रान्तिकारिणः हुतात्मनः अभवन् । तेषां स्मारकाणि अपि तत्र निर्मापितानि सन्ति । एतादृशानि बहूनि ऐतिहासिकानि स्थलानि तत्र स्थितानि सन्ति । भारत-पाकिस्तानयोः सीमारेखायाम् आरक्षकालयः स्थितः अस्ति । सा रेखा “वाघा-सीमारेखा” (Wagah Border बॉर्डर्) इति नाम्ना विख्याता अस्ति । तत्र प्रतिदिनं सैनिकैः पदसञ्चलनं क्रियते । तत्पदसञ्चलनं दर्शनीयं भवति । बहवः जनाः तत्र दृष्टुं गच्छन्ति । अमृतसर-नगरस्य वातावरणम् आवर्षं सामान्यम् एव भवति । किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं वातावरणम् उत्तमम् भवति ।
अमृतसर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं मार्गः “ग्रेण्ड ट्रङ्क रोड” इति नाम्ना अपि ज्ञायते । अयं राष्ट्रियराजमार्गः अमृतसर-नगरं भारतस्य विभिन्नराज्यैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अमृतसर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । अमृतसर-नगरात् देहली-नगराय, चण्डीगढ-नगराय जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । इदं श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं कथ्यते । अमृतसर-नगरात् इदं ११ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अमृतसर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया अमृतसर-नगरं प्राप्नुवन्ति ।
लुधियाना
लुधियाना-नगरं पञ्जाब-राज्यस्य लुधियाना-मण्डलस्य मुख्यालयत्वेन् स्थितम् अस्ति । नगरमिदं सांस्कृतिककेन्द्रं विद्यते । ई. स. १४८० तमे वर्षे अस्य नगरस्य स्थापना कृता । लोधी-राजवंशस्य नाम्ना अस्य नगरस्य नाम “लुधियाना” इत्यभवत् । अस्य नगरस्य स्थानीयजनाः “लुधियानवी” इति नाम्ना ज्ञायन्ते । ते आगतानाम् अतिथीनां स्वागतं विशिष्टं कुर्वन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च सन्ति । “गुरुद्वारा मञ्जी सहिब”, “गुरुनानकभवनम्”, “फिल्लौर-दुर्गः”, “महाराजा रज्जीत सिंह युद्धसङ्ग्रहालयः”, “गुरुनानक-क्रीडाङ्गनं” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । एवं बहूनि उद्यानानि, प्राणीसङ्ग्रहालयाः च सन्ति । चण्डीगढ, कसौली, मेक्लोद्गज्ज, धरमशाला, शिमला, कुफरी इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । पोष-मासस्य अन्तिमेषु दिनेषु लोहडी-उत्सवः आचर्यते । अस्मिन् उत्सवे भारतस्य विभिन्ननगरेभ्यः जनाः समगच्छन्ति । उत्सवेऽस्मिन् लोकनृत्यानि, क्रीडाः, लोकसङ्गीतानि इत्यादयः कार्यक्रमाः भवन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं जनाः सुखेन भ्रमणं कुर्वन्ति ।
लुधियाना-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः लुधियाना-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः लुधियाना-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । लुधियाना-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । लुधियाना-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । लुधियाना-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । लुधियाना-नगरात् इदं विमानस्थानकं १२.३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लुधियाना-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया लुधियाना-नगरं प्राप्नुवन्ति ।
पटियाला
पटियाला-नगरं भारतस्य पञ्जाब-राज्यस्य पटियाला-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । समुद्रतलात् इदं नगरं २५० मीटरमितम् उन्नतम् अस्ति । “सरदार लखना”, “बाबा आला सिंह” इत्येताभ्याम् अस्य नगरस्य स्थापना कृता आसीत् । अनन्तरं राज्ञा नरेन्द्रसिंहेन इदं नगरं संरक्षितम् । अस्मिन् नगरे पञ्जाबी-भाषा व्यवह्रियते । हिन्दी-भाषा, आङ्ग्ल-भाषा च अपि अस्य नगरस्य अपरे व्यवहारिकभाषे स्तः । अस्य नगरस्य जनाः उत्सवान् सोत्साहेन आचरन्ति । “दीपावलिः”, “होलिका”, “विजया दशमी”, “गुरूपर्व”, वैशाखी पर्व” इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति । “पटियाला विरासत महोत्सवः” इत्ययम् उत्सवः अस्मिन् नगरे एव आचर्यते । प्रतिवर्षं फरवरी-मासे जनाः अस्योत्सवस्य आयोजनं कुर्वन्ति । अस्मिन् उत्सवे विभिन्ननगरेभ्यः जनाः अस्मिन् उत्सवे भागं वहन्ति । तत्र दशदिवसात्मकः हस्तकलायाः उत्सवः अपि भवति । पटियाला-नगरं “शास्त्रीयसङ्गीतस्य केन्द्रं” मन्यते । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “शीश महल”, “बारादरी-उद्यानानि”, “किला अन्दरून”, “रङ्ग महल”, “मज्जी दि सराय”, “माल रोड”, “दरबार हॉल्” इत्यादीनि अस्य नगरस्य आकर्षणकेन्द्राणि विद्यन्ते । समाना”, “बनूर”, “सानौर” इत्येतानि अपि पटियाला-नगरस्य समीपस्थानि स्थलानि सन्ति । अस्य नगरस्य वस्त्राणि, आभूषणानि, खाद्यानि च सम्पूर्णे भारते प्रसिद्धानि सन्ति । पटियाला-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तुः, वर्षर्तुः, शीतर्तुः इत्येते त्रयः ऋतवः भवन्ति । तेषु शीतर्तौ अस्य नगरस्य भ्रमणम् उत्तमम् । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।
पटियाला-नगरं १ क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ पटियाला-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजतः । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पटियाला-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पटियाला-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । पटियाला-नगरात् देहली-नगरं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । पटियाला-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । पटियाला-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । पटियाला-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकम् पटियाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । पटियाला-नगरात् इदं विमानस्थानकं ६३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पटियाला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पटियाला-नगरं प्राप्नुवन्ति ।
शिक्षणम्
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अस्य राज्यस्य साक्षरतामानं ७७.४१ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८१.४८ प्रतिशतं, स्त्रीणां च साक्षरतामानं ७१.३४ प्रतिशतम् अस्ति । पञ्जाब-राज्ये बहूनि शैक्षणिकसंस्थनानि सन्ति । बठिण्डा-नगरे “सेण्ट्रल् युनिवर्सिटी ऑफ् पञ्जाब”, चण्डीगढ-नगरे “पञ्जाब युनिर्वसिटी”, फरीदकोट-नगरे “बाबा फरीद युनिवर्सिटी ऑफ् हेल्थ् सायन्स्”, अमृतसर-नगरे “गुरुनानक देव युनिवर्सिटी”, लुधियाना-नगरे “पञ्जाब-कृषिविश्वविद्यालयः”, जालन्धर-नगरे “आई. के. गुजराल पञ्जाब टेक्नीकल् युनिवर्सिटी”, बठिण्डा-नगरे “महाराजा रणजीत सिंह स्टेट् टेक्निकल् युनिवर्सिटी”, पटियाला-नगरे “पञ्जाबी युनिवर्सिटी”, होशियारपुर-नगरे “गुरु रविदास आयुर्वेद युनिवर्सिटी”, लुधियाना-नगरे “गुरु अङ्गद देव वेटेरनरी एण्ड् एनिमल् सायन्स् युनिवर्सिटी”, पटियाला-नगरे “राजीव गान्धी नेशनल युनिवर्सिटी ऑफ् लॉ”, पटियाला-नगरे “थापर-युनिवर्सिटी” इत्यादीनि पञ्जाब-राज्यस्य शैक्षणिकसंस्थानानि सन्ति ।
राजनीतिः
पञ्जाब-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ११७ स्थानानि सन्ति । पञ्जाब-राज्ये लोकसभायाः १३ स्थानानि, राज्यसभायाः ७ स्थानानि च सन्ति । “गोपीचन्द भार्गवः” अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “शिरोमणि अकाली दल” अयम् अस्य राज्यस्य प्रमुखः राजनैतिकसमूहः अस्ति । “भारतीय जनता पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च अस्य नगरस्य अन्यौ सक्रियौ समूहौ स्तः । ई. स. १९६६ तमे वर्षे चण्डीगढ-नगरे उच्चन्यायालस्य स्थापना कृता आसीत् । पुरा अयं न्यायालयः पञ्जाब-राज्यस्य उच्चन्यायालयः कथ्यते स्म । किन्तु अयं पञ्जाब-हरियाणा-राज्ययोः उच्चन्यायालयः” इति कथ्यते ।
अर्थव्यवस्था, कृषिः, उद्योगाः च
पञ्जाब-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव । अस्य राज्यस्य भौगोलिकक्षेत्रस्य ८५ प्रतिशतं क्षेत्रे कृषिः क्रियते । अस्य राज्यस्य अधिकतमाः जनाः कृषिसम्बद्धानि कार्याणि कुर्वन्ति । सम्पूर्णभारतस्य तण्डुलोत्पादनेषु ४० तः ५० प्रतिशतं तण्डुलोत्पादनं पञ्जाब-राज्ये क्रियते । एव च सम्पूर्णभारतस्य गोधूमोत्पादनेषु ५० तः ६० प्रतिशतं गोधूमोत्पादनम् अस्मिन् राज्ये एव क्रियते । अस्मिन् राज्ये यान्त्रिकोत्पादनानाम् अपि आधिक्यम् अस्ति । गोधूमः, तण्डुलाः, कार्पासः इत्येतानि सस्यानि पञ्जाब-राज्यस्य प्रमुखाणि सस्यानि सन्ति । राज्येऽस्मिन् इक्षुदण्डस्य अपि उत्पादनं क्रियते । अत्र दुग्धस्य, अण्डस्य च अपि उत्पादनम् अन्यराज्यानाम् अपेक्षया अधिकं भवति । लघुस्तरीयोद्योगेभ्यः इदं राज्यं प्रसिद्धम् अस्ति । सम्पूर्णभारतस्य ९० प्रतिशतम् उर्णवस्त्राणाम् उद्योगः अस्मिन् राज्ये एव भवति । राज्येऽस्मिन् बहवः यन्त्रागाराः सन्ति । “साल्त् पीटर्” इत्ययं खानिजः अस्य राज्यस्य प्रमुखः वर्तते । किन्तु इतः परम् अस्मिन् राज्ये खानिजानाम् अभावः अस्ति ।
कला, संस्कृतिश्च
पञ्जाब-राज्यस्य लोकसंस्कृतिः अत्याकृष्टा अस्ति । अस्य राज्यस्य निवासिनां नृत्यसङ्गीतयोः अभिरुचिः भवति । भाङ्गडा-नृत्यम् अस्य राज्यस्य प्रमुखं नृत्यं वर्तते । इदं नृत्यं वीरतायाः प्रतीकं वर्तते । अपरं च गिद्दा-नृत्यं स्त्रीणां नृत्यम् अस्ति । इदं नृत्यं सस्यकर्तनसमये क्रियते । “वैशाखीपर्व”, “लोहरी” इत्येतौ पञ्जाब-राज्यस्य प्रमुखौ उत्सवौ स्तः । वैशाखीपर्व प्रतिवर्षम् अप्रैल-मासस्य १३ दिनाङ्के आचर्यते । एवं च लोहरी-उत्सवः शीतर्तोः समापनस्य प्रतीकत्वेन आचर्यते । पञ्जाब-राज्यस्य विवाहेषु विभिन्नानि गीतानि गीयन्ते । सुहाग-गीतं, सेहरा-गीतं, घोडी-गीतं, सिथनिया-गीतम् इत्यादीनि प्रमुखाणि गीतानि सन्ति । पटियाला-नगरं मुक्तसर-नगरम् इत्येते नगरे स्त्रीणां पादत्राणाय सम्पूर्णे भारते प्रसिद्धे स्तः । पञ्जाब-राज्यस्य जनाः सर्वान् उत्सवान् अपि उत्साहपूर्वकम् आचरन्ति । पञ्जाब-राज्यस्य जनानाम् आतिथ्यम् अपि सम्पूर्णे भारते विख्यातम् अस्ति ।
वीक्षणीयस्थलानि
पञ्जाब-राज्ये बहूनि धार्मिकस्थलानि, सांस्कृतिकस्थलानि, पर्यटनस्थलानि च सन्ति । अमृतसर-नगरे स्थिताय स्वर्णमन्दिराय पञ्जाब-राज्यं विश्वस्मिन् प्रसिद्धम् अस्ति । मन्दिरमिदं सिक्खधर्मस्य धार्मिकस्थलं वर्तते । चण्डीगढ-नगरम् अपि पर्यटनस्थलं वर्तते । “ली काबुजियर्” इत्याख्येन फ्रांस-देशीयेन वास्तुकारेण अस्य नगरस्य आदर्शस्वरूपं निर्मापितम् आसीत् । “जलियाँवाला बाग”, आनन्दपुर साहिब, तरन-तारन-सरोवरः, दरबारा साहिब, पटियाला, भटिण्डा-दुर्गः, कपूरथला-नगरस्य वास्तुकलायाः स्मारकाः, रोपड इत्यादीनि पञ्जाब-राज्यस्य महत्त्वपूर्णानि पर्यटनस्थलानि सन्ति ।
अमृतसरनगरस्य स्वर्णमन्दिरम्
विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । भारतदेशे स्थितेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् । एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.१५७७ तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः सिख्खमतस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् सिख्खमतस्य वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । सिख्खमतीयानां स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। अमृतसरनगरे लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.१८०५ -१८०९ तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं देहलीतः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –देहलीतः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, देहली इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।
जलियाँवालाबाग्-हत्याकाण्डस्थानम्
अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।
पठानकोट
पठानकोट-नगरं भारतस्य पञ्जाब-राज्यस्य पठानकोट-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । नगरमिदं पञ्जाब-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं हिमालयपर्वतशृङ्खलायाः प्रवेशद्वारम् अस्ति । ई. स. १८४९ तमवर्षात् पूर्वं पठानकोट-नगरं नूरपुर-नगरस्य भागः आसीत् । इदं नगरं पठानिया-वंशेन स्थापितम् आसीत् । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । नूरपुर-दुर्गः अपि महत्त्वपूर्णं स्थलं वर्तते । ९०० वर्षाणि पूर्वं पठानिया-वंशजैः अयं दुर्गः निर्मापितः । शाहपुर कण्डी दुर्गः, शिवमन्दिरं, जुगिया-नगरी इत्यादीनि पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । तत्र ज्वालाजी, चिन्तपूर्णि इत्येते अपि प्रसिद्धे स्थले वर्तेते । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति । पठानकोट-नगरं भारतस्य उत्तरभागे स्थितम् अस्ति । अतः ग्रीष्मर्तौ औष्ण्यं, शीतर्तौ च शैत्यं भवति । अक्टूबर-मासे नवम्बर-मासे वा पठानकोट-नगरस्य भ्रमणं कर्त्तव्यम् । तस्मिन् समये अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति ।
पठानकोट-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः पठानकोट-नगरं पञ्जाब-राज्यस्य विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पठानकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पठानकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय शिमला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे द्वे रेलस्थानके स्तः । एकं “पठानकोट”, अपरं च “चक्की बैङ्क” । चक्कीबैङ्क-रेलस्थानकम् उत्तररेलविभागे अस्ति । पठानकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । किन्तु अस्मात् विमानस्थानकात् अधिकानि वायुयानानि न प्राप्यन्ते । अतः अमृतसर-नगरस्य श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं पठानकोट-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । पठानकोट-नगरात् इदं १०८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पठानकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पठानकोट-नगरं प्राप्नुवन्ति ।
फतेहगढ साहिब
फतेहगढ साहिब-नगरं भारतस्य पञ्जाब-राज्यस्य फतेहगढ साहिब-मण्डलस्य मुख्यालयः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । पञ्जाब-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानम् अस्ति । इदं “युद्धभूमिः” अपि कथ्यते । इदं नगरं “फतेहगढ साहिब” इत्यस्मै सिक्खधर्मस्य उपासनागृहाय प्रसिद्धम् अस्ति । तत्र “गुरु गोविन्द सिंह” इत्याख्यस्य “फतेह सिंह”, “जोरावर सिंह” इत्येतौ पुत्रौ हुतात्मानौ अभवताम् । “फतेहगढ साहिब” इत्यस्य अर्थः भवति यत् – “विजयाणां नगरम्” इति । नगरमिदं सिक्खाणां विजयस्य प्रतीकं वर्तते । इदं नगरं परितः चत्वारि द्वाराणि सन्ति । एतेषां द्वाराणां पुरातात्त्विकं महत्त्वं वर्तते । “फतेहगढ साहिब” इत्यत्र बहूनि प्रसिद्धानि पर्यटनस्थलानि सन्ति । “सङ्घोल”, “आम खास बाग”, “माता चक्रेश्वरी देवी”, “जैन-मन्दिरं” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः विभिन्नान् उत्सवान् अपि आचरन्ति । तेषु “होलिका”, “दीपावलिः”, “विजयादशमी”, “वैशाखी पर्व” इत्यादयः प्रमुखाः उत्सवाः सन्ति । नगरेऽस्मिन् बहवः धार्मिकोत्सवाः अपि आयोज्यन्ते । दिसम्बर-मासे “शहीदी जोर मेला” इत्ययम् उत्सवः प्रमुखरूपेण आचर्यते । अस्य नगरस्य वातावरणं ग्रीष्मर्तौ अत्यधिकम् उष्णं, शीतर्तौ च अत्यधिकं शीतलं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं “फतेहगढ साहिब”-नगरस्य भ्रमणं करणीयम् । तस्मिन् काले तस्य नगरस्य वातावरणं सामान्यं, सुखदं च भवति ।
“फतेहगढ साहिब”-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः “फतेहगढ साहिब”-नगरं पञ्जाब-राज्यस्य विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः “फतेहगढ साहिब”-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । “फतेहगढ साहिब”-नगरात् देहली-नगराय, चण्डीगढ-नगराय शिमला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । “फतेहगढ साहिब”-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । इतः परम् अपि सरहिन्द-रेलस्थानकम् अस्ति । “फतेहगढ साहिब”-नगरात् इदं २.७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य श्रीगुरुरामदास-अन्ताराष्ट्रियविमानस्थकं, चण्डीगढ-नगरस्य विमानस्थानकं च “फतेहगढ साहिब”-नगरस्य समीपस्थे विमानस्थानके स्तः । “फतेहगढ साहिब”-नगरात् चण्डीगढ-विमानस्थानकं ४२.५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण “फतेहगढ साहिब”-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया “फतेहगढ साहिब”-नगरं प्राप्नुवन्ति ।
मोहाली
मोहाली-नगरं भारतस्य पञ्जाब-राज्यस्य “साहिबजादा अजितसिंह नगर मण्डलस्य” केन्द्रं विद्यते । साम्प्रतम् इदं नगरम् “अजीतगढ” इति नाम्ना अपि ज्ञायते । नगरमिदं चण्डीगढ-नगरस्य उपग्रहः अस्ति । “गुरु गोविन्द सिंह” इत्याख्यस्य “साहिबजादा अजीत सिंह” इत्याख्यस्य पुत्रस्य स्मृतौ मोहाली-नगरस्य आधिकारिकं नाम “साहिबजादा अजीत सिंह नगर” इति अस्ति । यदा पञ्जाब-राज्यस्य विभाजनम् अभवत्, तदा मोहाली-नगरं रूपनगर-मण्डलस्य कश्चन भागः आसीत् । ई. स. २००६ तमे वर्षे पञ्जाब-सर्वकारेण मोहाली-नगरं स्वतन्त्रमण्डलत्वेन उद्घोषितम् । इदं नगरं चण्डीगढ-नगरस्य भागः आसीत् । अतः अस्य नगरस्य विकासः तीव्रतया अभवत् । साम्प्रतं बहवः औद्योगिकाः समूहाः मोहाली-नगरे व्यवसायार्थं प्रयासान् कुर्वन्तः सन्ति । मोहाली-नगरे पर्यटनस्थलानि अपि बहूनि सन्ति । मोहाली-नगरस्य क्रिकेट्-क्रीडायाः क्रीडाङ्गणं विश्वस्मिन् प्रसिद्धं वर्तते । सुखना-तडागः मोहाली-नगरस्य मनोहरं स्थलं वर्तते । रॉक्-उद्यानं, छतबीर-प्राणीसङ्ग्रहालयः, सुखना-वन्यजीवाभयारण्यं, रोज-उद्यानं, “भाखडा नङ्गल-जलबन्धः” इत्यादीनि मोहाली-नगरस्य समीपस्थानि प्रमुखाणि पर्यटनस्थलानि सन्ति । मोहाली-नगरे बहूनि धार्मिकस्थलानि अपि सन्ति । नगरेऽस्मिन् सिक्ख-धर्मस्य उपासनागृहाणि अधिकानि सन्ति । “गुरुद्वारा अम्ब साहिब”, “गुरुद्वारा नाडा साहिब”, “गुरुद्वारा नाभा साहिब” इत्येतानि मोहाली-नगरस्य सिक्ख-उपासनागृहाणि सन्ति । मनसादेवीमन्दिरं मोहालीनगरस्य हिन्दुधर्मस्य मन्दिरं विद्यते । अस्य नगरस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । पञ्चकुला, शरणपुरं च अस्य नगरस्य समीपस्थे पर्यटनस्थले स्तः । मोहाली-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवति । तत्र ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं मोहाली-नगरस्य भ्रमणम् उत्तमं भवति ।
मोहाली-नगरं १ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ मोहाली-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मोहाली-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मोहाली-नगरात् देहली-नगराय, चण्डीगढ-नगराय अम्बाला-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । मोहाली-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । समीपे चण्डीगढ-नगरस्य रेलस्थानकं स्थितम् अस्ति । मोहाली-नगरात् चण्डीगढ-रेलस्थानकं १९ किलोमीटरमिते दूरे स्थितम् अस्ति । चण्डीगढ-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मोहाली-नगरे विमानस्थानकं नास्ति । चण्डीगढ-नगरस्य विमानस्थानकं मोहाली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोहाली-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मोहाली-नगरं प्राप्नुवन्ति ।
बठिण्डा
बठिण्डा-नगरं भारतस्य पञ्जाब-राज्यस्य बठिण्डा-नगरस्य मुख्यालयः वर्तते । इदं नगरं पञ्जाब-राज्यस्य पुरातनेषु नगरेषु अन्यतमम् अस्ति । नगरमिदं “मालवा-क्षेत्रस्य हृदयं” कथ्यते । षष्ठ्यां शताब्द्याम् अस्मिन् नगरे भाटी-राज्ञां शासनम् आसीत् । अतः अस्य नगरस्य नाम “बठिण्डा” इत्यभवत् । अस्मात् नगरात् पाकिस्तान-देशस्य सीमा १०० किलोमीटरमिते दूरे स्थिता अस्ति । अस्मिन् नगरे एशिया-खण्डस्य बृहत्तमं सैनिकशिबिरम् अस्ति । इदं नगरं सांस्कृतिकं वर्तते । अस्य नगरस्य संस्कृतिः समृद्धा अस्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः बठिण्डा-नगरं गच्छन्ति । बठिण्डा-नगरे बहूनि धार्मिकस्थलानि सन्ति । “किला मुबारक” इत्ययं दुर्गः अस्य नगरस्य प्रमुखम् आकर्षणकेन्द्रं विद्यते । दुर्गोऽयं लघ्वीभिः इष्टिकाभिः निर्मितः अस्ति । अस्य दुर्गस्य वास्तुकला अपि विशिष्टा वर्तते । अतः अयं दुर्गः प्रसिद्धः अस्ति । तत्र “गुरुद्वारा लाखी जङ्गल साहिब” इत्येतत् सिक्ख-उपासनागृहं प्रमुखम् अस्ति । यतः इदं वने स्थितम् अस्ति । “चेतक-उद्यानं”, “दमदमा साहिब”, “बठिण्डा-तडागः”, “मैसर खाना”, “प्राणि-उद्यानं”, “धोबी बाजार”, “पीर हाजी रतन की मजार” इत्यादीनि बठिण्डा-नगरस्य आकर्षणकेन्द्राणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणम् उत्तमं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं बहवः जनाः बठिण्डा-नगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये जलवायुः शान्तः, सुखदः, स्वास्थ्यकरश्च भवति ।
बठिण्डा-नगरं १५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः बठिण्डा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः बठिण्डा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । बठिण्डा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बठिण्डा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । बठिण्डा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । बठिण्डा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं बठिण्डा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बठिण्डा-नगरात् लुधियाना-विमानस्थानकं १५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण बठिण्डा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया बठिण्डा-नगरं प्राप्नुवन्ति ।
सङ्गरूर
सङ्गरूर-नगरं पञ्जाब-राज्यस्य सङ्गरूर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं ४०० वर्षेभ्यः प्राचीनम् अस्ति । नगरमिदं तत्कालीनस्य जिन्द-राज्यस्य राजधानीत्वेन आसीत् । सङ्गरूर-नगरं पटियाला-नगरात् ४८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे बहूनि सिक्ख-उपासनागृहाणि विद्यन्ते । अतः “गुरुद्वाराणां नगरम्” इत्यपि कथ्यते । अस्मिन् नगरे विंशत्यधिकानि सिक्ख-उपासनागृहाणि सन्ति । अतः नगरमिदं लोकप्रियम् अस्ति । विभिन्नदेशेभ्यः पर्यटकाः अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “शीश महल”, “बनसार बाग”, “गुरुद्वारा जन्म स्थान”, “गुरुद्वारा नानक झिरा साहिब”, “गुरुद्वारा अकोई साहिब” इत्यादीनि सङ्गरूर-नगरस्य पर्यटनस्थलानि सन्ति । नगरेऽस्मिन् बहवः उत्सवाः आयोज्यन्ते । गूगानवमी-उत्सवं प्रतिवर्षं जनाः सोत्साहेन आचरन्ति । अस्मिन् उत्सवे विदेशात् अपि बहवः जनाः समागच्छन्ति । “जामा मस्जिद”, “किला मुबारक”, “कालीमन्दिरं” च अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सर्वदा सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् उष्णं शुष्कं च भवति । शीतर्तौ च शीतलं वातावरणं भवति । दिसम्बर-मासतः मार्च-मासपर्यन्तं जनाः सङ्गरूर-नगरस्य भ्रमणार्थं गच्छन्ति ।
सङ्गरूर-नगरं १० क्रमाङ्कस्य, ६४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ सङ्गरूर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सङ्गरूर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सङ्गरूर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । सङ्गरूर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । सङ्गरूर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । सङ्गरूर-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकं सङ्गरूर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । सङ्गरूर-नगरात् लुधियाना-विमानस्थानकं ७८ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण सङ्गरूर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया सङ्गरूर-नगरं प्राप्नुवन्ति ।
फिरोजपुरम्
फिरोजपुर-नगरं पञ्जाब-राज्यस्य फिरोजपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं सतलज-नद्याः तटे स्थितम् अस्ति । तुगलक-वंशस्य “सुल्तान फिरोज शाह तुगलक” इत्याख्येन शासकेन नगरमिदं स्थापितम् आसीत् । अतः अस्य नाम “फिरोजपुर” इत्यभवत् । अस्मिन् नगरे धार्मिकस्थलानि , प्राकृतिकस्थलानि च बहूनि सन्ति । “जैनमन्दिरं”, “पोथीमाला”, “गुरुद्वारा गुरूसार” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । नगरमिदं भारत-पाकिस्तानदेशयोः सीमायां स्थितम् अस्ति । ब्रिटिश-शासनकाले एङ्ग्लो-सिक्ख-युद्धे अस्य नगरस्य महद्योगदानम् आसीत् । अस्मिन् नगरे अन्ये नैकाः सङ्ग्रहालयाः, स्मारकाणि च सन्ति । ते अस्य नगरस्य ऐतिह्यं प्रदर्शयन्ति । एङ्ग्लो-सिक्ख-युद्ध मेमोरियल, साराग्रही मेमोरियल्, शहीद स्मारकः, बारकी स्मारकः इत्यादीनि पर्यटनस्थलानि अपि अस्मिन् नगरे सन्ति । शीतर्तौ फिरोजपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । जनः अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् भ्रमणार्थं तत्र गच्छन्ति ।
फिरोजपुर-नगरं ९५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः फिरोजपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फिरोजपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फिरोजपुर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । फिरोजपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फिरोजपुर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, लुधियाना-नगराय, जयपुर-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फिरोजपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य विमानस्थानकं फिरोजपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फिरोजपुर-नगरात् अमृतसर-विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फिरोजपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फिरोजपुर-नगरं प्राप्नुवन्ति ।
मानसा
मानसा-नगरं भारतस्य पञ्जाब-राज्यस्य मानसा-मण्डलस्य मुख्यालयः वर्तते । नगरमिदम् अत्यन्तं शान्तं वर्तते । इदं पञ्जाब-राज्यस्य पूर्वभागे स्थितम् अस्ति । अस्य दक्षिणभागे हरियाणा-राज्यं स्थितम् अस्ति । इदं “श्वेतस्वर्णस्य क्षेत्रम्” अपि कथ्यते । ई. स. १७२२ तः १९४८ तमवर्षपर्यन्तम् इदम् क्षेत्रं फुल्कियासिक्ख-राजवंशस्य भागः आसीत् । इदं नगरं पुरातात्त्विकम् अस्ति । “भारतीयपुरातत्त्वसर्वेक्षण (ASI)”-संस्थया अस्मात् नगरात् हडप्पा-सभ्यतायाः, मोहनजोदडो-सभ्यतायाः च अवशेषाः प्राप्ताः । मन्यते यत् “गुरदासेन अस्य नगरस्य स्थापना कृता आसीत्” इति । अतः तस्य सम्माननाय प्रतिवर्षं मार्च-मासे अप्रैल-मासे वा अस्मिन् नगरे मेला-उत्सवः आयोज्यते । तस्मिन् उत्सवे गुरदासस्य भक्ताः तस्य समाधौ मोदकानि, गुडं च अर्पयन्ति । होलिका, दीपावलिः, विजयादशमी, वैशाखी पर्व इत्यादयः उत्सवाः सोत्साहेन आचर्यन्ते । मानसा-नगरं “श्वेतस्वर्णस्य क्षेत्रं (सफेद सोने का क्षेत्र)” इति कथ्यते । यतः इदं नगरं पञ्जाब-राज्यस्य सर्वाधिकम् उर्वरक्षेत्रम् अस्ति । कृषिः अस्य नगरस्य प्रमुखः व्यवसायः वर्तते । अस्मिन् क्षेत्रे कार्पासस्य कृषिः सर्वाधिकतया क्रियते । कार्पासः अस्य नगरस्य प्रमुखं सस्यं विद्यते । अस्य नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । बुधलाडा, दलेलवाडा, सरदूलगढ इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उपोष्णकटिबन्धीयः वर्तते । अक्टूबर-मासे, नवम्बर-मासे च मानसा-नगरस्य तापमानं सामान्यं भवति । अतः जनाः भ्रमणार्थं तस्मिन् काले गच्छन्ति ।
मानसा-नगरं १ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य, ७०३ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः मानसा-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः मानसा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । मानसा-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । मानसा-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । मानसा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । मानसा-नगरे विमानस्थानकं नास्ति । लुधियाना-नगरस्य विमानस्थानकम् मानसा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मानसा-नगरात् इदं विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । लुधियाना-नगरे साहनेवाल-नामकं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मानसा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया मानसा-नगरं प्राप्नुवन्ति ।
जालन्धर
जालन्धर-नगरं भारतस्य पञ्जाब-राज्यस्य जालन्धर-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । जालन्धर-नामकस्य असुरराज्ञः नाम्ना अस्य नगरस्य नाम “जालन्धर” इत्यभवत् । अस्य उल्लेखः महाभारते, पुराणेषु च अपि प्राप्यते । इदं नगरं ब्यास-सतलुज-नद्योः मध्ये स्थितम् अस्ति । ई. स. १९५३ तमवर्षपर्यन्तम् इदं नगरं पञ्जाब-राज्यस्य राजधानीत्वेन आसीत् । अस्य नगरस्य संस्कृतिः समृद्धा वर्तते । तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । “शिव-मन्दिरं”, “तुलसी-मन्दिरं”, “देवी तालाब मन्दिरं”, “सेण्ट् मेरी कैथेड्रल्”, “पुष्पा गुजराल सायन्स् सिटी”, “भगतसिंह-संग्रहालयः”, “वण्डरलैण्ड् थीम पार्क्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नगरेऽस्मिन् सिक्खधर्मस्य उपासनागृहाणि अपि सन्ति । तानि नगरस्य विभिन्नक्षेत्रेषु स्थितानि सन्ति । जालन्धर-नगरस्य जलवायुः उपोष्णकटिबन्धीयः भवत् । शीतर्तौ अस्मिन् नगरे शैत्यम् अधिकं, ग्रीष्मर्तौ च औष्ण्यं चापि अधिकं भवति । अक्टूबर-मासे, नवम्बर-मासे, फरवरी-मासे, मार्च-मासे च अस्य नगरस्य वातावरणं सामान्यं, शान्तं, सुखदं च भवति । तस्मिन् समये जनसम्मर्दः अपि अधिकः भवति ।
जालन्धर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जालन्धर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जालन्धर-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । जालन्धर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । जालन्धर-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, मैङ्गलोर-नगराय, कोलकाता-नगराय, जम्मू-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । जालन्धर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” जालन्धर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जालन्धर-नगरात् इदं विमानस्थानकं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जालन्धर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जालन्धर-नगरं प्राप्नुवन्ति ।
फरीदकोट
फरीदकोट-नगरं भारतस्य पञ्जाब-राज्यस्य फरीदकोट-मण्डले स्थितम् अस्ति । इदं पञ्जाब-राज्यस्य पश्चिमदिशि स्थितम् अस्ति । ई. स. १९७२ तमे वर्षे बठिण्डा-फिरोजपुरनगरयोः विभागाभ्याम् इदं नगरं स्थापितम् । कस्यचित् “शेख फरीदुद्दीन गञ्जशाकर” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नामकरणम् अभवत् । नगरेऽस्मिन् बहवः सिक्ख-धर्मानुयायिनः निवसन्ति । अतः तत्र बहूनि सिक्खधर्मस्य उपासनागृहाणि सन्ति । अस्मिन् नगरे दुर्गाः अपि बहवः विद्यन्ते । एते अस्य नगरस्य आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । “राज महल”, “फेयरी कॉटेज्”, “किला मुबारक”, “गुरुद्वारा टिल्ला बाबा फरीद” इत्येतानि फरीदकोट-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । एतानि सम्पूर्णे भारते लोकप्रियाणि सन्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । अतः येषाम् इतिहासे अभिरूचिः अस्ति तेभ्यः इदं स्थलम् अत्यन्तं महत्त्वपूर्णं वर्तते । फरीदकोट-मण्डलस्य सांस्कृतिकसमाजः प्रतिवर्षं सितम्बर-मासस्य १५ दिनाङ्कतः सितम्बर-मासस्य २३ दिनाङ्कपर्यन्तम् एकं वार्षिकोत्सवम् आयोजयति । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः तत्र गच्छन्ति, उत्सवस्य आनन्दं प्राप्नुवन्ति च । फरीदकोट-नगरस्य जलवायुः प्रायः सामान्यः भवति । किन्तु अक्टूबर-मासतः दिसम्बर-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । भारतस्य बहुभ्यः नगरेभ्यः जनाः तत्र गच्छन्ति ।
फरीदकोट-नगरं १५ क्रमाङ्कस्य, ९५ क्रमाङ्कस्य, ७१ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जालन्धर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजन्ति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः फरीदकोट-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । फरीदकोट-नगरात् देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । फरीदकोट-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । फरीदकोट-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । फरीदकोट-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” फरीदकोट-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । फरीदकोट-नगरात् इदं विमानस्थानकं ९.५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फरीदकोट-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया फरीदकोट-नगरं प्राप्नुवन्ति ।
गुरदासपुरम्
गुरदासपुर-नगरं भारतस्य पञ्जाब-राज्यस्य गुरदासपुर-मण्डलस्य केन्द्रं विद्यते । सप्तदशशताब्द्यां “गुरियाजी” इत्याख्येन अस्य नगरस्य स्थापना कृता आसीत् । अतः एव अस्य नाम “गुरदासपुर” इत्यभवत् । इदं नगरं रावी-सतलज-नद्योः मध्ये स्थितम् अस्ति । अस्मिन् नगरे जनैः पञ्जाबी-भाषा व्यवह्रियते । किन्तु अस्मिन् नगरे आधिकारिकरूपेण हिन्दीभाषा, आङ्ग्लभाषा च उपयुज्यते । अस्मिन् नगरे पञ्जाबी-संस्कृत्याः प्रभावः अधिकः वर्तते । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “डेरा बाबा नानक”, “गुरदास नङ्गल”, “महाकालेश्वर-मन्दिरं”, “माधोपुरं”, “शाहपुरकण्डी-दुर्गः”. “मछली-उद्यानं”, “अचलेश्वर-मन्दिरं”, “गुरुद्वारा चोला साहिब”, “गुरुद्वारा थाडा साहिब” इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं, शीतर्तौ च अत्यधिकं शैत्यं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति ।
गुरदासपुर-नगरं १ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः गुरदासपुर-नगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गुरदासपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गुरदासपुर-नगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । गुरदासपुर-रेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । गुरदासपुर-रेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । गुरदासपुर-नगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” गुरदासपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । गुरदासपुर-नगरात् इदं विमानस्थानकं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गुरदासपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गुरदासपुर-नगरं प्राप्नुवन्ति ।
रूपनगरम्
रूपनगरं भारतस्य पञ्जाब-राज्यस्य रूपनगर-मण्डलस्य मुख्यालयः वर्तते । नगरमिदं पुरा “रोपड” इति नाम्ना ज्ञायते स्म । इदं नगरम् ऐतिहासिकं वर्तते । सतलुज-नद्याः तटे स्थितम् अस्ति इदं नगरम् । एकादशशताब्द्याम् अस्मिन् नगरे रोकेश्वर-राजा शासनं करोति स्म । तस्य “रूपसेन” इत्याख्यः पुत्रः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । अस्य नगरस्य उत्खनने सिन्धुघाटीसभ्यतायाः अवशेषाः प्राप्ताः । भारतीयपुरातात्त्विकसर्वेक्षणसंस्थया इदं कार्यं कृतम् आसीत् । अनया संस्थया उत्खनने प्राप्तकलाकृतीनां संरक्षणाय तत्र सङ्ग्रहालयः अपि स्थापितः । अयं सङ्ग्रहालयः रूपनगरस्य पर्यटनकेन्द्रं वर्तते । इदं नगरं शिवलिकपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति । नगरेऽस्मिन् “आनन्दपुर साहिब”, “भाखडा नङ्गल जलबन्धः”, “जटेश्वरमहादेवमन्दिरं”, “कीरतपुर साहिब” इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । रूपनगरात् शिमला-नगरं १२५ किलोमीटरमिते, कासौली-नागरं ९८ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते अपि अस्य नगरस्य समीपस्थे वीक्षणीये स्थले वर्तेते । अस्य नगरस्य जनाः सर्वान् उत्सवान् उत्साहेन आचरन्ति । नगरेऽस्मिन् “होल्ला मोहल्ला” इत्ययम् उत्सवः अस्य नगरस्य प्रमुखः उत्सवः मन्यते । अयं त्रिदिवसात्मकः उत्सवः भवति । इमम् उत्सवम् आचरितुं दूरनगरेभ्यः अपि जनाः आगच्छन्ति । अस्मिन् नगरे विभिन्नानि खाद्यानि प्राप्यन्ते । अस्मिन् नगरे अपि ऋतुत्रयं भवति । किन्तु अस्य नगरस्य वातावरणं सामान्यं भवति । सितम्बर-मासतः नवम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अत्युत्तमं भवति । अतः तस्मिन् काले जनाः रूपनगरं गच्छन्ति । अस्य नगरस्य समीपस्थानि स्थलानि चापि गच्छन्ति ।
रूपनगरं २१ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः रूपनगरं पञ्जाब-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । पञ्जाब-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः रूपनगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । रूपनगरात् लुधियाना-नगराय, देहली-नगराय, चण्डीगढ-नगराय अमृतसर-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । रूपनगरात् देहली-नगरं २९७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । रूपरेलस्थानकं पञ्जाब-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । रूपरेलस्थानकात् अमृतसर-नगराय, चण्डीगढ-नगराय, लुधियाना-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । रूपनगरे विमानस्थानकं नास्ति । अमृतसर-नगरस्य “श्री गुरु रामदास जी विमानस्थानकम्” रूपनगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । रूपनगरात् इदं विमानस्थानकं २०० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । चण्डीगढ-नगरस्य विमानस्थानकमपि समीपे एव स्थितम् अस्ति । रूपनगरात् चण्डीगढ-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकमपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण रूपनगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया रूपनगरं प्राप्नुवन्ति ।
कार्बुसियर् पत्तनम्
एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । भारतपाकिस्तानयोः विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः भारतसर्वकारेण चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री जवहरलाल महोदयः क्रिस्ताब्दे १९५३ तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल् सेक्तर्युक्तम् । हरिद्विभागः अत्याधुनिकः । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मी. अस्ति । मुख्यतः त्रीणिनगराणि, २७ ग्रामाः नगरक्षेत्रे मिलितानि सन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । अस्य नगरस्य पेयजलसमस्यां परिहर्तुं नूतनप्रकल्पेन सुखानम् इति विशालं सरः निर्मितः। भारते कृतेषु कृत जलाशयेषु एषः जलाशयः अप्यकेः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति । फलपुष्पानां विषये आसक्तानां चण्डीगडनगरमेव नन्दनवनमिव निर्मितम् अस्ति । अलङ्कारिकपुष्पाणां वस्तुसङ्ग्रहालयः इति एतत् नगरं सम्बोधयन्ति । एवं सप्तविभागेषु व्याप्तम् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि न द्रष्टुं शक्यते । उद्यानानि डा. झकिर् हुसेन्, रोजगार्डन्, इत्यादीनि शान्तिकुञ्जानि सन्ति । विविधस्तरेषु वाटिकाः निर्मिताः । टोपिनीवाटिकाः इति नाम्ना तन्त्रीजालैः निर्मिताः प्राणिनामाकृतयः स्थापिताः । आम्रोद्यानम् उत्तमं प्रेक्षणीयं स्थलमस्ति । पार्श्वे राक् गार्डन् म्यूज़ियं कलासङ्ग्रहालयः च सन्ति । सप्ताहे सोमवासरः विरामदिनम् । जवाहरलालनेहरु चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यत्कालीनं विश्वासपात्रं नवीनं नगरं इति वर्णितवान् । नवीनशिल्पस्य एतत् नगरं विश्वस्य परम्परानगरम् इति उद्घुष्टम् ।
राकगार्डन्
अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । भारते एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.१९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.१९७६ तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति । विमानमार्गः - दिल्लीतः विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी. दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं देहलीतः प्रस्थास्यति । शिम्ला,मनाली, धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।
परिवहनम्
पञ्जाब-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च समृद्धम् अस्ति । एतैः मार्गैः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः पञ्जाब-राज्यं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया पञ्जाब-राज्यं प्राप्नुवन्ति ।
भूमार्गः
पञ्जाब-राज्यं भूमार्गेण सम्पूर्णभारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । अस्मिन् राज्ये आहत्य ५०,५०६ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । अस्य राज्यस्य सर्वेषु लघुग्रामेषु अपि भूमार्गस्य सौकर्यं लभ्यते । पञ्जाब-राज्यस्य सर्वे ग्रामाः, नगराणि, महानगराणि च परस्परं सम्बद्धानि सन्ति । पञ्जाब-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः पञ्जाब-राज्यस्य विभिन्ननगराणां, ग्रामाणां च भ्रमणं कर्तुं शक्नुवन्ति । ई. स. १९९८ तमे वर्षे पञ्जाब-राज्ये “पञ्जाब सडक और बाँध विकास बोर्ड्” अस्याः संस्थायाः स्थापना अभवत् । “पञ्जाब-राज्यस्य मार्गाणां विकासः” इत्येव अस्याः संस्थायाः उद्देश्यम् आसीत् ।
धूमशकटमार्गः
पञ्जाब-राज्यं भारतीयरेलविभागस्य उत्तरविभागे विराजते । पञ्जाब-राज्यस्य रेलविभागः व्यापकः वर्तते । अस्मिन् राज्ये रेलमार्गाः ३,७२६ किलोमीटरमिताः दीर्घाः सन्ति । पञ्जाब-राज्यं पाकिस्तान-देशेन सह अपि धूमशकटमार्गेण सम्बद्धम् अस्ति । अमृतसर-नगरं, पटियाला-नगरं, लुधियाना-नगरं, बठिण्डा-नगरं, कपूरथला-नगरं च पञ्जाब-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमानि रेलस्थानकानि सन्ति । पञ्जाब-राज्यं धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्य राज्यस्य रेलविभागः सन्देशसेवा अपि क्रियते । एतेभ्यः रेलस्थानकेभ्यः बसयानानि भाटकयानानि वा प्राप्यन्ते । तैः बसयानैः भाटकयानैः वा पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते ।
वायुमार्गः
पञ्जाब-राज्ये अमृतसर-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अपि च लुधियाना-नगरे, पटियाला-नगरे, जालन्धर-नगरे इत्यादिषु नगरेषु विमानस्थानकानि सन्ति । अमृतसर-नगरस्य अन्ताराष्ट्रियविमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । अन्यानि विमानस्थानकानि भारतस्य प्रमुखनगरैः सह सम्बद्धानि सन्ति । एतैः विमानस्थानकैः देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, पूणे-नगराय, चेन्नै-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि नियमितरूपेण प्राप्यन्ते । पञ्जाब-राज्यस्य विमानस्थाकेभ्यः बसयानानि भाटकयानानि च प्राप्यन्ते । तैः बसयानैः, भाटकयानैः च पञ्जाब-राज्यस्य नगराणि गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण पञ्जाब-राज्यं प्राप्यते ।
वीथिका
बाह्यानुबन्धः
सन्दर्भाः
भारतस्य राज्यानि
पञ्जाबराज्यम् |
1030 | https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%BE%E0%A4%83 | लक्षद्वीपाः | लक्षद्वीप: भारतस्य कश्चित् केन्द्रशासितः प्रदेशः अस्ति।
एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति ।
एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति ।
अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।
मार्गः
विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।
बाह्यसम्पर्कतन्तुः
A Picture Essay of Lakshadweep
Hydrographic Description (Indian Ocean Pilot)
Lagoon sizes
Bangaram Island Resort
List of Atolls
An ornithological expedition to the Lakshadweep archipelago
Sources towards a history of the Laccadive Islands
भारतस्य केन्द्रशासितप्रदेशाः
चित्रं योजनीयम् |
1031 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%95%E0%A4%BF%E0%A4%AE%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | सिक्किमराज्यम् | [[चित्रम्:Sou.sikksamdruptse.JPG|thumb|right|200px|सम्दृप्त्से]]सिक्किमराज्यम्''' भारतदेशस्य ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य भारतदेशे समाविष्टः जातः अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये राराजते । राज्यमिदं भारतदेशे पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।
भौगोलिकम्
सिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति। क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति। अस्य राज्यस्य पश्चिमदिशि नेपालदेशः, उत्तरदिशि चीनदेशः, पूर्वदिशि तिबेट्, आग्नेयदिशि भूतानदेशः दक्षिणदिशि पश्चिमवङ्गराज्यम् च अस्ति। अत्र सिङ्गलिला-चोला पर्वतावली स्तः। तिस्ता, रङ्गीत रङ्गपो च अस्य राज्यस्य प्रमुखनद्यः विद्यन्ते। अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम्।
जनसङ्ख्या
अस्य राज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषाः, २,८७,५०७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जनाः ग्रामेषु निवसन्ति ।
कृषिः उद्यमाश्च
कृषिः, उद्यमः, उद्यानपालनं, पर्यटनव्यवसायः इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसायः अस्य राज्य-अर्थव्यवस्थायाः कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्तिः अधिका वर्तते परं सम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।
ऐतिहासिकं किञ्चित्
लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादयः अत्रस्थपुरातन्यः जनजातयः सन्ति। एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान्। १७ शतके तिबेटन् स्थलान्तरम् अभवत्। तदा भूतिया इति तत्रस्थाः जनजातिजनाः बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्तः। सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजकाः आसन्। यदा भूतियाजनानाम् आगमनम् अभवत् तदा तैः मूलसिक्किमजनानां बौद्धमतान्तरणाय यतितम्। दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञः आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षतः ३३२ वर्षाणि यावत् नामग्यालवंशस्य प्रशासकानाम् आधिपत्यमासीत्। १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत्। नेपालजनाः चीनदेशस्योपरि आक्रमणं कर्तुं यतितवन्तः। परं चीनजनैः नेपालजनानां पराजयः कृतः। नेपालजनाः सिक्किम-राज्य-आक्रमणाय अपि यतितवन्तः। परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत्। आङ्ग्लप्रशासकैः स्वार्थरक्षणाय सिक्किम जनेभ्यः साहाय्यं दत्तम्। १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत्। नेपालदेशः पराजितः। १८१७ तमे वर्षे आङ्ग्लैः सिक्किम प्रशासकैः सह 'Treaty Of Titalia'-सन्धिः कृता। आङ्ग्लानां डार्जीलिङ्ग स्थलविषये रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलतः तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापारः, प्रशासनं च समीचिनं भवेत्। अतः आङ्ग्लानां तथैव व्यवहारः आसीत्। अन्ततः १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्यः निश्चितं धनं स्वीकृत्य दत्तम्। एषः व्यवहारः चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतः। १९४७ तमवर्षपर्यन्तम् अयमेव क्रमः आसीत्। १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रम् अस्तित्वं संस्थाप्य भारतदेशः रक्षणकर्ता (Protectorate) भविष्यति एवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेशः भारतदेशे समाविष्टः जातः। तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत्। अनन्तरं प्रशासकयोः मध्ये सङ्घर्षः जातः। १९७० तमे वर्षे एषः सङ्घर्षः उच्चतमः आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम्। १६ मे १९७५ दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम्।
मण्डलानि
पूर्वसिक्किममण्डलम्
पश्चिमसिक्किममण्डलम्
उत्तरसिक्किममण्डलम्
दक्षिणसिक्किममण्डलम्
लोकजीवनम्
अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातयः तेषु प्रमुखाः । अत्रस्थजनाः उत्सवप्रियाः सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकारः प्रसिद्धः । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थः जनैः वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सवः । एतम् उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जनाः विशिष्टतया आचरन्ति । सिक्किमनूतनवर्षस्य २८,२९ तमे च दिने 'कग्यत' इति नृत्यं विशिष्टत्वेन नृत्यन्ति । 'दसेन'(दसरा) इति बृहत्तमः उत्सवः अत्रस्थाः नेपाळी, हिन्दुजनाः च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठैः तक्षितानि वस्तूनि, पटाः, चित्राणि च विशिष्टाः सन्ति ।
वीक्षणीयस्थलानि
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
White Hall
दो-द्रुल स्तूपः
सोलोफोक चारधाम
युमथाङग व्हेली-कन्दरं
पेलिङ्ग
उष्णजलकुण्डानि
गुरोः पद्मसम्भवस्य बौद्धविहारः
रूमटेक मठः
ताशी लिङ्ग
ऑर्किड् अभयारण्यम्
सोमगो निर्झरः
दो द्रूल चोर्टेन
इञ्चे मठः
ताशीदिङ्ग मठः
सङ्गा-चोलिङ्ग मठः
पेमायङ्गत्से मठः
पेमायनस्ती मठः
बाबा हरभजन सिंह 'मेमोरियल'
बाह्यानुबन्धाः
सर्वकारसङ्केतस्थलम्
जनसङ्ख्या
Details of the census
राज शासन जालपृष्ठ
Chief Ministers of Sikkim
भारतस्य राज्यानि
सिक्किमराज्यम् |
1032 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | हरियाणाराज्यम् | हरियाणाराज्यं (Haryana) भारतस्य किञ्चन राज्यम् अस्ति । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । हरियाणा राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य राजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, कुरुक्षेत्रं सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति। वस्तुतः तु चण्डीगढनगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । चण्डीगढनगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । हिस्सार राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति।
कुरुक्षेत्रं महाभारतयुद्धस्थलमिति प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।
नामकरणम्
हरियाणा-राज्यस्य नामकरणे विभिन्नमतानि सन्ति ।
प्राचीनकाले अस्मिन् प्रदेशे बृहदारण्यम् आसीत्, अतः इदं क्षेत्रं “हरि अरण्य” इति कथ्यते स्म । समयान्तरे “हरि अरण्य” इत्यस्य अपभ्रंशत्वात् हरियाणा इत्यभवत् ।
अस्मिन् प्रदेशे बहवः जनाः शिवस्य उपासकाः आसन्, अतः इदं स्थलं शिवस्य हरस्य वा गृहं कथ्यते स्म । तेन “हर अरण्य” इति नाम आसीत् । समयान्तरे हरियाणा इति नाम अभवत् ।
“आरयाणा” इत्यस्य अर्थः लुण्ठनम् इति । तस्मात् हरियाणा शब्दस्य निष्पत्तिः जाता ।
हरितमयं क्षेत्रं प्रदेशः वा इत्यर्थे “हरियाणा” शब्दस्य व्युत्पत्तिः अभवत् ।
ई. स. १३२८ तमस्य वर्षस्य कस्मिँश्चित् संस्कृताभिलेखे हरियाणा-शब्दस्य उल्लेखः दृश्यते ।
भौगोलिकम्
हरियाणा-राज्यस्य उत्तरदिशि हिमाचलप्रदेश-राज्यं, दक्षिणदिशि, पश्चिमदिशि च राजस्थान-राज्यम्, उत्तर-पश्चिमदिशि पञ्जाब-राज्यं, पूर्वदिशि उत्तरप्रदेश-राज्यम्, उत्तराखण्ड-राज्यं, देहली-राज्यं च स्थितम् अस्ति । यमुना-नदी हरियाणा-राज्यस्य प्रमुखा नदी अस्ति । इयं नदी हरियाणा-राज्यस्य पूर्व-भागे प्रवहति । घग्गर, टङ्गरी, मरकण्डा इत्यादयः नद्यः अपि प्रवहन्ति ।
हरियाणा-राज्यं भौगोलिकदृष्ट्या द्वयोः प्राकृतिकक्षेत्रयोः विभक्तम् अस्ति । प्रथमं - हिमालयस्य क्षेत्रं, द्वितीयं – सिन्धु-गङ्गानद्योः स्थलीयक्षेत्रेषु विभक्तम् अस्ति । अस्य राज्यस्य स्थलीयक्षेत्रम् अत्यधिकम् उर्वरम् अस्ति । किन्तु दक्षिण-पश्चिमभागः शुष्कः, सिकतामयः च अस्ति । अस्य राज्यस्य चत्वारि प्रमुखाणि भौगोलिक वैशिष्ट्यानि सन्ति । प्रथमम् - उत्तर-दिशि शिवालिक-पर्वतशृङ्खला अस्ति । द्वितीयं – घग्गर-यमुनानद्योः स्थलीयभागः द्वयोः भागयोः विभक्तः अस्ति । बाङ्गर, खादर च । तृतीयं – मरुस्थलीयः अर्धभागः । चतुर्थं – दक्षिणदिशि अरावलीपर्वतशृङ्खला ।
जलवायुः
हरियाणा-राज्ये ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । ग्रीष्मर्तौ हरियाणा-राज्यस्य तापमाम् अधिकतमं ५० डिग्री मात्रात्मकं भवति । वर्षतौ हरियाणा-राज्यस्य केषुचित् क्षेत्रेषु अधिकमात्रायां वर्षा भवति, केषुचित् क्षेत्रेषु अल्पमात्रायां वर्षा भवति । शिवालिक-क्षेत्रे अत्यधिकं वर्षा भवति । किन्तु अरावली-पर्वतीयक्षेत्रं शुष्कं भवति । तत्र अल्पवर्षा भवति ।
प्रमुखनगराणि
गुडगांव
गुडगांव-नगरं हरियाणा-राज्यस्य औद्योगिकनगरं विद्यते । अतः इदं नगरं हरियाणा-राज्यस्य आर्थिकराजधानी कथ्यते । नगरमिदं देहली-महानगरात् ३० किलोमीटर्मितं दूरे स्थितम अस्ति । तत्र “नया गुडगांव”, “पुराना गुडगांव” इत्येते द्वे नगरे स्तः । किन्तु तयोः नगरयोः भिन्नता दृश्यते । यतः “पुराना गुडगांव”-नगरे पुरातनानि भवनानि सन्ति । किन्तु “नया गुडगांव”-नगरे उच्चभवनानि दृश्यन्ते । नया गुडगांव”-नगरं विकाशीलं दृश्यते । गुडगांव-नगरं देहली-नगरस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । पुरा गुडगांव-नगरे कृषिः क्रियते स्म । किन्तु साम्प्रतं तस्य नगरस्य जनसङ्ख्या अपि अधिका अस्ति । अस्मिन् नगरे अशीत्यधिकानि बृहद्क्रयणकेन्द्राणि (Shoping Centre) सन्ति । तानि – एम्बिएन्स् मॉल्, सिटी सेन्टर् मॉल्, प्लाजा मॉल् च । तेषु “एम्बिएन्स् मॉल्” भारतस्य बृहद्क्रयणकेन्द्रेषु दितीयः अस्ति । गुडगांव-नगरे भ्रमणार्थं बहूनि उद्यानानि अपि सन्ति । लीशर् वेली पार्क्, किङ्गडम् ऑफ् ड्रीम्स्, अप्पू घर, सुल्तानपुर पक्षी अभयारण्य, पटौदी महल च इत्यादीनि पर्यटनस्थलानि सन्ति ।
पुरा गुडगांव-नगरम् आर्थिकदृष्ट्या अविकसितम् आसीत् । किन्तु समयान्तरे अस्य नगरस्य आर्थिकः विकासः अभवत् । नगरेऽस्मिन् डी. एल्. एफ्. (DLF) इत्यनया संस्थया जनेभ्यः वृत्तिः प्रदत्ता । तेन स्थानीयजनाः धनिकाः अभवन् । गुडगांव-नगरस्य कृषकाः अपि धनिकाः अभवन् । तैः कृषकैः स्वस्य कृषिभूमिः उद्योगपतिभ्यः विक्रीता । अनेन कारणेन इदं नगरम् औद्योगिकगतिविधीनां महत्त्वपूर्णं केन्द्रं विद्यते । अस्मिन् नगरे बहुराष्ट्रियाणाम्, अन्ताराष्ट्रियाणां च व्यावसायिकसंस्थानां मुख्यालयाः अपि सन्ति । अतः इदं नगरं विकासशीलनगरेषु गण्यते ।
आवर्षं तत्र पर्यटकाः भ्रमणार्थं गच्छन्ति । किन्तु शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् समये अधिकमात्रायां वीक्षणार्थिनः आनन्दप्राप्तये गुडगांव-नगरं गच्छन्ति । देहली-महानगरस्य “इन्दिरागान्धीराष्ट्रियविमानस्थानकं” गुडगांव-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अपरं च रेलमार्गेण, भूमार्गेण च नगरमिदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
कुरुक्षेत्रम्
पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति । तत्र “ब्रह्मा सरोवर टैङ्क्” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति । समीपे सरोवरः अपि अस्ति । तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसार-क्षेत्रे भगवता कृष्णेन अर्जुनाय गीतोपदेशः प्रदत्तः आसीत् ।
ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्णा सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति । “कल्पना चावला” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते । अस्य नगरस्य एकस्मिन् क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति । तत्र स्थानेश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति । तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः । कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति । तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नारकतारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति । वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ-नगरे स्थितम् अस्ति ।
इतिहासः
ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य प्रथमे दिनाङ्के (१ नवम्बर १९६६) हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य इतिहासः सिन्धुघाटीसभ्यतया सह सम्बद्धः अस्ति । हस्तिनापुरतः गान्धारपर्यन्तम् इदं सप्तसिन्धुक्षेत्रम् आसीत् । आर्याणाम् आगमनानन्तरम् अस्मिन् क्षेत्रे आर्याणां जनानां सङ्ख्या वर्धिता । अनन्तरं बहूनि राज्यानि स्थितानि, वैदिकसंस्कृतीनां विकासश्चाभवत् । प्रागैतिहासिककाले इदं राज्यम् आर्यसंस्कृतेः मुख्यकेन्द्रम् आसीत् । वैदिकवाङ्मये इदं राज्यं देवभूमिः कथ्यते । अस्मिन् राज्ये सरस्वती-नदी प्रवहति । सा वैदिकनदी कथ्यते । अस्मिन् राज्ये वैदिकमन्त्राणां रचना जाता । महाभारतकाले कौरव-पाण्डवानां युद्धं कुरुक्षेत्रे अभवत् । तत् कुरुक्षेत्रं हरियाणा-राज्ये स्थितम् अस्ति । मध्यकाले मुस्लिम-शासनकाले अस्मिन् प्रदेशे त्रीणि युद्धानि अभवन् । तेषु ई. स. १५२६ तमे वर्षे प्रथमं पानीपत-नामकं युद्धम् अभवत् । तस्मिन् समये बाबर-इत्याख्येन राज्ञा भारते मुघल-साम्राज्यं स्थापयितुम् इब्राहिम लोदी इत्याख्येन राज्ञा सह युद्धं कृतम् आसीत् । द्वितीयं युद्धम् ई. स. १५५६ तमे वर्षे अभवत् । तस्मिन् समये अकबर-इत्याख्येन अफगान-राजा पराजितः । एवं च तृतीयं युद्धम् ई. स. १७६१ तमे वर्षे अभवत् । ई. स. १८५७ तमे वर्षे स्वातन्त्र्यान्दोलने हरियाणा-राज्यस्य महद्योगदानम् आसीत् । ई. स. १९१९ तमे वर्षे पलवल-रेलस्थानके आङ्ग्लैः महात्मा परासेधितः ।
मध्यकालीनेतिहासः
हुण-शासनानन्तरं हर्षवर्धनेन सप्तमशताब्द्यां कुरुक्षेत्रस्य समीपे थानेसर-नामिका राजधानी स्थापिता । हर्षवर्धनस्य मृत्योः अनन्तरं प्रतिहार-राज्ञा तत्र शासनं कृतम् । तेन कन्नौज-नगरी स्वस्य राज्यस्य राजधानीत्वेन कारिता । द्वादशशताब्द्यां “पृथ्वीराज चौहान” इत्याख्येन “हांसी”, “तरावडी” च इत्येतयोः नगरयोः स्वस्य दुर्गः स्थापितः । मुहम्मद गौरी इत्याख्येन तराईन-युद्धे अत्र अधिकारः प्राप्तः । अनन्तरं दीर्घकालं यावत् देहली-साम्राज्येन अत्र शासनं कृतम् आसीत् । वैदेशिकशत्रुभिः यदा यदा देहली-साम्राज्यस्य अधिकाराय युद्धानि कृतानि, तेषु बहूनि युद्धानि हरियाणा-राज्ये अभवन् ।
राजनीतिः
हरियाणा-राज्ये एकं सदनात्मकं विधानमण्डलं विद्यते । राज्ये विधानसभायाः नवतिः (९०) स्थानानि (Seats) सन्ति । लोकसभायाः दश (१०) स्थानानि, राज्यसभायाः पञ्च (५) स्थानानि च सन्ति । ई. स. १९६७ तमस्य वर्षस्य नवम्बर-मासस्य द्वितीये दिनाङ्के (२ नवम्बर १९६७) हरियाणा-राज्ये राष्ट्रपतिशासनस्य आरम्भः जातः । साम्प्रतं हरियाणा-राज्ये एकविंशतिः (२१) मण्डलानि सन्ति । अस्मिन् राज्ये चत्वारः सम्भागाः सन्ति । अम्बाला, हिसार, गुडगांव, रोहतक च । “इण्डियन् नेशनल् लोक दल”, “हरियाणा विकास पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, भारतीय जनता पार्टी च इत्येते राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “बंसीलाल चौधरी” इत्याख्येन “हरियाणा विकास पार्टी” इत्यस्य समूहस्य स्थापना कृता ।
मण्डलानि
हरियाणा-राज्यम् एकविंशतिः मण्डलेषु विभक्तम् अस्ति ।
फरीदाबादमण्डलम्
पञ्चकुलामण्डलम्
अम्बालामण्डलम्
यमुनानगरमण्डलम्
कुरुक्षेत्रमण्डलम्
कैथलमण्डलम्
करनालमण्डलम्
पानीपतमण्डलम्
सोनीपतमण्डलम्
जीन्दमण्डलम्
फतेहाबादमण्डलम्
सिरसामण्डलम्
हिसारमण्डलम्
भिवानीमण्डलम्
रोहतकमण्डलम्
झज्जरमण्डलम्
महेन्द्रगढमण्डलम्
रिवाडीमण्डलम्
गुडगांवमण्डलम्
मेवातमण्डलम्
पलवलमण्डलम्
शिक्षणम्
२०११ जनगणनानुगुणं हरियाणा-राज्यस्य साक्षरतामानं ७६.१० प्रतिशतम् अस्ति । पुरुषस्य साक्षरतामानं ८५.५० प्रतिशतं, महिलानां साक्षरतामानं ६६.८० प्रतिशतं च अस्ति । हरियाणा-राज्यस्य गुडगांव-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । तस्य मण्डलस्य साक्षरता ८४.२ प्रतिशतम् अस्ति । किन्तु मेवात-मण्डलस्य साक्षरतामानम् न्यूनतमम् अस्ति । २०११ जनगणनानुसारं मेवात-मण्डलस्य साक्षरतामानं ५६.१ प्रतिशतम् अस्ति । हरियाणा-राज्यस्य विकासाय सर्वकारेण बहवः महाविद्यालयाः, विश्वविद्यालयाः च स्थापिताः । शैक्षणिकविकासाय हरियाणा-राज्यस्य वैयक्तिकसंस्थानानाम् अपि महद्योगदानम् अस्ति । ई. स. १९६६ तमे वर्षे कलाविज्ञानयोः ४० महाविद्यालयाः आसन् । ई. स. १९९७ तमे वर्षे १४० महाविद्यालयाः अभवन् । राज्ये ३५१७ उच्चतरमाध्यमिकविद्यालयाः सन्ति । एवं च १०,१३४ आधारभूताः पाठशालाः सन्ति । एतानि सर्वाणि संस्थानानि हरियाणा-राज्यस्य ६,७५९ ग्रामेषु, ९४ पत्तनेषु च स्थितानि सन्ति । हरियाणा-राज्ये चत्वारः विश्वविद्यलयाः सन्ति । कुरुक्षेत्र-नगरे “कुरुक्षेत्र विश्वविद्यालयः”, रोहतक-नगरे “महर्षि दयानन्द विश्वविद्यालयः”, हिसार-नगरे गुरु जम्भेश्वर-विश्वविद्यालयः, हिसार-नगरे “चौधरी चरण सिंह कृषि विश्वविद्यालयः” च । अपरं च दुग्धोत्पादकानां विकासाय करनाल-नगरे “राष्ट्रीय डेयरी अनुसन्धान संस्थानं” स्थितम् अस्ति ।
अर्थव्यवस्था, कृषिः च
हरियाणा-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । हरियाणा-राज्ये कृषकाः उत्पादनकरमुक्ताः सन्ति । सर्वकारेण कृषकेभ्यः कृषिकार्यस्य उत्पादने करात् मुक्तिः प्रदत्ता । ई. स. १९७० तमे वर्षे भारतस्य राज्येषु सर्वप्रथमं हरियाणा-राज्यस्य ग्रामेषु विद्युत्सौकर्यं प्रदत्तम् आसीत् । अस्मिन् राज्ये गोधूमस्य उत्पादनं सर्वाधिकं भवति । करनाल-नगरे, कुरुक्षेत्र-नगरे च बासमती-तण्डुलाः उत्पाद्यन्ते । अस्माद् राज्यात् एव बासमती-तण्डुलानां विक्रयणं सर्वाधिकं भवति । अत्र इक्षुदण्डस्य, कार्पासस्य, लवेटिकायाः च उत्पादनम् अपि क्रियते । कृषिदृष्ट्या हरियाणा-राज्यं समृद्धम् अस्ति ।
सेचनं, विद्युदुत्पादनञ्च
हरियाणा-राज्यस्य सर्वकारः सम्पूर्णे राज्ये सेचनाय, जलस्य आपूर्तये च समानरूपेण कार्यरतः अस्ति । अतः हरियाणा-राज्यस्य सर्वकारेण विविधाः योजनाः आरब्धाः । वर्षर्तौ यमुनानद्याः अतिरिक्तजलस्य उपयोगार्थं “दादूपुर शाहाबाद वाल्वी नहर परियोजना” इतीयं योजना प्रचालिता ।
उद्योगः
हरियाणा-राज्यस्य औद्योगिकक्षेत्रं विस्तृतं, विशालं च अस्ति । राज्ये १,३४३ बृहदुद्योगस्य, ८०,००० लघूद्योगस्य च घटकाः सन्ति । हरियाणा-राज्ये विभिन्नवस्तूनाम् उत्पादनं भवति । अस्मिन् राज्ये विभिन्नप्रकारकाणाम् उपकरणानाम् उत्पादनम् अपि क्रियते । पानीपत-नगरस्य हस्तकलाकार्यस्य वस्तूनि अपि विश्वस्मिन् प्रसिद्धानि सन्ति । राज्ये बहवः यन्त्रागाराः, औद्योगिकघटकाः च अपि सन्ति । तेषां विकासाय ४,१२४ कोटि रूप्यकाणां निवेशः अभवत् । तेषु ९२,५५९ जनाः वृत्तिं प्राप्तवन्तः । “भारतीय तेल निगम” इत्याख्येन पानीपत-नगरे ५,००० कोटिरुप्यकाणां निवेशः कृतः आसीत् । अस्मिन् राज्ये मारुति, हीरो हॉण्डा इत्यादयः यानोद्योगानां विकासः अभवत् । तेषु उद्योगेषु १०,००० कोटिरुप्यकाणां निवेशः कृतः ।
हरियाणा-राज्यं “दूध-दही का प्रदेश” इति नाम्ना विख्यातम् अस्ति । “दूध की कहाडी” इत्यपि नाम्ना ज्ञायते इदं राज्यम् । ई. स. १९६७ तमे वर्षे अस्मिन् राज्ये “हरियाणा डेयरी विकास एवं मिल्क सप्लाई विभाग” इत्यस्य विभागस्य स्थापना कृता आसीत् । अस्मिन् राज्ये पशुपालनम् अपि कृषिकार्यस्य महत्त्वपूर्णः घटकः विद्यते । पशुपालने गौः, महिषी, अजा च इत्यादयः मुख्याः पशवः सन्ति । कार्पासकाणां, वनस्पतिघृतस्य, सीवनयन्त्राणां (sewing machine), यन्त्राणां, द्विचक्रिकाणां, कारयानानां, काचवस्तूनां, चीनीयवस्त्राणां, कर्गजानां च उद्योगाः हरियाणा-राज्यस्य मुख्याः उद्योगाः सन्ति ।
कला, संस्कृतिश्च
हरियाणा-राज्यस्य सांस्कृतिकजीवने लोककथाः, लोकनृत्यानि, लोकगीतानि दृश्यन्ते । वसन्तर्तौ होली-उत्सवे जनाः परस्परं गुलालं प्रक्षिपन्ति । गुलालेन जनेषु प्रीतिः वर्धते । अस्मिन् उत्सवे जनेषु वयभेदः, जातिभेदः न भवति । हरियाणा-राज्ये भगवतः कृष्णस्य जन्मदिवसः अपि उत्साहपूर्वकम् आचर्यते । यतः अस्य राज्यस्य कुरुक्षेत्र-युद्धस्थले एव भगवता कृष्णेन अर्जुनाय श्रीमद्भगवद्गीतायाः उपदेशः प्रदत्तः आसीत् । हिसार-नगरस्य समीपे अग्रोह-तीर्थं, पेहोवा-तीर्थं च स्थितम् अस्ति । अग्रोह-तीर्थं भगवतः अग्रसेनस्य जन्मस्थलं वर्तते । अग्रसेनः अग्रवाल-समाजस्य पूर्वजः, प्रवर्तकः वा मन्यते । अग्रवाल-समाजस्य जनाः सम्पूर्णे भारते व्यापारं कुर्वन्ति । अयं समाजः सम्पूर्णे भारते विस्तृतः अस्ति । भारतस्य व्यापारिवर्गेषु अग्रवाल-समाजः प्रमुखः वर्तते । अग्रोहा-तीर्थम् अग्रसेनस्य जन्मभूमिः अस्ति । अतः अग्रवाल-समाजेन अग्रसेनस्य सम्मानत्वेन तत्र चिकित्साविद्यालयः स्थापितः । पेहोवा-तीर्थस्थलं सरस्वती-नद्याः तटे स्थितम् अस्ति । इदं स्थलं पितृश्राद्धकर्मणे महत्त्वपूर्णं पवित्रस्थलं वर्तते ।
हरियाणा-राज्यं लोककथासंस्कृत्या सह संलग्नम् अस्ति । हरियाणा राज्यस्य मुख्या भाषा “हरियाणवी” अस्ति । अस्यां भाषायां “झाडुफिरी” इति नामकः प्रथमः उपन्यासः अस्ति । “चन्द्रावल” इति नामकं चलच्चित्रं हरियाणवी-भाषायाः प्रथमं चलच्चित्रम् आसीत् । हरियाणा-राज्यस्य भूमौ बहवः कवयः अभवन् । तेषु हिन्दी-भाषायाः पुष्पदन्तः अपि रोहतक-नगरे जनिं लेभे । हरिदासः, गरीबदासः, “काजी महमूद” चेत्यादयः सन्तकवयः अभवन् । “उदय भानु हंस” इत्याख्यः अस्य राज्यस्य प्रथमः राजकविः आसीत् । हरियाणा-राज्ये “पण्डित नेकीराम शर्मा” इत्याख्यः प्रसिद्धसाहित्यकारः अभवत् । सः “हरियाणा केसरी” इति नाम्ना ज्ञायते स्म । बालमुकुन्द-गुप्तः हिन्दी-भाषायाः प्रसिद्धः लेखकः आसीत् । तेन “शिवशम्भू के चिठ्ठे” इत्यस्यां रचनायां ब्रिटिश्-सर्वकारस्य विद्रोहार्थं व्यङ्ग्यात्मकलेखाः लिखिताः आसन् । अयं कविः अपि हरियाणा-राज्येन सह सम्बद्धः अस्ति ।
हरियाणा-राज्ये जनैः विभिन्नाः उत्सवाः आचर्यन्ते । तेषु होली, दीपावलिः, वैशाखीपर्व, गणगौर, गुग्गा पीर, साँझी च इत्यादयः उत्सवाः मुख्याः सन्ति । अस्मिन् राज्ये आवर्षं नैके उत्सवाः आचर्यन्ते । तेषु सूरजकुण्ड शिल्प मेला, गोपाल मोचन मेला, मसानी मेला च इत्यादयः प्रमुखाः उत्सवाः सन्ति । “सूरजकुण्ड शिल्प मेला” इत्यस्य उत्सवस्य प्रतिवर्षं फरवरी-मासे आयोजनं भवति । कुरुक्षेत्र-नगरे अपि प्रतिवर्षं मेला-उत्सवः आयोज्यते । अयम् उत्सवः लोकप्रियः अपि अस्ति । हरियाणा-राज्ये सूर्यग्रहणे कुरुक्षेत्रे मेला-उत्सवः आयोज्यते । बहुत्र “पशुमेला” अपि आयोज्यते । हरियाणा-राज्यस्य पारम्परिकावासानां वास्तुशिल्पकला भारते ख्याता अस्ति । तेषाम् आवासानां द्वाराणां संरचना अपि विशिष्टा वर्तते ।
“लोहरी” इति हरियाणा-राज्यस्य प्रमुखः उत्सवः अस्ति । अयम् उत्सवः मकरसङ्क्रान्तेः पूर्वम् आचर्यते । अयमुत्सवः मुलरूपेण पञ्जाब-राज्यस्य प्रमुखोत्सवः अस्ति । प्रतिवर्षं नवम्बर-मासस्य प्रथमः दिनाङ्कः हरियाणा-राज्ये स्थापनादिवसत्वेन आचर्यते । अस्मिन् दिवसे हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य पर्यटनविभागस्य स्थापना अपि अस्मिन् दिवसे एव अभवत् । हरियाणा-पञ्जाब-राज्ययोः संस्कृतिः समाना एव अस्ति । यतः पुरा हरियाणा-राज्यं पञ्जाब-राज्यस्य एव अंशः आसीत् ।
वीक्षणीयस्थलानि
हरियाणा-राज्यं धार्मिकदृष्ट्या, ऐतिहासिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् राज्ये पौराणिककालीनानि बहूनि स्थलानि सन्ति । तत्र श्रीकृष्णेन कुरुक्षेत्रे अर्जुनाय गीतायाः उपदेशः प्रदत्तः आसीत् । अपरं च तत्र पानीपत-युद्धस्य इतिहासः अपि दृश्यमानः भवति । अतः अस्मिन् राज्ये पर्यटकाणां भ्रमणार्थं बहूनि ऐतिहासिकस्थलानि, धार्मिकस्थानानि च सन्ति । अस्मिन् राज्ये अधिकमात्रायां पर्यटकाणाम् आवागमनं भवति । अस्मिन् राज्ये मन्दिराणि, तडागाः, जलाशयाः चापि सन्ति । हरियाणा-राज्ये चत्वारिंशदधिकानि वीक्षणीयस्थलानि सन्ति । तेषु केषाञ्चित् स्थलानां सामान्यपरिचयः अधः प्रदत्तः अस्ति ।
यमुनानगरम्
यमुनानगरं हरियाणा-राज्यस्य औद्योगिकं नगरं विद्यते । इदं नगरं स्वच्छतमं, सुन्दरं च अस्ति । अस्मिन् नगरे काष्ठकर्मणः बहवः घटकाः सन्ति । अतः नगरमिदं समृद्धं चास्ति । इदं नगरं यमुना-नद्याः तटे स्थितम् अस्ति । अस्य नगरस्य उत्तरभागः पर्वतैः आवृतः अस्ति । तत्र वनानि, नद्यः च सन्ति । अस्य नगरस्य पश्चिमदिशि, दक्षिणदिशि च अम्बाला-नगरं, कुरुक्षेत्र-नगरं, करनाल-नगरं च स्थितम् अस्ति । पुरा इदं नगरं “अब्दुल्लापुर” नाम्ना ज्ञायते स्म । ई. स. १९४७ तमे वर्षे विभाजनानन्तरं ये जनाः भारत-देशम् आगतवन्तः, तेभ्यः इदं नगरं निवासस्थानत्वेन अभवत् । हडप्पा-क्षेत्रस्य पाषाणाः अस्मिन् क्षेत्रे प्राप्यन्ते ।
यमुना-नगरस्य पूर्वभागे “कालेसर-वन्यजीवाभयारण्यं” स्थितम् अस्ति । तस्मिन् अभयारण्ये बहवः वन्यजीवाः निवसन्ति । इतः परं विभिन्नप्रकारकाः वृक्षाः अपि सन्ति । तत्र “चौधरी देवीलाल हर्बल् नेचर् पार्क्” इति उद्यानम् अपि स्थितम् अस्ति । अस्मिन् उद्याने औषधीयपादपाः बहवः उद्भवन्ति । बिलासपुर-नगरम् अस्य नगरस्य समीपे एव स्थितम् अस्ति । बिलासपुर-नगरे कपालमोचन, ऋणमोचन, सूर्यकुण्डतडागः च पवित्रतमं स्थलम् अस्ति । तत्र आदिबारी-इत्यपि एकं शान्तस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकसौन्दर्यं महत्त्वपूर्णम् अस्ति । हिन्दी-भाषा, पञ्जाबी-भाषा, बाङ्गरू-भाषा च इत्यादयः यमुना-नगरस्य प्रमुखाः भाषाः सन्ति । हरियाणा-राज्यस्य चिकित्सायाः, स्वास्थस्य सेवायां यमुनानगरम् अग्रगण्यम् अस्ति । अस्मिन् नगरे शैक्षणिकसंस्थानानि अपि बहूनि सन्ति । तत्र विभिन्नमन्दिराणि, सिक्ख-उपासनागृहाणि च सन्ति ।
इदं नगरं व्यापारक्षेत्रे विकासशीलं वर्तते । औद्योगिकक्षेत्रे यमुनानगरेण उद्योगाणां विस्तारः कृतः अस्ति । व्यापारः जनानां महत्त्वपूर्णः व्यवसायः अभवत् । तत्र “रिलायन्स् इण्डस्ट्रीज्” इत्यनया संस्थया थर्मल-विद्युद्यन्त्रागारः आरब्धः । अस्मिन् नगरे बृहत्तमस्य रेलयानस्य छादितयानस्य सन्धानाय कार्यशालाः अपि सन्ति । अस्मिन् नगरे समाचारपत्रं, शर्करां च निर्मातुम् एशिया-खण्डस्य बृहत्तमः यन्त्रागारः अस्ति । तत्र काष्ठोद्योगः अपि अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः यमुनानगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये यमुनानगरस्य वातावरणं सुखदं भवति । धूमशकटमार्गेण, भूमार्गेण च यमुनानगरं प्राप्यते । चण्डीगढ-नगरे समीपस्थं विमानस्थानं स्थितमस्ति ।
पलवल
इदं नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । दिल्ली-महानगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति पलवल-नगरम् । महाभारतकालीनानां पाण्डवानां शासनकाले पलवासुर-नामाख्यः कश्चन असुरः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । इन्द्रप्रस्थ-राज्यस्य कस्यचित् भागत्वेन पलवल-क्षेत्रस्य उल्लेखः महाभारते प्राप्यते । भगवतः कृष्णस्य भ्रात्रा बलरामेण पलवासुरः हतः । इदं नगरं राज्ञा विक्रमादित्येन सह अपि सम्बद्धम् अस्ति । ब्रिटिश-शासनकाले इदं नगरं पञ्जाब-गुडगांवक्षेत्राभ्यां सह सम्बद्धम् आसीत् । ऐतिहासिकदृष्ट्या अपि पलवल-नगरं प्रसिद्धम् अस्ति । यतः अस्य नगरस्य बहुभिः क्रान्तिकारिभिः स्वातन्त्रतायै योगदानं प्रदत्तम आसीत् । नगरे दाऊजी इति नामकं बलरामस्य अपि मन्दिरं विद्यते । कार्पासोत्पादकेषु नगरेषु पलवल-नगरम् अन्यतमम् अस्ति । इतः कार्पासस्य सम्पूर्णदेशाय आपूर्तिः क्रियते ।
भारतस्य पञ्चवटी-नामकं प्रसिद्धं मन्दिरं पलवल-नगरे एव स्थितम् अस्ति । इदं मन्दिरं हिन्दुधर्मे अत्यधिकं महत्त्वं बिभर्ति । अन्यानि अपि बहूनि मन्दिराणि सन्ति । तानि – परशुराममन्दिरं, जागेश्वरमन्दिरं, देवीमन्दिरं च । तत्र बहूनि उद्यानानि अपि सन्ति । तानि – श्रद्धानन्द पार्क्, डी पार्क्, तिकोना पार्क्, किले वाला पार्क्, टङ्की वाला पार्क्, ताऊ देवीलाल पार्क्, दशहरा ग्राउण्ड् पार्क्, हुडा पार्क् च । एतानि पलवल-नगरस्य वीक्षणीयस्थलानि सन्ति । वर्षर्तौ पलवल-नगरस्य जलवायुः अनुकूला भवति । तस्मिन् काले जनाः पलवल-नगरे भ्रमणार्थं गच्छन्ति । पलवल-नगरं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः सरलतया पलवल-नगरं प्राप्तुं शक्यते ।
नूह
नूह-नगरं हरियाणा-राज्यस्य मेवात-मण्डले स्थितम् एकं धार्मिकं स्थलं विद्यते । इदं नगरं देहली-अलवर-राजमार्गे स्थितम् अस्ति । पुरा तत्र “बहादुर सिंह” इत्याख्यस्य राज्ञः शासनम् आसीत् । तस्य शासनकाले लवणस्य व्यापारः भवति स्म । तदा इदं नगरं लवणस्य प्रमुखं व्यापारिकं केन्द्रम् आसीत् । नूह-नगरस्य प्रतिवेशिषु ग्रामेषु लवणनिर्माणं क्रियते स्म । इदानीमपि तेषां भवनानां भग्नावशेषाः स्थिताः सन्ति । नूह-नगरे “हिलता मीनार” इत्याख्यम् ऐतिहासिकं स्थलं वर्तते । तस्य स्थलस्य वास्तुकला विशिष्टा अस्ति । तत्स्थलं नूह-नगरस्य आकर्षणकेन्द्रं विद्यते ।
नल्लद-क्षेत्रे एकः प्राकृतिकः जलाशयः अस्ति । सः जलाशयः नूह-नगरात् २ किलोमीटर्मितं दूरे स्थितम् अस्ति । अरावली-पर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं नगरम् । तत्र शिवमन्दिरम् अपि अस्ति । पाण्डवाः वनवासे तत्रैव विश्रामं कृतवन्तः, जलाशयस्य जलम् अपि पीतवन्तः च इति जनानां मान्यता अस्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । तस्मिन् समये नूह-नगरस्य वातावरणं मनोहरं भवति । गुडगांव-रेलस्थानकं नूह-नगरस्य समीपस्थं रेलस्थानकं वर्तते । गुडगाव-रेलस्थानकम् नूह-नगरात् ४५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।
होडल
होडल-नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । इदं नगरम् उत्तरप्रदेशस्य सीमायां स्थितम् अस्ति । होडल-नगरं देहली-नगरात् ८८ किलोमीटर्मिते, आग्रा-नगरात् १५० किलोमीटर्मिते च दूरे स्थितम् अस्ति । अस्मिन् नगरे चमेली-वनं, हनुमन्-मन्दिरं च स्थितम् अस्ति । विशेषतः मङ्गलवासरे बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । तत्र “त्यागी बाबा” इत्याख्यः अपि प्रसिद्धः अस्ति । फरवरी-मासतः अप्रैल-मासपर्यन्तं, अगस्त-मासतः नवम्बर-मासपर्यन्तं वसन्तर्तौ अधिकमात्रायां जनाः भ्रमणार्थं गच्छन्ति । राष्ट्रियराजमार्गेण इदं होडल-नगरं देहली-नगरेण, गुडगांव-नगरेण च सह सम्बद्धम् अस्ति ।
अम्बाला
हरियाणा-राज्यस्य एकं लघुनगरम् अस्ति अम्बाला-नगरम् । इदं नगरं द्वयोर्भागयोः विभक्तम् अस्ति । एकम् अम्बाला-नगरम्, अपरं च अम्बाला छावनी च । अम्बाला-नगरात् अम्बाला-छावनी इत्येतत् ३ किलोमीटर्मितं दूरे अस्ति । अम्बाला-नगरं गङ्गा-सिंधु-नद्यौ पृथक्करोति । अस्य नगरस्य दक्षिणदिशि टाङ्गडी-नदी, उत्तरदिशि च घग्गर-नदी च वहति । अत्र कानिचन एव पर्यटनस्थलानि सन्ति । तानि – बादशाह बाग गुरुद्वारा, शीश गञ्ज गुरुद्वारा, लखी शाह, टकवाल शाह, सेण्ट् पॉल् चर्च्, काली माता मन्दिरं च । इदं नगरं पञ्जाब-हरियाणा-राज्ययोः सीमायां स्थितम् अस्ति । “भवानी अम्बा मन्दिरम्” अस्मिन् नगरे लोकप्रियम् अस्ति । तस्य मन्दिरस्य नाम्ना एव अस्य नगरस्य नामकरणं कृतम् आसीत् । अम्बाला-नगरं रेलस्थानकानां सम्भागीयः मुख्यालयः अपि अस्ति । अनेन प्रकारेण हरियाणा-राज्यस्य प्रमुखरेलस्थानकम् अपि अस्ति ।
अम्बाला-नगरे वस्त्र-हट्टः भवति । सः हट्टः हरियाणा-राज्ये प्रसिद्धः अस्ति । अस्मिन् हट्टे वस्त्राणि अल्पमूल्येषु प्राप्यन्ते । तस्मिन् हट्टे सहस्राधिकाः आपणाः सन्ति । तत्र हस्तनिर्मितानि वस्त्राणि, कौशेय-वस्त्राणि च प्राप्यन्ते । अम्बाला-नगरे विज्ञान-आपणः अपि अस्ति । तस्मिन् आपणे वैज्ञानिकशल्योपकरणानि सन्ति । अतः एव नगरमिदं “वैज्ञानिकोपकरणानां नगरम्” इति कथ्यते । जनाः अक्टूबर-मासतः नवम्बर-मासपर्यन्तम् अम्बाला-नगरं गच्छन्ति । चण्डीगढ-नगरे अम्बाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च अम्बाला-नगरं विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
जगाधरी
जगाधरी-नगरं हरियाणा-राज्यस्य यमुनानगर-मण्डले स्थितम् अस्ति । नगरमिदं धातुपात्रनिर्माणाय, एल्यूमीनियम्-धातूत्पादनाय, स्टील्-धातूत्पादनाय च प्रसिद्धम् अस्ति । अपरं च अस्मिन् नगरे काष्ठस्य व्यापारः अपि क्रियते । जगाधरी-नगरे बहूनि मन्दिराणि सन्ति । तानि- लठमार-मन्दिरं, खेडा-मन्दिरं, गौरीशङ्कर-मन्दिरं, मनसादेवी-मन्दिरं, गुगामादी-मन्दिरं च । जगाधरी-नगरे वीक्षणीयस्थलानि अपि बहूनि सन्ति । कलेसर-वन्यजीवाभयारण्यं, बिलासपुरं, पञ्चमुखीहनुमन्-मन्दिरं, कपाललोचन, छछरौली, तेजवाला, आदि बद्री, चनेटी च इत्यादीनि जगाधरी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । जगाधरी-नगरस्य जलवाष्पः उष्णकटीबन्धीयः भवति । अतः जनाः भ्रमणार्थं शीतर्तौ तत्र गच्छन्ति । जगाधरी-नगरं गन्तुं बस-यानानि प्राप्यन्ते । इदं नगरं समीपस्थैः विमानस्थानकैः, रेलस्थानकैः च सह सम्बद्धम् अस्ति ।
रेवाडी
इदं नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । रेवाडी-नगरं देहली-नगरात् ८२ किलोमीटर्मिते दूरे स्थितम् अस्ति । “हेमचन्द्र विक्रमादित्यः” भारतस्य अन्तिमः हिन्दुसम्राट आसीत् । सः अस्मिन् नगरे एव शिक्षणं प्राप्तवान् । राज्ञा हेमचन्द्रेण ताम्रपात्राणां, पीतलधातूनां च उद्योगाय यन्त्रागाराः स्थापिताः । अतः साम्प्रतमपि इदं नगरं धातूत्पादनाय प्रसिद्धम् अस्ति । रेवाडी-नगरे “रेवाडी हेरिटेज् स्टीम् लोकोमोटिव् सङ्ग्रहालयः” स्थितः अस्ति । तस्मिन् सङ्ग्रहालये बाष्पयन्त्राणि सन्ति । रेवाडी-नगरस्य जलवायुः अर्धशुष्कः अस्ति । तत्र त्रयः ऋतवः समानाः एव भवन्ति । रेवाडी-नगरं प्रमुखं रेलस्थानकम् अस्ति । नगरमिदं वायुमार्गेणम् भूशकटमार्गेण, भूमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
पञ्चकूला
पञ्चकूला-नगरं चण्डीगढ-नगरस्य उपग्रह-नगरम् अस्ति । अस्य नगरस्य सीमा मोहाली-नगरेण सह सम्मिलति । चण्डीमन्दिर-नामकं सेनाशिबिरं पञ्चकूला-नगरे स्थितम् अस्ति । इदं शिबिरं भारतीयसेनायाः मुख्यालयः अपि अस्ति । घग्गर-नद्याः तटे स्थितम् अस्ति इदं पञ्चकूला-नगरम् । अस्मिन् नगरे घग्गर-नद्याः पञ्च कुल्याः सन्ति । एताः कुल्याः स्थानीयजनेभ्यः अर्थसाधिकाः भवन्ति । ग्राम्यजनाः तासां कुल्यानां संरक्षणं कुर्वन्ति । पञ्चकूला-नगरस्य पूर्वदिशि, पश्चिमदिशि च हिमाचलप्रदेश-राज्यं, पश्चिमदिशि पञ्जाब-राज्यं, दक्षिणदिशि चण्डीगढ-नगरं च स्थितम् अस्ति । अस्य नगरस्य समीपे शिवालिक-पर्वतशृङ्खला अपि अस्ति । नगरेऽस्मिन् “ताऊ देवीला-क्रीडाङ्गणम्” अस्ति । इदं क्रीडाङ्गणम् “आई. पी. एल्. (IPL)” इत्यस्यै क्रीडायै प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे पिञ्जौर-क्षेत्रम् अस्ति । क्षेत्रमिदम् औद्योगिकं वर्तते । तत्र “एच्. एम्. टी (HMT)” इत्याख्यः यन्त्रागारः अपि अस्ति । तत्र बहवः स्थानीयजनाः कार्यरताः सन्ति ।
पञ्चकूला-नगरे “मोरनी हिल्” इत्येतत् पर्वतीयक्षेत्रम् अस्ति । इदं प्राचीनस्थले स्थितम् अस्ति । शिवालिक-पर्वतशृङ्खलायाः कश्चन भागः अस्ति इदं क्षेत्रम् । शिवालिक-पर्वतशृङ्खलायाः तले बहूनि मन्दिराणि अपि सन्ति । पिञ्जौर-क्षेत्रे मुघल-उद्यानम् अस्ति । तद् उद्यानं यादवेन्द्र-उद्यानम् इति नाम्ना अपि ज्ञायते । घग्गर-नद्याः तटे सिक्ख-उपासनागृहम् अस्ति । ई. स. १८१५ तमे वर्षे निर्मितं मनसादेवी-मन्दिरं चण्डीगढ-नगरात् ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इयं देवी वरदायिनी अस्ति इति मन्यते । ३६० वर्षेभ्यः पूर्वं निर्मितं रामगढ-दुर्गम् अपि तत्र स्थितम् अस्ति । पञ्चकूला-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः नवम्बर-मासपर्यन्तं जनाः पञ्चकूला-नगरं गच्छन्ति । चण्डीगढ-नगरस्य विमानस्थानकं पञ्चकूला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च देशस्य विभिन्ननगरैः सह इदं नगरं सम्बद्धम् अस्ति ।
फरीदाबाद
हरियाणा-राज्यस्य द्वितीयं बृहत्तमं नगरम् अस्ति फरीदाबाद-नगरम् । “बाबा फरीद” इत्याख्येन इदं नगरं स्थापितम् । अतः तस्य नाम्ना फरीदाबाद-नगरम् इति नामकरणम् अभवत् । “बाबा फरीद” इत्याख्येन तत्र एकः दुर्गः, मुस्लिम-उपासनागृहं च निर्मापितम् आसीत् । अधुनापि तेषां भग्नावशेषाः प्राप्यन्ते । इदं नगरं परितः देहली-महानगरं, गुडगांव-नगरम् उत्तरप्रदेश-राज्यं च स्थितम् अस्ति । अतः अस्य नगरस्य भौगोलिकस्थितिः महत्त्वपूर्णा अस्ति । देहली-नगरात् फरीदाबाद-नगरं २५ किलोमीटर्मिते दूरे अस्ति । इदं नगरं यमुना-नद्याः केषुचित् क्षेत्रेषु व्याप्तम् अस्ति । फरीदाबाद-नगरं हरियाणा-राज्यस्य औद्योगिककेन्द्रम् अपि अस्ति । तन्नगरे विभिन्नवस्तूनाम् उत्पादनं भवति ।
बदखल झील, सूरज-कुण्डः, राजा नाहर सिंह पैलेस, शिरडी-सांईबाबा-मन्दिरं, शिवमन्दिरं, सेण्ट् मेरी चर्च्, धौज झील, अरावली गोल्फ् कोर्स्, नाहर सिंह क्रिकेट् स्टेडियम्, टाउन् पार्क्, झरना मन्दिर गांव, मोहब्बताबाद, फरीदखान का मकबरा, वैष्णोदेवी-मन्दिरसंस्थानं, फरीदाबाद-तापीय-विद्युत्गृहं च इत्येतानि फरीदाबाद-नगरस्य समीपस्थानि प्रमुखाणि वीक्षणीयस्थलानि सन्ति । वर्षर्तुं विहाय फरीदाबाद-नगरस्य जलवायुः अर्द्धशुष्कः, उष्णः, शुष्कश्च भवति । वर्षर्तौ फरीदाबाद-नगरस्य वातावरणम् आर्द्रमयं भवति ।
नारनौल
नारनौल-नगरं हरियाणा-नगरस्य महेन्द्रगढ-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकनगरं विद्यते । महाभारते अपि अस्य नगरस्य नामोल्लेखः प्राप्यते । अकबर-राज्ञः नवरत्नेषु अन्यतमस्य बीरबल-इत्याख्यस्य जन्मस्थलं मन्यते इदं नारनौल-नगरम् । “शेर शाह सूरी” इत्याख्यस्य जन्म अपि अस्मिन् नगरे अभवत् । अस्मिन् नगरे विभिन्नौषधिभिः च्यवनप्राशः निर्मीयते । आयुर्वेदिकच्यवनप्राशाय इदं नगरं सम्पूर्णभारते प्रसिद्धम् अस्ति । “धौसी हिल्” इत्येतत् पर्वतीयक्षेत्रं नारनौल-नगरस्य प्रमुखं वीक्षणीयस्थलं वर्तते । इदं स्थलं लुप्तज्वालामुखीत्वेन मन्यते । यतः साम्प्रतमपि ततः लाक्षा प्राप्यते । वैदिककालीनस्य च्यवनर्षेः आश्रमः अपि नारनौल-नगरे स्थितः अस्ति । अतः एव इदं नगरं भारते प्रसिद्धम् अस्ति ।
नारनौल-नगरे चामुण्डादेव्याः विशिष्टं मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । मुघल-शासनकाले अस्मिन् मन्दिरे मुस्लिम-उपासनागृहं निर्मापितम् आसीत् । किन्तु स्वन्त्रतानन्तरम् उत्खननेन मन्दिरमिदं पुनः प्राप्तम् । भारतस्य प्रत्येकेभ्यः स्थानेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । नारनौल-नगरस्य उत्तरभागे एकस्मिन् शैले “चोर गुम्बद” इत्येतत् प्रसिद्धस्थलम् अस्ति । तदपि नारनौल-नगरस्य पर्यटनस्थलं वर्तते । “इब्राहिम खान सूर् की कब्र”, “जल महल”, त्रिपोलिया गेटवे च इत्यादीनि अपि पर्यटनस्थलानि सन्ति । त्रिषु ऋतुषु अस्य नगरस्य वातावरणं सामान्यं भवति । अतः जनाः आवर्षं भ्रमणार्थं तत्र गच्छन्ति । नारनौल-नगरं हरियाणा-राज्यस्य अन्यनगरैः, प्रतिवेशिराज्यैः च सह भूमार्गेण सम्बद्धम् अस्ति । देहली-नगरात् नारनौल-नगरं १६८ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली-नगरे स्थितम् विमानस्थानकं नारनौल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं नगरं रेलमार्गेण, भूमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
सोहना
सोहना-नगरं हरियाणा-राज्यस्य गुडगांव-मण्डले स्थितम् अस्ति । अत्र बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः सप्ताहान्ते वीक्षणार्थं तत्र गच्छन्ति । इदं स्थलम् अरावली-पर्वतशृङ्खलासु स्थितम् अस्ति । तत्र उष्णजलस्य जलप्रपाताः अपि सन्ति । सोहना-नगरे शिवस्य एकं प्राचीनं मन्दिरं विद्यते । प्रतिवर्षं तत्र गङ्गास्नानम् इति नामकः उत्सवः आयोज्यते । सोहना-नगरस्य पर्वतशिखरे एकम् उद्यानम् अपि अस्ति । “दमदम झील” इत्येतत् स्थलं सोहना-नगरस्य प्रसिद्धम् वीक्षणीयस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकं सौन्दर्यं मनोहरं वर्तते । तत्र प्रतिवर्षस्य फरवरी-मासे “विण्टेज् कार् रैली” इत्यस्याः स्पर्धायाः आयोजनम् अपि क्रियते । फरवरी-मासतः अप्रैल-मासपर्यन्तम्, अगस्त-मासतः नवम्बर-मासपर्यन्तं च वसन्तर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । देहली-नगरात्, गुडगांव-नगरात्, पटलव-नगरात् च सोहना-नगराय बसयानानि प्राप्यन्ते । सोहना-नगरं देहली-राज्येन, राजस्थान-राज्येन, उत्तरप्रदेश-राज्येन च सह भूमार्गेण सम्बद्धम् अस्ति ।
फतेहाबाद
फतेहाबाद-नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । मन्यते यत् – आर्यजनाः पुरा सरस्वती-नद्याः, दृषद्वती-नद्याः तटे निवसन्ति स्म । समयान्तरे ते हिसार-नगरे, फतेहाबाद-नगरे निवासाय गतवन्तः । पुराणेषु अपि अस्य नगरस्योल्लेखः दृश्यते । पुराणेषु कथ्यते यत् – “इदं नगरं नन्दी-साम्राज्यस्य कश्चन भागः आसीत् । फतेहाबाद-नगरे अशोकस्तम्भः अपि अस्ति । तेन ज्ञायते यत् – “इदं नगरं मौर्यसाम्राज्यस्य अपि अंशः आसीत्” । पुरातत्त्वविभागेन तत्र उत्खननं कृतम् । उत्खनने प्राचीनाः पुरावशेषाः प्राप्ताः । अतः ज्ञायते यत् – “अस्मिन् नगरे प्राचीनभारतीयसंस्कृतेः प्रभावः अपि आसीत्” । चतुर्दशशताब्द्यां फिरोजशाह तुगलक इत्याख्येन शासकेन इदं नगरं स्थापितम् आसीत् । फिरोजशाह इत्याख्यस्य “फतेह खान” इत्याख्यः पुत्रः आसीत् । अतः तस्य नाम्ना अस्य नगरस्य नाम फतेहाबाद-इति कारितम् ।
फतेहाबाद-नगरे बहूनि पर्यटनस्थलानि सन्ति । तेषु अशोकस्य कीर्तिस्तम्भः प्रसिद्धम् अस्ति । किन्तु फिरोजशाह तुगलक इत्याख्येन राज्ञा अयं स्तम्भः नाशितः । फिरोजशाह इत्याख्यः स्तम्भस्य अधोभागं फतेहाबाद-नगरं नीतवान् आसीत् । अस्मिन् नगरे “हुमायूं मस्जिद्” इति मुस्लिम-उपासनागृहम् अस्ति । हुमायूम् इत्याख्येन राज्ञा एव अस्य निर्माणं कारितम् आसीत् । हुमायूम् इत्याख्यः राजा प्रतिशुक्रवासरं तत्र प्रार्थनां कर्तुं गच्छति स्म । अस्य उपासनागृहस्य निर्माणं मुघल-स्थापत्यशैल्यनुसारं कारितम् । ई. स. १५२६ तमे वर्षे अस्य निर्माणकार्यम् आरब्धम् । ई. स. १५५६ तमे वर्षे अस्य निर्माणकार्यं सम्पूर्णं जातम् । फतेहाबाद-नगरे कुणाल-क्षेत्रम् ऐतिहासिकं स्थलं वर्तते । तत्स्थलं हडप्पासंस्कृत्या सह सम्बद्धम् अस्ति ।
फतेहाबाद-नगरस्य समीपे बन्वाली-नामकं स्थलम् अपि अस्ति । वन्वाली इति नाम्ना अपि तत्स्थलं ज्ञायते । इदं स्थलं फतेहाबाद-नगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बन्वाली-स्थलस्य उत्खनने अपि हडप्पा-युगस्य ऐतिहासिकाः अवशेषाः प्राप्ताः । ते अवशेषाः प्रायः ४००० वर्षेभ्यः पुरातनानि सन्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं फतेहाबाद-नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । फतेहाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
इतः परम् अपि हरियाणा-राज्ये बहूनि पर्यटनस्थलानि सन्ति । हरियाणा-नगरस्य समालखा-नगरे “ब्लू जे”, पानीपत-नगरे “स्काईलार्क्”, उचाना-नगरे “चक्रवर्ती झील”, पीपाली-नगरे “पराकीट”, अम्बाला-नगरे “किङ्गफिशर्”, फरीदाबाद-नगरे “मैगपाई”, होडल-नगरे “दबचिक”, धारूहेडा-नगरे “जङ्गल बबलर”, हिसार-नगरे “रेड बिशप्”, गुडगांव-नगरे “शमा”, बहादुरगढ-नगरे “गौरैया” च इत्यादीनि वीक्षणीयस्थलानि सन्ति ।
परिवहनम्
"हरियाणा-राज्यस्य प्रमुखाणि नगराणि भारतदेशस्य प्रमुखनगरैः सह वायुमार्गेण, भूमार्गेण, रेलमार्गेण च सम्बद्धानि सन्ति । इदं राज्यं देहली-राज्यस्य समीपे स्थितम् अस्ति । अतः पर्यटकाः सरलतया हरियाणा-राज्यस्य पर्यटनस्थलानि प्राप्नुवन्ति । हरियाणा-राज्यस्य भूमार्गाः ३१,०१० किलोमीटर्मिताः दीर्घाः सन्ति । कालका-नगरं, कुरुक्षेत्र-नगरं, रोहतक-नगरं, जीन्द-नगरं, हिसार-नगरम्, अम्बाला-नगरं, पानीपत-नगरं, जखाल-नगरं च इत्यादिषु नगरेषु हरियाणा-राज्यस्य प्रमुखाणि रेलस्थानकानि सन्ति । जगाधरी-नगरे रेल-यानस्य कार्यशाला अपि अस्ति । अस्य राज्यस्य हिसार-नगरे, करनाल-नगरे, पिञ्जौर-नगरे, नारनौल-नगरे, भिवानी-नगरे च असैनिकविमानस्थानकानि सन्ति ।
सम्बद्धा: विषया:
हरियाणाराज्यस्य मण्डलानि
जीन्द
बाह्यानुबन्धाः
सद्यस्कं हरियाणाराज्यम्
हरियाणाराज्यस्य इतिहासः
हरियाणाराज्यस्य जनाः
हरियाणासंस्कृतिः
हरियाणापक्षिणः
हरियाणासर्वकारस्य अधिकृतजालस्थानम् ।
सन्दर्भाः
भारतस्य राज्यानि
स्टब्स् भारतसम्बद्धाः
हरियाणाराज्यम् |
1033 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%A4%E0%A4%BE | कोलकाता | कोल्काता (), भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति ।
१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् ।
वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।
नामौचित्यम्
वर्तमानकोलकाता नगरी भारते ब्रिटिशानां आगमनात् प्राक् 'सुतानुटि', 'गोविन्दपुर' तथा 'कलकाता' इति त्रिधा विभक्ता आसीत् । बाङ्गलाशब्दः कलकाता तथा आङ्ग्लशब्दः क्यालकाटा नामपदयोः उत्सः कलिकाता इति शब्दः । "कलिकाता" इति नामपदस्य व्युत्पत्तिः व्युत्पत्तिप्रसङ्गे विद्वत्सु नास्ति मतैकम् । प्रसिद्धमतमस्ति यत् कालीक्षेत्रम् इति शब्दात् कलिकातापदम् आगतम् । कालीक्षेत्रमित्येन पदेन देव्याः काल्याः राज्यमिति अर्थः द्योत्यते । मतान्तरं पोषयन्ति केचनाः यत् किलकिला इति बाङ्गलाशब्दात् कोलकाताशब्दः आगतः । अपरेकं मतानुसारं खाल(नलः) काट्टा(खननम्) इति पदयोः संयोगात् इदानीन्तन-नामपदमागतम् ।
२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा"-तः ("Calcutta") परिवर्त्य कोलकाता" ("Kolkata") अभवत् । केचनाः मन्वन्ति यत् अस्य नगरस्य ब्रिटिशोत्तराधिकारसूत्रं विलोपं नामपरिवर्तनकरणेन जातम् । वैदेशीयगणमाध्यमाः इदं नामकरणं नाङ्गीकारं कृतवन्तः । परन्तु बि बि सी इति गणमाध्यमेन बोम्बाई स्थले मुम्बई तथा क्यालकाटा स्थले कोलकाता इति नामद्वयम् अङ्गीकृतम् ।
इतिहासः
प्राक्-ब्रिटिशकालः
कोलकतानगरस्य समीपे चन्द्रकेतुगढनामकस्थाने प्रत्नतात्त्विकखननात् प्रमाणितं यत् अयं प्रदेशः द्विसहस्रवर्षं पूर्वमपि वस्तिपूर्णमासीत् । मध्ययुगीय-नैकेषु ग्रन्थेषु(बाङ्गला) हुगलीनद्याः तीरवर्तीग्रामस्य कोलकातायाः उल्लेखमस्ति । एतेषु विप्रदासस्य मनसामङ्गलकाव्यम्(१४९५ क्रै.स), मुकुन्दराम-चक्रवर्तिना रचितं चण्डीमङ्गलकाव्यम्(१५९४-१६०६), सैयद् आलाओलस्य पद्मावती(१६४५-५२), कृष्णराम महोदयस्य कालिकामङ्गलकाव्यम्(१६७६-७७) सनातन घोषाल महोदयस्य भाषा-भागवत्(१६७९-८०) इति अन्यतमाः ग्रन्थाः भवन्तिकोलकाता : एक् पूर्णाङ्ग इतिहास्, अतुल् सुर्, जेनारेल् प्रिण्टर्स् एण्ड् पाब्लिशार्स्, कोलकाता, १९८१, पृ- १२-१३ ।
१५८२ तमे वर्षे राज्ञः टोडरमलस्य निर्देशानुसारं समग्रवङ्गप्रदेशस्य(अविभक्तवङ्गः) भूमिमापनकार्यम् अभूत् । ओयालिश्-ए-जमा तुमार् इति नाम्ना मापनकार्यस्य एका आवली प्रकाशिता आसीत् । 'आबुल् फज़ल्' महोदयस्य आइन्-ए-आकबरी(१५९० क्रै स) इति ग्रन्थे उद्धृता इयं आवली । अस्याम् आवल्यां कलिकाता इति ग्रामस्य उल्लेखः अस्ति । १६९० तमे वर्षे ब्रिटिश् ईष्ट् इण्डिया संस्थायाः वाणिज्यकाः प्रथमवारं वाणिज्यविस्ताराय ’कलिकाता’नगरीम् आगतवन्तः . इतःपरमेव कलिकातायाः लिखितेतिहासस्य प्रारम्भः आसीत् . साम्राज्यवादी ऐतिहासिकगणस्तु ’जब् चार्णक्’ इति ब्रिटिशप्रशासकं कोलकातानगर्य्याः प्रतिष्ठातारूपेण स्वीकरोति स्म . यद्यपि आधुनिकैः गवेषकैः मतमिदं खण्डितम् अस्ति . २००३ तमे वर्षे कोलकाता-उच्चन्यायालयेन जनस्वार्थपरिप्रेक्षिते सूचितं यत् कामपि व्याक्तिं कोलकातायाः प्रतिष्ठाता इत्यभिधया अभिहितं कर्तुं न शक्यते .
thumb|कोलकाता पोताश्रये नौयानतः गजस्य अवतारणस्य दृश्यम् -”हार्पास् विक्ली”पत्रिका १८५८ क्रै.
[[चित्रम्:Kolkata Chitpore Road old.jpg|thumb|right|चित्पुरमर्गस्य(अधुना रवीन्द्रसरणी) दृश्यम्; विलियम् सिम्पसन् महोदयस्य ”इन्डिया एन्सियेन्ट् एन्ड् मर्डार्न् पुस्तके प्रकाशितम्, १८६७]]
भौगोलिकावस्थितिः
कोलकाता नगरी पूर्वदिशि २२°३३′ उत्तरगोलार्धे तथा ८८°२०′ पूर्वद्राघिमांशे विद्यते . इयं नगरी गाङ्गेय-त्रिकोणाकारे द्वीप्रदेशे अवस्थिता अस्ति . समुद्रपृष्ठतः कोलकातायाः औन्नत्यं प्रायः १.५(५ फुट्) – ९(३० फुट्) मिटर् पर्यन्तम् भवति . उत्तर-दक्षिणदिशि अस्य नगरस्य विस्तारः हुगलीनद्याः तटीयप्रदेशानुभूमिकः आसीत् . वस्तुतः स्थलमिदं जलपूर्णमासीत् . नगरस्य जनसंख्यायाः वृद्ध्यानुगुणं वसतिनिमित्तं अवतलभूमिः जनैः पूरिमासीत् . अवशिष्टा पूर्वकोलकाता-जलभूमिः नाम्ना परिचिता । 'रामसार् कन्भेन्सन्' अनुसारं इयं जलभूमिः अन्ताराष्ट्रिय-गुरुत्वसम्पन्ना ।
सिन्धु-गाङ्गेय समभूमेः सदृशः अयं प्रदेशोऽपि पलिजया(alluvial) मृत्तिकया निर्मिता । अस्मिन् प्रदेशे कोवाटारनारियुगस्य मृत्तिकास्तरः दृश्यते । मृत्तिकास्तरे कर्दमास्तरद्वयम् अस्ति । अधस्तनस्य कर्दमास्तरस्य गहनता २५० मीटर्-तः (८२० फूट्) ६५० मीटर् (२,१३३ फूट्) पर्यन्तम् । तथा उपरितनस्य स्तरस्य गहनता १० मीटर्-तः (१३१ फूट्) ४० मीटर् (१३१ फूट्)-पर्यन्तम् । ब्युरो इण्डियन् स्ट्यान्डार्स् संस्थायाः अभिलेखनुसारं कोलकाता तृतीयस्तरीया भू-कम्पनक्षेत्रम् ।
टिप्पणी
बाह्यसम्पर्कतन्तुः
Kolkata Activities
Bengalweb.com
Westbengal.com
Calcuttaweb.com
The Statesman
The Telegraph
Kolkata Beckons
Banglalive.com
kolkatabazar.info
Kolkata Municipal Corporation
भारतस्य राज्यानां राजधान्यः
पश्चिमवङ्गस्य नगराणि |
1037 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%BE | पानामा | पानामा उत्तर-अमेरिका-महाद्वीपे दक्षिणक्षेत्रे विद्यमानः देश: |
CoolPanama.com Panama Portal
उत्तर-अमेरिकाखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
1038 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%81%E0%A4%86%20%E0%A4%A8%E0%A4%B5%E0%A4%97%E0%A4%BF%E0%A4%A8%E0%A5%80 | पापुआ नवगिनी | पपुवा न्यू गिनी एशियामहाद्वीपे विद्यमानः एक: देश: ।
उल्लेखाः
बाह्यशृङ्खला
Papua New Guinea Government Online
National Statistical Office of Papua New Guinea
Interactive maps of Papua New Guinea
विभिन्नदेशसम्बद्धाः स्टब्स्
एशियाखण्डस्य राष्ट्राणि
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1039 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%87%E0%A4%B0%E0%A5%87%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AF | पेरेग्वाय | पेरेग्वाय दक्षिण-अमेरिका महाद्वीपे मध्यक्षेत्रे एक: देश: अस्ति.
बाह्यसम्पर्काः
Portal del Gobierno Electrónico - Official governmental portal
Recipes for Chipas , a cheese and cornmeal bread
The American School of Asuncion
अमेरिकादेशः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1040 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%8B%E0%A4%B2%E0%A5%85%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8D | पोलॅण्ड् | पोलैंड यूरोप महाद्वीपे मध्यक्षेत्रे एक: देश: अस्ति.
Area:312 679 km²
Population:38 533 299 of residents (2012)
बाह्यसम्पर्काः
The Official Poland's portal
Tourist information portal
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
1041 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%87%E0%A4%B0%E0%A5%81 | पेरु | पेरु दक्षिण-अमेरिका महाद्वीपे मध्यक्षेत्रे एक: देश: अस्ति ।
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1042 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%97%E0%A4%BE%E0%A4%B2 | पुर्तगाल | पुर्तगाल यूरोपमहाद्वीपे पश्चिमक्षेत्रे एक: देश: अस्ति ।
बाह्यसम्पर्काः
Portal do Governo - Main governmental portal
Presidência da República - Official presidential site
Assembleia da República - Official parliamentary site
Welcome to Portugal - All about Portugal
Portugal inSite - Portugal's official travel and tourism website
Contemporary Portuguese Political History Research Centre - History and politics
IPPAR - Monuments of Portugal
Euro 2004 - Official Euro2004 site
PortugalTravelGuide - Tourism and holidays
Portugalia - Photos from Portugal
Previsão do Tempo - Weather forecast for Portugal
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
1043 | https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A4%BF%E0%A4%9C%E0%A5%80 | फिजी | फिजी दक्षिण-प्रशान्त-महासागरे एक: देश: अस्ति.
बाह्यसम्पर्काः
Finding Fiji
Official Website of the Government of Fiji
Brewer & Joske Sugar Mills Banknote Issues
Interactive maps of Fiji
Map of Fiji
Official Website of the Parliament of Fiji
स्थलम्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1044 | https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%B2%E0%A5%88%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8D | फिन्लैण्ड् | फिन्लैण्ड यूरोप- महाद्वीपे देश: अस्ति. एतत यूरोप-संघस्य भागं अस्ति. इदम् स्केंडेनेविया क्षेत्रे मन्यते.राजधानी - हेल्सिन्की
सम्बद्घ विषय:
स्वीडेन्
रास्या
एस्टोनिया
Virtual Finland - Main portal to Finland
Government.fi - Official governmental site
Eduskunta.fi - Official parliamentary site
Presidentti - Official presidential site
Diplomatarium Fennicum - Publishing of medieval documents. The National Archives of Finland
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1045 | https://sa.wikipedia.org/wiki/%E0%A4%AB%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%B8%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83 | फ्रान्सदेशः | फ्रांस, आधिकरिकरुपे फ्रान्सीसी गणतन्त्रम्, यूनान्खण्डे पश्चिमक्षेत्रे देशः अस्ति। सः एकः पारमहाद्वीपी देशः अस्ति। अत्र जनाः फ्रांसीस्भाषा व्यवहरन्ति।
बाह्यसम्पर्काः
Travel France
France travel guide
Official site of the Office of the French President - The Elysée Palace
Official site of the Office of the French Prime Minister - Main governmental site
Assemblée Nationale - The French National Assembly
Sénat - The French Senate
Official site of the French public service - Contains many links to various administrations and institutions
Weather forecast for France
France - Info
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1046 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%80%E0%A4%AA%E0%A4%83 | कलिङ्गद्वीपः | {{Infobox country
|native_name = Republika ng Pilipinas
|conventional_long_name = Republic of the Philippines
|common_name = कलिंग द्वीप
|image_flag = Flag of the Philippines.svg
|image_coat = Coat of Arms of the Philippines.svg
|national_motto = Maka-Diyos, Maka-Tao, Makakalikasan, at Makabansa
|image_map = The Philippines and ASEAN (orthographic projection).svg
|map_caption =
|national_anthem = Lupang Hinirang
|official_languages = Filipino (based on Tagalog) English
|languages_type = National language
|languages = Filipino
|regional_languages = Bikol, Cebuano, Hiligaynon, Ilokano, Pampango, Pangasinense, Tagalog, Waray</td></tr>Optional languagesSpanish and Arabic
|demonym = Filipino/Filipina
|capital = Manila
|latd=14 |latm=35 |latNS=N |longd=121 |longm=0 |longEW=E
|largest_city = Quezon City
|largest_metropolitan_area = Manila
|government_type = Unitary presidential constitutional republic
|leader_title1 = President
|leader_name1 = Rodrigo Duterte (PDP-Laban)
|leader_title2 = Vice President
|leader_name2 =Leni Robredo (LP)
|leader_title3= Senate President
|leader_name3=Franklin Drilon (LP)
|leader_title4=House Speaker
|leader_name4=Feliciano Belmonte, Jr. (LP)
|leader_title5= Supreme Court Chief Justice
|leader_name5=Maria Lourdes Sereno
|legislature = Congress
|upper_house = Senate
|lower_house = House of Representatives
|area_km2 = 299,764
|area_sq_mi = 115,831
|area_label = Land
|area_rank = 72nd
|percent_water = 0.61% (inland waters)
|population_estimate = 94,013,200
|population_estimate_year = 2010
|population_estimate_rank = 12th
|population_census = 88,574,614
|population_census_year = 2007
|population_census_rank =
|population_density_km2 = 306.6
|population_density_sq_mi = 794.1
|population_density_rank = 43rd
|GDP_PPP_year = 2010
|GDP_PPP = $351.370 billion
|GDP_PPP_rank =33rd
|GDP_PPP_per_capita = $3,737
|GDP_PPP_per_capita_rank =
|GDP_nominal = $199.591 billion
|GDP_nominal_rank =45th
|GDP_nominal_year = 2010
|GDP_nominal_per_capita = $2,123
|GDP_nominal_per_capita_rank = 124th
|HDI_year = 2011
|HDI = 0.644
|HDI_rank = 112nd
|HDI_category = medium
|Gini = 45.8
|Gini_rank =
|Gini_year = 2006
|Gini_category = medium
|sovereignty_type = Independence
|sovereignty_note = from Spain from United States
|established_event1 = Established
|established_date1 = 27 April 1565
|established_event2 = Declared
|established_date2 = 12 June 1898
|established_event3 = Self-government
|established_date3 = 24 March 1934
|established_event4 = Recognized
|established_date4 = 4 July 1946
|established_event5 = Current constitution
|established_date5 = 2 February 1987
|currency = Peso (Filipino: )₱
|currency_code = PHP
|time_zone = PST
|utc_offset = +8
|time_zone_DST = not observed
|utc_offset_DST = +8
|date_format =
|drives_on = right
|cctld = .ph
|calling_code = +63
|
}}
कलिंगद्वीप (फिलिपिन्स) आग्नेय एशियाखण्डस्य क्षेत्रे एक: द्वीपदेश: अस्ति । अस्य देशस्य राजधानी 'मनीला' अस्ति ।
सम्बद्धानुबन्धाः
एशियाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1048 | https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%88 | चेन्नै | चेन्नै (சென்னை) तमिलनाडु राज्यस्य राजधानी अस्ति।
चैन्नैनगरं (तस्य पूर्वनाम मदरास्) भारते स्थितेषु महानगरेषु अन्यतममस्ति। अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति।
विजिपि युनिवर्सल् किङ्गडम्
एतत् सागरतीरस्थं विहारधाम अस्ति। विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति। वसत्यर्थम् ६५ कुटीराः सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत्।
मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः।....
एम. जि. एम. डि.जि. वर्ल्ड्
एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति। बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति। अप्सरालोके (fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन्, क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति। पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः। कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति। सुन्दरे प्यारिसमार्गे चलितुं शक्यते। क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति।
अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति।
इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष् तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति)।
पुलिकाट्लेक्
चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत्। अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति। चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति। चैन्नैनगरे वासः कर्तुं शक्यते।
देवालयाः
चेन्नै नगरे अनेके देवालयाः विद्यन्ते। तेषु कपालीश्वर-मरुन्धीश्वर-देवालयौ अन्यतमौ।
चैन्नैनगरस्य सागरतीराणि
अत्र कोरमण्डलसागरतीरं अत्यन्तं सुन्दरमस्ति। मरिना सागरतीरं अतीवजनप्रियम्। एतत् ४.५ कि.मी दीर्घम्। प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति। प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति। बिहारं समुद्रस्नानम् च कुर्वन्ति। ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः। मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुम् शाक्यते। मामल्लपुरमपि सागरतीरे एव अस्ति। देशीयानां विदेशीयानां च प्रमुखं आकर्षणकेन्द्रमेतत्। अत्र तरणं कदाचित् अपायाय भवति। तरङ्गाः अत्र वेगेन आगच्छन्ति।
बाह्यग्रन्थय:
Chennai District - Official government site for Chennai District. Site has history, profile , landmarks , etc
Corporation of Chennai - Online corporation service. Site with important phone numbers , etc
SpiritOfChennai.com Information about Chennai City.
Chennai Online
Weather Underground: Chennai (Madras), India Forecast - Current weather at Chennai
City Map
चेन्नै
तमिळ्नाडुराज्यस्य प्रेक्षणीयस्थानानि
सारमञ्जूषा योजनीया |
1049 | https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%81%E0%A4%B5%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D | तिरुवनन्तपुरम् | तिरुवनन्तपुरम् (मलयाळम्: തിരുവനന്തപുരം) केरळराज्यस्य राजधानी अस्ति । इदम् एकं सुरम्यं नगरम् । अत्र अनन्तशायिनः श्रीविष्णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
निरुक्तम्
तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।
कोवलम्
तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
वर्कला
श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
तिरुवनन्तपुरं नगरम्
श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
प्राणिसङ्गहालयः म्यूसियम्
शङ्खमुखं समुद्रतीरम्
राजरविवर्मवर्यस्य चित्राणां संस्थानकेन्द्रं चित्रा आर्ट ग्यालरी
केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
रोकट् विक्षेपणकेन्द्रम्
तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् ।
केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः
श्रीचित्रामेडिकल् सेन्टर्
राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
विमानपत्तनम्
वलियतुरायाम् ।
तिरुवनन्तपुरस्य विशेषा (०४७१)
केरळराज्यस्य राजधानीस्थाने स्थितम् एतत् नगरम् त्रिवेण्ड्रम् इत्यपि ख्यातम् अस्ति । भारते दक्षिणपूर्वप्रदेशे अरब्बीसागरपश्चिमघट्टयोः मध्ये सप्तपर्वतानाम् उपरि विद्यमानम् एतत् नगरं रमणीयम् अस्ति । अस्य पौराणिकं नाम शयना नन्दूरपुरमिति ।
इतिहासानुसारं तिरुवनन्तपुरं तिरुवाङ्कूरुसंस्थानस्य भागः आसीत् । महाराजः मार्ताण्डवर्मा एतत् नगरं राजधानीम् कृतवान् । प्रसिद्धस्य काव्यकर्तुः स्वातितिरुनाळ् महोदयस्य श्रमेण तिरुवनन्तपुरस्य सांस्कृतिकतया अभिवृद्धिः जाता अस्ति ।
स्वातितिरुनाळ् क्रिस्ताब्दे १८३४ तमे वर्षे आङ्गलभाषाशिक्षणार्थं विद्यालयं संस्थापितवान् । अनन्तरम् अनेकैः महाराजैः कलाविद्यालयाः विश्वविद्यालयाः च स्थापिताः सन्ति । स्वातन्त्र्यप्राप्तेरनन्तरम् भारतेन सम्मिलितं तिरुवाङ्कूरुसंस्थानम् अग्रे केरळराज्यम् इति प्रसिद्धम् अभवत् । आधुनिककाले तिरुवनन्तपुरनगरं उत्तमा, सुन्दरी राजधानी इति प्रख्यातम् अस्ति ।
तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।
नगरचरितम्
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् ।
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।
प्रकृतिः भूमिशास्त्रं च
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति ।
उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।
साम्पत्तिकमेखला
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।
टेक्नोपार्क Technopark
भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।
विनोदसञ्चारमेखला
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।
भरणसंविधानम्
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति ।
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।
गतागतम्
अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।
गणना
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जनाः साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।
अत्र प्रेक्षणीयानि बहूनि स्थलानि सन्ति । तेषु शङ्गुमुगं (शङ्खुमुखम्) सागरतीरम् (८ कि.मी), विमाननिस्थानं, नौकानिस्थानं, मत्स्यागारः , विक्रमसाराभाई स्पेस् सेण्टर् , प्राणिपक्षिसङ्ग्रहालयः, नेपियर्वस्तुसङ्ग्रहालयः (१४५३), चित्रकलासङ्ग्रहालयः (१९३५) इत्यादिस्थानानि प्रमुखानि सन्ति ।
चित्रकलासङ्ग्रहालये राज्ञः रविवर्मणः चित्राणां रोरिच् महोदयस्य च चित्राणां प्रदर्शनव्यवस्था अस्ति । एतेषु प्राचीनकालीनानि तथा आधुनिककालीनानि आभरणानि सन्ति । सूक्ष्मगजदन्तशिल्पानि, मोगल् तञ्जावूरु-शैल्या लिखितानां चित्राणां सङ्ग्रहः अस्ति । एकस्मिन् भागे रविवर्मणः चित्राणां विशेषप्रदर्शनं कृतमस्ति ।
तिरुवनन्तपुरनगरे श्रीपद्मनाभस्वामिदेवालयः सुन्दरः प्राचीनः विश्वे एव समृद्धः इति ख्यातः अस्ति । पूर्वाभिमुखः अयं देवालयः । देवालयं परितः श्रीबलिपुरंनामकः प्रावारः अस्ति । अस्य देवालयस्य गोपुरं सप्तस्तरीयं -३० मीटरोन्नतमस्ति । अन्तर्भागे सुन्दरशिल्पानि ३६८ स्तम्भेषु चित्रितानि सन्ति ।
द्वितीये अन्तर्भागे श्रीपद्मनाभस्वामिनः गर्भगृहम् अस्ति । श्रीअनन्तपद्मनाभस्वामी शयानः अस्ति । अस्य सुदीर्घा मूर्तिः अस्ति । त्रिभिः द्वारैः द्रष्टव्या अस्ति । विग्रहादुत्थिते कमले ब्रह्मदेवस्य मूर्तिरस्ति । देवालये अष्टादशपादपरिमिता शिलामूर्तिः स्वर्णमूर्तिः च स्तः । हिन्दूनां कृते एव दर्शनाय अवसरः अस्ति । पुरुषाः धवलवेष्टिधारणं कृत्वा एव दर्शनं कुर्युः ।
तिरुवनन्तपुरसमीपस्थानि स्थलानि
पध्मनाभपुरं महल् तिरुवनन्तपुरतः ५३ कि.मी दूरे अस्ति । एतस्य निर्माणं राजा मार्ताण्डवर्मा कारितवान् । भव्यं भवनं वास्तुशिल्पयुक्तं शिल्पकलायुक्तं च अस्ति । ९ कि.मी दूरे व्याली ल्यागून् प्रदेशे नौकायानव्यवस्था अस्ति । जलक्रीडापि अत्र कर्तुं शक्या ।
मार्गः
विमानमार्गः
तिरुवनन्तपुरं निस्थानम् ।
भूमार्गः
तमिळ्नाडुकर्णाटककेरळराज्यानां सर्वेभ्यः महानगरेभ्यः वाहन- सम्पर्कः अस्ति ।
धूमशकटनिस्थानमपि तिरुवनन्तपुरनगरे अस्ति ।
वसत्यर्थं ‘चैत्रम्’ केरलप्रवासोद्यमाभिवृद्धिनिगमस्य उपाहारगृहं धूमशकटनिस्थानसमीपेऽस्ति। बेङ्गळूरुतः ७३८ कि.मी, कन्याकुमारीतः १८ कि.मी, कोयम्बत्तूरुतः ४३६ कि.मी । चैन्नैतः ७४६ कि.मी मधुरैतः ३०५ कि.मी । मङ्गळूरुतः ७०६ कि.मी, मैसूरुतः ६४६ कि.मी । नगरदर्शनव्यवस्थास्ति ।
बाह्यानुबन्धाः
Official District website
Public Relations Department Page on Trivandrum
Government of Kerala Website on Thiruvananthapuram District
List of Educational Institutions under University of Kerala
तिरुवनंतपुरम शासनं
आधाराः
भारतस्य राज्यानां राजधान्यः
तिरुवनन्तपुरम्
केरळराज्यस्य प्रेक्षणीयस्थानानि |
1051 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%B5%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%80 | कवरत्ती | कवरत्तीइति लक्षद्वीपप्रदेशस्य राजधानीनगरमस्ति.
लक्षद्वीप
सर्वे अपूर्णलेखाः
भारतीयकेन्द्रशासितप्रदेशसम्बद्धाः स्टब्स्
चित्रं योजनीयम् |
1053 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%E0%A4%AE%E0%A5%87%E0%A4%B0%E0%A5%82%E0%A4%A8 | केमेरून | केमेरून अफ्रीका महाद्वीपे देश: अस्ति.
टिप्पणी
बाह्यसम्पर्कतन्तुः
Government
Presidency of the Republic of Cameroon
Prime Minister's Office
National Assembly of Cameroon
Global Integrity Report: Cameroon has reporting on anti-corruption in Cameroon
Chief of State and Cabinet Members
General information
.
Cameroon from UCB Libraries GovPubs
Cameroon profile from the BBC News
Key Development Forecasts for Cameroon from International Futures
Trade
.
आफ्रिकाखण्डस्य द्वीपराष्ट्राः
आफ्रिकाखण्डीयदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1054 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%E0%A4%AA%20%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A1%E0%A5%80 | केप वर्डी | वर्दे अंतरीप, अफ्रीका महाद्वीप पश्चिमे अन्ध-महासागरे मध्ये द्वीप-समूह अस्ति.
बाह्यसम्पर्कतन्तुः
Embassy of Cape Verde in the United States
International Searchengine for Cabo Verde
Cape Verde Photogallery
आफ्रिकाखण्डस्य द्वीपराष्ट्राः
आफ्रिकाखण्डीयदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1055 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%B2%E0%A5%8B%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%BF%E0%A4%AF%E0%A4%BE | कोलोम्बिया | कोलोम्बिया दक्षिण अमेरिका महाद्वीपे देश: अस्ति.
राजधानी - बोगोटा
बाह्यसम्पर्काः
PEC - Official governmental portal (in Spanish)
Casa de Nariño - Official presidential site (in Spanish)
Colombia Banknotes
Colombia from the air - On-line book with aerial pictures of Colombia (English)
Colombia, a new vision - On-line book with photographs of Colombia and its people (English)
दक्षिण-अमेरिकादेशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1056 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%AE%E0%A5%8B%E0%A4%B0%E0%A5%8B%E0%A4%B8 | कोमोरोस | कोमोरोस पश्चिमे सिन्धु-महासागरे मध्ये द्वीप-समूह देश: अस्ति।
बाह्यसम्पर्काः
U.S. State Dep. Background on Comoros
Republican party of Comoros
The islands of Comoros
Report from IRIN (UN office for the coördination of Humanitarian Affairs)
आफ्रिकाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1057 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8C%E0%A4%82%E0%A4%97%E0%A5%8B | कौंगो | कौंगो अफ्रीका महाद्वीपे देश: अस्ति.
टिप्पणी
बाह्यसम्पर्कतन्तुः
Chief of State and Cabinet Members
Country Profile from the BBC News
Democratic Republic of the Congo from UCB Libraries GovPubs
Humanitarian information coverage on ReliefWeb
The Democratic Republic of Congo from Global Issues
आफ्रिकाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1058 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A4%BE%20%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A4%BE | कोस्टा रीका | कोस्टा रीका मध्य अमेरिका क्षेत्रे देश: अस्ति ।
राजधानी - सान होजे
बाह्यसम्पर्काः
The biggest and most detailed web-page about Costa Rica in Europe
BBC Country profile: Costa Rica
अमेरिकादेशः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1059 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A5%82%E0%A4%AC%E0%A4%BE | क्यूबा | क्यूबा उत्तर अमेरिका केरेबियन क्षेत्रे देश: अस्ति.
राजधानी - हवाना
बाह्य
Encuentro en la Red - Independent news and cultural site on Cuban matters
CUBANET - News articles from Cuba's independent journalists and a digest of Cuban news by international newspapers
The Internet Cuban - Cuban Culture Site
Spain and the Spaniard A contemporary opinion of the Cuban uprising
उत्तर-अमेरिकाखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1060 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AF%20%E0%A4%85%E0%A4%AB%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A4%BE%20%E0%A4%97%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D | केन्द्रीय अफ्रीका गणराज्यम् | केन्द्रीय अफ्रीका गणराज्यम् अफ्रीकामहाद्वीपे विद्यमानः कश्चन देश: ।
टिप्पणी
बाह्यसम्पर्कतन्तुः
Overviews
Centrafrique.com
Country Profile from BBC News
Central African Republic from UCB Libraries GovPubs
Key Development Forecasts for the Central African Republic from International Futures
Government
Central African Republic Online /
Chief of State and Cabinet Members – Central Intelligence Agency
News
Humanitarian news and analysis from IRIN – Central African Republic
Humanitarian information coverage on ReliefWeb
Central African Republic news headline links from AllAfrica.com
Other
Central African Republic at Humanitarian and Development Partnership Team (HDPT)
Johann Hari in Birao, Central African Republic. "Inside France's Secret War" from The Independent, 5 October 2007
आफ्रिकाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1062 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BF%E0%A4%AC%E0%A4%BE%E0%A4%9F%E0%A5%80 | किरिबाटी | किरिबाटी प्रशान्त-महासागरे मध्ये द्वीप-समूह अस्ति.
External links
myMicronesia/Kiribati section
http://www.wysiwyg.co.nz/kiribati/
Interactive maps of Kiribati
स्थलम्
सर्वे अपूर्णलेखाः
देशाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1063 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%BF%E0%A4%9C%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D | किर्गिजस्थानम् | किरगिस्थानं एशिया-महाद्वीपे देशः अस्ति।
उल्लेखाः
बाह्यशृङ्खला
http://www.centralasiannews.com
http://www.centralasiatravel.com
CountryGuide:: Kyrgyzstan —editor-maintained directory focused on travel planning and research.
The "Manas" epos
एशियाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1064 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%A4%E0%A4%BE%E0%A4%B0 | कतार | कतार एशियामहाद्वीपे अर्वदेशोऽस्ति।
उल्लेखाः
बाह्यशृङ्खला
Qatar Ministry of Foreign Affairs
एशियाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1067 | https://sa.wikipedia.org/wiki/%E0%A4%86%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%AF%E0%A4%BE | आस्ट्रेलिया | ७,६८६,८४९ च कि मी विस्तारयुतः अस्ति आस्ट्रेलियाखण्डः । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।
परिसरः
वृष्टिः
अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।
औष्ण्यम्
जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५० -३०० सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३०० -३५० सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १०० - १५० सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४०० सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५० -३०० सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १०० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।
सस्यसम्पत्तिः
वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।
फलोदयः
गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।
खनिजाः
अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।
पर्वताः
ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते । पश्चिमभूप्रदेशस्य मध्ये उत्तरभागे च गिब्सन्-मरुभूमिः, विशालस्याण्डि-सिकतामरुभूमिः च विद्यते । पर्थस्य समीपे डार्लिङ्ग्-श्रेण्यः सन्ति । वायव्यभागे हेमर्स्ले श्रेणी, राबर्ट्सन् श्रेणी च विद्यते । उत्तरे डर्बिप्रदेशस्य ईशान्यभागे किङ्ग् लियोपोल्ड् श्रेणी, ततः किम्बर्लि प्रस्थभूमिश्च विद्यते । उत्तरभूप्रदेशस्य उत्तरसमुद्रतीरभागे अर्न्हेम्-भूमिः विद्यते । अस्य दक्षिणभागे तनामिमरुभूमिः विद्यते । क्वीन्सलेण्ड्-प्रदेशस्य उत्तरभागे यार्क्-भूशिरसः प्रस्थभूमिः विद्यते । ऐरिसरोवरस्य कारणतः अत्र अन्तर्जलस्य लाभः विद्यते ।
जलसम्पत्तिः
अस्मिन् खण्डे विद्यमाना प्रमुखा नदी वर्तते मरेनदी । इयं विक्टोरिया-न्यू सौथ् वेल्स् प्रदेशयोः प्रवहति । अस्याः उपनद्यः सन्ति - डार्लिङ्ग्, मुर्रुम्बिजी, गौल्बर्न् च । अर्धमार्गे शुष्कतां गच्छन्त्यः काश्चन नद्याः सन्ति । पर्वतप्रदेशतः प्रवहन्त्यः पेसिफिक्-समुद्रेण मिलन्तः लघुनद्यः सन्ति । ऐरिसरोवरः दक्षिण-अस्ट्रेलियायां विद्यमानः कश्चन शुष्कः सरोवरः । फ्लैण्डर्स्-श्रेणीनां पश्चिमदिशि मधुरजलस्य सरोवराः सन्ति । पश्चिम-आस्ट्रेलियायाः कालगूर्लियां परितः प्रदेशेषु विशालविक्टोरिया-मरुभूमिप्रदेशेषु च लघुसरोवराः सन्ति । मध्य-आस्ट्रेलियायाम् अन्तर्जलं विद्यते । आर्टीसियन्-कूपैः जलं लभ्यते ।
प्राणिपक्षिणः
अयं खण्डः विचित्र प्राणिनां पक्षिणां च वासभूमिः । अत्र विद्यमानाः अनेके प्राणिनः अन्यत्र न विद्यन्ते । शरीरे विद्यमानेषु स्यूतेषु श्रावकान् नयन्तः प्राणिनः अत्र अधिकतया दृश्यन्ते । काङ्गरू, वल्लाबि, पोसम्, वोम्ब्याट्, चिक्रोडः, महामूषिकः, तास्मेनियावृकाश्च एवं स्यूतवन्तः भवन्ति । कोलाभल्लूकः, प्लाटिपस्-नामकः जलचरप्राणी, पिपीलिकाभक्षी एचिड्ना इत्येते अत्रत्याः विशिष्टाः प्राणिनः । वनशुनकः 'डिङ्गो' मेषानां मृगयां करोति । शशाः अत्र अत्यधिकाः । कोकाबुर्रा-पक्षी, उड्डयननर्हः एमु, केसोवेरि, विविधशब्दान् अनुकुर्वन् लैर्-पक्षी च अत्रत्याः विशेषाः । आकर्षकवर्णयुताः शुकाः, मधुभक्षी पक्षी, तीक्ष्णपुच्छयुतः गृध्रः, बकः, कदम्बः, पेलिकन्, कृष्ण-हंसपक्षी च अत्र वसन्ति ।
उद्यमाः
पर्थ, मेल्बर्न्, ब्रिस्टेन्, सिड्नि च अत्रत्याः प्रमुखानि उद्यमकेन्द्राणि । स्वर्णं खनिजाङ्गारयोः खन्युद्यमः अत्र पुरातनीयः महाप्रमाणकश्च वर्तते । अत्र मेषपालनं, ततः मेषमांस-ऊर्णयोः उत्पादनं, निर्यातः, क्षीरं, क्षीरकृषिः, उद्यानकर्म, गोधूमकृषिः च अत्रत्यप्रमुखकार्याणि । तान्त्रिकवस्तूनि, यन्त्रोपकरणानि, वस्त्रोत्पादनम्, आहारसंस्करणम्, अरण्यवृद्धिश्च अत्रत्याः प्रधानोद्यमाः ।
वैशिष्ट्यानि
काङ्गरू, डिङ्गो, वल्लाबि, कोलाभल्लूकः प्रमुखाः प्राणिनः । एमु लैर् च प्रमुखपक्षिणौ । अत्रत्यमूलनिवासिनां साधनम् अस्ति बूमराङ्ग् इत्येतत् (क्षिप्यते चेत् भ्रमणानन्तरं प्रयोक्तारं प्रत्येव आगच्छति) । आर्टिसियन्कूपाः, विशालमरुभूमिः, फलयुक्ता पूर्वकरावली, ग्रेट् बेरियर्नामिका प्रवालभित्तिः च अत्रत्य विशेषः । जनपद-आर्थिक-स्वावलम्बनयुक्तः प्रजाप्रभुत्वयुक्तः अस्ति अयम् । विमानयानद्वारा भवति अत्र आरोग्यसंरक्षणम् । टेन्निस्, क्रिकेट् च अस्य खण्डस्य विशिष्टक्रीडे । सिड्निप्रदेशे विद्यमानः अयःसेतुः ५०२ मीटर्मितं दीर्घं विद्यते ।
राजधानी - कन्बेरा
महाद्वीपः
बाह्य
Australian Government Information and Services
Open Directory Project: Australia
Australian Photos
Australian History — from the Washington Embassy
Australian Tourist Commission
Backpacking in Australia Insider information about backpacking in Australia
CIA - The World Factbook — Australia - CIA's Factbook on Australia
emigration from Britain to Australia Interactive real story of Nineteenth century
Gallery of Australia Photographs Attractions primarily in Queensland and the Northern Territory
Guide to Australia Provides essential information about Australia
Travel guide to Australia
Dictionary of Australian Biography, 1949 edition
भूखण्डाः
सारमञ्जूषा योजनीया |
1070 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%8B%E0%A4%B0%E0%A4%BE | अण्डोरा | अण्डोरा () अथवा प्रिन्सिपालिटी आफ् अण्डोरा, इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते ।
अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति । अत्रत्या प्रमुखा भाषा तु ’कतलान्’ नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति ।
प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति । एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।
बाह्यसम्पर्काः
Portals to the World from the United States Library of Congress
Andorra from UCB Libraries GovPubs
Andorra from the BBC News
Andorra – Guía, turismo y de viajes
History of Andorra: Primary Documents from EuroDocs
A New Path for Andorra – slideshow by The New York Times
टिप्पणी
विभिन्नदेशसम्बद्धाः स्टब्स्
यूरोपखण्डस्य देशाः
सर्वे अपूर्णलेखाः
अन्यभाषायां सारमञ्जूषा |
1071 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%80%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BE | अण्टीग्वा | अण्टीग्वा
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
अन्यभाषायां सारमञ्जूषा |
1072 | https://sa.wikipedia.org/wiki/%E0%A4%87%E0%A4%B8%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B2%E0%A4%AE%E0%A5%8D | इस्रेलम् | इस्रेल जम्बुद्वीपस्य पश्चिमे एक: प्राचीन क्षेत्र अस्ति । अस्य राजधानी जेरुसलेम् अस्ति । यहूदी आगम यत्र उद्भूता ।
विविध विषय:
अरब-इस्रैल संघर्ष
एशियाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1073 | https://sa.wikipedia.org/wiki/%E0%A4%87%E0%A4%9F%E0%A4%B2%E0%A5%80 | इटली | इटली यूरोपदक्षिणे विद्यमानः कश्चन देशः अस्ति । अस्य राजधानी रोमा अस्ति।
इटली देशे कश्चन महत् साम्राज्यम् आसीत्।
विविधविषय:
मिलानो
फ्लोरेंस
नापोली
टोरीनो
पलेर्मो
जेनोवा
बोलोन्या
फ्लोरेंस
बारी
कटानिया
वेनिस
वेरोना
मेसिना
पडुआ
ब्रेशा
तारंतो
प्रातो
रेजिओ
पार्मा
मोडेना
रेजिओ एमिलिया
पेरुजिया
लिवोरनो
रवेन्ना
कगलिआरी
फोज्या
रिमिनी
सलेरनो
फेर्ररा
सासरी
सिराकुज़ा
पेस्कारा
मोंज़ा
लाटीना
बर्गम
फोर्ली
गिउगलिआनो
त्रेंतो
विचेंज़ा
तेरनी
नोवारा
बोल्ज़ानो
पियाचेंज़ा
अनकोना
अरेत्ज़ो
अन्द्रिया
ऊदीने
सेसेना
लेत्चे
पीसा
ला स्पेत्ज़िया
पेज़रो
आलेसांद्रिया
बार्लेट्टा
कातान्ज़ारो
पिस्तोया
ब्रिंदिज़ी
टोर्रे देल ग्रेको
कोमो
लुक्का
गुईडोनिया मोंटेसीलियो
पॉज़ुओली
त्रेविज़ो
मर्साला
ग्रोसेटो
बुस्तो अर्सिज़ियो
वारेसे
सेस्तो सान गिओवानी
कसोरिया
कासेर्ता
गेला
आस्टी
सिनिसेल्लो बल्सामो
पोमेज़िया
मातेरा
काल्तानिस्सेत्ता
मोल्फेत्ता
मरानो दी नापोली
अग्रिजेंतो
लेग्नानो
केरिग्नोला
मोंकालिएरी
फोलिग्नो
फएंज़ा
मानफ्रेडोनिया
संरेमो
टिवोली
बीटोंतो
अवेल्लिनो
बाघेरिया
असर्रा
ओल्बिया
कूनेयो
अंजियो
सान सेवेरो
मोडिका
तेरामो
बिसकेगली
एर्कोलानो
सिएना
चिएती
पोर्तिची
त्रानी
वेल्लेत्री
कावा दे' तिर्रेनी
अकीरियल
रोविगो
सिवितावेच्चिया
गल्लाराते
पोर्देनों
अवेर्सा
मोंतेसिल्वानो
माज़रा देल वल्लो
अस्कोली पिसनो
बट्टीपग्लिया
काम्पोबस्सो
स्काफाती
कासल्नुओवो दी नापोली
रो
चिओजिया
स्कान्दिच्ची
कोल्लेग्नो
बाह्यसम्पर्कतन्तुः
Presidenza della Repubblica - Official site of the Italian president (in Italian)
Parlamento - Official site of the Italian parliament (Senate in Italian only)
gov.it Main governmental portal (in Italian)
Farnesina, Italian Foreign Office
Windows on Italy - More information about Italy (in English)
Italy Banknotes
Italian Cities and Towns - Information and useful link
भूगोलसम्बद्धाः स्टब्स्
यूरोपखण्डस्य देशाः
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
1074 | https://sa.wikipedia.org/wiki/%E0%A4%88%E0%A4%A5%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%BF%E0%A4%AF%E0%A4%BE | ईथ्योपिया | ईथ्योपिया अफ्रीका महाद्वीपे उत्तरे स्थित:.
बाह्यसम्पर्काः
CIA World Factbook
University of Pennsylvania African Studies Center Ethiopia Page
http://www.St-Takla.org Saint Takla Haymanout the Ethiopian Coptic Orthodox Church, Alexandria - Egypt
आफ्रिकाखण्डस्य राष्ट्राणि
आफ्रिकाखण्डीयदेशसम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
1075 | https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AF | उरुग्वाय | उरुग्वाय दक्षिण अमेरिका महाद्वीपे स्थित:.
बाह्यसम्पर्काः
Presidencia de la República Oriental del Uruguay - Official presidential site (in Spanish)
Portal del Estado Uruguayo - Official website (in Spanish)
Uruguay.com - Uruguayan portal (in Spanish, with English links)
स्थलम्
सर्वे अपूर्णलेखाः
विदेशीयाः
अन्यभाषायां सारमञ्जूषा |
1076 | https://sa.wikipedia.org/wiki/%E0%A4%89%E0%A4%9C%E0%A4%AC%E0%A5%87%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D | उजबेकिस्थानम् | उजबेकिस्थान एशियाखण्डे विद्यमानः कश्चन देश: अस्ति।
राजधानी - ताशकेण्टनगरम्
उल्लेखाः
बाह्य
http://www.uzbekistanembassy.uk.net/main/uzbekistan/index.html
एशियाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1078 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B0%E0%A5%80 | हङ्गरी | हंगरी मध्ययूरोपे अस्ति । अस्य राजधानी - बूडापेस्ट । अत्रत्या जनसंख्या - १२ मिलियन ।
बाह्यसम्पर्कतन्तवः
History of Hungary - The Corvinus Library
History of Hungary - Chronological Survey: 2500 BC - 2004 AD
Hungarian Government Portal - Main (governmental) portal
Kancellaria.gov.hu - Official prime ministerial site
House of the Nation - Official parliamentary site
Travel to Hungary Guide
Hungarian History (Hungarian Folk Dance Chamber Group)
Hungary in Pictures (Some pictures of Budapest and Hungarian towns)
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1094 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8 | सायप्रस | सायप्रस यूरोप महाद्वीपे स्थित: अस्ति. एतस्य उत्तर-अंशं तुर्कीये अधीने. भाषा = यूनानी. धर्म = ईसाई. इदानीं
पर्यटनहेतु अति लोकप्रिय:.
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
1095 | https://sa.wikipedia.org/wiki/%E0%A4%98%E0%A4%BE%E0%A4%A8%E0%A4%BE | घाना | घाना अफ्रीका-महाद्वीपे देश: अस्ति.
External links
http://www.ghanaweb.com/
http://www.clubgh.com
:en:Music of Ghana
List of writers from Ghana
आफ्रिकाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
स्क्रिप्ट त्रुटियों वाले पृष्ठ |
1196 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%20%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%80 | महात्मा गान्धी | महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( ()) (, ) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
जन्म
गान्धिवंशीया बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यैते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्टः स प्रत्याह इतः पूर्वमेव मम दक्षिणो हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥
मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्द गान्धी कबागान्ध्यपराख्यः पञ्चमः । तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तातः कियन्तं कालं राजकोटसंस्थाने क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥
कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोर्द्वयोर्दवे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिमः ॥ मम पिता कुटुम्बवत्सलः सत्यप्रियः शूर उदारश्च । परन्तु क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबा गान्धी समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥
मम पितुर्द्रव्यसङ्ग्रहलोभो न कदाप्यासीत् । तदस्माकं पैतृकं रिक्थमल्पमल्पमागतम् ॥ अनुभवमेकं मुक्त्वा तस्य शिक्षाक्रमः कोऽपि नासीत् । अध्ययनमपि भूयसा गुजरातीपञ्चमश्रेणीपर्यन्तमेव तस्य प्रवृत्तम् । चरित्रभूगोलपरिज्ञानं तस्य न कञ्चित् । तथाप्यस्य व्यावहारिकज्ञानसम्पन्नत्वादतिसूक्ष्मप्रश्नानां निर्णये परःशतानां जनानां शासनेऽपि प्रगल्भोऽभवत् । तेन लब्धं धार्मिकशिक्षणमत्यल्पम् ।तथाप्यसंख्यातैर्हिन्दुजनैर्देवस्थानगमनपुराणपुण्यकथाश्रवणादिभिर्यावती धार्मिकज्ञानसम्पत्तिरधिगन्तुं शक्या तावती तेनापि सम्पादिता । स्वस्य मरणात् कतिपयवत्सरेभ्यः पूर्वमस्मदीयकुटुम्बमित्रेण केनचिद्ब्राह्मणविदुषा बोधितो मे पिता गीतापारायणं कर्तुमारभत । अपि च प्रत्यहं पूजासमये कतिपयश्र्लोकानुच्चैः पठति स्म ॥
मम मातुर्विषये कदाप्यविस्मणीयतया यन्मे मनसि निरूढस्थितं तत्खलु सा पतिव्रता स्त्रीति । सेयं धर्मभीरुः । प्रतिदिनमापूजापाठावसानं भोजनचिन्तामपि न कलयति स्म । हवेल्याख्यवैष्णवदेवालयगमनं तस्याः प्रात्याहिककर्तव्येष्वेकतममासीत् । स्मारं स्मारमपि तस्याश्चातुर्मास्यव्रताचरणलोपः कदाचित्कोऽपि मम स्मृतिपथं नायाति । अत्यन्तकृच्छव्रतान्यपि सा सर्वात्मना समापयते स्म । आरब्धव्रतं व्याधिवशान्न कदापि पर्यत्यजत् । एकदा चान्द्रायणव्रतमाचरन्त्या रोगपीडीतयाप्यपरित्यज्य व्रतं यथावत्समापितं मम स्मृतिमुपैति । द्वित्रदिनानि यावदुपवासो नाम तस्या ईषत्करः । चातुर्मास्ये प्रतिदिनमेकमुक्तं तयाभ्यस्तमासीत् । इयताप्यपरितृप्य चातुर्मास्ये क्वचिदेकाहिकमुपवासं कुर्वती व्रतं समापयत् । अपरस्मिंश्चातुर्मास्ये सूर्यनारायणदर्शनं विना नाहारं स्वीकरिष्य इति व्रतमग्रहीत् । तदास्माभिर्बालकैर्बहिः स्थित्वा गगनैकद्रष्टिभिः सूर्यदर्शनं मात्रे निवेदयितुमवसरः प्रतीक्ष्यते स्म । वर्षाकालमध्ये सूर्यदर्शनमतीवविरलमिति सर्वेषामपि विदितमेव । बहुषु दिवसेषु सहसा प्रत्यक्षीभवति सूर्ये यथा वयं 'अम्ब अम्ब सूर्यो दृश्यते’ इति ससम्भ्रममवोचाम कदाचन यावदम्बा स्वयं द्रष्टुं बहिरूपधावति तावत्सूर्यस्तिरोहितोऽभूत् यथा चानेन तस्यास्तस्मिन्दिने भोजनाभावः प्राप्तस्तथा सर्वं स्मरामि । ईदृक् सम्भवेष्वस्माताम्लानमुखी 'न कापि चिन्ता । ममाद्य भोजनं देवता न रोचते’ इति वदन्ती स्वकार्यमनुष्ठातुं प्रतिनिवर्तते स्म ॥
सा व्यवहारकुशला । राजास्थानसम्बन्धिनामखिलवृत्तान्तानामप्यभिज्ञाभवत् । अस्या बुद्धिकौशलमवरोधजनस्य सुविदितमासीत् । अहमनेकशो बाल्ये वयसि जनन्या सह राजमन्दिरं गत्वा तत्र मदम्बाठाकूरप्रभुजनन्योः संवृत्तं कथालापं श्रुतवानित्यद्यापि स्मरामि ॥ अनयोर्मातापित्रोर्गर्भादहं संवत् १८३५ भाद्रपदबहुलद्वादश्यां (तथा च श्रीशालिवाहनशकस्य द्विनवत्युत्तरसप्तशताधिकैकसहस्रतमे शुक्लनाम्नि संवत्सरे भाद्रपदकृष्णद्वादशीतिथौ) अधुना पोरबन्दरेतिप्रसिद्धे सुदामापुर्यां जन्माग्रहीषम् ॥
पोरबन्दरे मया बाल्यमतिवाहितम् । कामप्येकां प्रति मया गम्यते स्मेति ज्ञप्तिरस्ति । गणितकोष्टकानां घट्टीकरणं मम क्लेशावहं संवृत्तम् । अपि च सहपाठिभिः सहास्मदुपाध्यायनिन्दामशिक्षिषि । इदमुक्त्वा नान्यत् किञ्चिदपि स्मरामि । एतेन तदानीं मे बुद्ध्या मन्दया भवितव्यं ज्ञापकशक्त्या चापक्वया भाव्यमिति तर्कये ॥
बाल्यम्
यदा मे पिता राजास्थानिकन्यायसभासदस्यत्वमिच्छू राजकोटं प्रति प्रस्थितस्तदा मया सप्तवर्षदेशीयेन भाव्यम् । तत्राहं प्राथमिकशालां प्रवेशितोऽभवम् । तदात्वे पाठयितॄणामुपाध्यायानां नामानि सम्यगहं स्मरामि । यथा पोरबन्दरपुरे, तथैवात्रापि मम पाठलेखनादिषु न कोऽपि विशेषो दृष्टः । न चाहमितरापेक्षया बुद्धिमत्तर इति गणनीयोऽभवम् । एनां शालामतिक्रम्य नगराबाह्यवर्तिन्यां पाठशालायां दिनकतिपयान्यावदध्यगीषि । तदनु द्वादशे वर्षे हाईस्कूलाख्यमुच्चविद्यालयमहं प्रविष्टः । अस्मिन्नल्पीयसि कालेऽस्मदुपाध्यायान् वा सहपाठिनो वा नाहमनॄतं कदाप्यचकथम् । अतीव लज्जालुतया परगोष्ठीं पर्यहार्यम् । मदीयपुस्तकपाठा एव मे सहायाः । घण्टावादनसमये पाठशालोपस्थानं शालाविरामे च गृहाभिमुखीभवनं-एवं हि मेऽभ्यासः । अन्यैः सह कथालापनिस्सहेन गृहं प्रति त्वरित गतिना गम्यते स्म मा कोऽपि द्रष्ट्वा मां परिहसीदिति ॥
उच्चविद्यालये मम प्रथमवर्षपरीक्षायां यत् संवृत्तं सा घटनाद्य कथनीया भवति । तदानीन्तनविद्याभ्यासपरीक्षको जैईल्सनामा समागतः । अस्मत्परीक्षणार्थं पञ्च शबसानमस्माभिरलेखयत् । तेषामेकतमः 'केटल' इति पदमासीत् । तस्य लेखनेऽहं स्खलितमकार्षम् । अस्मदुपाध्यायः स्वपारदरक्षाग्रेण मत्पादमभिस्पृश्य स्खालित्यसूचनाय महान्तं यत्नमकरोत् । तथापि तत्संविदं नाहमग्रहीषम् । मत्पार्श्वस्थितबालकस्य फलकं निरूप्य तल्लिखितानुकारेण स्खलितं मदीयं समीकर्तव्यमित्यस्मदुपाध्यायस्याशयोऽभवत् । तदेतन्मनसो मे नास्फुरत् । अन्योन्यलिखितानुकरणस्य निवारणमेवोपाध्यायानां कर्तव्यमिति मया हि गृहीतम् । मदेकवर्जमन्ये सर्वेऽपि शब्दान्निर्दोषेण व्यलेखिषुः । अहमेक एव मूर्खः । ततः परमुपाध्यायो मम मुग्धतां दर्शयितुं प्रायतिष्ट । तेन तस्यैव वृथाश्रमो जातो न पुनर्मया लिखितानुकरणमशिक्षि ॥
अथाप्येतेनोपाध्यायं प्रति मे गौरवं नाहीयत। ज्येष्ठगतानां हि दोषाणां यदुद्भावनं तन्मे स्वभावदूरमासीत् । यद्यपि तदुपाध्यायस्येतरे दोषा मया क्रमेणोपलब्धास्तथापि तन्निष्ठभक्तिभावो मे नान्यथा पर्यवर्तत । ज्येष्ठानामाज्ञानुवर्तनमेवास्मत्कर्तव्यं न पुनस्तेषां चारित्रपरिशोधनमित्यर्थो मम हृदयंगतोऽभूत् ॥ एतस्मिन्नेव समये संवृत्तं घटनाद्वयमपि मे मनसि लग्नं भवति । शालापुस्तकानि मुक्त्वा पुस्तकानन्तरपठनं मम नेष्टमासीत् । उपाध्यायादाक्षेपवचनं वा मया तत्प्रतारणं वा न मे रोचते स्म । अतो मया दैनन्दिनीयपाठाः शिक्षणीया एवापतिताः । तथाप्येवं शिक्षमाणस्य मानसं सर्वदा पाठैकव्यग्रमासीदिति वक्तुं न शक्यते । एवं मयि पाठ्यपुस्तकेऽपि निरवधाने सति पुस्तकानन्तरं न हि पठ्यते स्मेति किमु वक्तव्यम् । किन्तु मम पित्रा क्रितस्थापितस्य श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि कथमपि मे द्रष्टिरपतत् । तमेनं तत्परतयाहमपाठिषम् । तत्कालमेव ग्रामाद्ग्रामं पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविनः केचिदस्मद्ग्राममुपागमन् । तत्प्रदर्शितपुत्तलिकासु यात्रामुद्दिश्य स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिरेका व्यलोकि । एतत्पुस्तकं पुत्तलिकाचेति द्वयं मिलित्वा श्रवणकथां मे मनसः कदाप्यप्रमार्जनीयामकरोत् । श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम् । श्रवणस्य मरणेन सन्तप्यमानयोस्यत्पित्रोर्विलापोऽद्यापि मे मनसि शोश्रूयत इव । मदर्थे पित्रा वितीर्णया रागमालिकया तमहमालापयम् । स रागो मे ह्रदयं व्यलीनयदिव ॥
नाटकान्तरसम्बन्धिन्यपरा तत्सदृशी घटनैका संवृत्ता । एतत्कालमेव कयापि नाटकमण्डल्या प्रयुक्तं नाटकमवलिकयितुं पितुरनुज्ञामध्यगच्छम् । तन्नाटकं हरिश्चन्द्रचरितात्मकमासीत् । तदेतल्लोचनासेचनकं मम मानसमकर्षत् । किन्त्वनुज्ञां कतिकृत्वः प्राप्य गन्तुं शक्येत । तथाप्येतन्निमित्तं व्यसनं नैव माममुञ्चत् । निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्तं स्यात् । हरिश्चन्द्रेणेव सर्वैरपि कस्मात्सत्यवद्भिर्न भवितव्यम् । इत्येष प्रश्नो दिवानिशं मे मनसि पुस्फोर्यते स्म । सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभवः । इत्येष आदर्श एक एव मे मनस्याविरभूत् । हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिर्मयासीत् । सर्वस्यास्य स्मरणमनेकशो मे नेत्रोभ्यामश्रूणि निरसारयत् । कथाहरिश्चन्द्रः कश्चिद्वस्तुतो न जीवन् स्थित इत्यधुना मम लौकिकज्ञानमाख्याति । किन्तु हरिश्चन्द्रश्रवणावुभावपि मम ह्रदये नित्यसंनिहितौ स्तः । अद्यापि तन्नाटकपाठेन पूर्ववन्मे ह्रदयं विलीयत इत्यहं जाने ॥
बाल्यविवाहः
एतदध्यायलेखनसन्दर्भो मा सम्भवत्विति बहुतरमाशंसमानस्याप्येतद्वृत्तान्तं कथयिष्यतो मे विदितमेवेदं यदेतत्सदृशास्तिक्तगुलिका इतोऽपि भूयस्यो मया निगरीतव्याः सन्तीति । यद्यहं परमार्थेन सत्योपासकोऽस्मि तदा मे नान्या गतिः । मम त्रयोदशे वयसि संवृत्तविवाहवृत्तान्तवर्णनरूपं मनस्सन्तापकरं कर्तव्यमिदानीं प्राप्तम् । मत्पोष्यवर्गस्थितानेतद्वयस्कान्बालकान्विलोक्य मद्विवाहः स्मर्यते यदि तदाहमात्मन एव न केवलं दयनीयो भविष्यामि परन्तु परिह्रतबाल्यविवाहान्बालकान्प्रति यूयमेव भाग्यशालिन इति विवक्षा मे जायते । एवमतिबाल्ये वयसि विवाहकरणं नाम नीत्यनुरोधीति किमपि प्रमाणं नोपलभे ॥
अत्र विषये पाठकं मान्यथा विदाड्कुर्वन्तु । मम यत्संवृत्तं स विवाह एव न पुनर्भाविनं विवाहं प्रति संमतिमात्रम् । काठियावाडदेशे विवाहः संमतिरिति द्वौ पृथक् संस्कारौ स्तः । संमतिर्नाम बालकबालिकयोर्मातापितृभिभाविनं विवाहं प्रति परस्परं वाग्दानम् । संमतिरियं नोल्लड्घनीयेति निर्बन्धः कोऽपि न हि । न च मृते बालके बालिकाया वैधव्यप्राप्तिः । बालिकाबालकौ न खलु तत्रे भागिनौ भवतः । बहुशस्तद्विचारोऽपि तयोरविदितो भवेत् । एष संमतिसंस्कारो मम त्रिवारं समपद्यतेति प्रतिभाति । अपि तु कदा सम्पन्न इति न जाने । मदर्थनिश्चिते द्वे बालिके क्रमशोऽम्रियेतामिति कथितोऽस्मि । तृतीया संमतिर्मम सप्तमे वयसि संवृत्तेति क्वचित्स्मरामि । न तावत्स्मर्यते तदिदं केनापि मे निवेदितमिति । इह लेखिष्यमाणो वृत्तान्तो मद्विवाहविषयः स तु स्पष्टतरं स्मर्यते ॥
उक्तपूर्वं खल्विमे वयं त्रयो भ्रातर इति । तत्र प्रथमः पूर्वमेवोढः । मदपेक्षाया द्वित्रवर्षज्येष्ठस्य द्वितीयभ्रातुरेकवत्सरज्येष्ठस्य मे कस्यचिद्दायादस्य मम च त्रयाणामेकदा विवाहः करणीय इति वृद्धैर्निरणायि । एवंविधप्रवृत्तेरस्मत्सुखदुःखचिन्ता वास्मदिष्टानिष्टभावना वा न हेतुरासीत् । एतेन स्वानुकूल्यं मितव्ययश्च सिध्यत इत्यभिप्रायेणैव तथा संविहितम् ॥ हिन्दुजनेषु विवाहो नाम न खलु साधारणो विषयः । विवाहेन वधूवरयोर्माता पितरोऽनेकशो निर्धना भविष्यन्ति । अस्य कृते निजस्वं नाशयन्ति । कालं वृथा क्षिपन्ति । एतदावश्यकानां वस्त्राभरणवस्तूनां सज्जीकरणाय भोजनोपचारव्ययपट्टिकालेखनाय च मासशः कालोऽपेक्ष्यते । विविधभक्ष्याद्युपकल्पने वरपक्षीयाणां वधूपक्षीयाणां च स्पर्धा जरीजृम्भ्यते । ध्वनिमाधुर्यं तावदस्तु वा न वा स्त्रियः पुनराकण्ठशोषं गायन्ति । एतेन व्याधिसम्भवेऽपि न हि चिन्ता । प्रातिवेशिकजनानान्तु विश्रान्तिरेव नास्ति । तेऽपि तत्कलकलमुच्छिष्टकच्चरं च तूष्णीं सहन्ते । यतस्तैरपि करिष्यमाणविवाहप्रसड्गेष्वेवंविधैव प्रवृत्तिराश्रयणीया भविष्यतीति तेषां विदितम् ॥
सर्वस्यास्य क्लेशस्यैकदैव परिहारोऽस्त्वित्यस्मज्ज्येष्ठा व्यचिन्तयन् । समष्टया व्ययोऽल्पः । उत्कावस्तु महान् । त्रिः पृथग्व्ययस्थाने सकृदेव व्ययसम्भवः । ततो मुक्तहस्तेन धनं विकरीतुं शक्यते । मम पिता ज्येष्ठपितृव्यश्च वाधकं प्राप्तौ । अस्मद्विवाहा एव ताभ्यां निर्वर्तनीयेषु चरमाः। चरमाड्कः कुतो विभवोत्तरं न प्रयोक्तव्य इति तेषां मनसि विद्येत । सर्वमेतेदभिसमालोच्य विवाहत्रयमेकदा निर्वर्तनीयमिति निश्चितमभूत् । पूर्वोक्तरीत्या वैवाहिकसंविधानं कियद्भिरपि मासैः समाप्तिमगात् ॥ प्रचलद्वैवाहिककार्यविशेषैरेव विवाहो भावीत्यस्माभिरवगतम् । विवाह इत्येतेन धारणार्थे प्रशस्तवस्त्रलाभः । वाद्यतम्मटघोषः । वधूवरप्रदर्शनोत्सवः । महाभोजनसन्तर्पणनम् । मया सह क्रीडितुमेककन्याप्राप्तिश्च । इत्येतावन्मुक्त्वा नान्यो विचारो मम मनस्यस्फुरत् । विषयसुखापेक्षा त्वनन्तरमागता । मुक्त्वा कतिचिदवश्यवर्णनीयान्विषयानेतदधिकृत्य नान्यत्किमपि लिलेखिषामि । ते च विषया अग्रे निरूपयिष्यन्ते । तेऽप्येतद्वृत्तान्तलेखने यन्मम मुख्योद्देश्यं तस्य भूयसा नोपकारका भवेयुः ॥ साग्रजं मां राजकोटात्पोरबन्दरपुरमनैषुः । सन्ति केचिच्चरमदृश्यात्पूर्वभावितो हरिद्राचूर्णेन सर्वाड्गलेपाविका विनोदावहा विषयाः । ते पुनः सर्वे वर्णयितुं न शक्यन्ते ॥
अस्मत्पिता प्रधानसचिव इति यद्यपि सत्यं तथापि किमयं न परोपजीवी । ठाकोरप्रभोर्विश्वासपात्रतया तस्य परतन्त्रता समाधिकैवेति वक्तव्यम् । अतिप्रत्यासन्नेऽपि विवाहदिवसे ठाकोरप्रभुरस्मत्पितरं नैवाऽमुचत् । ततो मुक्तस्यास्य दिनद्वयात्पूर्वमेव यथा प्रयाणं समाप्येत तथा मार्गयानानि पृथगस्थाप्यन्त । परन्तु किमनेन । अन्या ह्येवासीदीश्वरेच्छा । सुदामापुरं राजकोटाद्विंशत्युत्तरैकशतपाषाणदूरे वर्तते । शकटेन पञ्चर्भिर्दिनैर्निर्वर्त्यं प्रयाणम् । तदेतत्प्रयाणमस्मत्पिता त्रिभिरेव दिनैः समापयत् । किन्तु तृतीयदिवसे यानं पर्यस्तपतितमभूत् । एतेन तस्य बहुनि क्षतान्यजायन्त । असौ सर्वाड्गबद्धपट्टकः सदनमागतः । एतेन तस्य चास्माकं चोत्साहो यद्यप्यर्थे न ह्रासमगच्छत् पितृक्षतनिमित्तं मे दुःखं वैवाहिकविनोदसंरम्भमध्ये सर्वं विस्मृतमभूत् ॥
अहं मातापित्रोरतीव भक्तिमानासम् । किन्तु मे भोगासक्तिरासीत्ततोऽपि नाल्पीयसी । मातापित्रोः शुश्रूषमाणेन जनेन परित्यक्तनिजसुखसन्तोषेण भवितव्यमिति नाहमद्याप्यवेदम् । भोगासक्तस्य मे दण्डरूपेणेव संवृता काचिद्घटना मम मानसमद्यापि कृन्ततीव । एतद्वृत्तान्तस्तु पुरस्तान्निरूपयिष्यते । श्रीनिष्कुलानन्दो गायति यथा-
भोगतृष्णामनिर्धूय भोग्यमात्रं विमुञ्चतः । त्यागोऽयं सर्वथा न स्याच्चिरस्थायीति निश्चयः ॥ इति ॥ अभव्यः शोचनीयोऽयं वृत्तान्तो गीतिमेनां स्वयं पठतो वा गीयमानामितरैः श्रुतवतो वा मम ह्रदयकुहरं प्रविश्य तत्स्मारणेन मामवनतमुखं करोति ॥व्रणपीडितोऽपि मे पिता वेदनां बहिरप्रकटयन् विवाहं साड्गं निरवाहयत् । विवाहे स्मर्यमाणे तत्तद्विधिकर्माणि यत्र स्थलेष्वनुष्ठीयन्ते स्मेत्यद्यापि मे मनश्चक्षुषः पुरस्ताच्चित्रयितुं शक्रोमि । निष्पन्नबाल्यविवाहहेतोः कदाचित्पितरं निष्ठुरखण्डनस्य विषयीकरिष्यामीति न हि स्वप्नेऽपि मया व्यचिन्ति । तदानीं सम्भवन्तोऽर्थाः सर्वेऽपि सुसड्गता लोकसिद्धाः सुखदायकाश्चेति प्रत्यभासन्त । किं च ममाप्यासीत्परिणयनकुतूहलम् । अस्मत्पित्रानुष्ठितस्य सर्वस्यापि निर्दोषत्वेन मया गृहीतत्वात्सर्वमिदानीं स्पष्टमेव स्मर्यते । यथावाभ्यां विवाहवेदिकायामुपविषिटं यथावाभ्यां सप्तपदी रचिता यथा नवोढाभ्यामावाभ्यां कंसाराख्यमधुर गोधूमभक्ष्यविशेषोऽन्योन्ययोर्मुखे विन्यासि यथा चावाभ्यां सहावस्थानमारब्धं तथा सर्वमेतदिदनीमपि मे मनसि चित्रयितुं शक्नोमि । अहो सा प्रथमा रात्रिर्यस्यामत्यन्तमुग्धापत्ययोरायति परिज्ञानशून्ययोर्द्वयोरावयोः सहसा संसारसागरे निपातः समजनि । प्रथमरात्रौ यथा वर्तितव्यमिति प्रजावत्या सम्यगुपदिष्टोऽभवम् । मम भार्या तु केनोपदिष्टेति न जाने । मया सा न तत् पृष्टा । न चाद्य मे तस्य जिज्ञासा । आदावन्योन्यमुखदर्शनेऽप्यधीरा बभूवेति पाठकैर्निस्संशयं विज्ञायेत । लज्जा हि प्रबला स्थिता । कथमहं तया सम्भाषेय । किं वा सम्भाषितव्यम् । अस्मत्प्रजावत्या यदुपदिष्टं तेन नातिदूरमाकृष्टोऽभवम् । किन्त्वेवविधप्रसड्गेषु परोपदेशो नावश्यकः । प्राग्जन्मवासना प्राबल्याद्दैहिकशिक्षणसापेक्षता नास्त्येव । शनैः शनैरन्योन्यसंस्तवो जातः । परस्परमालपितुं प्रावर्तावहि । उभावपि समानवयसावभूव । तथापि पत्यधिकारवहने न मया कृतो विलम्बः । वृत्तान्तोऽयमुत्तराध्याये वर्णयिष्यते ॥
चौर्यं, तस्य प्रायश्चित्तम्
मांसाशनकालिकानाम् तत्पूर्वकालिकानां च मम केषांचिद्दुरभ्यासानामुपवर्णनमवशिष्टं भवति । ते च मद्विवाहप्राक्कलिका वा विवाहोत्तरकालीनकतिपयदिनान्तर्भाविनो वा भवन्ति ॥ मम च मम बन्धोरेकस्य च कदाचिद्धूमवर्ति सेवनोपेक्षा जाता । अस्मिन्निकटे पणस्तु नासीत् । तत् सेवने किमपि प्रयोजनमस्तीति नावामजीगणाव । न च वा तत्परिमलोऽस्मदीयं मनः समाकर्षति स्म । किन्तु मुखाद्धूममोक्षे कोऽप्यानन्दविशेषोऽनुभूयत इत्यमंस्वहि । अस्मत्कनिष्ठपितृव्यः पूर्वमेव तदभ्यासी । तत्प्रभृतिभिर्जनैः सेव्यमानं धूमपानमवलोकमानयोरावयोरपि तत्सिसेविषा समजनि । किंत्वस्मदीयकञ्चुककोशे पणाभावात्पितृव्येन सेवितमुक्तानि वर्तिशकलानि गुप्तमेवोच्चित्य गृहीतुं प्रावर्तावहि ॥
किन्त्वेतानि शकलानि सर्वदा न लभ्यन्ते स्म । न हि तेभ्यः प्रकामं धूमोऽपि निरसरत् । तस्माद्गृहभृत्यस्य कञ्चुककोशान्मुषितलब्धाभिः पञ्चषकाकिणीभिर्धूमवर्तीः क्रीत्वा सम्पादयितुमारप्स्वहि । परं त्वेता वर्तयः कुत्र निगूहितव्याः । ज्येष्ठसमक्षं तु तत्सेवनमशक्यमेव । एवं चोर्यमाणद्रव्येण कथंचित्कतिपयदिवसान्निरवाहयाव । एतन्मध्ये कस्यचिद्वृक्षविशेषस्य रिक्तकनालानि धूमवर्तिपानोपयोज्यानि भवन्तीत्यश्रौष्व । ततस्तान्येवानीय सेवितुमुपाक्तमावहि । किन्त्वेतदावयोर्न परितोषमजनयत् । अस्मत्पारतन्त्र्यमावां तुदति स्म । ज्येष्ठानुज्ञां विना न किञ्चिदनुष्ठातव्यमिति निर्बन्धो दुस्सहोऽभवत् । पर्यन्ते परमजुगुप्सया स्वात्महत्यां विधातुं निश्चयमकार्ष्व । किन्तु कथमिदं साधयितव्यम् ? विषं कुतः सम्पादनीयम् ? धातुरबीजभक्षणं प्राणहरमिति पूर्वमावाभ्यां श्रुतमासीत् । वनं गत्वा तद्बीजमानैष्व । सायं प्रतीक्ष्य केदारेश्वरदेवालयं गत्वा देवाग्रस्थितदीपे घृतं दत्त्वा निष्पन्नदेवतादर्शनौ किंचिद्विविक्तस्थानमगाव । परं तु विषप्राशनाय न धैर्यमागतम् । सद्यः प्राणानामनपगमे का गतिः ? आत्महत्यया वा तावत्को हि लाभः ? पराधीनतापि कस्मान्न सोढव्या । अथापि त्रिचतुरबीजानि गिलितानि । ततोऽप्यधिकभक्षणाय न धैर्यमलप्स्वहि । उभावपि मरणपराङ्मुखावभूव । श्रीरामदेवालयं गत्वा देवदर्शनं प्राप्य शान्तचित्ताभ्यामात्महत्याप्रसड्गो विस्मर्तव्य इति निरणायि ॥
आत्महत्यासड्कल्पस्तावत्सुकरः । परं तत्साधनं दुष्करमित्यनुभवाद्विदितमभूत् । तदाप्रभृत्यात्महत्यासड्कल्पघोषणेन यः कोऽपि मां भीषयति चेत्तदहं नैवाद्रिये ॥
एवंविधप्रयत्नस्य फलितांशस्तु धूमवर्तिशकलसेवनाभ्यासस्य भृत्यकञ्चुकाद्द्रव्यमोषणप्रसड्गस्य चात्यन्तिकः परित्यागः ॥
प्राप्तवयसो मम धूमपानेच्छा न कदापि जाता । अपि चाभ्यसोऽयमनागरिकश्च मलीमसश्चानर्थप्रदश्चेति सदा प्रत्येमि । लोके सर्वत्राप्यस्मिन्नभ्यासे कुतो हि जनानां तत्तादृश्यासक्तिरित्यद्यापि मया नावगतम् । धूमवर्तिसेविभिर्जनैः सम्बाधायां धूमशकट्यां प्रयाणं मे दुष्करम् । तद्धूमेन मम श्वासः प्रतिबद्धो भवति ॥ इतो दिनकतिपयात्परं यच्चौर्यमकारि तत्खलु पूर्वतनमप्यत्यशेत । काकिणीचौर्यकालेऽहं द्वादशत्रयोदशवर्षदेशीयोऽभवम् । ततोऽपि न्यूनवया वा । द्वितीयचौर्यकालेऽहं पञ्चदशाब्दवयस्कः । मांसाहारिण पूर्वोक्तमदग्रजस्य हस्तगतसुवर्णकटकात् खण्डमेकमहमचोरयम् । अयमग्रजः कस्मैचिज्जनाय पञ्चविंशतिरूप्यकानधारयत् । सौवर्णं घनकटकं तदीयहस्तगतमासीत् । ततः शकलमेकमुत्पाट्य स्वीकरणं नाम नाभूद्दुष्कारो व्यापारः ॥
अथ कृतं तदुत्पाटनम् ऋणं च निर्यातितम् । परं त्वेतदकृत्याचरणं मम दुस्सहं जातम् । इतः परं नैव चौर्यं करिष्य इति निश्चयमकरवम् । अपि च पितुरग्रे स्वापराधमड्गीकरिष्यामीति मतिमकरवम् । किन्तु तत्समक्षं वक्तुमधीरोऽभवम् । न तावत्स मां ताडयिष्यतीति भयादपि तु तस्य दुःखप्रदो माभूवमिति । अस्मन्मध्ये कमपि तेन ताडितं न हि स्मरामि । पर्यन्ते च यद्भवतु सर्वथा तं विदितार्थं करिष्यामीति निर्धारितवान् । अन्यथा तु स्वदोषस्यानड्गीकारे नान्तःशुद्धिर्भवितेति मया व्यचिन्ति ॥ मदपराधवृत्तान्तमखिलमेकस्मिन् पत्रे विलिख्य तत्तस्मै प्रदाय क्षमाभ्यर्थनीयेत्यवधार्य तथा च लिखितपत्रखण्डं तस्य हस्ते न्यधाम् । तत्र न केवलं स्वापराधाभ्युपगतिरूपन्यस्ता परं स्वस्मिन्दण्डपातनमपि प्रार्थितमभूत् । अपि चास्य कॄते भवता विषादो न कर्तव्य इत्यभ्यर्थ्य न पुनरेवमपरात्स्यामीति प्रतिज्ञाक्षरमप्यलेखि ॥ जनकाय पत्रिकां ददानस्य मम शरीरं कम्पते स्म । तत्कालमसौ भगन्दरव्याधिना सन्तप्यमानः शयनपतितोऽभवत् । तदानीं तु फलकमेकध्यशेत । पत्रं समर्प्य तदग्रेऽहमुपाविशम् ॥
स च पत्रमवाचयत् । नयनाभ्यां मुक्ताफलसन्निभा अश्रुबिन्दवो निःसृत्य पत्रमार्द्रीकुर्वन्ति स्म । कंचित्कालं पर्याकुलीभूय चक्षुषी न्यमीलयत् । तदनु पत्रमुत्पाट्य प्राक्षिपत् । अथोत्त्थाय पठितुमुपविष्टः क्षणात्पुनः शयनमभजत । अहमप्यरुदम् । पितुः सड्कटं तु प्रत्यक्षमालक्ष्यते स्म । यद्यहं चित्रकरोऽभविष्यं तदा तत्कालीनदृश्यमचित्रयिष्यम् । तच्चित्रमद्यापि मे मनश्चक्षुषः स्पष्टतरं भासतो ॥ तेऽमी मुक्ताबिन्दवो मम ह्रदयकालुष्यं निरसारयन् । तत्प्रेमबाणो मम पापानि निरभिनत् । स च प्रेम स्वानुभवैकवेद्यः । तथा हि प्रेमबाणाविषयीभवन्नरस्तस्य तीक्ष्णगतिविन्न चापरः ॥ इत्याहुः ॥ अयमेव ममाहिंसावस्तुपाठः संवृत्तः । तस्मिंन्किलावसरे पितुः प्रेमैकमन्तरा न किंचिदपरं भासते स्म । अद्य हि सैष शुद्धाहिंसाप्रयोग इत्यवगच्छामि । सेयमहिंसा विश्वव्यापिनी कस्य वा शीलं न परिवर्तयेत् । अपरिमेयः खलु तस्याः प्रभावः ॥ ईदृक् शान्तिमयी महनीया क्षमा मम पितुर्निसर्गसिद्धा नाभवत् । मया हि चिन्तितं यदसौ सललाटघातं क्रोधेन मां शप्स्यतीति । परन्त्वयमगाधशान्तिरसपरिप्लुतोऽभवत् । इदं हि विशुद्धान्तःकरणेन मया स्वापरधाड्गीकरणस्य फलमिति तर्कयामि । इदं हि मन्ये कृतापराधस्य शुद्धतमं प्रायश्चित्तं यत् क्षमितुरग्रे स्वापराधातां प्रकटमड्गीकृत्य पुनस्तदकरणे प्रतिज्ञानं नाम । जानेऽहमेवंविधया मम प्रवृत्त्या पिता निःशड्कः समजनीती । मद्विषयिणी च तत्प्रीतिरमेया पर्यवर्धतेति ॥
दक्षिणाफ़्रिकाप्रस्थानसज्जीकरणम्
मया तदाधिकार्युपसर्पणं सर्वथा दोष एव । परन्तु तदीयाग्रहक्रोधगर्वानपेक्ष्य मदीयोऽपराधस्तावदत्यल्प आसीत् । न खल्वयं बहिर्निष्कालनमार्हित् । पञ्चनिमेषाधिकः कालस्तदीयो मया न क्षपितः । तथापि मद्वचनोपन्यास एव तस्य दुस्सहोऽभवत् । गम्यतामिति सभ्यरीत्या वक्तव्यमुचितमासीत् । किन्तु तस्याधिकारदर्पोऽत्यारूढ स्थितः । क्षमायास्तस्मिन्नामापि न श्रूयते स्मेति पश्चादवगतोऽस्मि । स्वपार्श्वमुपागतानां यदवहेलनं तत्किल तस्य साधारणो विषयः । अणुमात्रविपर्यणाप्यसौ रोषेण ज्वलति स्म ॥ प्रायेण मम कार्याणां भूयिष्ठोंऽशस्तदीयन्यायसभायामेव परीक्षणीयोऽभवत् । न्यायतस्तस्याधिकारिणः समाधानकरणं ममाशक्यमासीत् । तस्य प्रसादनाय नीचैः प्रह्वताश्रयणं न मेऽभिमतमासीत् । किं बहुना । व्यवहारेण त्वामभियोक्ष्य इति प्रथममेनं भीषयित्वा पश्चात्तूष्णीमासिका न मे समञ्जसा प्रत्यभासीत् ॥
अत्रान्तरे तत्रत्यराजकीयप्रपञ्चस्य कार्यगतिविशेषाणामनुभवो मया बहुशः समपादि । काठियावाडदेशस्य प्रायेणाल्पाल्पराज्यभूयिष्ठतया स्वभावादेव तत्र राजनीतिकुशलैर्भूयोभिर्भवितव्यम् । संस्थानानां मध्ये परस्परं कूटनीतिप्रचारः सेवकजनानामप्यधिकारप्रेप्सयान्योन्य द्रोहचिन्तनमित्येतत्तदानीं सुप्रचरितमासीत् । राजानश्च मधुरवाचां कर्णेजपानां वचनमाकर्ण्य पराधीनप्रवृत्तयोऽभवन् । मुख्याधिकारिणः प्रागलभ्यतः स्वामिनप्यशेत । यतः स एव निजस्वामिनश्चक्षुः । स एव तस्य श्रोत्रम् । स एव तस्य मुखम् । तस्येच्छैव सर्वनियामिका । तस्य द्रव्यादायः स्वामिनो द्रव्यायतेरप्यधिकतरः । नन्वत्र काचिदतिशयोक्तिः स्यात् परन्तु तस्य वेतनादप्यधिक आसीत्तदीयव्यय इत्यत्र न कोऽपि सन्देहः । वातावरणमिदं विषयमलक्ष्य । एतदीयसम्स्पर्शं कथं वा परिहरेयमित्येषैव मे सार्वदिकी चिन्ताभवत् ॥
एतेनाहं परं खेदभवापम् । इदं ममाग्रजोऽलक्षयत् । यत्र काप्युद्योगलाभे तदड्गीकरणेन मयादितः प्रपञ्चाद्विमुक्तिः स्यादित्युभावचिन्तयाव । किन्तूपप्रदानं विना प्रधानसाचिव्यं वा न्यायाधीशपदं वा कथं लभ्येत । मुख्याधिकारिणा सह कलहप्रसड्गान्मम व्यवहारेषु हानिरुदपद्यत ॥ तदानीं पोरबन्दरसंस्थानमाड्ग्लसाम्राज्येन नियमितस्याधिकारिणाः शासने स्थितम् । तत्रत्यराणाप्रभोरधिकारवृद्धये मया प्रयत्नः करणीय आपतितः । मेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिकः करो गृह्यते स्म । अस्मिन्विषयेऽपि मया (अडमिनिस्ट्रेटर इत्येतदाख्यः) शास्तिकर्ता द्रष्टव्योऽभवत् । सोऽधिकारी देशीयोप्याड्ग्लाधिकारिणं दर्पतोऽतिशयान इवालक्ष्यत । स च स्वकार्ये विचक्षणः परन्तु तदीयकार्यकौशलात् कृषिकाणां न कोऽपि लाभः समजनि । राणाप्रभोरधिकारस्य काचिद्वृद्धिप्रापणे मम प्रयत्नः सफलोऽभवत् । किन्तु कर्षकसार्थस्य भारो न लघूकृतः । तदीयकष्टविचारो यथावदधिकारिणा न पर्यशोधीति मन्ये ॥
एवं च प्रसक्तविषये श्रमानुरूपं फलं मया न लब्धम् । मदीयकार्यिणां च न्यायलाभो नासिध्यत् । तदर्थे न्यायसम्पादनाय यक्तिमपि साधनं मयि नासीत् । बहुकृत्य 'पोलिटिकलएजेण्ट' इत्येतदाख्यराजकीयप्रतिनिधेर्वा 'गवर्नर' इत्येतदाख्यराजप्रतिनिधेर्वा सन्निधाने प्रार्थनापत्रं समर्पणीय मासीत् । एवं कृतेऽपि 'वयमत्र प्रस्तावे न हि प्रवेक्ष्यावः’ इति तेनाधिकारिणा विलिख्य प्रार्थनापत्रं निरकासयिष्यत । एवंविधार्थनिर्णयः कमपि शासननियमं प्रमाणीकृत्य यदि क्रियते तदा स साधुरेव स्यात् । परन्त्वत्र तस्याधिकारिणः स्वेच्छैव नियमिकाभवत् । ततो विनष्टक्षान्तिरहं संवृत्तः ॥अत्रान्तरे पोरबन्दरवर्ती वणिक्सार्थ एको मदग्रजस्य पत्रमेवं व्यलिखत् -
“ वयं दक्षिणाफ्रिकादेशे वाणिज्यकर्तारः । अस्मदीयो व्यापारः परमूर्जितो भवति । तत्रास्माकमेको महाव्यवहारः प्रवर्तते । चत्वारिंशत्सहस्रसुवर्णमुद्रासाध्यकोऽयं व्यवहारस्तत्रत्यन्यायसभायां प्रवेशितोऽस्माभिः । स च बहुभिर्दिनैः प्रचलति । परमघटका न्यायवादिनो ब्यारिस्टजनाश्च तदर्थेऽस्माभिः स्थापिता भवन्ति । भवदीयमनुजं यदि भवन्तः प्रेषयेयुस्तदा नस्तेन बहूपकृतं स्यात् । सोऽप्यानुकूल्यमाप्स्यति । स खल्यस्मदपेक्षया व्यवहारसम्बद्धान्विषयानस्मदीयन्यायवादिभ्यः स्पष्टतरं व्याख्यायात् । किं चास्य नवीनदेशदर्शनं च सेत्स्यति नूतनपरिचयश्च सम्पत्यत इति ॥
अस्य कृते मदग्रजो मया साकममन्त्रयत । प्रस्तुतोऽर्थो न हि मया स्पष्टमबोधि । व्यवहारमधिकृत्य न्यायवादिषु विषयनिरूपणमात्रं मया कर्तव्यमुताहो न्यायसभापि मयोपस्थातव्येत्यहं नाज्ञासिषम् । तथापि गमनोत्साहो मामग्रहीत् ॥ 'दादा’ अबदुल्ला-वाणिज्यशालाव्यस्थापकानामेकतमं शेठ-अबदुल-करीम-झवेरीमहाशयं मदग्रजो मां पर्यचाययत् । स च श्रेष्ठी मह्यामित्थं न्यवेदयद्यथा- भवद्भिस्तावदतिश्रमो न वोढव्यो भवति । सन्ति नः सुह्रदो महान्त ऎरोप्यजनाः । तै सहापि परिचयो वः सम्पत्स्यते । अस्मद्विपणिकार्येऽपि साहाय्यं कर्तुं भगवतामवकाशो भविष्यति । अस्मदीयलेख्यपत्राणां भूयिष्ठो भाग आड्ग्लभाषामयो वर्तते । तत्सम्बद्धकार्येष्वस्माकं भवद्भिरूप कर्तुं शक्यते । युष्मन्निवासोऽस्मदीयहर्म्यान्तर एव वसतिः परिकल्प्यते । तस्माद्वसतिनिमित्तव्ययभारो युष्यदुपरि न पतिष्यतीति ॥ अथाहमपृच्छम् - ‘ कियन्ति दिनानि मया वः सेवा कर्तव्या । कियद्वेतनं मे प्रदीयत इति ।’ "समयस्तावदेकवत्सरं नातिवर्तेत । युष्मदीयगतागतस्य प्रथमश्रेणीभाटिका प्रदीयते । किञ्च भोजनोपहारव्ययेन सह पञ्चोत्तरशतं सुवर्णमुद्राश्च प्रदीयन्ते” ।
तदेतदुद्दिष्टं मदीयगमनं न खलु न्यायवादिकार्यार्थमिति वक्तुं शक्येत । तद्धि केवलं तदीयविपण्यां भृत्यत्वस्वीकारार्थमेवेति स्पष्टम् । परं तु यथा तथा वा हिन्दुस्थानाद्बहिर्गन्तुमिच्छा मां नुदति स्म । गमनान्न केवलं नवीनदेशदर्शनं नवनवानुभवश्च सिध्यतः परन्तु मदग्रजस्य कुटुम्बव्ययार्थे पञ्चोत्तरशतं सुवर्णमुद्राः प्रेषयितुं शक्यं भविष्यति । तस्मात्किञ्चिदप्यविब्रुवंस्तदुक्तवेतनेन तदीयकार्यमनुष्ठातुं प्रतिपद्य दक्षिणाफ्रिकादेशं प्रति प्रस्थातुं सज्जोऽभवम् ॥
स्वदेशयात्रा
प्रायः षण्णवत्युत्तराष्टशताधिकैकसहस्रतमस्य कैस्तशताब्दस्य मध्यभागे 'पोंगोला’ नाम-कनौकायानेन स्वदेशं प्रति प्रयाणमड़्गीकृतवान् । एषा तरणिः कलकत्तानगरगामिन्यासीत् ॥ अस्यां नौकायां केचिदेव पान्था अविद्यन्त । तेषामांग्लाधिकारिणौ द्वावास्ताम् । ममैताभ्यामधिकपरिचयो जातः । अनयोरेकेन सह चतुरंगक्रीडया प्रत्यहमेकहोराकालमत्यवाहयम् । नौकायां वैद्यमहाशयो मे द्राविडभाषास्वयंबोधिनीमदात् । तत्पुस्तकेन तालिमभाषां शिक्षितुमुपाक्रमे । मुसलमानजनैर्निकटसम्बन्धाधिगमायोर्दूभाषाशिक्षणं तथा च मद्रासप्रदेशवर्तिनां भारतीयानां स्नेहसंपादनाय तामिलभाषाशिक्षणं चावश्यकमिति नातालदेशे मदनुभवाद्विदितमासीत् ॥
उर्दूभाषां मया सह शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधितः सन्नौकाबाह्यशालामध्युषितेषु पथिकेषूर्दूमहापण्डितमेकमन्विष्याग्रहीषम् । आवयोरध्ययनव्यासड्गः सम्यगेव प्राचलत् । अधिकारी मदपेक्षया प्रकृष्टतरमेधाशक्तिमानभूत् । सकृदवलोकनादसौ नैकमप्युर्दूशब्दं व्यस्मरत् । मम तावदक्षरपाठ एवानेकशः क्लिष्टतरोऽलक्ष्यत । तदपेक्षया भूयः प्रयस्यन्नपि नाहं तत्समानकोटिमारोढुमशकम् ॥ द्राविडभाषाभ्यासो मे प्रचलित स्म । अभ्यासेऽस्मिन्न किमपि साहाय्यं मयालभ्यत । किन्तु मन्निकटस्थिता 'तामिलस्वयंबोधिनी’ समीचीनं पुस्तकमासीत् । अतः साहाय्यान्तरं नात्यन्तमावश्यकमासीत् ॥
अथेदानीं पाठकाः पोंगोलाख्यनौकाप्रवहणस्य मुख्याधिकारिणः परिचयं कारयितव्याः । आवयोर्मैत्री परस्परं समवर्धत । आसीदयं प्लीमथभ्रातृसंप्रदायानुवर्ती । अस्मदीयकथालापविषयस्तु न तावज्जलयानविद्याज्ञानं यावदाध्यात्मिको विचारः । स किल नीतिधर्मश्रद्धयोर्भेदं प्रत्यपादयत् । तदीयद्रष्टया कैस्तवेदोपदेशो लेशतोऽपि क्लिष्टवाड़्म्यो नाभूत् । तस्य सौन्दर्यं नाम तद्गता सरलता आबालस्त्रीपुरुषमखिलजनैरापि कैस्ते तन्महाबलिदाने च यदि विश्वासः क्रियते नूनं तर्हि तत्पापानां परिहारो भविष्यतीति कथयति स्म । तमेनमनुचिन्तयतो मम प्रिटोरियाभ्रातरः स्मरणमागताः। नीतिनियमोपेताः सर्वेऽपि धर्मास्तस्य नीरसा अभूवन् ॥
अस्याः सर्वस्या अपि धर्मचर्चाया मदीयशाकाहारित्वमेव हेतुरासीत् । कुतो मांसं भवता न भक्षणीयम्। गोमांसमक्षणे को दोषः । यथा सस्यवृक्षादयः फलमूलादयश्च मनुष्योपभोगायैव देवेन निर्मितास्तथापि ननु हीनजातयः सर्वेऽपि प्राणिनो मनुष्यजातेरूपभोगायैव सृष्टोः । एवंविधा प्रश्नमाला आध्यात्मिकवार्ताप्रवेशमपरिहार्यमकरोत् ॥ आवयोरभिप्रायसांगत्यं नैवासिध्यत् । धर्मनीत्योर्नास्ति पारमार्थिको भेद इत्यभिप्रायो मयि दार्ढ्यमापद्यत । किन्तु मुख्याधिकारी तद्विरुद्धं निजाभिप्रायमेव निःसंशयेन संगतममन्यत ॥ गतेषु चतुर्विंशतिदिनेषु प्रमोदावहमिदं समुद्रयानं समाप्तिमगमत् । हुगलीनदीसौन्दर्यावलोकनेनान्दमनुभवन् कलकत्तानगरे नौकायानादवतीर्य तस्मिन्नेव दिने धूमशकट्या मोहमयीनगरं प्रायासिषम् ॥
वर्णद्वेषः
न्यायाधिदेवतामविषमतुलाधरीं निष्पक्षपातिनीमन्धामपि कुशलां वृद्धवनितां सांप्रदायिका - श्चित्रयन्ति । न खलु मनुष्याणां मुखदर्शनेन परन्तु पारमार्थिकयोग्यतानुगुण्येन न्यायनिर्णयो देय इति बोधयितुमेव दैवेन सा द्रष्टिविधुरा न्यधायि । नातालदेशस्य न्यायवादिसभा यथा तत्प्रत्यन्यायस्थानमेतत्तत्प्रतिकूलमाचरेत्तथा कारयितुं प्रवृत्ता ॥ तस्मिन्न्यायस्थाने मया न्यायवादित्वेन प्रवेशो लिप्सितः मन्निकटे मोहमयीनगरस्योच्चन्यायस्थानेन प्रदत्तं प्रमाणपत्रं स्थितम् । तत्र न्यायवादित्वेन प्रवेशावसरे विदेशलब्धं प्रमाण पत्रमर्पणीयमासीत् । नातालदेशे न्यायसभां प्रविविक्षुणा प्रार्थनापत्रेण सह चारित्रप्रशंसापत्रद्वयमवश्यमेव प्रेषयितव्यमासीत् । तदेतदैरोप्यजनप्रदत्तं चेत् प्रशस्यतरमित्यालोच्य शेठअबदुल्ला महाशयद्वारा कृतपरिचयाभ्यामैरोप्यजनाभ्यां प्रमाणपत्रं समपादयम् । प्रार्थनापत्रं च केनापि न्यायवादिना मदर्थे समुपस्थापनीयमासीत् । प्रायशः प्रार्थनापत्राण्येवंविधानि राजकीयमहान्यायवादिनैव (अटर्नी जनरल) विनार्थग्रहणं समर्प्यन्ते स्म । एस्कूंबमहाशयस्तदानीं तत्पदमध्यास्त । स किल दादा- अबदुल्ला-कंपनीपक्षेऽपि न्यायवाद्यभूत् । स एष मया द्रष्टः। सोऽपि मम प्रार्थना पत्रिकां समर्पयिष्यामीति हर्षुलः प्रतिज्ञातवान् ॥ अत्रान्तरे न्यायवादित्वेन मम प्रवेशं प्रत्यवतिष्ठमानन्यायदिसभायाः सकाशात्सूचना पत्रमेकमागतम् । प्रत्यवस्थानहेतुश्च मम प्रार्थनापत्रेण सहाड्ग्लविदेशीयलब्धं प्रमाणपत्रं न प्राहायीति । किन्तु प्रधानहेतुरन्योऽभूत् पुरा खलु न्यायवादिप्रवेशनियामकशासनस्य निर्माणाकाले कृष्णवर्णा वा हरिद्रवर्णा वा मनुष्या न्यायवादित्वाड्गीकाराय प्रार्थनापत्राण्येवं समर्पयेरन्निति केनापि स्वप्नेपि न चिन्तितम् । नातालदेशो हि श्वेतजनानां साहसेनैवाभिवृद्धि मागतः । अतस्तत्रत्यन्यायसभासु प्राधान्यमैरोप्याणामेव रक्षणीयम् । कृष्णवर्णेषु प्रवेशितेषु शनैः शनैराड्ग्लेयानां प्राधान्यमल्पीभूय स्वात्मरक्षापि तेषां दुष्कार स्यात् ॥
एतदर्थं न्यायवादिसभया कश्चित्प्रख्यातन्यायवादी नियुक्तः । स च दादा-अबदुल्ला-कम्पनीजनैः कार्यवान् । तस्मादयमबदुल्लाशेठमहाशयद्वारा मामाकार्य प्रस्तुतार्थमधिकृत्य मया सह निर्व्याजस्पष्टमभाषत । तस्मै मदीयपूर्वचरित्रजिज्ञासवे सर्वं न्यवेदयम् । अथ सोऽब्रवीत् - भवत्प्रतिकूलतया वक्तव्यं किमपि नास्ति । अत्रैव लब्धजन्मनां धूर्तानामेकतमैर्भवद्भिर्भवितव्यमिति मे शड्का । किं च भवता प्रार्थनापत्रस्य मूलप्रमाणपत्रराहित्यात् स संशयो बलवत्तरोऽभूत । अन्यदीयप्रमाणपत्रयोजका जना न किलात्र दृश्यन्ते । ऎरोप्यजनसकाशादानी तप्रशंसापत्रद्वयहमकिंचित्करं मन्ये । भवद्विषयमेतौ किं वा विधाताम् । तयोर्भवत्परिचयोऽपि कीद्रयो व स्यादिति ॥
अहमवोचम् - अत्र सर्वेऽपि मम नूतना एव। अबदुल्लाशेठमहाशयस्य परिचयोऽपि मे प्रथमं जात इति । तेन पुनः कथितम् - उक्तपूर्वं हि भवद्भिः यदबल्लाशेठमहाशयो भवन्तश्चैकस्थलादागता इति । तत्र भवत्पितरि प्रधानसचिवे सति नूनमबदुल्लाशेठमहाशयेन युष्मत्कुटुम्बपरिचयवतैव भाव्यम् । तत्सकाशाद्भवद्भिः प्रशंसापत्रमानीयते यदि न मे किंचित्प्रतिबंधकं तिष्ठेत् । अथाहमपि भवत्प्रवेशं प्रतिरोद्धुं न शक्नुयामिति न्यायवादिसभां प्रति सप्रमोदं लिखेयमिति ॥
अहमेतदाकर्ण्य क्रोधमूर्च्छितोऽभवम् । परन्तु मया निगृहीतः स कोपः । अथाहमात्मन्येवाचिन्तयम् । अबदुल्लाशेठमहाशयादेव यद्यपि प्रशंसापत्रमानेष्यत तथाप्यांग्लमहापुरुषात्पत्रमेतदा नेतव्यमित्यवदिष्यन् । मदीयन्यायवादित्वांगीकारस्य मदीयजन्मचरित्रयोश्च कः संबन्धः ? दारिद्र्याद्वा दुश्चरित्राद्वा लब्धजन्मा भवत्वयं जनः । तदेतत्कथमप्रतिकूलतया प्रयुज्यत इति । किन्तु सर्वमेतन्निगीर्य प्रत्यवोचम् - यद्यप्येनमर्य्थविस्तरं न्यायवादिसभा जिज्ञासितुमधिकारिणीति नाहमड्गीकरोमि तथापि भवदपेक्षानुसारेण प्रशंसापत्रमेकं अबदुल्लाशेठमहाशयादानेतुं सज्जोऽस्मि स्थित इति ॥ अथाबदुल्लाशेठप्रदत्तं प्रमाणपत्रं तस्मै न्यायवादिने प्रादायि । तेन चाड्गीकृतम् । परंत्वेतन्न्यायवादिसभायै नारोचत । तत्सदस्या मम प्रवेशयोग्यतां प्रति प्रत्यवातिष्ठन्त । प्राड्विवाकश्च श्रीएस्कूंबमहाशयस्य प्रत्युत्तरमशुश्रूषुरेव प्रार्थनापत्रं निरकासयत् ॥ ततः प्रधानप्राड्विवाकेनेत्थमभ्यधायि । प्रार्थयिता मूलप्रमाणपत्रं नोपस्थापितवानिति फल्गुरयं वादः । यद्यनेन प्रेषितं प्रमाणपत्रं मृषात्मकं स्यात् तदासौ व्यवहारेणाभियुक्तः सन्निर्णीतस्वापराधश्चेत् न्यायदिवर्गान्निष्कासनमर्हति । धर्मतः परीक्ष्यमाणे कृष्णो जनः श्वेतो जन इति भेदो न ग्राह्यः । न्यायवादित्वेन श्रीगांधेः प्रवेशं निरोद्धुं न्यायसभा नाधिकारिणी । तस्य प्रार्थना पत्रमड्गीक्रियतेऽस्माभिः । गांधिमहाशय क्रियतामद्यप्रमाणवचनव्याहार इति ॥
ततोऽहमुत्थाय 'रजिस्ट्रार' इति व्यपदिश्यमानं न्यायाधिकरणकार्यदर्शिनमुपसृत्य प्रमाणवचनोच्चारमकार्षम् । अवसितेऽस्मिन्कर्मणि न्यायाधीशो मामाहूय प्राह-भवतः शिरो-वेष्टनमिदानीमपनीयताम् । न्यायदिमिर्धार्यवेषसंबन्धिनो नियमा भवताप्यनुवर्तनीया इति ॥ अथ मया निरूपिता तादात्विकी मदीयपरिस्थितिः । डरबननगरस्य न्यायसभायां यदेव शिरोवेष्टनं नापनेष्यामीति बद्धाग्रहोऽभवं तदेवात्राहमपनीतवान् । नैवापनेष्य इत्यभिनिवेशबंधस्यात्रापि न किल कारणानि नाविद्यन्त । किंत्वेतदपेक्षया महत्तरायोधनमुमुद्यमाय मामकी शक्ती रक्षितव्याभवत् । शिरोवेष्टनधारणाभिनिवेशमात्रे न खलु युद्धाभियोगकुशलता व्ययीकर्तव्या । तत्कौशलप्रयोगाय प्रशस्यतरः समयः प्रतीक्षणीयः ॥
एवंविधा मदनुमतिः (मदीयनिर्बलता वा) अबदुल्लाशेठप्रभृतिमित्राणामनभिमताभवत् । न्यायवादिना मया शिरोवेष्टनधारणाधिकारो न परित्याज्य इति तेऽमन्यन्त । अहमेतान्बोधयितुं प्रवृत्तः देशानुरूपरिधानमावश्यकमिति तेभ्यो न्यवेदयम् । पुनरप्येतानवोचम्-हिन्दु-प्रत्यवस्थातव्यम् । किन्तु नातालसदृशविदेशवर्तिनीन्यायसभाकृत्यकारिणो मम न्यायसभासंप्रदायविरूद्धमाचरणं न खल्वनुमोदनीयमित्यादिसयुक्तिकवादैः मदीयमित्राण्यहं समादधि । किन्तु विषयस्तावदेकोऽपि संदर्भभेदात् भिन्नद्रष्ट्यावेक्षणीय इति यत्तत्त्वं तदत्र प्रसंगेऽप्युपयोक्तव्यमित्युपदेशो मदीयस्तेषां हृदयंगमोऽभूदिति वक्तुं न शक्यते । अन्याभिप्राये सहिष्णुतामूलं यत्सुखं तन्मदीयजीवने सत्यानुवर्तिनो मम सम्यग्यिदितमभूत् । तदेवत्तत्त्व सत्याग्रहस्य जीवितमित्यनुभवसिद्धमासीत् । ईदृशक्षमावृत्तिवशादनेकशो मम प्राणापायः सृह्रदसंतापश्च समजनि । परन्तु सत्यं वज्रकठोरं कमलवत्कोमलं च भवति ॥ एवं न्यायवादिसभया प्रत्यवस्थितोऽहं भूयः ख्यातिमगमम् । बहूनि वृत्तपत्राणि न्यायवादिसभयानुष्ठितमकृत्यमसूयानिमित्तकमिति च प्राहुः । किं च व्याख्यानटीकादिभिरीदृशैर्मम कार्यं भूयः सुकरमासीत् ॥
‘खादी ’ जन्म
पंचदशोत्तरैकोनविंशतिसहस्रतमे वर्षे दक्षिणाफ्रिकादेशतोऽहं पश्चाद्वृत्तः । तदा मया वस्तुतः 'चरखो’ न द्रष्टः । साबरमत्यां सत्याग्रहाश्रमनिर्माणकाले कतिपयान् वायदंडान् वयं प्रावेशयाम । तत्प्रवेशनादनंतरमेव प्रातिकूल्यमुत्थितम् । सर्वे वयमुदारवृत्तिग्राहिणोऽथवा कार्यपराः । नैकोऽप्यस्माकं शिल्पी बभूव । वायदंडेषु कार्यकरणात्पूर्वमस्माकमेको वयनकुशलो वयनं शिक्षयितुमावश्यक आसीत् । पर्यंते पालनपुरग्रामादेको लब्धः । किंतु तस्य सर्वं शिल्पिज्ञानमस्माकं न ददौ । परंतु मगनलालगांधिमहाशयः शीघ्रमेव निराशो न संवृत्तः । शिल्पयंत्रकार्ये स्वभावतः समर्थोऽचिराच्छिल्पविद्यामग्रहीत् । अपि चैकैकशः कतिपयनूतनवायकाः शिक्षिता आश्रमे । स्वहस्तनिर्मितवस्त्रेणात्मानं वासयितुं शक्यं यथा स्यात्तथा भवितुमस्माकमुद्देश आसीत् । अतो वयं तत्क्षणमेव यंत्रनिर्मितवस्त्राणि परित्यज्याश्रमस्य सर्वे जना स्वदेशीयसूत्रैर्निर्मितानि वस्त्राण्येव धारयितुं निश्चिता बभूवुः । एतदभ्यासस्वीकारो महान्तमनुभवमानिनाय । वायकानां जीवितनियमान् साक्षात्संपर्केणावगन्तुं शक्तानकरोत् । अपि चोत्पन्नस्य प्रमाणं सूत्रसंपादनमार्गे स्थितानंतरायान् वंचना-ग्रस्ताः भवितुं मार्गोऽपि च पर्यन्ते सर्वदा वर्धमानं ऋणित्वं एतत्सर्वं ज्ञातुं शक्तांश्चकार । यादवस्माकमावश्यकं तावत्सर्वं लब्धुं न समर्था अभूम । अतोऽवशिष्टः पक्षो हस्तवेम्नस्तंतुवायाद्वस्त्रं संभरणीयम् । परंतुः सज्जस्थितवस्त्रं भारतीययंत्रसूत्रनिर्मितवस्त्रविक्रयिभ्यो वा तंतुवायेभ्यो वा लब्धुं न सुकरम् । तंतुवायैर्निर्मितं वस्त्रं सर्वं समीचीनं विदेशीयसूदेव । यतो भारतीययंत्राणि तर्कुद्वारेण तंतून्न चक्रुः । अद्यापि यंत्राणामुत्पादनमत्यल्पं स्वदेशीयसूत्राणां तंतुवायान् पर्यन्ते महता प्रयत्नेन लब्धुमशक्नुम । नियमस्तु तैरुत्पादितं सर्वमस्मद्धारणवस्त्राणामिति यंत्रनिर्मितसूत्राणां वस्त्रस्वीकारेण सुह्रदां च मध्ये प्रसारणेन भारतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूताः । एतद्यंत्रैः सह संपर्कमजनयत् । तेन तेषां कार्यसंविधानं कार्यप्रत्यूहांश्च ज्ञातुमवकाशो लब्धः । यंत्राणामुद्देशे निर्मितसूत्रेण तंतुवायानधिकं कर्तुमासीत् । हस्तमेवतंतुवायैस्तेषां सहकारः यथेप्सितो नासीत् । किंत्वपरिहार्योऽनित्यश्च । अस्मत्स्वकीयसूत्रस्य तांतवकरणे वयमातुराः स्थिताः । यावद्वयमेतत् कर्तुमवस्थितास्तावद्यंत्राणामालंबनं स्थास्यतीति स्पष्टम् । भारतीययंत्राणां प्रतिनिधीभूय देशसेवां कर्तुं समर्था भवेमेति नान्वभूम ॥
सप्तदशोत्तरैकोनविंशे वर्षे भरूचपत्तने संवृत्तशिक्षणपरिषदध्यक्षो भवितुं सुह्रदस्तत्र मामनैषुः । तत्रैवाहं तां महासाहसिनीं गंगाबाईमहाशयामदर्शम् । सा विधवा । तथापि तस्याः साहसं निरवधिकमासीत् । सामान्यगणनया सा यद्यपि तावच्छिक्षिता नासीत्तथापि धैर्ये ज्ञाने च सास्मत्-सुशिक्षितस्त्रीजनमतीवातिक्रान्ता । सा न केवलमस्पृश्यताकलंकं परित्यकवती परं निर्भयेनास्पृश्यैर्मिलित्वा तत्सेवामकरोत् । तस्याः स्वीयं विषयमासीत् । यदस्या आवश्यकं तदत्यल्पम् । सा सुघटितशरीरा सहचरं विना सर्वत्र संचारं करोति स्म। अश्वारोहणं नाम तस्याः सामान्यम् । गोधरानगरे संवृत्तपरिषदि मम तया सह गाढः परिचयोऽभूत् । 'चरखा’ संबंधे मम दुःखमस्यै न्यवेदयम् । अहं राटं परिशोधयितुं निरंतरं प्रयतिष्य इत्युक्त्वा सा मम भारमल्पीचकार ॥
बाल्ये सत्यप्रियतायाः पाठः
बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।
दक्षिण-आफ्रिकादेशे गान्धी
एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदास गान्धी दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तः आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिी भारतदेशं प्रत्यागतवान् ।
स्वातन्त्र्यान्दोलनस्य नेतृत्वम्
भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धी काङ्ग्रेससंस्थायां प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः इति महात्मा गान्धी सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रिरूपेण श्रीजवाहरलालनेहरु-महोदयः अधिकारं स्वीकृतवान् । महात्मा गान्धी अधिकारं न स्वीकृतवान् । महात्मगान्धी भारतपाकिस्तानविभागे विरोधं प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिकीर्तनैः कुर्वन्ति जनाः । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मगान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैके कार्यक्रमाः प्रचलन्ति ।
गान्धिदर्शनम्
महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।
गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नीय ईश्वरत्वम् आपाद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरूपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत् ।
गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । "यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरूपं चास्ति स नीतिरूपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्रोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकस्मिन् आत्मरूपेण तिष्ठति ।
गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् । एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मा एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।
सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततम् अभिवर्धेत । एतादृश आदर्शः स्वान्तःप्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वतञ्च कर्त्तव्यमस्ति ।
गान्धिमहोदयः धर्मं ईश्वरप्राप्त्यै मार्गरूपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति । यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यम् अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अत एव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।
नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद् जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशि स्वसद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।
यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरूपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।
मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमतेन ईश्वरः तर्कात् पर अस्ति । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धिमहोदयः बोधरूपेण विश्वासरूपेण अनुभूतिरूपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।
गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरूपेण अवर्तत । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमद्भगवद्गीतायाः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरित्वेन स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।
गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः
(१) ईश्वरः अस्ति । स च सत्यात्मः वर्तते ।
(२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
(३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
(४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
(५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
(६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
(७) पञ्च महामन्त्रा अनुष्ठेयाः ।
(८) एकादश महाव्रतानि अनिवार्यरूपेण आत्मोन्नत्यै पालनीयानि ।
(९) ईश्वरः सर्वत्र व्यापकोऽस्ति । तत् सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
(१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रूपान्तरणं प्राथमिकमस्ति ।
(११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
(१२) कर्मण्यताया विकल्पो नास्ति । अतः निःस्वार्थकर्त्तव्यबोधेन कर्त्तव्यताम् आचरन् जनः जीवनप्रयोजनं साधयति ।
(१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
(१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।
सम्बद्धाः लेखाः
बालगङ्गाधरतिलकः
मदनमोहनमालवीयः
सरदार वल्लभभाई पटेल
जवाहरलाल नेहरू
उल्लेखाः
बाह्यसम्पर्कतन्तुः
About Mahatma Gandhi
Gandhi Ashram at Sabarmati
Gandhi Smriti — Government of India website
Mani Bhavan Gandhi Sangrahalaya Gandhi Museum & Library
Gandhi Research Foundation – One-Stop info on Gandhi
Mohandas K. Gandhi materials in the South Asian American Digital Archive (SAADA)
गुजरातराज्यस्य व्यक्तयः
भारतीयस्वातन्त्र्ययोधाः
महात्मा गान्धी |
1200 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6 | राजेन्द्र प्रसाद | डाक्टर् बाबू राजेन्द्रप्रसादः (जीवितकालः - क्रि.श. १८८४तमवर्षस्य डिसेम्बर्मासस्य तृतीयदिनतः क्रि.श. १९६३तमवर्षस्य फेब्रवरीमासस्य २८तमदिनपर्यन्तम् ) भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतीयस्वतन्त्रतायाः अन्दोलने प्रमुखनेतृषु अन्यतमः । अपि च भारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् । भारतीयसंविधानस्य निर्माणे अपि अस्य प्रधानं योगदानम् अस्ति यस्य परिणामेन क्रि.श. १९५०तमवर्षस्य जनवरिमासस्य २६तमे दिने भारतं गणतन्त्रम् अभवत् । राष्ट्रपतिपदम् अतिरिच्य एषः भारतस्य केन्द्रीयमन्त्रिणः पदे अपि कञ्चिक्तालं व्यराजत । समग्रे देशे अत्यन्तं लोकप्रियः भूत्वा जनैः राजेन्द्रबाबू अथवा देशरत्न इति आहूयते स्म ।
पूर्वजाः
भारतदेशस्य बिहारराज्ये महादेवसहायस्य पुत्ररूपेण राजेन्द्रपसादस्य जन्म अभवत् । किन्तु अस्य पूर्वजाः उत्तरप्रदेशराज्यस्य अमोडाप्रदेशस्य निवासिनः । अस्य कुटुम्बिनः कायस्थाः आसन् । अस्य पिता संस्कृतभाषायां पारसीभाषायां च प्रवीणः आसीत् । राजेन्द्रस्य पितामहः विद्यावान् आसीत् । अतः देशान्तरगतेन तेन हटुवा संस्थाने दिवानस्य कार्यं प्राप्तम् । त्रिंशत् वर्षाणि तस्मिन् संस्थाने कार्यं कृतवान् । तदा स्वयं किञ्चिद्भूभागं क्रीतवान् । अस्य पिता महादेव सहायः कृषिकर्म करोति स्म । राजेन्द्रस्य पितृव्यः जयदेव सहायः अपि क्षेत्रकर्मणि सहायः भवति स्म । जयदेवस्य किमपि सन्तानं नासीत् । अतः एषः अपि राजेन्द्रं स्वपुत्रः इव पश्यति स्म । पितुः पितृव्यस्य पितामहस्य च प्रेम्णा राजेन्द्रः सुखेन पालितः । पितामह्याः मातुः च प्रीतिरपि निरतिशया आसीत् । माता प्रभाते अनेन सह शीघ्रं शयनादुत्थाय प्रभागतीतानि भजनं कीर्तनं रामयणमहाभरतादीनां कथाः च श्रावयति स्म ।
प्रारम्भिकं जीवनम्
राजेन्द्र बाबू बिहारराज्यस्य सीवनमण्डलस्य जीरादेयी इति ग्रामे क्रि.श. १८८४तमे वर्षे डिसेम्बर मासस्य तृतीये दिने अजायत । अस्य पिता श्री महादेव सहायः संस्कृतभाषायाः पारसीभाषायाः च पण्डितः आसीत् । अस्य माता श्रीमती कमलेश्वरी देवी काचित् धर्मपरायणा महिला आसीत् । पञ्चवर्षीयः राजेन्द्रः मौलवी साहब इत्यनेन पारसीभाषया शिक्षायाः आरम्भं कृतवान् । पश्चात् प्राथमिकशिक्षाप्राप्तये मण्डलस्य सर्वकारीयविद्यालयं प्रविष्टवान् । तत्कालीनस्य सम्प्रदायानुगुणं राजेन्द्रस्य विवाहः बाल्ये एव अभवत् । यदा एषः १३वर्षीयः आसीत् तदा राजवंशीदेवी इत्यनया सह विवाहः अभवत् । विवाहसस्य पश्चात् पटनानगरस्य टि.के.घोष अकादमी इति शिक्षासंस्थायां विद्याभ्यासम् अनुवर्तितवान् । अस्य वैवाहिकं जीवनम् अतीव सुखमयम् आसीत् । अस्य अध्ययने अथवा अन्यकार्ये विवाहः बाधकः नाभवत् । शीघ्रमेव मण्डलस्य शालां त्यक्त्वा स्वस्य अष्टदशे वयसि कोलकाताविश्वविद्यालयस्य प्रवेशपरीक्षाम् अलिखत् । प्रथमश्रेण्या तां परीक्षां समुत्तीर्य क्रि.श. १९०२तमे वर्षे कोलकातायाः प्रसिद्धे प्रेसिडेन्सीमहाविद्यालये प्रवेशं प्राप्तवान् । राजेन्द्रः स्वप्रतिभया गोपालकृष्ण गोखले विहारविभूतिः डा. अनुग्रह नारायण सिन्हा इत्यादीन् पण्डितान् आकृष्टवान् । क्रि.श. १९१५तमे वर्षे सस्वर्णपदकं विधिपरास्नतकपदवीं (एल्.एल्.बि.) उत्तीर्णवान् । पश्चात् आधुनिकन्यायक्षेत्रे (ला) शोधपत्रं प्रस्तुत्य डाक्टरेट् उपाधिमपि प्राप्तवान् ।
भारतीयभाषाप्रेम
यद्यपि राजेन्द्रस्य अध्ययनं फारसीभाष्या उर्दूभाषया च आरब्धं तथापि स्नातकपरीक्षां हिन्दी भाषया लिखितवान् । एषः हिन्दी, उर्दू, फारसी, आङ्ग्लं, बङ्गाली भाषाणां साहित्येन परिचितः आसीत् । अपि च एताभिः भाषाभिः सुललितं प्रभावकारि व्याख्यानं करोति स्म । अस्य गुजरती भाषायाः अपि व्यावहारिकं ज्ञानम् आसीत् । एम्.एल्.परीक्षानिमित्तं हैन्दवशासनविषये संस्कृतग्रन्थान्अपि पठितवान् । हिन्दीभाषायाः विषये अस्य प्रेम अगाधम् आसीत् । भारमित्र, भारदोदय, कमला इत्याद्यसु तत्कालीनप्रसिद्धासु दिनपत्रिकासु अस्य लेखाः प्रकाशिताः भवन्ति स्म ।
स्वातन्त्र्यान्दोलने भूमिका
भारतस्य स्वातन्त्र्यसङ्ग्रामे अस्य प्रवेशः न्यायवादिनः रूपेण वृत्तिभूमिप्रवेशेन सह एव अभवत् । चम्पारणसत्याग्रहे महात्मा गान्धिः कस्यचित् सत्यान्वेषणस्य समूहस्य प्रेषणावसरे स्वस्य स्वयंसेवकगणे अन्तर्भवितुं सूचितवान् । राजेन्द्रः महात्मा गान्धेः त्यगेन निष्ठया च बहुधा प्रभावितः अभवत् । क्रि.श. १९२१तमे वर्षे एषः कोलकताविश्वविद्यालयस्य सिनेटर् पदस्य त्यागम् अकरोत् । गान्धिमहोदयः यदा विदेशीय संस्थानां बहिष्कृतवान् तदा राजेन्द्रः स्वपुत्रं मेधाविनं मृत्युञ्जयप्रसादं कोलकोताविश्वविद्यायतः निष्कास्य बिहारविद्यापीठे प्रवेशितवान् ।
भारतरत्नम्
क्रि.श.१९६२तमे वर्षे भारतसर्वकारः राजेन्द्रप्रदं भारतरत्नम् इति सर्वश्रेष्ठेन उपाधिना सममानयत् । एतत् तु अस्मै भारतस्य कृतज्ञता यः आन्तरङ्गिकध्वनिं श्रुत्वा अर्धशताब्धं यावत् मातृभूमेः सेवामकरोत् ।
चरमयात्रा
राजेन्द्रप्रसादः स्वस्य जीवनस्य अन्तिमदिनानि यापयितुं पाटनासमीपस्थं सदाकत इति आश्रमं चितवान् । तत्र क्रि.श. १९६३तमवर्षस्य फेब्रवरिमासस्य २८तमे दिने देहत्यागं कृतवान् ।
बाह्याः सूत्राः
भारतस्य पूर्व राष्ट्रपति: राजेन्द्रप्रसादः।
राजेन्द्रप्रसादस्य जीवन-चरितः।
कांग्रेस पार्टी: राजेन्द्रप्रसादः।
Major Events of Dr. Rajendra Prasad (राजेन्द्र-स्मृति संग्रहालयः)
1
भारतरत्नपुरस्कारभाजः
काङ्ग्रेस्-पक्षस्य नेतारः
१८८४ जननम्
१९६३ मरणम् |
1201 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%80%20%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A4%BE%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A5%8D | सर्वपल्ली राधाकृष्णन् | सर्वपल्ली राधाकृष्णन् (Sarvepalli Radhakrishnan) (१८८८-१९७५) भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः भारतस्य द्वितीयः राष्ट्रपतिः आसीत्। सः भारतीयदर्शनानां पाश्चात्यदर्शनानां च पण्डितः आसीत् । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीयाः तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
जननम्, बाल्यम्, शिक्षणञ्च
सर्वपल्ली राधाकृष्णन् दक्षिणभारतस्य तमिळनाडुराज्यस्य तिरुत्तणीनामके मण्डले १८८८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत । सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते । राधाकृष्णन् इति पितृभ्यां प्रेम्णा नामकरणं कृतम् आसीत् । तस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपतेः सकाशे दैनिकवेतनाश्रितः कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूतः अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थम् अतिक्लेशम् अनुभवति स्म तदा एव अयं बालः राधाकृष्णः पठने उत्सुकः आसीत् । शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान् । स्नातकोत्तरपदव्यां तेन मण्डितः ”दि एथिक्स् आफ् वेदान्त” प्रबन्धः तस्य जीवनदिशम् एव पर्यवर्तयत् । विंशतिवर्षीयस्य युवकस्य प्रतिभां, ज्ञानम्, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालायाः अध्यापकाः परस्परं वदन्ति स्म ।
वृत्तिजीवनम्
वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान् । १९०९ तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत । तेन संस्कृतभाषायाः हिन्दीभाषायाः च अध्ययनं कृतम् । भारतस्य प्राचीनासु भाषासु तस्य अभिरुचिः आसीत् । भारतस्य सनातनहिन्दूधर्मस्य सारं, वेदोपनिषदः, जैनतत्त्वज्ञानम्, शङ्कर -रामानुज-मध्व-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः । सतताध्ययनेन कठिनपरिश्रमेण च क्रमशः सोपानानि आरोहन् अग्रे सरन् १९१८ तमे वर्षे मैसूरुविश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत् । १९३१ तमे वर्षे आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चितः राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। १९३९ तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चितः अभवत् । तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः १९४८ तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थरूपेण नियुक्तिम् अकरोत् । १९४९ तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्तः रधाकृष्णन् साल्टिन् सदृशमेधाविभिः समं स्वव्यक्तित्वम् अभ्यवर्धयत् ।
राजनैतिकक्षेत्रे प्रवेशः
१९५२ तमे वर्षे शिक्षकः एषः ऐदम्प्राथम्येन भारतस्य उपराष्ठ्रपतित्वेन नियुक्तः । राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म । राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य भारतसर्वकारः १९५४ तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास । अस्मिन् एव सन्दर्भे अमेरिकादेशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य विमोचनमभवत् । डा राजेन्द्रप्रसादस्य पश्चात् १९६२ तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चितः राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् । अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगतेः प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्देहः। भारतीयशिक्षणक्षेत्राय सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः शिक्षणतज्ञः अपि आसीत्। अतः एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते ।
तस्य अनुपमं योगदानम्
देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन् । "दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्" इत्येतत् तेन लिखितं प्रथमं पुस्तकम् । एषः तेलगुभाषया राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म । मैसूरुनगरे एतस्य नाम्ना कश्चन मार्गः वर्तते । भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे "जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि" इति पुस्तकम् अलिखत् । स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत । एतस्य तत्त्वज्ञानस्य प्रभया आकृष्टः आक्सफर्ड् विश्वविद्यालयः 'धर्मः तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत् । तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत् । भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत् । १९६७ तमे वर्षे राष्ट्र्पतिस्थानस्य अधिकारावधेः परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः । १९७५ तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत ।
टिप्पणी
बाह्यानुबन्धः
"The Legend of Dr. Sarvepalli Radhakrishnan"
"Dr. Sarvepalli Radhakrishnan- The philosopher president", Press Information Bureau, Government of India
"Sarvepalli Radhakrishnan (1888—1975)" by Michael Hawley, Internet Encyclopedia of Philosophy
S. Radhakrishnan materials in the South Asian American Digital Archive (SAADA)
2
भारतरत्नपुरस्कारभाजः
१८८८ जननम्
१९७५ मरणम् |
1204 | https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%80%20%E0%A4%9C%E0%A5%88%E0%A4%B2%20%E0%A4%B8%E0%A4%BF%E0%A4%82%E0%A4%B9 | ज्ञानी जैल सिंह | श्रीज्ञानी जैल सिंह ( ) (, , ) भारतस्य सप्तमः राष्ट्रपतिः । अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैल सिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।) सः देशभक्तः, धार्मिकसिक्ख-जनः, योग्यराष्ट्रपतिः च आसीत् ।
जन्म, बाल्यञ्च
१९१६ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९१६) दिनाङ्के पञ्जाबराज्यस्य फरीदकोटमण्डलस्य कोटपुरा-पत्तनात् किञ्चित् दूरस्थे सन्धवान-ग्रामे श्रीज्ञानिनः जन्म अभवत् । तस्य पितुः, मातुः च नाम क्रमेण किशन सिंह, बीबी इन्द कौर च आसीत् । तयोः कनिष्ठतमः पुत्रः एव श्रीज्ञानी जैल सिंह ।
किशन सिंह अत्यन्तः निर्धनः आसीत् । अतः स्वपरिवारस्य पोषणं सः परिश्रमेण करोति स्म । श्रीज्ञानी यदा एकादशमासीयः आसीत्, तदैव तस्य मातुः देहान्तः अभवत् । परिवारस्य स्थितिः सुदृढा नासीत् इत्यतः पत्न्याः निधनेन सम्पूर्णस्य परिवारस्य दायित्वं किशन सिंह इत्यस्योपरि आपतितम् । सः कृषिकार्यस्य, परिवारस्य च दायित्वं ओढुं प्रयासम् अकरोत्, परन्तु असफलः अभवत् । अन्ततो गत्वा सः स्वश्यालीं (wife’s sister) स्वपुत्रस्य पालनार्थं न्यवेदयत् । तस्य श्याली बीबी दया कौर श्रीज्ञानिनः पालनस्य दायित्वं स्व्यकरोत् । सा तं पुत्रवदेव पालयन्ती आसीत् । पञ्चदशवर्षवयसः पर्यन्तं श्रीज्ञानी स्वमातृभगिनीम् एव मातृत्वेन पश्यति स्म । ततः तस्य ज्ञानमभूत् यत्, "एषा तु मम मातृभगिनी" इति ।
किशन सिंह धार्मिकस्वभावी आसीत् । सः नित्यं गुरुग्रन्थसाहिब पठति स्म । तस्य संस्काराः तस्य पुत्रे अपि आसन् । गुरुग्रन्थसाहिब अनुसारं मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरुग्रन्थसाहिब इत्यस्य मर्मं श्रीज्ञानी बाल्यकालादेव जानाति स्म । सिक्खगुरूणां जीवनचरित्रस्य श्रावणकाले गुरून् प्रति आदरभावेन तस्य पितुः अक्षिणि अश्रूणि दृष्ट्वा श्रीज्ञानी अपि धर्मस्य दायित्वं सम्यक् अवगच्छति स्म । पितुः धर्मभावना, देशभक्तिः श्रीज्ञानिनः शरीरे रक्तत्वेन सञ्चरति स्म ।
पठने श्रीज्ञानिनः रुचिः नासीत् । अतः बाल्यकाले श्रीज्ञानिनः औपचारिकशिक्षा तु सम्यग्तया न जाता एव । परन्तु पितुः धर्मशिक्षा तेन सम्यक् अधीता । सः नित्यं स्वपित्रा सह गुरुग्रन्थसाहिब इत्यस्य पठनम् आरभत । स्वल्पे काले एव गुरुग्रन्थसाहिब-पुस्तकं कण्ठस्थं जातं तस्य । पित्रा सह सोऽपि कीर्तनं प्रारभत । पितुः सान्निध्ये तेन सिक्खसम्प्रदायस्य इतिहासः, सिक्खसिद्धान्तश्च अधीतः । अतः तस्य औपचारिकशिक्षणस्य अभावः न केनापि अनुभूतः ।
१९२७ तमे वर्षे द्वादशवर्षीयः श्रीज्ञानी केनचित् आत्मघातिरोगेण ग्रस्तः अभवत् । कोऽपि वैद्यः तं रोगमुक्तं कर्तुं न शक्तः । एकस्मिन् दिने वैद्यः तस्य पितरम् अवदत्, “अहं यावत् कर्तुं शक्नोमि स्म, तावदमहम् अकर्वम् । परन्तु अधुना मम हस्ते किमपि नास्ति” इति । वैद्यस्य गमनानन्तरं किशन सिंह गुरुग्रन्थसाहिब इत्यस्य समीपम् उपविश्य प्रार्थयत्, “हे वाहे गुरो ! मम पुत्रं रक्षस्व । मम पुत्रस्य रक्षा यदि करोषि, तर्हि तं तुभ्यमेव समर्पयिष्ये इति प्रतिज्ञां करोम्यहम्” । आर्तभावेन तेन कृता ईश्वरप्रार्थना भगवता श्रुता । श्रीज्ञानी स्वस्थः अभवत् । ततः तस्य पिता वचनानुसारं तं भजन-कीर्तन-सेवादिकार्येषु न्ययोजयत् । शनैः शनैः श्रीज्ञानिनः धर्मस्य ज्ञानम् एतावत् दृढम् अभूत् यत्, सर्वे तस्मै ज्ञानी इति उपाधिम् अयच्छन् । सः यदा चतुर्दशवर्षीयः आसीत्, तदारभ्य ज्ञानी इति उपाधिना सह एव तम् आह्वयन्ति स्म जनाः ।
विवाहः, परिवारश्च
श्रीज्ञानी ग्रामं ग्रामं भ्रमन् कीर्तन-गुरुचरित्रकथन-सेवादिकार्याणि करोति स्म । तेन सह बहूनि धर्मप्रियाणि मित्राणि अपि संलग्नानि आसन् । यत्र कुत्रापि कीर्तनं भवति स्म, तत्र सर्वाणि मित्राणि एकसाकमेव गच्छन्ति स्म । मार्गे धर्मस्य, देशस्य च चर्चाः अपि भवन्ति स्म । १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (२३/३/१९३१) दिनाङ्के यदा भगत सिंह इत्यस्य हननं कृतम् आङ्ग्लैः, तदा सर्वैः मित्रैः "क्रान्तिकारिभिः मिलित्वा देशस्वतन्त्रतायाः कार्यं कर्तव्यम्" इति निश्चितम् । परन्तु श्रीज्ञानिनः आयुः न्यूनः आसीत् । अतः क्रान्तिकारिणां दले सः अन्तर्भवनाय अयोग्यः सिद्धः । क्रान्तिकारिणां दले पुत्रस्य रुचिः उद्भूता इति समाचारान् अश्रृणोत् किशन सिंह । पुत्रस्य निर्णयं ज्ञात्वा श्रीज्ञानिनः पिता तस्य विवाहस्य निर्णयम् अकरोत् । श्रीज्ञानी यदा पञ्चवर्षीयः आसीत्, तदैव तस्य विवाहः बीबी प्रधान कौर इत्यनया सह निश्चितः आसीत् । युवा श्रीज्ञानी बाल्यकाले निश्चितं तं विवाहं न अङ्ग्यकरोत् । परन्तु मातृभगिनी वात्सल्येन तम् अबोधयत् । ततः १९३४ तमे वर्षे अष्टादशवर्षस्य वयसि सः बीबी प्रधान कौर इत्यनया सह विवाहम् अकरोत् । तयोः चत्वारः शिशवः जाताः । एकः पुत्रः, त्रिस्रः पुत्र्यः च ।
स्वातन्त्र्यसङ्ग्रामे श्रीज्ञानी
आदरणीयानाम् आग्रहेण श्रीज्ञानिना विवाहस्तु कृतः, परन्तु देशस्वतन्त्रतायाः विचाराः तस्य मानसपटलात् न गताः । भारतस्य पराधीनता तम् अशान्तं, क्षुब्धं च करोति स्म । तस्य दुःखे वर्धनं तु तदा भवति स्म, यदा देशस्य जनाः एव आङ्ग्लानां साहाय्यं कुर्वन्तः आसन् इति सः पश्यति स्म । पारिवारिकबन्धनात् बद्धः सः आङ्ग्लविरोधाय क्रान्तिकारिवत् कार्यं कर्तुं न शक्नोति स्म । परन्तु तस्य पार्श्वे धर्मस्य शक्तिः तु आसीदेव । सः यत्र कुत्रापि कीर्तनाय गच्छति स्म, तत्र देशस्वतन्त्रतायै जनजागृतिं करोति स्म । फरीदकोट-पत्तनस्य राजा दमनकारी आसीत् । सः आङ्ग्लानां साहाय्यं कुर्वन् देशजनान् एव पीडयति स्म । अतः श्रीज्ञानी मुहुर्मुहुः जनसामान्यानाम् आह्वानम् अकरोत् । सः स्वभाषणे फरीदकोट इत्यस्य राज्ञः, आङ्ग्लानां च विरोधं कर्तुं जनसामान्यान् अबोधयत् । तस्य भाषणं श्रोतुं बहवः जनाः गच्छन्ति स्म । तत् दृष्ट्वा एकेन देशभक्तेन "अकाली-दलस्य सदस्यः भवतु" इति परामर्शः तस्मै दत्तः । अतः १९३७ तमे वर्षे सः अकाली-दलस्य सदस्यः अभवत् ।
श्रीज्ञानिनः भाषणैः प्रभाविताः अकाली-दलस्य सदस्याः तस्मै अध्यक्षस्य स्थानम् अयच्छन् । अकाली-दलस्य मुख्यवक्तिः तदा मास्टर् तारा सिंह आसीत् । तस्य सम्पर्केण श्रीज्ञानिनः बोधः जातः यत्, “देशेऽस्मिन् राजशासनस्य अन्तः करणीयश्चेत् कोङ्ग्रेस-पक्षस्य सदस्यः भवितव्यम्” इति । अकालीदलस्य, कोङ्ग्रेसपक्षस्य च सदस्यो भूत्वा सः नित्यम् एकम् आङ्ग्लविरोधिभाषणं करोति स्म । तस्य भाषणे आङ्ग्लविरोधेन सह राजशासनस्य विरोधः अपि भवति स्म । श्रीज्ञानिनः भाषणैः भीतः फरीदकोट इत्यस्य राजा तं बन्दिनम् अकरोत् । सः श्रीज्ञानिने पञ्चवर्षं यावत् कारावासस्य दण्डम् अयच्छत् ।
पञ्चवर्षानन्तरम् अर्थात् १९४३ तमे वर्षे श्रीज्ञानी कारागारात् मुक्तः अभवत् । सः यदा कारागारात् बहिः आगतः, तदा देशे भारतस्वतन्त्रतायाः वातावरणमासीत् । महात्मना “भारत छोडो”-आन्दोलनस्य घोषणा कृता आसीत् । सर्वेषाम् अक्षिणि भारतस्वतन्त्रतायाः स्वप्नः आसीत् । परन्तु आङ्ग्लैः राजशासितेभ्यः प्रदेशेभ्यः क्रान्तिकारिदमनस्य आज्ञा दत्ता आसीत् । अतः श्रीज्ञानी दलं निर्मितुम् अशक्तः अभवत् । सः अन्यजनानां साहाय्यं प्राप्तुं लाहोर-महानगरम् अगच्छत् । तदा तस्य पुरातनेन मार्गदर्शकेन मास्टर् तारा सिंह इत्यनेन सह तस्य पुनः सम्पर्कः अभवत् । सः सिक्ख मिशनरी कॉलज् इत्यस्य प्रधानाचार्यस्य समीपं श्रीज्ञानिनं प्रैषयत् । तत्र श्रीज्ञानी वर्षत्रयं यावत् स्थित्वा सिक्खसम्प्रदायस्य प्रचारस्य कार्यम् अकरोत् ।
१९४६ तमे वर्षे भारतस्य स्वतन्त्रतायाः दिनस्य यदा घोषणा अभवत्, तदा श्रीज्ञानी पुनः फरीदकोट अगच्छत् । सः तत्र लोकहितकारिसर्वकाररचनायाः सङ्कल्पम् अकरोत् । तस्य सङ्कल्पस्य जनाः स्वागतम् अकुर्वन् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतस्य स्वतन्त्रतानन्तरमपि राजशासितप्रदेशाः क्रान्तिकारिणां दमनं नास्थगयन् । राज्ञः अत्याचारैः त्रस्तः श्रीज्ञानी अभूतपूर्वं निर्णयम् अकरोत् । १९४८ तमस्य वर्षस्य 'मार्च'-मासस्य प्रथमे दिनाङ्के फरीदकोट इत्यस्य न्यायालय-कोषागार-सचिवालय-आरक्षकभवनानि जनाधिकारे कर्तुं तानि भवनानि स्वस्य अधिकारे अनयत् सः । फरीदकोट इत्यस्य राजा तदा मलेरकोटला इत्येतत् स्थलं गतः आसीत् । ततः प्रतिगत्वा सः पुनः सर्वं स्वाधिकारम् अकरोत्, श्रीज्ञानिने च सश्रमकारागारस्य दण्डम् अयच्छत् । लोहपुरुष-नेहरू इत्यनयोः हस्तक्षेपेण विंशतिदिनानन्तरमेव राजा श्रीज्ञानिनं कारागारात् प्रामुञ्चयत् । ततः लोहपुरुषस्य सत्प्रयासैः १९४८ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्ये फरीदकोट विलीनम् अभवत् ।
भारतस्वतन्त्रतानन्तरं श्रीज्ञानी
सर्वेषां हृदि भारतस्वतन्त्रतायाः उल्लासः आसीत् । परन्तु देशविभाजनेन सः उल्लासः शोके परिवर्तितः । धर्माधारितेन देशविभाजनेन देशस्य प्रशासनिकव्यवस्था शिथिला अभवत् । आभारते अराजकतायाः वातावरणमासीत् । परन्तु सीमाप्रदेशत्वात् पञ्जाबराज्ये अराजकता अधिका आसीत् । पाकिस्थानात् भारतम् आगच्छन्तः जनाः पञ्जाबराज्ये एव निवसन्ति स्म । पञ्जाबराज्यस्य समस्यां निराकर्तुं भारतसर्वकारेण ‘पेप्सू’-नामकस्य (पेप्सू (PEPSU) – पटियाला एण्ड ईस्ट पञ्जाब स्टेट्स यूनियन्) राज्यस्य रचना कृता । तस्य राज्यस्य मुख्यमन्त्री ज्ञान सिंह रारेवाला आसीत् । परन्तु भारतसर्वकारेण महत्वपूर्णस्य 'राजस्व'-मन्त्रालयस्य दायित्वं श्रीज्ञानिने प्रदत्तम् । ततः तत् पेप्सू-राज्यं पञ्जाबराज्ये अन्तर्निहितं सर्वकारेण । ततः १९५१ तमे वर्षे पञ्जाबराज्ये कोङ्गेस-पक्षस्य सर्वकारस्य रचना अभवत् । तस्मिन् सर्वकारे श्रीज्ञानी कृषिमन्त्री आसीत् । १९५६ तमे वर्षे राज्यसभायाः सदस्यत्वं सम्प्राप्य श्रीज्ञानी देहली-महानगरे स्वनिवासं निश्चितम् अकरोत् । १९६२ वर्षपर्यन्तं देहली-महानगरे स्थित्वापि सः पञ्जाबराज्यस्य विकासार्थम् अविरतं प्रयत्नशीलः आसीत् । १९६० तः १९७२ पर्यन्तं सः पञ्जाबराज्यस्य विभिन्नेषु स्थानेषु कार्यम् अकरोत् । १९७२ तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे (१७/३/१९७२) दिनाङ्के सः पञ्जाबराज्यस्य मुख्यमन्त्रिपदं व्यभूषयत् ।
मुख्यमन्त्रित्वेन श्रीज्ञानी
यदा श्रीज्ञानी पञ्जाबराज्यस्य मुख्यमन्त्री आसीत्, तदा पञ्जाबराज्यस्य औद्योगिकप्रगतिः अवर्धत । तस्य कार्यकालः कृषिक्षेत्रे हरितक्रान्तेः (green revolution) कालः आसीत् । भारतस्वतन्त्रतासङ्ग्रामे ये क्रान्तिकारिणः भागम् अवहन्, तेषां गृहं गत्वा तेषां सम्मानम् अकरोत् सः । भारतस्वतन्त्रतासङ्ग्रामाय ये क्रान्तिकारिणः स्वप्राणाहुतिम् अयच्छन्, तेषां परिवारेभ्यः योग्यधनराशिः प्रदत्ता तेन । सिक्खसम्प्रदायं प्रति स्वादरं प्रकटयितुं पञ्जाबराज्ये गोविन्द सिंह-मार्गस्य निर्माणं कारितं तेन । सः गोविन्द सिंह-मार्गः पञ्जाबराज्यस्य नवतिः (९०) पवित्रधामानि योजयति । सः मार्गः त्रिशताधिकद्वात्रिंशत् (३३२) ग्रामान् अपि योजयति । सिक्खसम्प्रदायस्य द्वे अत्यन्तपवित्रस्थाने अर्थात् आनन्दपुरे स्थितं श्रीकेशगढ-गुरुद्वारं (तत्र श्रीगुरु गोविन्द सिंह इत्यनेन खालसा-सम्प्रदायस्य स्थापना कृता आसीत् ।) दमदमा-गुरुद्वारं च योजयति सः मार्गः ।
राष्ट्रपतिप्रत्याशी श्रीज्ञानी
१९८० तमे वर्षे भारतस्य गृहमन्त्रिपदं व्यभूषयत् सः । परन्तु गृहमन्त्रित्वेन सः वर्षद्वयम् एव कार्यम् अकरोत् । १९८२ तमे वर्षे श्रीनीलं सञ्जीव रेड्डि इत्यस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । अतः तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी स्वपक्षस्य राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । तस्याः उद्देशः स्पष्टः आसीत् यत्, “अल्पसङ्ख्यकसिक्खजनेषु यदि कोऽपि राष्ट्रपतिः भविष्यति, तर्हि पक्षस्य मतसङ्ख्यायां वृद्धिः भविष्यति” इति । एवं विचिन्त्य सा राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । ततः श्रीज्ञानी गृहमन्त्रिपदस्य त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । श्रीज्ञानिनः नामोद्घोषानन्तरं विपक्षेणापि हंसराज खन्ना-नामकः राष्ट्रपतिप्रत्याशित्वेन घोषितः । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे (१५/७/१९८२) दिनाङ्के राष्ट्रपतिनिर्वाचने श्रीज्ञानी पादोनपञ्चलक्षमतैः विजयी अभवत् । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के उच्चतमन्यायालयस्य मुख्यन्यायाधीशः श्री वी. वी. चन्द्रचूड श्रीज्ञानिना राष्ट्रपतित्वेन शपथम् अकारयत् । एवं श्रीज्ञानी भारतगणराज्यस्य सप्तमः राष्ट्रपतिः अभवत् ।
राष्ट्रपतित्वेन श्रीज्ञीनी
कर्मनिष्ठया, ईश्वरस्योपरि श्रद्धया, व्यावहारिकज्ञानेन च लघुकुटीरे प्राप्तजन्मः श्रीज्ञानी भारतगणराज्यस्य सर्वोच्चसांविधानिकपदे आरूढः । सः भारतगणराज्यस्य उत्कृष्टतमेषु भवनेषु अन्यतमे राष्ट्रपतिभवने न्यवसत् । राष्ट्रपतित्वेन वर्षद्वयमेव सः शान्त्या कार्यम् अकरोत् । ततः श्रीज्ञानिनः राष्ट्रपतित्वेन वर्षत्रयस्य कार्यकालस्य जनसामान्यैः, राजनीतिज्ञैः च कठोरनिन्दा कृता अस्ति ।
'ऑपरेशन् ब्लू स्टार्'
पृष्ठभूमिः
राजनैतिकस्वार्थेन ग्रस्ताः नेतारः देशद्रोहिनाम्, उत्कोचकानाम्, आतङ्कवादिनाञ्च साहाय्येन स्वसत्तायाः रक्षणं, वर्धनं च साधयन्ति इत्यस्य प्रमुखोदाहरणत्वेन 'ऑपरेशन् ब्लू स्टार्', सिक्खविरोधिहिंसा च अस्ति । पञ्जाबराज्ये अकालीदलस्य वर्चस्वम् आसीत् । कोङ्ग्रेस-पक्षस्य विजयस्य आशा अपि नासीत् । तस्मिन् काले कोङ्ग्रेस-सर्वकारेण यः व्यक्तिः अकालीदलविरुद्धं कोङ्ग्रस-पक्षाय मतवृद्धिं कर्तुं शक्नुयात्, तादृशस्य व्यक्तेः अन्वेषणं प्रारब्धम् । अकालीदलस्य विरोधी भिण्डरवाला इत्यस्य व्यक्तेः परिचयः अभवत् तेषाम् । पञ्जाबराज्ये कोङ्ग्रेस-पक्षः भिण्डरवाला इत्यस्य समर्थनं करोति चेत्, कोङ्ग्रेस-पक्षस्य विजयः भवति इति आशा आसीत् । अतः इन्दिरा गान्धी राजनैतिकरीत्या, आर्थिकरीत्या च भिण्डरवाला इत्यस्य समर्थनम् अकरोत् । पञ्जाबराज्यस्य निर्वाचने भिण्डरवाला बहुमतेन अजयत । सः जानाति स्म यत्, “मम पृष्ठे यावत् इन्दिरा गान्धी अस्ति, तावत् मम कोऽपि अहितं कर्तुं न शक्ष्यति” इति । अतः सः स्वस्य महत्वाकाक्षां पूरयितुम् असांविधानिककार्याणि, सिक्खसम्प्रदायविरोधीनि कार्याणि च प्रारभत । मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरु ग्रन्थ साहिब इत्यस्य मर्मं सः व्यस्मरत् । भारतगणराज्यात् पञ्जाबराज्यं भिन्नं, हिन्दुधर्मात् सिक्खजनाः भिन्नाः इति सः प्रचारं प्रारभत । 'खलिस्थान' इति भिन्नस्य राष्ट्रस्य सः घोषणाम् अकरोत् ।
‘ऑपरेशन् ब्लू स्टार्’-दिनानि
इन्दिरा गान्धी इत्यनया या धनराशिः भिण्डरवाला इत्यनेन प्राप्ता आसीत्, तस्याः धनराशेः उपयोगः सः आयुधक्रयणाय, आतङ्कवादिदलं निर्मितुं च अकरोत् । सायुधं गुरुद्वारप्रवेशे निषेधः अस्ति । सिक्खसम्प्रदायस्य कृते कार्यं कुर्वन् अस्मि इति मिथ्या आडम्बरं कुर्वन् भिण्डरवाला धर्मविरोधी, राष्ट्रविरोधी च कार्यम् अकरोत् । सः आयुधानि गुरुद्वारस्य पवित्रे परिसरे गौपयत् । तस्मिन् परिसरे अनेकाः आतङ्कवादिनः अपि आसन् । पञ्जाबराज्यस्य जनाः भिण्डरवाला इत्यस्य बहुविरोधम् अकुर्वन् । परन्तु ये केऽपि तस्य सम्मुखं विरोधं प्रादर्शयन्, तान् सर्वान् सः अमारयत् । पञ्जाबराज्यस्य अत्यन्तहिंसकवातावरणस्य सूचना केन्द्रसर्वकारेण प्राप्ता । केन्द्रसर्वकारस्य अनेकैः जनैः तस्य एतादृशस्य दुःसाहसस्य कृते साम-दान-भेदादीनाम् उपयोगः कृतः । परन्तु केन्द्रात् प्राप्तसंरक्षणः सः केन्द्रसर्वकारमेव युद्धाय आह्वयन् आसीत् । बहवः नेतारः, समाचारपत्रस्य सम्पादकाः, धर्मगुरवः तं मिलित्वा "देशद्रोहम्, अधर्माचरणं च मा कुरु" इति अबोधयन् । परन्तु सः न कस्यापि कथनम् अङ्ग्यकरोत् । अन्ततो गत्वा इन्दिरा गान्धी आतङ्कवादशमनार्थं सैन्यस्य साहाय्यं स्वयकरोत् । सैन्यबलं गुरुद्वारस्य पवित्रपरिसरं प्रविश्य आतङ्कवादिनः मारयेयुः इति आदेशः इन्दिरा गान्धी इत्यनया दत्तः । सैन्यबलेन गुरुद्वारे स्थितानाम् आतङ्कवादिनाम् उन्मूलनं कर्तुम् एका योजना कृता । तस्याः योजनायाः नाम आसीत् ‘ऑपरेशन् ब्लू स्टार्’ इति । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्वयकरोत् । (प्रमाणं नास्ति ।)
१९८४ तमस्य वर्षस्य 'जून'-मासस्य तृतीये (३/६/१९८४) दिनाङ्के ‘ऑपरेशन् ब्लू स्टार्’ इति योजनायाः प्रारम्भः अभवत् । षड् दिनानि यावत् अर्थात् अष्टम(८)दिनाङ्कपर्यन्तं भारतीयसैन्यस्य, गुरुद्वारे निगूढानां (hidden) आतङ्कवादिनां च मध्ये सशस्त्रयुद्धम् अभूत् । तस्मिन् युद्धे भारतीयसैन्येन शतघ्न्याः (cannon), युद्धविमानानां, रासायणिकशस्त्राणां चोपयोगः कृतः । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्याः योजनायाः प्रमुखः कुलदीप सिंह बरार अकथयत्, “एतस्मिन् युद्धे दव्यशीतिः (८२) सैनिकाः स्वप्राणाहुतिम् अयच्छन्, विंशत्यधिकद्विशतं (२२०) सैनिकाः आहताः (injure) अभवन्, द्विनवत्यधिकचतुःशतं (४९२) नागरिकाः मृताश्च” इति । (परन्तु संशोधने सा सङ्ख्या पञ्चसहस्राधिका (५०००) इति सिद्धम् अभवत् ।) ।
भिण्डरवाला इत्यस्य मृत्योः अनन्तरम् एव समाप्ता ‘ऑपरेशन् ब्लू स्टार्’ इतीयं योजना । तस्याः योजनायाः समाप्त्या सह भिन्नराष्ट्रस्य 'खलि'स्थानस्य निराधारयाचना अपि मृता । परन्तु षड्दिनं यावत् सुवर्णमन्दिरे याः गोलिकाः अचलन्, ताभिः अकाल तख्त-नामकं गुरुद्वारस्य पवित्रस्थानं नष्टम्, अपवित्रं चाभवत् । तेन सिक्खसम्प्रदायस्य जनेषु बहुरोषः आसीत् । साप्रदायिकभावनायाः हननस्य, गुरुद्वारस्य पवित्रस्थलस्य नाशस्य च दण्डत्वेन इन्दिरा गान्धी इत्यस्याः हननं तस्याः सिक्ख-आरक्षकाभ्यां कृतम् । तौ आरक्षकौः त्रयस्त्रिंशत् (३३) गोलिकाः अचालयन् इन्दिरा गान्धी इत्यस्याः उपरि । तासु त्रयस्त्रिंशत् (३३) गोलिकासु त्रयोविंशतिः (२३) तस्याः शरीरं विभेद्य गताः, सप्त गोलिकाश्च (७) तस्याः शरीरे एव आसन् । १९८४ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के इन्दिरा गान्धी इत्यस्याः मृत्युः तस्याः निवासस्थाने एव अभवत् । तस्याः करुणहत्यानन्तरं देशे सिक्खविरोधिभावः उद्भूतः इति कथनमासीत् केन्द्रसर्वकारस्य । तस्य सिक्खविरोधिभावस्य फलमेवासीत् १९८४ तमस्य वर्षस्य सिक्खविरोधिनी साम्प्रदायिकहिंसा ।
‘ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्व्यकरोत् इत्यस्य केन्द्रसर्वकारस्य कथनस्य खण्डनं कुर्वन्त्याः श्रीज्ञानिनः पुत्र्याः कथनमस्ति यत्, “‘ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै श्रीज्ञानी अनुमतिं नायच्छत् । तस्य तु ज्ञानमेव नासीत् एतादृश्याः योजनायाः विषये । श्रीज्ञानी तु धार्मिकः सिक्खानुयायी, देशभक्तः च आसीत् । सः एतादृश्याः योजनायाः कृते अनुमतिं सर्वथा नैव ददाति । योजनायाः आरम्भानन्तरमेव तेन ज्ञातम् योजनायाः विषये” इति । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
सिक्खविरोधिनी साम्प्रदायिकहिंसा
१९८४ तमस्य वर्षस्य सिक्खविरद्धहिंसायाम् अनेकाः सिक्खजनाः मृताः । आलोचकानां कथनमस्ति यत्, “जलियावाला-नरहत्याः अपि भयावहः आसीत्, १९८४ तमस्य वर्षस्य सिक्खविरोधिनरहत्या” इति । हिन्दुधर्मस्य रक्षणार्थं यस्य सम्प्रदायस्य स्थापना अभवत्, तस्य सम्प्रदायस्य जनानां हननं हिन्दुजनाः एव अकुर्वन् इति सत्तालोलुपाः नेतारः आक्षिपन् । परन्तु सत्यता तु भिन्ना एवासीत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
इन्दिरा गान्धी इत्यस्याः मृत्योः अनन्तरं तस्याः पुत्रः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । इन्दिरा गान्धी यस्मिन् दिने मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव सः प्रधानमन्त्रित्वेन शपथम् अकरोत् । भारतगणराज्यस्य सम्मानरक्षणस्य, प्रधामन्त्रिपदस्य गौरवस्य रक्षणस्य च शपथं श्रीज्ञानी एव अकारयत् । परन्तु तस्माद्दिनादेव देहली-महानगरे सिक्खजनानां निर्ममहननस्य प्रारभन्त । दिनत्रयं यावत् आरक्षकाः, सैनिकाः, व्यवस्थापकाश्च देहली-महानगरं हिंसकजनानां हस्ते अयच्छन् । तेषां क्रूराणां पार्श्वे मतदातॄणां सूचिः आसीत् । मतदातॄणां सूचिं पश्यन्तः ते हिंसकजनाः सिक्खजनानां गृहं प्रविश्य बाल-वृद्ध-महिलानां हननम् अकुर्वन् । या मतदातॄणां गुप्तसूचिः सर्वकारस्य पार्श्वे एव भवेत्, सा सूचिः तैः हिंसकजनैः कुतः प्राप्ता इत्यस्य आलोचकानां प्रश्नस्य अद्यापि उत्तरं न लभ्यते । तस्यां साम्प्रदायिकहिंसायां अष्टसहस्राधिकाः (८०००+) निर्दोषसिक्खजनाः मृताः इति सर्वकारेण उद्घोषितम् । परन्तु संशोधनेन देशस्य ज्ञानम् अभवत् यत्, “तस्यां हिंसायां त्रिसहस्राधिकानां (३०००+) जनानां हननं तु देहली-महानगरे एव अभवत्” इति ।
बहूनाम् आलोचकानां कथनमासीत् यत्, “सिक्खजनानां प्रतिनिधिः अर्थात् श्रीज्ञानी जैल सिंह भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सिक्खविरोधहिंसायाः विषये कमपि निर्णयं नाकरोत्” इति । परन्तु सत्यता भिन्ना एव आसीत् । राष्ट्रपतिः सेनात्रयस्य सेनापतिः अस्ति । परन्तु साक्षात् सः कमपि कस्मिंश्चित् कार्ये सल्लग्नयितुम्, अपाकर्तुं च न प्रभवति । सः हिंसायाः विषये बहुवारं प्रधामन्त्रिकार्यालयं दूरवाणीम् अकरोत् । परन्तु तस्य दूरवाण्याः उत्तरम् एव न कोऽपि अयच्छत् । दिनत्रयं तस्य मानसिकस्थितिः अतीव दयनीया आसीत् । भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सः असांविधानिकं कार्यं स्थगयितम् अशक्तः आसीत् । सिक्खविरोधहिंसासमये तस्य स्थितिः किदृशी आसीत् इत्यस्य वर्णनं तस्य पुत्री एकस्मिन् साक्षात्कारे अकरोत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
१९८४ तमस्य वर्षस्य हिंसायाः दोषिणः शिक्षां प्राप्नुयुः इति देहली उच्चन्यायलये एकः अभियोगः पीडितैः कृतः । देहली उच्चन्यायालयेन एतावता एकमेव उल्लेखनीयं वाक्यम् उक्तमस्ति यत् -
ततः अद्यपर्यन्तम् अस्य अभियोगस्य कृते न्यायप्रक्रिया अग्रे नाभवत् । त्रिंशद्वर्षानन्तरम् २०१४ तमे वर्षे U.P.A. उपाध्यक्षेण राहुल गान्धी इत्यनेन अङ्गीकृतं यत्, “१९८४ तमस्य वर्षस्य सिक्खविरोधिहिंसायां कोङ्ग्रेसपक्षस्य तत्कालीनाः नेतारः सम्मिलिताः आसन्” इति । तस्य अङ्गीकरणानन्तरमपि दोषिणः शिक्षां न प्राप्नुवन् इति खेदस्य विषयः ।
श्रीज्ञानी ‘ऑपरेशन् ब्लू स्टार्’ इत्यनया योजनया, सिक्खविरोधिहिंसया च दुःखितः आसीत् । सः स्वस्य दुःखं पत्रमाध्यमेन राजीव गान्धी इत्यस्य सम्मुखं प्रकटम् अकरोत् । परन्तु स्वस्य पत्रस्य उत्तरं सः कदापि न प्रापत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के राष्ट्रपतित्वेन कार्यकालसमाप्त्यनन्तरम् उद्विग्नमनसा सः राष्ट्रपतिभवनम् अत्यजत् । परन्तु गमनकाले तस्य मुखे चिन्ता-शोक-क्रोधान् सर्वे सहसा अपश्यन् ।
मृत्युः
राष्ट्रपतिभवनात् निर्गत्य सः देहली-महानगरस्य सर्क्युलर्-मार्गस्थे स्वगृहे वासम् आरभत । सः राजनीतिक्षेत्रेऽपि सक्रियः आसीत् । परन्तु १९९४ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के मार्गदुर्घटनायां सः आहतः अभवत् । सप्तविंशतिदिनं यावत् सः मूर्च्छितः (in coma) आसीत् । ततः १९९४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के तस्य मृत्युः अभवत् ।
सम्बद्धाः लेखाः
सिक्खविरोधिनी साम्प्रदायिकहिंसा
ऑपरेशन् ब्लू स्टार्
इन्दिरा गान्धी
राजीव गान्धी
राष्ट्रपतिः
सर्वोच्चन्यायालयः
राष्ट्रपतिभवनम्
बाह्यानुबन्धाः
http://www.youtube.com/watch?v=OcgvFhED7cM
http://timesofindia.indiatimes.com/india/Rahul-Gandhi-says-some-Congressmen-probably-involved-in-1984-riots/articleshow/29455660.cms
http://www.youtube.com/watch?v=YNsB85JNszQ
http://www.youtube.com/watch?v=Zb01XTXPfLg
http://www.youtube.com/watch?v=_iFSfvaCifs
http://www.youtube.com/watch?v=MZN5LrBtBrs
http://www.youtube.com/watch?v=_iFSfvaCifs
7
काङ्ग्रेस्-पक्षस्य नेतारः
१९१६ जननम्
१९८४ मरणम् |
1205 | https://sa.wikipedia.org/wiki/%E0%A4%8F%20%E0%A4%AA%E0%A4%BF%20%E0%A4%9C%E0%A5%87%20%E0%A4%85%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A5%81%E0%A4%B2%E0%A5%8D%20%E0%A4%95%E0%A4%B2%E0%A4%BE%E0%A4%AE%E0%A5%8D | ए पि जे अब्दुल् कलाम् | अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः ( (; १५ अक्टोबर् १९३१ – २७ जुलै २०१५)
अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।
बाल्यं शिक्षा च
अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् ।
विद्यार्थिजीवनम्
पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म । क्रि.श. १९५८तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. १९६२तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन भारतस्यएस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. १९८०तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।
वृत्तिजीवनम्
क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८०तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् । अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२तमवर्षस्य जुलैमासतः क्रि.श. १९९९ डिसेम्बर् पर्यन्तं भारतस्य रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. २०२०तमवर्षपर्यन्तं भारतं वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।
राजनैतिकजीवनम्
डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन् । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य २५तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते एषः भारतस्य अभिवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष भारतं परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।
प्रशस्तिपुरस्काराः
''' अवुल पकीर जैनुलबीदीन अब्दुल कलामाय भारतसर्कारस्य क्रि.श. १९८१तमे वर्षे प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।
वैयक्तिकजीवनम्
डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति ।
कृतयः
डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः ।
इग्नाइटेड मैण्ड्स् एनलिषिङ्ग् दि पावर विदीन इण्डिया (प्रकाशनम् - पेंग्विन बुक्स, २००३)
इण्डिया मै ड्रीम् (प्रकाशनम् - एक्सेल बुक्स्, २००४)
एनविजनिंग अन एम्पावर्ड् नेशन् टेक्नालजी फार् सोसायटल् ट्रांसफारमेशन् (टाटा मैकग्राहिल् पब्लिशिङ्ग् कम्पनी लिमिटेड्, २००४)
आत्मकथा - विग्स् आळ् फैर् एन् आटोबायोग्राफी आफ ए.पी.जे. अब्दुल् कलामः (ओरियण्ट् लाङ्गमैन्, १९९९)
आत्मकथा - सैण्टिस्त् टू प्रेसिडेंट् (ज्ञान पब्लिशिङ्ग हौस् २००३)
इटरनल् क्वेस्ट् अब्दुल् कलामस्य जीवनकालः लेखकः - एस्. चन्द्रः (पेंटागन पब्लिशर्स्, २००२)
प्रेसिडेंट एपीजे अब्दुल् कलामः आर्. के. पूर्ति रचितः (अनमोल पब्लिकेशन्स,२००२) I
ए. पी. जे. अब्दुल् कलामः दि विषनरी आळ् इण्डिया - के. भूषण तथा जी. कात्यालः रचनम् (एपीएच पब्लिशिङ्ग् कार्पोरेशन्, २००२)
परलोकगमनम्
२०१५ वर्षस्य जुलै मासस्य २७ तमे दिनाङ्के डॉ. अब्दुल् कलाम्-महोदयस्य हृदयाघातेन निधनम् अभवत् । तस्मिन् दिने सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारते सन् हृत्पीडया पीडितः जातः आसीत् ।
आकराः
बाह्यानुबन्धाः
कर्मयोगी कलामः (गूगल् पुस्तकम् ; लेखकः - लक्षमप्रसादः, शाण्डिल्यः)
आधिकारिकजालस्थाने अस्य जीवनगाथा (आङ्ग्लभाषया)
भारतस्य राष्ट्रपतीनाम् आधिकारिकं जालस्थानम्
अब्दुल् कलामः
ए. पी. जे. अब्दुल् कलामस्य अमूल्यचिन्तनानि (हिन्दीभाषायाम्)
"
भारतीयविज्ञानिनः
11
विषयः वर्धनीयः
भारतरत्नपुरस्कारभाजः
१९३१ जननम्
२०१५ मरणम् |
1206 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%87%20%E0%A4%86%E0%A4%B0%E0%A5%8D%20%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%A8%E0%A5%8D | के आर् नारायणन् | श्रीकोचेरिल् रामन् नारायणन् ( ) (, ) भारतगणराज्यस्य दशमः राष्ट्रपतिः । राष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयाणां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,
जन्म
१९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तविंशतितमे (२७/१०/१९२०) दिनाङ्के केरलराज्यस्य कोट्टयममण्डलस्य उळवूर-ग्रामे श्रीनारायणस्य जन्म अभवत् । तस्य पिता कोचेरिल् प्रतिष्ठितः वैद्यः आसीत् । तस्य माता पापियम्म निरक्षरासीत्, परन्तु व्यावहारिकजीवनस्य बहुज्ञानम् आसीत् तस्याः । तयोः सप्त शिशवः आसन् । तेषु श्रीनारायणः चतुर्थः । कोचेरिल् इत्यस्य आर्थिकस्थितिः सुदृढा नासीत् । सः वनेषु उपलब्धौषधीनाम् उपयोगेन आयुर्वैदिकरीत्या रोगिणाम् उपचारं करोति स्म । सामान्यतः तस्य औषधकार्यं सेवाभावेन एव चलति स्म । निर्धनग्रामीणाः वैद्याय कियत् धनं दातुं शक्नुयुः ? मध्याह्न-सायङ्कालयोः भोजनमपि बहु परिश्रमेण एकत्रितं भवति स्म ।
शिक्षणम्
पठने श्रीनारायणस्य बहुरुचिः आसीत् । बालकस्य पठनरुचिं पश्यन् पिता तम् उळवूर-ग्रामस्थं विद्यालयं पठितुं प्रैषयत् । पठनपिपासोः श्रीनारायणस्य प्राथमिकशिक्षणं परिश्रमयुक्तं, दुष्करं चासीत् । पञ्चदश कि.मी. दूरे स्थितं विद्यालयं श्रीनारायणः चलित्वा नियततया गच्छति स्म । निर्धनपिता विद्यालयस्य मासिकशुल्कं (monthly fees) दातुं न शक्नोति स्म । अतः शिक्षकाः मुहुर्मुहुः श्रीनारायणं वर्गात् बहिः प्रेषयन्ति स्म । परन्तु ज्ञानस्य उपरि कस्यापि अधिकारः न भवति । श्रीनारायणः वर्गात् बहिस्स्थित्वापि शिक्षकस्य पाठम् अवधानेन शृणोति स्म । श्रीनारायणस्य पितुः पार्श्वे पुस्तकं क्रेतुं धनमपि नासीत् । अतः श्रीनारायणस्य अग्रजः अन्यविद्यार्थिभ्यः पुस्तकानि याचयित्वा तस्य प्रतिलिपिं करोति स्म । अग्रजेन कृताभ्यः प्रतिलिपिभ्यः श्रीनारायणः स्वाध्ययनं करोति स्म । स्वस्य उच्चपठननिष्ठया सः महात्मना स्थापितात् हरिजन-सेवक-सङ्घात् छात्रवृत्तिं प्रापत् । ततः परं तेन छात्रवृत्त्या एव अध्ययनं कृतम् । १९३६-३७ वर्षे सः कुरविलङ्गडु-ग्रामस्य 'सेण्ट मेरीस्'-उच्चविद्यालयात् प्रथमश्रेण्या उत्तीर्णः अभवत् । ततः १९४० तमे वर्षे कोच्चायम-ग्रामस्य 'सी. एम्. एम्.'-महाविद्यालयात् 'इण्डरमीडिएट्' मध्ये उत्तीर्णः अभवत् । 'इण्डरमीडिएट' उत्तीर्णः विंशतिवर्षीयः श्रीनारायणः त्रावणकोर-विश्वविद्यालयात् (अधुना केरलविश्वविद्यालयः) 'बी.ए. ऑनर्स्, एम्. ए.' (आङ्ग्लसाहित्यं) च प्रापत् ।
उच्चशिक्षां प्राप्तुं श्रीनारायणस्य बहु इच्छा आसीत् । परन्तु परिवारस्य निर्धनताम् अपाकर्तुं सः जीविकोपार्जनं प्रारभत । तस्य रुचिः पत्रकारितायाम् (journalism) आसीत् । अतः सः देहली-महानगरं गत्वा ‘द हिन्दू’, ‘द टाइम्स् ऑफ् इण्डिया’ समाचारपत्रयोः कृते कार्यं प्रारब्धम् । "१९४५ तमस्य वर्षस्य 'अप्रैल'-मासस्य दशमे (१०/४/१९४५) दिनाङ्के महात्मनः साक्षात्कारम् अकरवम् । सः पत्रकारत्वेन मम उत्तमतमः अवसरः आसीत्" इति सः स्वस्य जीवन्याम् अलिखत् ।
सः यावत् धनम् अर्जयति स्म, तावत् तु परिवारस्य पोषणाय एव पर्याप्तम् आसीत् । परन्तु विदेशं गत्वा पठितुं यावत् धनम् आवश्यकम् आसीत्, तावत् धनं सः सङ्गृहीतुं न शक्तः । तस्य हृदि स्थिता विदेशे पठनस्य इच्छा तं व्याकुलं करोति स्म । तदैव तेन कश्चित् मार्ग प्राप्तः । बाल्यकालात् युवावस्थापर्यन्तं यत् अध्ययनम् अकरोत्, तस्य विवरणम् एकस्मिन् पत्रे लिखित्वा सः श्रीजे.डी.आर. ताता इत्यस्मै प्रैषयत् । तेन पत्रेण सह विदेशे पठनस्य व्ययस्य विवरणमपि प्रैषयत् सः । श्रीताता स्वस्य आशीर्वादेन सह श्रीनारायणस्य विदेशे अध्ययनाय यावत् धनम् आवश्यकम् आसीत्, तावत् तस्मै अयच्छत् । १९४५ तमे वर्षे सः विदेशं गत्वा 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये प्रवेशं प्रापत् । तस्मात् महाविद्यालयात् 'बी.एस.सी. ऑनर्स्'-राजनीतिविज्ञान-इत्यनयोः विषयोः नैपुण्यम् आर्जयत् सः ।
राजनीतिप्रवेशः
यस्मिन् 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये श्रीनारायणः पठति स्म, नेहरू तस्य महाविद्यालयस्य प्राच्यछात्रः आसीत् । श्रीनारायणः यस्मात् प्राध्यापकात् राजनीतिविषयम् अपठत्, तस्मात् प्राध्यापकात् नेहरू अपि राजनीतिं पठितवान् आसीत् । तस्य प्राध्यापकस्य ख्यातिः चतसृषु दिक्षु आसीत् । तस्य ज्ञानं, चिन्तनशक्तिः विद्यार्थिनः आकर्षयति स्म । तस्य नाम आसीत् गेरॉल्ड् लॉस्की । सः गेरॉल्ड लॉस्की श्रीनारायणात् प्रभावितः आसीत् । श्रीनारायणस्य राजनीतिविषयकं ज्ञानं तेन सम्यक् अनुभूतम् आसीत् । अतः सः स्वस्य प्राच्यछात्राय नेहरू इत्यस्मै एकं पत्रं श्रीनारायणस्य माध्यमेन प्रैषयत् । तस्मिन् पत्रे तेन श्रीनारायणस्य राजनीतौ आधिपत्यविषये, कुशलतायाः विषये लिखितम् आसीत् ।
स्वमातृभूमिं सम्प्राप्य श्रीनारायणः नेहरू इत्यस्य कार्यालयम् अगच्छत् । काश्चन सामान्याः चर्चाः कृत्वा सः प्राध्यापकेन दत्तं पत्रं नेहरू इत्यस्मै दत्त्वा कार्यालयात् निर्गतः । श्रीनारायणस्य विषये पत्रे यत् लिखितम् आसीत्, तत् पठित्वा नेहरू श्रीनारायणं पुनराह्वयत् । किञ्चित् दूरं गतः श्रीनारायणः कार्यालयं यदा पुनः प्रविष्टः, तदा नेहरू तं कांश्चन प्रश्नान् अपृच्छत् । ततः नेहरू तस्मै विदेशसेवायाः दायित्वम् अयच्छत् । एवं श्रीनारायणस्य राजनीतिप्रवेशः अभवत् ।
विवाहः, परिवारश्च
१९४९ तमे वर्षे श्रीनारायणेन विदेशसेवायाः कार्यं प्रारब्धम् । तस्य प्रथमनियुक्तिः सचिवत्वेन बर्मा-देशस्य रङ्गून-महानगरस्थे भारतीयदूतावासे अभवत् । यदा सः भारतीयदूतत्वेन रङ्गून-महानगरे कार्यरतः आसीत्, तदा तस्य सम्पर्कः बर्मीकन्यया मा टिण्ट टिण्ट इत्यनया सह अभवत् । सा रङ्गून-महानगरे YWCA संस्थायां कार्यकर्ता आसीत् । मा टिण्ट टिण्ट जानाति स्म यत्, श्रीनारायणः लॉस्की इत्यस्य शिष्यः इति । अतः सा तं ‘राजनैतिकस्वतन्त्रता’-विषये वक्तुम् आह्वयत् । क्रमशः वारं वारं मेलनेन तौ प्रेमपाशेन बद्धौ अभवताम् । प्रेम तु अभवत्, परन्तु विवाहं कर्तुं भारतीयसंविधानम् अनुमतिं न यच्छति स्म । यतो हि विदेशसेवायां रतः अधिकारी विदेशस्य नागरिकेण सह विवाहं कर्तुं न शक्नोति इति नियमः भारतीयसंविधाने उल्लिखितः । अतः श्रीनारायणः प्रधानमन्त्रिकार्यालयं विवाहानुमत्यै विनतिपत्रं प्रैषयत् । प्रधानमन्त्रिकार्यालयात् श्रीनारायणेन अनुमतिः प्राप्ता । १९५१ तमस्य वर्षस्य 'जून'-मासस्य अष्टमे दिनाङ्के श्रीनारायणस्य मा टिण्ट टिण्ट इत्यनया सह विवाहः अभवत् । विवाहानन्तरं मा टिण्ट टिण्ट स्वनाम परिवर्त्य उषा अभवत् । भारते उषा नारायणन् महिलाकल्याणस्य कार्ये सल्लग्ना अभवत् । तयोः पुत्र्योः नाम क्रमेण चित्रा, अमृता च ।
भारतीयराजदूतत्वेन श्रीनारायणस्य कार्याणि
भारतस्य विदेशसेवायाः दायित्वं वहन् श्रीनारायणः रङ्गून-टोकियो-लण्डन्-कॅनबेरा-हनोई इत्येतेषु स्थानेषु स्थितेषु दूतावासेषु कार्यम् अकरोत् । सः थाईलेण्ड्(१९६७-६९)-टर्की(१९७३-७५)-चीन(१९७६-७८)-देशेषु अपि भारतीयदूतत्वेन दायित्वम् अवहत् । १९७४ तमे वर्षे पाकिस्थानस्य विभाजनान्तरम् अमेरिका-देशेन सह भारतस्य सम्बन्धाः सम्यक् नासन् । अतः इन्दिरा गान्धी श्रीनारायणं वाशिङ्गटन-महानगरे स्थितं भारतीयदूतवासं प्रैषयत् । १९८४ वर्षपर्यन्तं श्रीनारायणः अमेरिका-देशे एव आसीत् । १९४९ तः १९७८ पर्यन्तं विदेशसेवायां रतः श्रीनारायणः भारतस्य सम्मानं सर्वत्र अवर्धयत् । १९४९ तमे वर्षे नेहरू यदा प्रधानमन्त्री आसीत्, तदा श्रीनारायणेन विदेशसेवायाः दायित्वं स्वीकृतम् आसीत् । १९८४ तमे वर्षे यदा विदेशसेवायाः दायित्वात् श्रीनारायणः विमुक्तः अभवत्, तदा इन्दिरा गान्धी भारतगणराज्यस्य प्रधानमन्त्री आसीत् ।
केन्द्रमन्त्रिमण्डले स्थानम्
विदेशसेवायाः कार्ये सल्लग्नः श्रीनारायणः कार्यानुभवं, कार्यकुशलतां तु प्रापत् । परन्तु देशस्य दलित-वर्गस्य कृते किमपि विशेषं कर्तुं न शक्तः । भारतीयसंविधाने दलित-वर्गाय आरक्षणस्य सुविधा तु आसीत् । परन्तु समाजस्य केचन जनाः दलित-वर्गस्य उपेक्षां कुर्वन्ति स्म । आरक्षणस्याधिकरे सत्यपि दलित-वर्गः स्वाधिकारं प्राप्तुं सङ्घर्षरतः आसीत् । तस्मिन् सङ्घर्षे जात्याधारितहिंसायाः बाहुल्यमासीत् । परन्तु श्रीनारायणः असांविधानिकसङ्घर्षस्य विरोधी आसीत् । तस्य मनसि भारतीयसंविधानं प्रति दृढनिष्ठा आसीत् । तस्य चिन्तनम् आसीत् यत्, “राजनैतिकसत्तायाः उपयोगं कुर्वन्, जात्याधारितहिंसाम् अकृत्वा च दलित-वर्गस्य विकासः कर्तव्यः । राजनीत्यादिक्षेत्रेषु सक्रियाः भूत्वा दलित-जनाः अपि उच्चस्थानेषु आरूढाः भवितुम् अर्हन्ति” इति । एतत् लक्ष्यं हृदि निधाय श्रीनारायणेन १९८४ तमे वर्षे संसद्प्रवेशस्य निर्णयः कृतः ।
१९८४, १९८९, १९९१ वर्षाणां निर्वाचने केरलराज्यस्य ओट्टपाळम्-संसदीयक्षेत्रात् बहुमतेन निर्वाचितः श्रीनारायणः वारत्रयं लोकसभायाः सदस्योऽभवत् । भारतसर्वकारस्य अनेकेषु विभागेषु मन्त्रित्वेन तेन कार्यं कृतम् । केन्द्रिययोजनामन्त्री, विदेशमन्त्री, विज्ञापन-प्रौद्योगिकीमन्त्री, अन्तरिक्ष-समुद्र-अणुशक्ति-विकासमन्त्री भूत्वा सः देशसेवाम् अकरोत् ।
उपराष्ट्रपतित्वेन श्रीनारायणः
१९९२ तमे वर्षे उपराष्ट्रपतिपदं रिक्तमभवत् । अतः तत्कालीनः प्रधानमन्त्री श्रीनारायणस्य नाम उपराष्ट्रपतिप्रत्याशित्वेन अघोयत् । ततः विपक्षसहितम् अन्यपक्षाः अपि श्रीनारायणस्य समर्थनम् अकुर्वन् । १९९२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकविंशतितमे (२१/८/१९९२) दिनाङ्के श्रीनारायणः भारतगणराज्यस्य उपराष्ट्रपतित्वेन दायित्वं स्वयकरोत् ।
उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । श्रीनारायणः विनम्रतया, निर्भयतया, नियमानुसारं, तटस्थतया च राज्यसभायाम् अध्यक्षत्वेन कार्यम् अकरोत् । राज्यसभायाम् अनुशासनसम्बद्धां नीतिं रचितुं तेन 'एथिक्स्'-समित्याः कार्यं वेगवन्तं कारितम् । तस्याः समित्याः विषये कोऽपि अध्यक्षः बहु महत्वं नायच्छत् । परन्तु अनुशासनसल्लग्नायै तस्यै समित्यै श्रीनारायणः बहुगभीरतया कार्यम् अकरोत् । तेन तस्य प्रशंसा अपि अभवत् ।
राष्ट्रपतिप्रत्याशित्वेन श्रीनारायणः
श्रीनारायणः यदा उपराष्ट्रपतित्वेन कार्यरतः आसीत्, तदा १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के श्रीशङ्करस्य कार्यकालः पूर्णः अभवत् । शिवसेना-पक्षं विहाय सर्वे पक्षाः श्रीनारायणस्य नाम राष्ट्रपतिप्रत्याशित्वेन समर्थितवन्तः । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के यत् राष्ट्रपतिनिर्वाचनम् अभवत्, तस्मिन् श्रीनारायणस्य विरोधित्वेन टी एन् शेषन् आसीत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तदशे (७/७/१९९७) दिनाङ्के ९५% मतैः श्रीनारायणस्य विजयः अभवत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्री जे ए वर्मा श्रीनारायणेन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकारयत् ।
भारतस्वतन्त्रतायाः सुवर्णजयन्तीदिवसः राष्ट्रपतित्वेन श्रीनारायणस्य महत्वपूर्णदिवसः आसीत् । भारतस्वतन्त्रतादिवसस्य उत्सवः हर्षोल्लासेन सह आचरितः देशजनैः । भारतवासिनः सम्बोद्ध्य तत्कालीनप्रधानमन्त्री गुजराल अवदत्, “महात्मनः कथनम् आसीत् यत्, अहं तदा सन्तुष्टो भवामि, यदा भारतगणराज्यस्य सर्वोच्चपदे अर्थात् राष्ट्रपतिपदे कोऽपि दलित-जनः आरूढो भवति । महात्मनः इच्छा पूर्णा अभवत् इति अहं देशजनान् वक्तुम् इच्छामि । अद्य अस्माकं देशस्य सर्वोच्चपदे कश्चित् दलित-जनः आरूढोऽस्ति । अस्माकं राष्ट्रपतिः श्रीनारायणः अत्यन्तनिर्धनपरिवारे जन्म प्रापत् । अद्य सः भारतविकासस्य मूख्यधारायाम् आगत्य देशस्य विकासे महत्वपूर्णं योगदानं कुर्वन् अस्ति” इति । भारतीयलोकतन्त्रदिवसस्य सुवर्णजयन्ती अपि श्रीनारायणस्य अध्यक्षतायामेव आचरिता देशजनैः ।
श्रीनारायणस्य राष्ट्रपतित्वेन कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल-रचितस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के वाजपेयी-रचितस्य सर्वकारस्य पतनम् अभवत् ।
केन्द्रे यः पक्षः शासनं करोति, सः राष्ट्रपतिपदस्य दुरुपयोगं करोति इति सर्वेषां ज्ञानमस्ति । राष्ट्रपतिपदारूढः व्यक्तिः देशात् अधिकं कस्यचित् पक्षस्य कृते ऋणी भवति चेत्, न केवलं तस्य पक्षस्य लाभाय अपि तु देशविरोधिनिर्णयकरणे अपि सः सङ्कोचं नानुभवति । परन्तु श्रीनारायणः स्वस्य कार्यकाले राष्ट्रपतिपदस्य गौरवरक्षणेन सह तस्य पदस्य गौरववर्धनमपि अकरोत् । तस्य शासनकाले वारद्वयं राज्यसर्वकारात् शासनं कर्षयित्वा तस्मिन् राज्ये राष्ट्रपतिशासनस्य घोषणार्थं प्रस्तावः आसीत् । १९९७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वाविंशतितमे (२२/१०/१९९७) दिनाङ्के गुजराल-सर्वकारेण कल्याण सिंह इत्यनेन उत्तरप्रदेशराज्ये चालितस्य शासनस्य विरोधं कृत्वा राष्ट्रपतिशासनस्य प्रस्तावः कृतः । ततः १९९८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे (२५/११/१९९८) दिनाङ्के वाजपेयी-सर्वकारेण अपि राष्ट्रपतिशासनस्य प्रस्तावः कृतः आसीत् । तस्य सर्वकारेण बिहारराज्यस्य राबडी देवी इत्यस्याः सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयं स्व्यकरोत् । सः तयोः राज्ययोः राष्ट्रपतिशासनस्य घोषणां नाकरोत् । एवं भारतगणराज्यस्य तयोः राज्ययोः सङ्घीय(Federalism)अधिकारस्य रक्षणम् अभवत् ।
२००२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/२००२) दिनाङ्के राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकालः पूर्णः अभवत् । “इतोऽपि बहूनि कार्याणि मया कर्तव्यानि आसन् । परन्तु मम कार्यकालसमाप्तिकारणत्वात् अहं तानि कार्याणि कर्तुं न शक्तवान्” इति एकस्मिन् साक्षात्कारे श्रीनारायणेन उक्तम् आसीत् । तस्य साक्षात्कारस्य कश्चित् अंशः अत्र लिखितः ।
मृत्युः
२००५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९/११/२००५) दिनाङ्के भारतगणराज्यस्य दशमराष्ट्रपतेः श्रीनारायणस्य देहावसानम् अभवत् । पञ्चाशीतिवर्षीयस्य श्रीनारायणस्य अन्तिमसंसारः देहली-महानगरे स्थितस्य शान्तिवनस्य समीपं यमुनानद्याः तीरे अभवत् ।
सम्बद्धाः लेखाः
दलित
राष्ट्रपतिः
सर्वोच्चन्यायालयः
राष्ट्रपतिभवनम्
जवाहरलाल नेहरु
बाह्यानुबन्धाः
http://www.indiapicks.com/stamps/Presidnts_PMs/KR_Narayanan.htm
http://www.iloveindia.com/indian-heroes/k-r-narayanan-biography.html
http://politics.jagranjunction.com/2011/08/02/former-president-k-r-narayanan-profil/
http://jmi.ac.in/cdms/tribute-to-Dr-KR-Narayanan
http://www.indohistory.com/k_r_narayanan.html
http://www.penguinbooksindia.com/en/content/kr-narayanan
http://www.mapsofindia.com/on-this-day/27th-october-1920-tenth-indian-president-k.r.-narayanan-was-born
10
काङ्ग्रेस्-पक्षस्य नेतारः
१९२० जननम्
२००५ मरणम् |
1207 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%20%E0%A4%A6%E0%A4%AF%E0%A4%BE%E0%A4%B2%20%E0%A4%B6%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE | शङ्कर दयाल शर्मा | श्रीशङ्कर दयाल शर्मा ( ) (, ) भारतगणराज्यस्य नवमः राष्ट्रपतिः । श्रीशङ्करः उपराष्ट्रपतित्वेन, राष्ट्रपतित्वेन च कार्यरतो भूत्वा दशवर्षाणि यावत् भारतमातुः सेवाम् अकरोत् । महात्मनः आरभ्य के पी सिंह पर्यन्तं उत्कृटैः नेतृभिः सह तेन कार्यं कृतम् । स्वतन्त्रतान्दोलनं, स्वतन्त्रताप्राप्तिः, देशस्य नवनिर्माणं, देशसेवाधारितराजनीतिः, स्वार्थपूर्तेः राजनीतिः च सर्वं तस्य नेत्रयोः सम्मुखं घटितम् आसीत् । कर्मठता, देशभक्तिः च तस्य शक्तिः आसीत् ।
जन्म, परिवारश्च
१९१८ तमस्य वर्षस्य 'अगस्त'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के मध्यप्रदेशस्य भोपाल-महानगरे श्रीशङ्करस्य जन्म अभवत् । तस्य पित्रोः नाम खुशी लाल, सुभद्रा च । प्रथमपत्न्याः मृत्योः अनन्तरं खुशी लाल इत्यनेन पुनर्विवाहः कृतः । प्रथमपत्न्याः गर्भादेव श्रीशङ्करस्य जन्म अभवत् । खुशी लाल इत्यस्य द्वितीयपत्न्त्याः चत्वारः पुत्राः आसन् । तेषां नामानि क्रमेण शम्भु लाल, शिव दयाल, ईश दयाल, सोमेश दयाल च । आहात्य तस्य पञ्चपुत्राः आसन् । श्रीशङ्करस्य पिता शिवभक्तः आसीत्, अतः सः सर्वेषां पुत्राणां नामकरणं शिवनाम्ना अकरोत् । सामान्यतः विमातुः (stepmother) कारणेन बालकस्य बाल्यं सुखेन, आनन्देन च न गच्छति इति श्रूयते । परन्तु श्रीशङ्करस्य विमाता तं बहुना प्रेम्णा अपालयत् । कारणं श्रीशङ्करस्य विमाता सम्पत बाई तस्य मातुः (सुभद्रायाः) पितृव्यपुत्री (Cousin) एव आसीत् । सा श्रीशङ्करं पुत्रवदेव प्रेम अकरोत् । विदेशं गन्तुं यदा श्रीशङ्करः ऐच्छत्, तदा तस्य विमाता स्वसुवर्णाभूषणानि विक्रीय तस्मै धनम् अयच्छत् ।
शिक्षणम्
श्रीशङ्करस्य प्राथमिकशिक्षणं भोपाल-महानगरे अभूत् । 'इण्टरमीडिएट्'-शिक्षणं समाप्य उच्चशिक्षां प्राप्तुं भोपाल-महानगरात् आगरा-महानगरम् अगच्छत् सः । आगरा-महानगरस्य 'सेण्ट जॉन्स्'-महाविद्यालयात् 'बी ए' उपाधिं प्राप्य इलाहाबाद-महानगरे, लखनऊ-महानगरे च सः 'एम ए' उपाधिं प्रापत् । संस्कृतभाषा, हिन्दीभाषा श्रीशङ्करस्य प्रियभाषे आस्ताम् । तेन तयोः भाषयोः प्रावीण्यमपि प्राप्तमासीत् । लखनऊ-महाविद्यालयात् तेन एल् एल् बी इत्यस्य अध्ययनमपि सामापितम् आसीत् । छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । ततः एल् एल् बी इत्यस्य अधिकाध्ययनार्थं सः इङ्ग्लैण्ड-देशम् अगच्छत् । 'फिट्ज विलियम्'-महाविद्यालये 'डॉक्टरेट्' इति उपाधिं प्रापत् सः । ततः तेन लोकप्रशानस्य (public management) अध्ययनमपि कृतम् । रतनकुमार इति श्रीशङ्करस्य बालमित्रं स्वजीवन्यां श्रीशङ्करस्य ज्ञानपिपासायाः विषये अलिखत्, “श्रीशङ्करः एकैकस्य विषयस्य गहनाध्ययनं करोति स्म इति तस्य ज्ञानवैशिष्ट्यस्य मूलकारणम् आसीत् । गभीरतया, गहनतया विषयस्य हार्दं ज्ञात्वा सः तद्विषये प्रावीण्यं प्राप्नोति स्म । एतत् सर्वं तस्य कृते सहजकार्यम् आसीत्” इति ।
राजनीतिप्रवेशः
छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । अतः विदेशात् भारतं पुनरागत्य सः राजनीतिक्षेत्रे पुनः सक्रियः अभवत् । विदेशात् आगमनानन्तरं बहुकालं यावत् लखनऊ-महानगरस्य महाविद्यालये डॉ. शर्मा अध्यापयति स्म । परन्तु भोपाल-महानगरस्य तस्य राजनैतिककेन्द्रत्वात् सः वारं वारं तत्र गच्छति स्म । राजनैतिकक्षेत्रे स्वस्य कृते अधिकाः अवसराः सन्ति इति विचिन्त्य १९४२ तमे वर्षे सः भारतस्वतन्त्रतान्दोलनाय योगदानम् अकरोत् । महात्मना उद्घोषिते “भारत छोडो”-आन्दोलने श्रीशङ्करः स्वयोगदानम् अयच्छत् । तस्मिन् आन्दोलने भागगृहीतॄन् अनेकान् क्रान्तिकारिणः आङ्ग्लाः कारागारं प्रैषयन् । तेषु क्रान्तिकारिषु श्रीशङ्करः अन्यतमः आसीत् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतिदिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभूत् । तत्कालीनः उपप्रधानमन्त्री सरदार वल्लभभाई पटेल "लघुराज्याणि भारते अन्तर्भवन्तु" इति न्यवेदयत् । परन्तु भोपालराज्यस्य राजा भारते अन्तर्भवितुं सिद्धः नासीत् । अतः लोहपुरुषस्य नेतृत्वे भोपालराज्ये विरोधसभा अभवत् । तस्यां सभायां श्रीशङ्करः अपि आसीत् । ततः विरोधं प्रदर्शयितुं श्रीशङ्करः एकस्याः पदयात्रायाः आयोजनम् अकरोत् । तेन कुपितः राजा तं कारागारं प्रैषयत् । जनसहयोगेन, लोहपुरुषस्य परिश्रमेण च १९४९ तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के भोपालराज्यं भारतदेशे अन्तरभवत् । १९५० तमे वर्षे कोङ्ग्रेस-पक्षस्य विधिवत् सदस्यता श्रीशङ्करेण प्राप्ता ।
१९७१ तमे वर्षे सः प्रथमवारं लोकसभायाः सदस्यः अभवत् । १९७२ तमे वर्षे सः कोङ्ग्रेस-पक्षस्य अध्यक्षपदं व्यभूषयत् । १९७४ तमे वर्षे इन्दिरा गान्धी द्वारा रचिते मन्त्रिमण्डले सञ्चारविभागस्य दायित्वम् अवहत् । १९८४ तमे वर्षे श्रीशङ्करः आन्ध्रप्रदेशराज्यस्य राज्यपालः अभवत् । तस्मिन् वर्षे पञ्जाबराज्ये भिण्डरवाला इत्यस्य आतङ्कः आसीत् । तस्य आतङ्कस्य दमनं कर्तुं इन्दिरा गान्धी इत्यनया ऑपरेशन् ब्लू स्टार् इत्यस्याः योजनायाः घोषणा कृता । तस्यां योजनायां सिक्खजनानां पवित्रतमं सुवर्णमन्दिरं ध्वस्तमभूत् । सुवर्णमन्दिरस्य ध्वस्तेन दुःखितौ इन्दिरा गान्धी इत्यस्याः सिक्ख-अङ्गरक्षकौ तस्याः हत्याम् अकुरुताम् । ततः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । तेन पञ्जाबराज्यस्य स्थितिः अवलोक्य आन्ध्रप्रदेशात् श्रीशङ्करः आहूतः । सः श्रीशङ्करं पञ्जाबराज्यस्य राज्यपालत्वेन अघोयत् । ततः महाराष्ट्रराज्यस्य राज्यपालत्वेनापि तस्य नियुक्तिः अभवत् ।
उपराष्ट्रपतित्वेन श्रीशङ्करः
महाराष्ट्रराज्ये यदा श्रीशङ्करः राज्यपालः आसीत्, तदा उपराष्ट्रतिपदं रिक्तम् अभूत् । सर्वैः नेतृभिः श्रीशङ्करः उपराष्ट्रपतित्वेन चितः । १९८७ तमस्य वर्षस्य 'सितम्बर'-मासस्य तृतीये दिनाङ्के उपराष्ट्रपतित्वेन श्रीशङ्करः शपथम् अकरोत् । उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । स्वस्य वाक्पटुता-योग्यता-अनुभवैः राज्यसभायाः दायित्वम् ऊढं तेन । श्रीशङ्करः यदा उपराष्ट्रपतिः आसीत्, तदा चत्वारः प्रधानमन्त्रिणः तेन दृष्टाः । १९८७ तः १९९२ पर्यन्तं राज्यसभाध्यक्षत्वेन श्रीशङ्करस्य कार्यकालः राज्यसभायाः सुवर्णकालत्वेन परिगण्यते ।
राष्ट्रपतित्वेन श्रीशङ्करः
नरसिंह राव यदा प्रधानमन्त्री आसीत्, तदा राष्ट्रपतित्वेन श्रीवेङ्कटरामन् इत्यस्य कार्यकालः समाप्तः अभवत् । अतः १९९२ तमस्य वर्षस्य 'जून'-मासस्य अष्टादशे (१८) दिनाङ्के नरसिंह राव श्रीशङ्करस्य नाम राष्ट्रपतिप्रत्याशित्वेन अघोषयत् । परन्तु श्रीशङ्करस्य विरोधे अन्येषां प्रत्याशिनां नामानि विपक्षेण उद्घोषितानि । मेघालयराज्यस्य जी.जी. स्वैल इत्यस्य नाम 'मार्क्सवादी कम्युनिस्ट्'-पक्षेण उद्घोषितम् । तस्मिन् राष्ट्रपतिनिर्वाचने श्रीशङ्करस्य विजयः अभवत् । १९९२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्रीशङ्करेण राष्ट्रपतिपदस्य, भारतीयसंविधानस्य च गौरवरक्षणाय शपथम् अकारयत् ।
राष्ट्रपतित्वेन प्रप्रथमं भाषणं कुर्वन् श्रीशङ्करः अवदत्, “मम प्रियदेशवासिनः ! भारतगणराज्यस्य सर्वोच्चपदाय मम चयनं कृत्वा मह्यं बहुसम्मानः दत्तः भवद्भिः । अस्य पदस्य गौरवं डॉ. राजेन्द्र प्रसाद, सर्वपल्ले राधाकृष्णन्, जाकिर हुसैन सदृशाः महान्तः व्यक्तयः अवर्धयन् । अहं पूर्णबलेन अस्य पदस्य गौरवं रक्षितुं प्रयासं करिष्ये” इति । श्रीशङ्करः वारं वारम् एकं वाक्यं सर्वैभ्यः वदति स्म । सः वदति स्म यत्, “एषः देशः युवकेभ्यः, युवतीभ्यः, सर्वेभ्यः च विकासाय अवसरं यच्छति । भाटकस्य गृहे निवसितः मत्सदृशः जनः अपि भारतगणराज्यस्य सर्वोच्चपदे आरूढोऽभवत् इत्येव प्रमाणम्, इत्येव वैशिष्ट्यं च” इति ।
राष्ट्रपतित्वेन कार्यभारः
श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव १९९२ तमस्य वर्षस्य 'दिसम्बर'-मासस्य षष्ठे दिनाङ्के अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थानं ध्वस्तम् अभूत् । ततः आभारते साम्प्रदायिकहिंसा अभवत् । साम्प्रदायिकहिंसां स्थगयितुं श्रीशङ्करेण योग्यनिर्णयाः कृताः । ते निर्णयाः सफलाः अपि अभूवन् । राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालस्य अन्तिमे वर्षे अर्थात् १९९६ तमे वर्षे भारतीयराजनीतेः अस्तव्यस्ततायाः स्थितिः आसीत् । १९९६ तमे वर्षे यत् निर्वाचनम् अभवत्, तस्मिन् कस्यापि पक्षस्य बहुमतं नासीत् । तस्मिन् निर्वाचने भारतीयजनतापक्षस्य संसदसदस्याः अधिकाः आसन् । अतः सः अटल बिहारी वाजपेयी इत्येनं मन्त्रिमण्डलं रचितुम् आह्वयत् । परन्तु दुर्भाग्यवशात् संसदि बहुमतं सिद्धे न जाते सति त्रयोदशदिनेषु एव वाजपेयी द्वारा रचितस्य मन्त्रिमण्डलस्य विर्जनम् अभूत् । ततः देवे गौड अपि दशमासं (१/६/१९९६ तः ३०/३/१९९७ पर्यन्तं) यावत् प्रधानमन्त्रित्वेन कार्यम् अकरोत् । परन्तु ततः इन्द्र कुमार गुजराल प्रधानमन्त्री अभवत् । एवं स्वस्य कार्यकालस्य अन्तिमे वर्षे श्रीशङ्करः त्रिभिः संसद्सदस्यैः प्रधानमन्त्रिशपथम् अकारयत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्विंशतितमे दिनाङ्के श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् ।
श्रीशङ्करस्य जीवनं देशसेवायै एव आसीत् । तस्य व्यक्तित्वं सर्वदा देशयूनां मार्गदर्शनं करोति । श्रीरामस्वामी वेङ्कटरामन्-महोदयेन स्वस्य कार्यकालसमाप्त्यवसरे श्रीशङ्करस्य विषये यत् उक्तमासीत्, तेन श्रीशङ्करस्य व्यक्तित्वस्य बोधः भवति । १९९२ तमे वर्षे स्वस्य कार्यकालसमाप्त्यवसरे श्रीरामस्वामी वेङ्कटरामन् अवदत् ,
मृत्युः
जीवनस्य अन्तिमेषु दिनेषु श्रीशङ्करः सन्धिरोगेण (Arthritis) ग्रस्तः अभवत्। तेन रोगेण तस्य मृत्युः तु नाभवत्। परन्तु तस्मात् रोगात् बहुपीडा सोढिता श्रीशङ्करेण। १९९९ तमे वर्षे एकाशीति-वर्षीयः श्रीशङ्करः देहम् अत्यजत्।
सम्बद्धाः लेखाः
राष्ट्रपतिः
सर्वोच्चन्यायालयः
राष्ट्रपतिभवनम्
बाह्यानुबन्धः
http://rajbhavan.maharashtra.gov.in/previous/shankardayalsharma.htm
http://www.britannica.com/EBchecked/topic/538883/Shankar-Dayal-Sharma
http://pastpresidentsofindia.indiapress.org/sharma.html
http://www.madhyaindia.com/dr-shankar-dayal-sharma-ninth-president-of-india/
http://vicepresidentofindia.nic.in/sdsharma.asp
http://www.nehu.ac.in/Acts%20&%20Ordinances/OB.14.pdf
http://politics.jagranjunction.com/2011/08/19/former-president-dr-shankar-dayal-sharma-profile/
9
काङ्ग्रेस्-पक्षस्य नेतारः
१९१८ जननम्
१९९९ मरणम् |
1212 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%A1%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%BE | कन्नडभाषा | भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम कन्नड(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
परिचयः
कन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति । कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।
वर्धनम्
दक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते ।
कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -
पूर्वहळगन्नड - अनिश्चितकालात् ७ शतकपर्यन्तम्
हळगन्नड - ७ शतकात् १२ शतकं यावत्
नडुगन्नड - १२ शतकात् १६ शतकं यावत्
होसगन्नड - १६ शतकदनन्तरम्
गते शतके कन्नडभाषाभिवृद्धिः व्यापकतया जाता इति अवगम्यते । २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड् इति मत्वा नूतनयुगमिति परिगणनीयं भवेत् । अन्तर्जाले कन्नडभाषायाः उपयोगः व्यापकतया दृश्यते ।
भौगोलिकव्याप्तिः
कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।
अधिकृतमान्यता
कन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।
कन्नडवर्णमाला
कन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।
वर्णमाला
साधाराः
बाह्यानुबन्धाः
Robert Zydenbos (2020): A Manual of Modern Kannada. Heidelberg: XAsia Books (Open Access publication in PDF format)
Description of the Kannada language
Official Unicode chart for Kannada (PDF)
History of Kannada Language and Literature
Learn Kannada
Basic sentences in Kannada
Kannada Greetings Website
Kannada Question-Answer Website
Kannada Question-Answer Website
Kannada Learning Center
Kannada phrasebook from Wikivoyage
Kannaḍa–English dictionary
Kannada Literature
Kannada Hasya Kavana Hanigavana
भारतीयभाषाः |
1214 | https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%A4%E0%A4%AF%E0%A4%83 | भारतस्य राष्ट्रपतयः | पीतवर्णीयपृष्ठभूम्या (background), (*) चिह्नेन च येषां नामानि उल्लिखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् ।
बाह्यानुबन्धाः
The President of India (Official site)
Former Presidents of India (Official site)
A Time-line view of Indian Presidents
भारतस्य राष्ट्रपतयः
सारमञ्जूषा योजनीया
सूचीलेखाः |
1222 | https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A7%E0%A4%B0%20%E0%A4%B8%E0%A5%82%E0%A4%B0%E0%A4%9C%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%A8%E0%A5%88%E0%A4%AA%E0%A4%BE%E0%A4%B2 | विद्याधर सूरजप्रसाद नैपाल | विद्याधर: सूरजप्रसाद: नैपाल: (१९३२ - ) त्रिनिदादे (ट्रिनिडाड देशे) जात:। तस्य परिवार: मूलत: भारतीय: अस्ति। इदानीं स: विश्वस्य प्रमुखलेखकेषु अन्यतम: अस्ति। स: २००१ तमे वर्षे साहित्यक्षेत्रे नोबल-पुरस्कारं प्राप्तवान्।
तस्य अनुज: शिव नैपाल अपि कश्चन: कुशल-उपन्यासकाराः आसीत्।
पुस्तकानि
उपन्यासाः
The Mystic Masseur - (1957)
The Suffrage of Elvira - (1958)
Miguel Street - (1959)
A House for Mr Biswas - (1961)
Mr. Stone and the Knight's Companion - (1963)
A Flag on the Island - (1967)
The Mimic Men - (1967)
The Loss of Eldorado - (1969)
In a Free State - (1971)
Guerillas - (1975)
A Bend in the River - (1979)
Finding the Centre - (1984)
The Enigma of Arrival - (1987)
A Way in the World - (1994)
Half a Life - (2001)
Magic Seeds - (2004)
अन्य
The Middle Passage: Impressions of Five Societies - British, French and Dutch in the West Indies and South America (1962)
An Area of Darkness- (1964)
The Overcrowded Barracoon and Other Articles (1972)
India: A Wounded Civilization (1977)
A Congo Diary (1980)
The Return of Eva Perón (1980)
Among the Believers: An Islamic Journey (1981)
Finding the Centre (1984)
A Turn in the South (1989)
India: A Million Mutinies Now (1990)
Homeless by Choice (1992, with R. Jhabvala and S. Rushdie)
Bombay (1994, with Raghubir Singh)
Beyond Belief: Islamic Excursions among the Converted Peoples (1998)
Between Father and Son: Family Letters (1999, edited by Gillon Aitken)
टिप्पणी
बाह्यसम्पर्कतन्तुः
Nobel Lecture: Two Worlds at NobelPrize.org
भारतीयलेखकाः
चित्रं योजनीयम्
स्टब्स् भारतसम्बद्धाः
सर्वे अपूर्णलेखाः |
1223 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%20%E0%A4%A8%E0%A5%88%E0%A4%AA%E0%A4%BE%E0%A4%B2 | शिव नैपाल | शिव नैपालः (1945-1985) कश्चन कुशलः उपन्यासकार: आसीत् | तस्य परिवार: मूलतः भारतीयः | स: विद्याधरसूरजप्रसादनैपालस्य अनुज: |
पुस्तकानि
Fireflies (1970)
North of South (1978)
Black and White (1980)
A Hot Country (1983)
Beyond the Dragon's Mouth: Stories and Pieces (1984).
विदेशीयव्यक्तिसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
विदेशीयाः
चित्रं योजनीयम् |
1224 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B2%E0%A4%AE%E0%A4%BE%E0%A4%A8%20%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A6%E0%A5%80 | सलमान रश्दी | सलमान रश्दी (१९४७ - ) मुम्बई-नगरे जात:। स: एक: प्रतिभाशाली लेखक: अस्ति।
Grimus Gollancz, 1975
Midnight's Children Cape, 1981
Shame Cape, 1983
The Jaguar Smile Picador, 1987
The Satanic Verses Viking, 1988
Haroun and the Sea of Stories Granta, 1990
In Good Faith Granta, 1990
Imaginary Homelands: Essays and Criticism 1981-1991
Granta, 1991
The Wizard of Oz British Film Institute, 1992
East, West Cape, 1994
The Moor's Last Sigh Cape, 1995
The Vintage Book of Indian Writing (co-editor with Elizabeth West) Vintage, 1997
The Ground Beneath Her Feet Cape, 1999
Fury Cape, 2001
Step Across This Line: Collected Non-fiction 1992-2002
Cape, 2002
Shalimar The Clown Cape, 2005
The Enchantress of Florence Cape, 2008
भारतीयलेखकाः
बाह्यानुबन्धः योजनीयः
अन्यभाषासाहित्यसम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः |
1225 | https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%82%E0%A4%9F%E0%A4%B0%20%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B8 | गुंटर ग्रास | गुंटर ग्रास (१९२७ - ) १९९९तमे साहित्यस्य नोबल-पुरस्कार विजेता अलंकृतवान्. तस्य भाषा जर्मन अस्ति.
पुस्तकानि
Danziger Trilogie
Die Blechtrommel (1959)
Katz und Maus (1961)
Hundejahre (1963)
Örtlich betäubt (1969)
Aus dem Tagebuch einer Schnecke (1972)
Der Butt (1979)
Das Treffen in Telgte (1979)
Kopfgeburten oder Die Deutschen sterben aus (1980)
Die Rättin (1986)
Zunge zeigen. Ein Tagebuch in Zeichnungen (1988)
Unkenrufe (1992)
Ein weites Feld (1995)
Mein Jahrhundert (1999)
Im Krebsgang (2002)
Letzte Tänze (2003)
बाह्यसम्पर्कतन्तुः
Günter Grass at gdansk-life.com
Günter Grass 'Bookweb' on literary website The Ledge (with suggestions for further reading)
Portrait on rosenthalusa.com
"Grass admits serving with Waffen-SS" article in The Guardian
Detailed article on Waffen-SS membership
जर्मनी-देशस्य व्यक्तयः
विदेशीयव्यक्तिसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1228 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A5%87%E0%A4%AE%E0%A4%BE%20%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%A8%E0%A5%80 | हेमा मालिनी | हेमा मालिनी (१९४८ - ) अभिनेत्री अस्ति. तस्य पति: अभिनेता धर्मेन्द्र:.
हिन्दीचलच्चित्राभिनेत्र्यः
चलच्चित्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया
जीवतव्यक्तयः
१९४८ जननम् |
1229 | https://sa.wikipedia.org/wiki/%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0 | धर्मेन्द्र | धर्मेन्द्र: (१९३५ - ) एक: प्रमुखअभिनेता अस्ति.
Biography and apparently complete filmography from www.upperstall.com
हिन्दीचलच्चित्राभिनेतारः
चलच्चित्रसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया
१९३५ जननम्
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1232 | https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%97%E0%A4%A6%E0%A5%80%E0%A4%B6%20%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AC%E0%A4%B8%E0%A5%81 | जगदीश चन्द्र बसु | अयं जगदीशचन्द्रबोसः (Jagadishchandra Bose, ; ३० नवेम्बर् १८५८- २३ नवेम्बर् १९३७) प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च । अयं १८५८ तमे वर्षे नवेम्बर्-मासस्य ३० तमे दिनाङ्के भारतस्य मेमेन्सिङ्ग् इति प्रदेशे (इदानीं बाङ्ग्लादेशे अस्ति) जन्म प्राप्नोत् ।
प्राथमिकजीवनम्
अस्य पिता भार्गवचन्द्रः फरीदपुरम् इति मण्डले सहायकन्यायाधीशः आसीत् । अनेन जगदीशचन्द्रबोसेन आरम्भिकं शिक्षणं बङ्गालीभाषया एव प्राप्तम् । अनन्तरं सः शिक्षणार्थाय भारतस्य कोल्कत्तानगरम् अगच्छत् । तदवसरे तत्र ग्रामप्रदेशात् आगतम् एतं जगदीशचन्द्रबोसम् अन्ये छात्राः उपहसन्ति स्म । कदाचित् कुपितः सः जगदीशचन्द्रबोसः तेषु बलाढ्यं कञ्चित् सम्यक् प्रहृत्य उन्नीय अक्षिपत् । तदनन्तरं कोऽपि छात्रः अस्य उपहासं न अकरोत् । महाविद्यालयस्य शिक्षणं समाप्य जगदीशचन्द्रबोसेन अग्रिमस्य शिक्षणस्य निमित्तम् इङ्ग्लेण्ड्देशं प्रति गन्तव्यम् आसीत् । किन्तु गृहे आर्थिकी परिस्थितिः तावती उत्तमा न आसीत् । अनन्तरं तस्य माता आभरणानि विक्रीय तं वैद्यशिक्षणार्थं विदेशं प्रति प्रेषितवती । तत्र इङ्ग्लेण्ड्देशे लण्डन् तथा केम्ब्रिड्ज् विश्वविद्यालयेषु अयं जगदीशचन्द्रबोसः अध्ययनम् अकरोत् । तत्र भौतविज्ञानिना लार्ड् लेलिङ्गेन प्रभावितः सन् भौतशास्त्रे आसक्तः अभवत् । ततः सः भौतशास्त्रं, रसायनशास्त्रं, सस्यशास्त्रं च अपठत् ।
कर्मजीवनम्
इङ्ग्लेण्ड्देशतः पदवीं प्राप्य भारतं प्रत्यागतः जगदीशचन्द्रबोसः कोल्कत्तानगरस्य प्रेसिडेन्सिमहाविद्यालये १८८५ तः १९१५ पर्यन्तं भौतशास्त्रस्य अध्यापकरूपेण कार्यम् अकरोत् । तत्र तादृशं गौरवं प्राप्तवत्सु भारतीयेषु अयं जगदीशचन्द्रबोसः एव प्रथमः । तदवसरे भारते ब्रिटिश्जनानां शासनम् असीत् । प्रेसिडेन्सिमहाविद्यालये ब्रिट्श्–अध्यापकेभ्यः अधिकं वेतनं, भारतीयाय अस्मै जगदीशचन्द्रबोसाय च न्यूनं वेतनं दीयते स्म । तां पद्धतिं विरुध्य सः अहिंसात्मकं प्रतिभटनम् अपि अकरोत् । बहुकालं यावत् वेतनं विना कार्यं कुर्वन् न्यायार्थं प्रतिभटनम् अकरोत् । अन्ते ब्रिटिश्–सर्वकारः सर्वेषाम् अपि समानां व्यवस्थाम् अकल्पयत् । तदनन्तरं सः जगदीशचन्द्रबोसः "बोस् संशोधनसंस्थां” प्रतिष्ठाप्य १९१७ तः १९३७ पर्यन्तं तस्याः निदेशकत्वेन कार्यम् अकरोत् ।
शोधकर्माणि
प्रकाशस्य किरणान् स्फटिकद्वारा यदा प्रवाहयामः तदा ते किरणाः वक्राः सन्तः चलनगतिं परिवर्त्य प्रतिबिम्बन्ते । केषुचित् स्फटिकेषु ते किरणाः यदा प्रवाहिताः तदा तेषां प्रतिबिम्बद्वयं दृष्टम् । सः तद्विषये एव संशोधनम् अनुवर्तितवान् । तस्य जगदीशचन्द्रबोसस्य तद्विषयकः प्रथमः लेखः "द्विप्रतिबिम्बम्” बेङ्गालसङ्घस्य एष्या-सञ्चिकायां प्रकाशितः । मैक्रो–तरङ्गानाम् उत्पादकं "वेव्-गैड्”, आकाशवाण्याः तरङ्गानाम् अपेक्षया अधिकसंवेदनायुक्तं "कोहेरर्” नामकं साधनं चापि अनेन जगदीशचन्द्रबोसेन एव निर्मितम् । तस्मिन् काले संशोधनार्थम् अपेक्षितानि उपकरणानि, प्रयोगालयाः, आधारभूतानि पुस्तकानि वा न आसन् । तथापि तस्य मेधाशक्तिः तादृशी आसीत् । अस्य जगदीशचन्द्रबोसस्य प्रतिभाम् अभिज्ञातवन्तः बहवः आङ्ग्लेयाः तम् आदरेण पश्यन्ति स्म । लार्ड् केल्विन् तथा सर् ओलिवर् इत्याख्यौ जगदीशचन्द्रबोसं लण्डन्–नगरे एव वसतु इति आह्वानम् अपि दत्तवन्तौ आस्ताम् । परन्तु देशाभिमानी जगदीशचन्द्रबोसः भारते एव अवसत् ।
जीविनां निर्जीविनां च प्रतिक्रिया
अग्रे अयं जगदीशचन्द्रबोसः सस्यानां विषये संशोधनम् आरब्धवान् । विद्युत्–प्रेरणान्तर्गतेषु जीविषु निर्जीविषु च यत् साम्यम् आसीत् तदपि संशोधितवान् । प्राणिनाम् इव सस्यानाम् अपि जीवः अस्ति । तानि अपि व्रणितानि भवन्ति । तेषाम् अपि आघातः भवति । रासायनिकानां प्रयोगेण सस्यानि अपि प्रज्ञाहीनानि कर्तुं शक्यन्ते । इति १९०१ वर्षे लण्डन्–नगरस्थायाः रायल्–सोसैट्याः अन्ताराष्ट्रिय–विज्ञानसम्मेलने प्रत्यपादयत् । "ब्रोमेट्”युक्तं द्रवम् आचूषितस्य सस्यस्य प्रतिक्रियां प्रायोगिकरूपेण अपि अदर्शयत् । सस्यानां सूक्ष्मं संवेदनम् अपि अभिज्ञातुं "रेसोनेण्ट्” नामकम् उपकरणम् अपि निर्मितवान् । अयं जगदीशचन्द्रबोसः सस्यजीवनस्य विषये स्वेन कृतान् प्रयोगान्, तेषां प्रयोगाणां फलं चापि "जीविनां निर्जीविनां च प्रतिक्रिया” (The Reaction of Living & Nonliving) इति पुस्तके उल्लिखितवान् अस्ति । तत् पुस्तकं १९०२ वर्षे प्रकाशितम् ।
आप्टिकल् पल्स् रेकार्डर्
सस्यानां क्रियाणां, प्राणिनां शरीरे प्रचलन्तीनां क्रियाणां च साम्यम् अपि जगदीशचन्द्रबोसः प्रयोगाणां द्वारा एव प्रत्यपादयत् । सस्यानि श्वासकोशाणां साहाय्यं विना एव श्वासोच्छ्वासं कुर्वन्ति । जठरं विना एव आहारं जीर्णीकुर्वन्ति । स्नायुं विना, नाडीव्यूहं विना एव कार्याणि कुर्वन्ति । इत्यादीन् अंशान् अपि अयं जगदीशचन्द्रबोसः संशोधितवान् । "आप्टिकल् पल्स् रेकार्डर्” (Optical puls Recorder) नामकम् उपकरणं निर्माय सस्येषु प्रचलन्तीनां क्रियाणां संशोधनम् अकरोत् । तेन प्रयोगेण सस्यानि अपि विद्युत्–तरङ्गान् उत्पादयन्ति । तानि अपि श्रान्तानि भवन्ति । म्रियमाणं सस्यम् अत्यन्तम् अधिकप्रमाणेन प्रबलं विद्युत्–प्रवाहम् उत्पादयति । "इङ्गालस्य डै आक्सैड्” विना सस्यानि न जीवन्ति । किन्तु तस्य प्रमाणम् अधिकं भवति चेदपि म्रियन्ते । म्रियमाणं सस्यम् आम्लजनकस्य पूरणेन जीवयितुं शक्यते । इत्यादयः विषयाः ज्ञाताः अभवन् । मादकवस्तूनां सेवनेन सस्यानि अपि मदयुक्तानि समत्वहीनानि वा भवन्ति । तदवसरे निद्राय अनन्तरं जागरितानि भवन्ति च । जागरणस्य अनन्तरं तानि समस्थितिम् आप्नुवन्ति । सस्यानि अपि परिसरतः शक्तिं प्राप्य कार्याणि कुर्वन्ति । अवशिष्टां शक्तिं तथैव सङ्गृह्णन्ति इत्यपि सः जगदीशचन्द्रबोसः संशोधितवान् ।
क्रेस्कोग्राफ्
अयं जगदीशचन्द्रबोसः १९१८ वर्षे "क्रेस्कोग्राफ्” नामकम् उपकरणं निर्माय सस्यानां चलनं संशोधितवान् । एकनिमेषाभ्यन्तरे सस्यस्य शरीरे याः क्रियाः सम्भवन्ति ताः अपि अभिज्ञातुं समर्थम् आसीत् तत् यन्त्रम् । प्रख्यातः फ्रेञ्च् विज्ञानी अस्य जगदीशचन्द्रबोसस्य संशोधनानां फलितांशम् अवलोक्य “मूकान् अपि प्राणिनः अयं जगदीशचन्द्रबोसः वाक्चतुरान् अकरोत्” इति उक्तवान् आसीत् । सस्येषु जलस्य ऊर्ध्वचलनस्य सम्बद्धं "स्पन्दनसिद्धान्तं” (Pulsation theory) १९२३ तमे वर्षे अमण्डयत् । सस्येषु जलं जीवकोषाणां द्वारा एव ऊर्ध्वमुखं गच्छति । तदवसरे सस्येषु प्राणिनां हृदये इव सङ्कुचनं विकसनं च जायते इत्यपि तस्य यन्त्रस्य द्वारा संशोधितवान् । तेषां सर्वेषां विषयाणां प्रचारार्थं पुनः पुनः बहून् देशान् अगच्छत् । १८९७ तम् वर्षे ६ मासान् यावत् इङ्ग्लेण्ड्देशे आसीत् । अयं जगदीशचन्द्रबोसः १९०० तमे वर्षे प्यारिस्–नगरे प्रचलिते "यूरोपस्य विज्ञानगोष्ठ्याम्” अपि भागम् अवहत् । तेन जापान्, अमेरिका, यूरोप् इत्यादिषु देशेषु अपि सस्यविज्ञानं प्रसृतम् । अयं जगदीशचन्द्रबोसः न केवलं विज्ञानक्षेत्रे कार्यम् अकरोत् अपि तु बङ्गालीसाहित्यक्षेत्रे अपि महत् कार्यं कृतवान् आसीत् । १९११ वर्षे प्रवृत्तस्य बङ्गालीसाहित्यसम्मेलनस्य अध्यक्षः अपि आसीत् । तदवसरे तेन जगदीशचन्द्रबोसेन “विज्ञानं तथा साहित्यम्” इति विषयम् अधिकृत्य भाषणं कृतम् आसीत् । अस्मै जगदीशचन्द्रबोसाय लण्डन्–नगरस्य रायल्-सोसैटी १९२० तमे वर्षे "फेलोशिप्” दत्त्वा सम्माननम् अकरोत् । ब्रिटिश्–जनाः अपि तस्मै "सर्” इति बिरुदम् अदास्यन् । अयं जगदीशचन्द्रबोसः १९३७ तमे वर्षे नवेम्बर्–मासस्य २३ तमे दिनाङ्के इहलोकम् अत्यजत् ।
बाह्यसम्पर्कतन्तुः
Bose Institute Website
Biography at Calcuttaweb
SIR JAGADISH CHANDRA BOSE: the unsung Hero of Radio Communication at web.mit.edu J. C. Bose, The Unsung hero of radio communication
JC Bose: 60 GHz in the 1890s
Science Magazine on Bose priority
Article on Jagadish Chandra Bose , Banglapedia
IEEEGHN: Jagadish Chandra Bose at www.ieeeghn.org
ECIT Bose article at www.infinityfoundation.com
INSA publication
Radio history
Vigyan Prasar article
Frontline article
India's Great Scientist, J. C. Bose
Acharya Jagadis Chandra Bose at www.vigyanprasar.gov.in
Jagadish Chandra Bose materials in the South Asian American Digital Archive (SAADA)
Entry on Bangla science fiction by Bodhisattva Chattopadhyay in The Science Fiction Encyclopedia
भारतीयविज्ञानिनः
पश्चिमवङ्गस्य विज्ञानिनः |
1233 | https://sa.wikipedia.org/wiki/%E0%A4%90%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%20%E0%A4%B0%E0%A5%88 | ऐश्वर्या रै | ऐश्वर्या राय (१९७३- ) विश्वसुन्दरी प्रसिद्धा अभिनेत्री च अस्ति । तुळुभाषाप्रन्ते मङ्गळूरुसमीपे अस्याः मूलग्रामः अस्ति वाणिज्योद्यमेषु ख्याताः बण्ट कुटुम्बस्य पुत्री एषा |
चलचित्राणि
इरुवर (तामिळ) (१९९७) : प्रथमं चलचित्रम्
और प्यार हो गया (१९९८)
जिन्स (Jeans) (१९९८)
आ अब लौट चलें (१९९९)
हम दिल दे चुके सनम (१९९९)
ताल (१९९९)
हमारा दिल आपके पास है (२०००)
जोश (२०००)
मोहब्बतें (२०००)
ढाई अक्षर प्रेम के (२०००)
अलबेला (२००२)
हम किसीसे कम नहीं (२००२)
२३ मार्च १९३१: शहिद भगत सिंग (अतिथि कलाकारः) (२००२)
शक्ति - द पावर (अतिथि कलाकारः) (२००२)
देवदास (२००२)
दिल का रिश्ता (२००२)
हम पंछी एक डालके (२००२)
ऱाधेशाम सिताराम (२००२)
चोखेर बाली (बंगाली)(२००३)
कुछ ना कहो (२००३)
खाक़ी (२००४)
क्यों...! हो गया ना? (२००४)
ब्राईङ् अँण्ङ प्रिज्युङिस (Bride and Prejudice) (२००४)
रैऩकोट- Raincoat (२००४)
बंटी और बबली (अतिथि कलाकारः) (२००५)
मिस्ट्रैस आँफ स्पाईसेस - Mistress Of Spices (इंग्ग्लिश) (२००५)
#### आगमनियः चलचित्रौः #### ***
प्रोव्होक्ड् - Provoked (२००६)
द हार्ट आँफ इण्डिया - The Heart Of India" (२००६)
द लास्ट लिजऩ - The Last Legion" (इंग्ग्लिश) (२००६)
धूम - २ (२००६)
जोधा-अकबर (२००६)
गुरु (२००६)
सिंग्युल्यारिटी - Singularity (इंग्ग्लिश) (२००६)
द रेबल - The Rebel (२००७)
चाओस - Chaos (इंग्ग्लिश) (२००७)
टिप्पणी
बाह्यसम्पर्काः
Photos of Aishwarya Rai
Wallpapers of Aishwarya Rai
Internet DataBase (IMDb) entry of Aishwarya Rai
IMDB biography
www.aishwaryarai.com - Aishwarya fansite
Aishwarya Rai Directory
Aishwarya Rai Link Collection
राय, ऐश्वर्या
जीवतव्यक्तयः
१९७३ जननम् |
1235 | https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%B0%E0%A4%A4%E0%A4%83%20%28%E0%A4%A8%E0%A4%BE%E0%A4%9F%E0%A5%8D%E0%A4%AF%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A3%E0%A5%87%E0%A4%A4%E0%A4%BE%29 | भरतः (नाट्यशास्त्रप्रणेता) | भरत मुनिः (Bharathamuni) ५०० ई पू काले जीवन् नाट्यशास्त्रम् लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञातः,न गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदाः सन्ति।केचन पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।
मूलतः भरतस्य ग्रन्थसय विषयः नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयोः विद्ययोः सम्मेलः आसीत्।अनयोः द्वयोः विद्ययोः अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्तः अद्यावधि अतुलनीयः अपराजितः च विद्यते।
सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वराः सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धारः काकलीनिषादः च)स्तः।भरतस्य ग्रन्थः उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूतः।
उपोद्घातः
नाटकं तावद्भद्वति परा विद्या। तत्र नाटके क्रियापक्षं (प्रयोगपक्षम्) यथा भवति तथैव ज्ञानपक्षमपि भवति। ज्ञानपक्षस्याधारेण नाटकं भवति वेदस्तथा क्रियापक्षस्याधारेण शास्त्रम्। नाट्यवेदस्य क्षेत्रं तावद्भवति अभिज्ञानशकुन्तलादीनि आलेखानि यानि भरतमुनिना नाट्यशास्त्रस्यादितः अन्त्यं यावत् ’काव्यम्’-इति परिभाषितानि। एतेष्वेव भवति संसारे कर्तव्याकर्तव्यविधिनिर्देशविधानम्। तस्मादेव वेदस्य स्थानं शीर्षे निर्धारितम्-
“प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता॥” इति।
विधिनिषेधनिर्देशविधौ सहायपरकं भवति नाट्यशास्त्रम्। अयं जातो नट्यवेद-नाट्यशास्त्रयोर्भेदः।
भरतस्य नाट्यशास्त्रे कदाचिदेवमेव संकेतः प्राप्यते यत् नाट्यप्रवृत्तिर्जगति सृष्टेरादिकालमेव सञ्जाता। अत एव नाट्यशास्त्रे स्थाने स्थाने नाट्यशास्त्रस्य प्रथमाचार्यः सृष्टिकर्ता स्वयम्भूः पितामह स्वीकृतः।
नाट्यतत्त्वम्
ननु किमिदं नाट्यं नाम? नाट्यशब्दे मूलं तावद्धातुः ’नट’ इति। “अवस्पन्दः” “किञ्चित्स्पन्द” इति वा तदर्थः। अवस्पन्दः किञ्चित्स्पन्दः वा तथा स्यात् यः अर्थद्योतको भवेत्। किमिदं प्रतिपाद्यं वस्तु? अस्योत्तरमेवमुक्तं – रसाः भावाः कर्तव्यतावोधश्च। तत्र ष्यञ्प्रत्ययेन, ण्यत्प्रत्ययेन, ञ्यप्रत्ययेन च सिद्ध्यति नाट्यशब्दनिष्पत्तिः।
ष्यञ्प्रत्ययेन निष्पन्नस्य नाट्यशब्दस्यार्थो भवति नटस्य गुणाः तथा कर्म (क्रिया), ण्यत्प्रत्ययनिष्पन्नस्य नाट्यशब्दस्यार्थस्तावद् नाट्यव्यापारः, किन्तु ञ्यप्रत्यययोगेन नटानामाम्नायमिति। अतो त्रीनर्थानेकत्रीकृत्य नाट्यशब्दस्यार्थो भवति नाटानां स्वाम्नायानुसारं विहिता अभिनयव्यापारः। अर्थोऽयं भरतमुनिनापि समर्थितः।
नाट्यशास्त्रे त्रयोदशाध्यायः
नाट्यशास्त्रस्य द्वितीये तावदध्याये अष्टमे तावच्छ्लोके नाट्यमण्डपस्य त्रैविध्यं वर्णितं भरतेन -
“इह प्रेक्षगृहाणां तु धीमता विश्वकर्मणा।
त्रिविधः सन्निवेशश्च शास्त्रतः परिकीर्तितः॥”
अत्र नाट्यमण्डपस्य आकारत्रयं भवति १. विकृष्टं नाम प्रेक्षागृहम्, २.चतुरस्रं नाम प्रेक्षागृहम्, ३. त्र्यस्रं नाम प्रेक्षागृहम्। एतेषां च प्रमाणमपि भवति त्रिविधं ज्येष्ठमध्यमाधमभेदेन। अत्र त्रयोदशे तावदध्याये प्रथममुच्यते यत् प्रेक्षागृहस्य भेदत्रयान् सम्यगवबुद्ध्य तत्पश्चात् कक्ष्यानिश्चयो विधेयः इति। द्वितीयाध्याये नाट्यमञ्चस्य द्वारसंस्थपनविषये उक्तं भरतेन-
“रङ्गशिर्षं तु कर्तव्यं षड्दारुकसमन्वितम्।
कार्यद्वारद्वयं चाऽत्र नेपथ्यगृहकस्य तु॥”
नेपथ्यगृहम्
रङ्गशीर्षम्
दारुस्थम्भाः
ऊपरि दारु
निचला दरु
रङ्गशीर्षं तु भवेत् अतिसज्जितं षड्दारुसमन्वितम्। तेन एव नेपथ्यगृहं प्रति गमनार्थं द्वारद्वयस्य निर्माणमावश्यकम्। इदानीमत्र त्रयोदशेऽध्याये उच्यते भरतेन मुनिना यदत्र तयोः द्वारयोर्मध्ये एव भाण्डस्य वाद्ययन्त्राणां विन्यासः करणीयः इति। कक्ष्याविभागो भवति रङ्गपीठस्य चतुसॄषु दिक्षु एव। किन्तु मत्तवारिणीरङ्गशीर्षयोर्मेलनेन या परिक्रमाभूमिः शिष्यते सा तु द्वितीया कक्षा बोद्धव्या। अर्थात् प्रथमा तावत् कक्षा एव रङ्गपीठम्।
नाट्याभिनयसमये प्रस्तूयमानायाः घटनायाः सम्बन्धिनः नगर-वन-देश-पर्वतान् कक्षाद्वारेण एव प्रयोजयेत्। कक्ष्याविभागे ते एव आभ्यन्तरा उच्यन्ते ये हि पूर्वमेव मञ्चं प्रविष्टाः। एवमेव बाह्यास्ते ये अनन्तरं प्रविष्टाः। यस्यां दिशि भाण्डस्य मुखं भवेत् तस्यामेव दिशि नेपथ्यगृहस्यापि मुखं स्यात्। सा च पूर्वस्यां दिशि एव भवेत् इति नाट्यशास्त्रस्य नियमः। तेन द्वारेण यः नेपथ्यात् रङ्गपीठं प्रति गमिष्यति, स तु तेनैव मार्गेण प्रत्यागच्छेत्। तथैव विधानं प्रदत्तं नाट्यशास्त्रे भरतेन मुनिना-
“निष्क्रमेद् यश्च य्स्माद् वै स तेनैव तथा व्रजेत्।
यतस्तस्य कृतं तेन पुरुषेण निवेदनम्॥” इति।
नाटके दिव्यपुरुषाणां यातायातं नगरे वा वने वा भवतु, उत, पर्वते सागरे वा, सदा तु आकाशयानेन एव उपस्थापितव्यम्। तदिदं गमनं एकवर्षाभ्यन्तरे भवतु, अन्यस्मिन् वा वर्षे; तथैव एकस्मिन्नेव द्वीपे भवतु द्वीपान्तरे वा भवतु तद्गमनम्।
नाटके दिव्ययोनिपात्राणि एव भूमौ विचरन्ति, किन्तु गुप्तरूपेण प्रच्छन्नरूपेण वा। तस्मादेव देवयोनीनां सर्वस्मिन्नेव काले देशे च गमनं सुकरमेव। मनुष्याणां गमनागमनं तु भारतवर्षे एव सीमीतं भवति, आधिक्येन तु मनुष्याणां यातायातं हिमालयस्य श्रेष्ठं पर्वतं कैलासनामकं यावद्भवितुमर्हति। अत एव निर्दिष्टं भरतेन तदीये नाट्यशास्त्रे-
“भारते मनुष्याणां तु गमनं संविधीयते।
हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे॥” इति।
नाट्यशास्त्रे यक्ष-गुह्याक-कुवेराश्च हिमवतो वर्षस्य प्राणित्वेन स्वीकृताः। तथाहि भरतमुनिभणितिः नाट्यशास्त्रे-
“यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये।
रक्षोभूतपिशाचाश्च सर्वे हैमवताः स्मृताः॥” इति।
गन्धर्वाणामप्सरसां च निवासः हेमकूटे पर्वते। नागानां समेषां तु निवासस्थलं निर्धारितं निषधपर्वतः। तत्रैव च वासुकिः शेषनागश्च निवसतः। पुनश्च, महामेरुपर्वते निवासः त्रयस्त्रिंशद्देवानाम्। ते हि त्रयस्त्रिंशद्देवाः-
१२ आदित्याः (प्रत्येकस्य मासस्य एकैक आदित्यः)
११ रुद्राः
८ वसवः
३१
२ सन्धिदेवते (१- आदित्यः+रुद्रः
२- रुद्रः+वसुः+रुद्रः)
३३ देवाः
दैत्यानां दानवानां च कृते वासस्थानमस्ति निर्धारितं श्वेतपर्वते। शृङ्गवान्-पर्वते च निवासः पितरदेवस्य। अयमेवास्ति पर्वतश्रेष्ठः। अस्मिन्नेव दिव्ययोनयः प्राणिनो निवसन्ति।
एतेषां दिव्यभावानां दिव्यचेष्टानां स्वचेष्टितानीति न मन्तव्यं, नापि तेषां पराक्रमं स्वपरक्रमं मन्यमानैर्मनुष्यैः तेषामनुकरणं विधातव्यम् इति नाट्यशास्त्रकारभणितिः। नाटके मनुष्याणां सर्वे एव गुणास्तु देवेषु आरोपणीया एव। किन्तु तेषाम् अनिमिषत्वस्योपस्थापनं नोचितं नाट्यमञ्चे-”तेषां त्वनिमिषत्वं यत् तत्र कार्यं प्रयोक्तृभिः” इति नाट्यशास्त्रे। तत्र देवानामनिमिषत्वप्रदर्शननिषेधकारणं तावदुच्यते भरतेन-
“इह भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः।
द्रुष्ट्या हि सूचितो भावः पश्चादङ्गैर्विभाव्यते॥” इति।
ये खल्वस्माकं भावाः सन्ति ते त्वस्माभिः दृष्ट्या एव अभिनीयन्ते। अतो दृष्ट्यभिनयाश्रितास्ते भावाः। एवमेव रसप्रसङ्गेऽपि। आङ्गिकाभिनयेन स एवाभिप्रायः अभिनीयते यद्धि पूर्वं दृष्ट्याभिनयेन सूचितम्।
एवं नाट्यशास्त्रस्य त्रयोदशेऽध्याये प्रथमतः कक्ष्याविभागं प्रदर्श्येदानीं प्रवृत्तिं प्रदर्शयितुं प्रवर्तते मुनिर्भरतः-
“पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनां तु लक्षणाम्” इति।
प्रवृत्तिः
नाट्यप्रयोक्तृभिः प्रोक्ताः प्रवृत्तयश्चात्र चत्वारः -
१. आवन्ती,
२. दाक्षिणापत्या,
३. पाञ्चाली,
४. ऊढ्रमागधी च।
ननु केयं वृत्तिरिति प्रश्ने प्रथमं वृत्तिस्वरूपं स्पष्टयति भरतमुनिः। पृथीव्यां नानादेशस्य ननाभाषावेषभूषणादिनां वैचित्र्यं वर्तत एव। अत्र तेषां वार्ताः नाटके ख्यापयति वृत्तिः। अपरतो निवृत्तिश्च भवति निवेदनम्। “प्रवृत्तिश्च भवति निवेदनम्” इति नाट्यशास्त्रे भरतमुनिनोक्तम्। पुनरत्र सन्देहोऽयमुदेति य पृथीव्यां तु देशस्य संख्या बह्वी एव। अपि चाप्यपरतः एतेषां प्रयोगव्यवहारोऽपि सादृश्यमेवावहति। तथापि कथं चत्वार एव भेदाः तदाचारभेदप्रदर्शिण्याः प्रवृत्तेरिति। अत्र नाट्यसास्त्रकृतोत्तरम् एवम् उपस्थाप्यते-
“तत्तु सत्यम्, आसां सामान्यलक्षणप्रयोगः, किन्तु नानादेशविशेषो भाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य मया चतुर्विधत्वमभिहितं भारती, आरभटी,सात्त्वती, कौहिकी चेति” इति।
नाट्यशास्त्रकृता तदीयग्रन्थस्य पञ्चविंशतितमेऽध्याये प्रमाणत्रयस्योल्लेखः कृतः। तदनुसारं लोक एवैकं प्रमाणम्।
“लोको वेदस्तथाध्यात्मं प्रमाण्ं त्रिविधं स्मृतम्। वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम्॥” इति।
अत्र प्रमाणत्रयं भवति १. लोकः, २. वेदः, तथा ३. अध्यात्मम्। पुनर्नाटकं भवति लोकात्मकम्। लोके यद्भवति सिद्धं तदेव नाटकेऽपि सिध्यति। लोके एतेषां चतुर्णामेव अनुमोदनमस्ति, तस्मादेव प्रवृत्तेः भेदाश्चत्वारः समुपस्थापिताः नाट्यशास्त्रकृता-
१. भारतीवृत्तिः
२. आरभटीवृत्तिः
३.सात्त्वतीवृत्तिः
४.कौशिकी वृत्तिश्च।
वृत्तिमादाय प्रचलति चेत् प्रयोगः तस्मादेव प्रयोगात् तद्देशस्य परिचयो ज्ञायते। तत इदानीं प्रवृत्तीनां चतूर्णां वृत्तीनां व्याख्यानमुपस्थापयति नाट्यशास्त्रकारः।
दाक्षिणात्या
दाक्षिणात्या हि लोका कौशिकीवृत्तेः प्रयोगमधिकं विदधन्ति। तथा नाट्यप्रयोगेषु नृत्यगीतवाद्यानामुपयोगस्तत्राधिक्येन भवति। तेषामाङ्गिकाभिनयोऽपि चातुर्यमाधुर्यललित्यसमन्वितं भवति। दाक्षिणात्यमित्युक्ते केषां क्षेत्राणां तावद्ग्रहणमिति स्पष्टीक्रियते नाट्यशास्त्रे-
“महेन्द्रो मलयः सह्यो मेकलः कालमञ्जरः।
एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः॥ इति।
“कोसलास्तोसलाश्चैव कलिङ्गा यवनाः खसाः।
द्रमिडन्ध्रमहाराष्ट्रा वैण्णा वै वानवासजाः॥” इति।
महेन्द्र-मलय-सह्य-मेखल-कालमञ्जराः पर्वतः दाक्शिणात्ये देशेऽन्तर्भवति। कोसल-तोसल-कलिङ्ग-यवन-खस-द्रमिड-आन्ध्र-महाराष्ट्र-वैण्ण-वाराण्सीत्येतेऽपि दाक्षिणात्ये। अत्र कोस्लेत्यनेन दक्षिणकोसलो बोध्यव्यः । दाक्षिणात्यप्रदेशस्य विस्तारस्तावद् विन्ध्यपर्वतादारभ्य दक्षिणसमुद्रपर्यन्तम्। नियमोऽयं नित्य एव यदस्मिन् भूभागान्तर्वर्तिन्यः देशास्तु दाक्षिणात्या इति कथयिष्यन्ते।
आवन्तिका
आवन्तिकावृत्तेः प्रयोगो भवत्याधिक्येन उज्जयिन्यां विदिशादेशे, सौराष्ट्रीयैः, मालववासिभिः, सैन्धवे देशे, सौवीरैः, आनर्त्ते, तथा च त्रैपुरैः मार्तिकावतैश्च। एतेषु देशेषु नाटकप्रयोगविषये विशेषमिदमस्ति यत् अत्रत्यैस्तु नाटके सात्त्वतीवृत्तिं तथा कौशिकवृत्तिं चाश्रित्य प्रयोगो विधीयते प्रयोगः। अन्यत्र प्रदेशेषु नैवं व्यवहारो भवति। तथाहि भरतमुनिभणितिः -
आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा।
सैन्धवास्त्वथ सौवीरा आनर्त्ताः सर्बुदेयकाः ॥ इति।
औढ्रमागधा
औढ्रमागधीप्रवृत्तिस्तावद्व्यवह्रियते अङ्ग-वङ्ग-कलिङ्ग्-वत्स-उढ्रमागध-पौण्ड्र-नेपाल-अन्तर्गिर-बहिर्गिर-प्लवङ्गम-मलद-मल्लवर्त्तक-भार्गव-मार्गव-प्राग्ज्योतिष-पुलिन्द-वैदेह-ताम्तलिप्तक-प्राङ्ग-प्रवृत्त्यादिषु स्थलेषु।
पाञ्चाली प्रवृत्तिः
यानि तावत्स्थानानि पाञ्चालदेशे, शूरसेनदेशे, काश्मीरप्रदेशे, हस्तिनापुरे बाह्लीकप्रदेशे (आफगानिस्तानप्रदेशे वा) वर्तन्ते, तथा च ये देशाः शाकलमद्र-कुशनीर-गङ्गायाया उत्तरस्यां दिशि हिमवति पवते अवतिष्ठन्ते तेषु एव प्रदेशेषु प्रवर्तते पाञ्चाली-वृत्तिः।
“पाञ्चालाः सौरसेनाश्च काश्मीरा हास्तिनापुराः।
बाह्लीकाः शाकलाश्चैव मद्रकौशीनरश्च॥” इति।
पाञ्चालमध्यमायां प्रवृत्तौ वृत्तिर्भवति सात्त्वती आरभटी च। रङ्गपीठस्य जर्जरपूजाया अनन्तरं या परिक्रमा भवति तस्या द्वैविध्यमुक्तं नाट्यशास्त्रे। तत्र प्रथमस्तावत्प्रकारो यत्र प्रवेशः वामपार्श्वतः क्रियते, द्वितीये च प्रकारे प्रदक्षिणं न भवत्येव। अवन्त्यां दाक्षिणात्यां च प्रवृत्त्यां प्रदक्षिणं वामपार्श्वतः क्रियते। तद्विरुद्ध्यां पाञ्चाल्यां तथा औढ्रमागध्यां दक्षिणपाश्वतः प्रदक्षिणविधिः। अवन्त्यां दाक्षिणात्यां च पार्श्वद्वारो भवेदुत्तरी, पाञ्चाल्यां औढ्रमागध्यां च स दक्षिणी। प्रयोक्तारः आदौ एतान् सर्वान् विषयान् एकत्रीकृत्य प्रयोजयेत् कर्मणि, तदा तु ध्यानं तेषां अर्थयुक्तौ तथा पर्षदि तथा देशकालेऽपि इति निर्देशः नाट्यशास्त्रकारस्य। अपि च यस्मिन् देशे यस्याः प्रवृत्तेः विधानं विद्यते तत्र तस्यैवानुसरणं कर्तव्यम्। यदा च सर्वाः वृत्तयः प्रवृत्तयश्च एकत्रीभवन्ति तदा तु वृत्तिवाहुल्यं विचार्य कर्मणि प्रयोजयेत् विज्ञः।
अत्रायं प्रयोगः पुनः द्विविधः
१. सुकुमारः
२. आविद्धश्च
३. आविद्धानि
आविद्धानि हि तानि उच्यन्ते यत्र छिन्नभिन्नात्मकं भयंकरं युद्धं प्रस्तूयते। यद्भवति मायेन्द्रजालादिवृत्तपूर्णम्, यत्र च पुरुषपात्राणामधिक्यं स्यात्, नारीपात्राणाञ्च अनाधिक्यम्। अतोऽत्र सात्त्वती आरभटी च वृत्तिः। एतादृशं नाटकं भवति आविद्धम्। अस्य प्रयोगह् कर्तव्यः देवदानवराक्षसपात्रद्वरेण। शौर्यवीर्यबलसमृद्धः पुरुषोऽपि अत्र योजयितुं शक्यः।
सुकुमारः
मनुष्यैरुपस्थाप्यन्ते सुकुमारप्रकृतिकानि नाटकानि हि- नाटकं, प्रकरणम्, भाणम्, तथा वीथिः, अङ्कश्च।
“नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च।
सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि॥” इति।
यत्र नाटकस्य वाह्यप्रयोगो विधीयते नाटकस्य, तत्र तु नाट्यशास्त्रोक्तदिशि नापि भवितुमर्हति रङ्गपीठम्। तत्र तु स्वामिन इच्छा एव बलीयसी।
एवं नाट्यप्रयोगमुक्त्वा धर्मीविभागं दशयति भरतमुनिः
“धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः
लोकैकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम्” इति।
धर्मी तावद्द्विविधा लौकिकी नाट्यधर्मी च। इतिप्रकारं नाटकभेदमुक्त्वा तद्भेदान् प्रदर्शयति नाट्यशास्त्रकारः।
लोकधर्मी प्रवृत्तिः
लोकधर्मिप्रवृत्तौ नाटकं यद्भवति तत्र अभिनयस्तथा अभिनेयं स्वाभाविकमेव अविकृतं विद्यते। अत्र नाटकीयपात्राणि बहूनि एव भवन्ति। अत्र लोके साधारणतया घटिताः घटना एवोपस्थाप्यन्ते। अत्राङ्गहाराः लीलारहिता एव भवन्ति।
नाट्यधर्मी प्रवृत्तिः
नाट्यधर्मिप्रवृत्त्यौ पात्राणि स्वाद्बहिरेव कल्प्यन्ते। अत्र गतिक्रिया वाद्यादिक्रियापि भवन्ति। अस्याङ्गहारे लीला भवन्ति, नट्यं ताललयादीनामपि तत्र विद्यमानत्वम्।
त्रयोदशाध्यायस्यान्ततः अभिनयविषये कथयति भरतमुनिः यत् जनानां सहजो भाव एवाभिनयः इति। तस्मिन्नेव सहजे भावे अङ्गादीनामलंकाराणां समावेश एव नाट्यधर्मी प्रवृत्तिः। एवमत्र नाट्यशास्त्रीये त्रयोदशेऽध्याये प्रयुक्तानां कक्ष्याविभागविषयान् सम्यगवधार्य नाटकं प्रयोजयेत् धीमान् इति नाट्यशास्त्रकारनिर्देशः।
एवं नाट्यशास्त्रे त्रयोदशे तावदध्याये ग्रन्थकृता भरतेन कक्ष्याविभागविषये सविस्तारं स्वमतमुपस्थाप्य प्रवृत्तिभेदान् तत्स्वरूपञ्च सम्यगुपस्थापितमिति शिवम्।
प्रणेतारः
दत्तिलमुनिः
मतङ्गमुनिः
शार्ङ्गदेवः
सम्बद्धाः लेखाः
आलङ्कारिकाः
आनन्दवर्धनः
उद्भटः
अभिनवगुप्तः
बाह्यसम्पर्कतन्तुः
आलङ्कारिकाः
चित्रं योजनीयम्
बाह्यानुबन्धः योजनीयः
सारमञ्जूषा योजनीया
परिशीलनीयानि |
1236 | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%AD%20%E0%A4%AC%E0%A4%9A%E0%A5%8D%E0%A4%9A%E0%A4%A8 | अमिताभ बच्चन | अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति ।
१९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् मान्” (Angry Young Man) मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः ।
बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति ।
बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।
आरम्भिकं जीवनम्
अमिताभः मूलतः हिन्दू-सिख् कुले जातः । तस्य जननम् उत्तरप्रदेशस्य अलहाबाद् प्रदेशे अभवत् । अस्य पिता डा ॥ हरिवंशराय बच्चन हिन्दीभाषायाः प्रख्यातः कविः । माता तेजिबच्चनः फैसलाबाद्-प्रदेशस्य (अधुनातने पाकिस्थानदेशः) सिख्-पञ्जाबिकुटुम्बतः अस्ति ।
भारतस्य स्वातन्त्र्यसङ्ग्रामस्य वेलायां प्रसिद्धिं गतायाः इन्खिलाब् जिन्दाबाद् इति घोषणायाः स्फूर्त्या अमिताभस्य नामकरणं पूर्वम् इन्खिलाब् इत्येव कृतमासीत् । ततः परम् अमिताभः इति पुनर्नामकरणं जातम् । तस्य अर्थः “शाश्वतदीपः” इति । बच्चन्-वंशस्य नाम यद्यपि श्रीवास्तव इति वर्तते तथापि तस्य पिता बच्चन् इति नाम एव चित्वा तेनैव नाम्ना सर्वाणि पुस्तकानि प्राकाशयत् ।
अमिताभः चित्ररङ्गं तस्य नाम्नः उत्तरार्धभागद्वारा एव प्राविशत् । सार्वजनिकानाम् उद्देशानां निमित्तं तस्य कुटुम्बस्य सर्वे सदस्याः बच्चन् इत्येतदेव नाम अरक्षन् । हरिवंशरायबच्चनस्य पुत्रद्वये अमिताभः ज्येष्ठः अजिताभः कनीयान् । बच्चनस्य मातुः रङ्गभूमिक्षेत्रे अत्यन्तम् आसक्तिरासीत् । चलनचित्रे अभिनेतुम् अवसरोऽपि प्राप्तः आसीत् । किन्तु सा प्रवेशम् अकृत्वा गृहिणी एव अतिष्ठत् । अमिताभस्य चित्र-वृत्तिजीवनचयने तस्य मातुः प्रभावोऽप्यासीदेव । यतो हि तया पुत्रः सर्वेषाम् आकर्षणकेन्द्रबिन्दुतां प्राप्नुयात् इति काङ्क्षितमासीत् ।
स्वस्य आरम्भिकं शिक्षणम् अलहाबाद् प्रदेशस्य ज्ञानबोधिनी तथा बालक-प्रोढ-शालायाम् (BHS) असमापयत् एषः । अग्रे कलाविषयं प्रधानतया चित्वा नैनिताल् प्रदेशस्य शेर्वुड्महाविद्यालये अधीतवान् । तत्पश्चात् पदवी-विद्याभ्यासाय देहली-विश्वविद्यालयस्य किरोरि-माल्-कालेज् इति स्थलं गत्वा 'ब्याचलर् आफ् सैन्स्' (B.Sc.) पदवीं प्राप्नोत् । कल्कत्ता (अधुना कोल्कता) ‘मूलस्य बर्ड् अण्ड् को’ इत्याख्यायाः संस्थायाः वाणिज्य-नौकासामग्रि-सम्प्रेषणस्य मध्यवर्ती-कार्यं कुर्वता अनेन स्वीये विंशतितमे वयसि अभिनयवृत्तिं सारयितुम् इच्छता उद्योगात् विश्रान्तम् ।
जीवनम्
१९६९तमे वर्षे ‘सात् हिन्दूस्तानि’ चित्रस्य सप्त नायकेष्वन्यतमः भूत्वा बच्चनः चित्ररङ्गं प्रविष्टवान् । उत्पलदः मधुः जलालः आघा इयादीनां तारागणेन युक्तं चित्रमिदं ख्वाजा अहमद् अब्बास् इत्येतस्य महाशयस्य निर्देशनयुक्तं वर्तते । आर्थिकदृष्ट्या यद्यपि चित्रमिदं यशस्वितां नाप्नोत् तथापि तस्य चित्रेऽस्मिन् नटनाय प्रथमवारम् ‘अत्युत्तमः नवनटः’ इति राष्ट्रियप्रशस्तिं अमिताभः आसादितवान् ।
तत्पश्चात् राजेश् खन्ना इत्येतेन सह अभिनीतम् 'आनन्द' (१९७१) चित्रं वाणिज्योद्देश्येन यशस्वितां विमर्शकानां प्रशंसां चापि आप्नोत् । अस्मिन् चित्रे अनेन निरूढं जीवनस्य विषये विभिन्नदृष्टिकोणयुतं वैद्यस्य पात्रं तस्मै फिल्म्फेर्-अत्युत्तम-पोषकनटप्रशस्तिं समानयत् । पश्चात् अमिताभः 'पर्वाना' (१९७२) चित्रे नवीन्निस्कोलः योगिताबालि ॐप्रकाशः इत्यादीनां तारागणे अविवेकिनः प्रेमिणः पात्रे अभिनीतवान् ।
अमिताभस्य खलनटस्य पात्रे अभिनयाय इदमपरूपमुदाहरणम् । तत्पश्चात् निर्मितानि रेश्मा और् शेरा(१९७१) इत्यादि बच्चनेन अभिनीतानि अनेकानि चित्राणि चित्ररङ्गक्षेत्रे विशेषं यशः नाविन्दन्त । अस्मिन् एवावसरे नटेन धर्मेन्द्रेण तथा भाविन्या पत्न्या जयाबादुर्या सह गुड्डि इति चित्रे अतिथिनटो भूत्वा बच्चनः अदृश्यत । आरम्भिके वृत्तिजीवने स्वस्य अपूर्वेण ध्वनिना सर्वेषां ध्यानम् आकृष्टः अयं ‘बावर्चि’ चित्रस्य भागमेकमपि निरूपितवान् वर्तते । १९७२तमे वर्षे प्रयाणस्य सन्निवेशयुक्ते, साहसमये हास्यमये च एस्.रामनाथन् महाशयेन निर्देष्टे बाम्बे टु गोआ चित्रे असावभिनीतवान् । अस्मिन् चित्रे अरुणा इरानी मेह्मूद् अन्वर् अलि नासिर् हुसेन् इत्यादिभिः सह बच्चनः अनटत् ।लण्डन्-नगरे बच्चनस्य ‘व्याक्स्’ इति वस्तुना निर्मिता प्रतिमा काचिद्वर्तते ।
तारापट्टारोहणसोपानम् (१९७३-१९८३)
१९७३तमे वर्षे प्रकाश् मेह्रा इत्येतेन निर्देष्टे जञ्जीर् चित्रे इन्स्पेक्टर् विजय् खन्ना इति पात्रम् अमिताभस्य वृत्तिजीवनाय महत्तं परिवर्तनम् अदात् । इदं चलनचित्रं तस्य पूर्वतन-चित्राणां प्रणयमयपात्राणां तद्विरुद्धं पात्रयुतमासीत् । एतदनन्तरम् एतत्सदृशाणि अन्यानि बहूनि चलनचित्राणि प्रदर्शितानि यानि च तं बालिवुड् चलनचित्रस्य 'आङ्ग्रि यङ्ग् म्यान्' स्थानं प्रायच्छत् । अस्मात् चित्रात् एव अग्रनायकस्य पात्रे अमिताभः चित्ररङ्गे ख्यातः जातः । इदमेव चित्रं फिल्म्फेर्प्रशस्त्यै अत्युत्तमनटविभागे नामाङ्कितमपि जातम् । १९७३तमे अस्मिन्नेव वत्सरे अमिताभः जयाबादुरीं वृणीतवान् । बहुशः अमिन्नेव समकाले विवाहात् परं मासाभ्यन्तरे एव प्रदर्शितेषु जञ्जीर् अभिमान् इत्यादिषु चित्रेषु जया अमिताभः च मिलित्वा एवाभिनीतवन्तौ ।
पश्चात् हृषिकेश् मुखर्जि इत्येतेन निर्दिष्टे मित्रतायाः कथावस्तुयुते सामाजिके चित्रे नमक् हराम् नामके चित्रे ‘विक्रम्’ इत्येतस्य पात्रे अमिताभेन अभिनीतम् । अस्य कथावस्तुरचयिता ‘बीरेश् चटर्जि’ इत्येषः वर्तते । अस्य चित्रस्य पोषकपात्रे अभिनीतस्य अमिताभस्य नटनं न केवलं सर्वेषां प्रशंसापात्रं जातम् अपि तु फिल्म्फेर्-अत्युत्तम-पोषकनटप्रशस्तिम् अपि आनयत् । अस्मिन्नेव चित्रे रेखा राजेश् खन्ना चापि अभिनीतवन्तौ ।
१९७४तमे वर्षे कुंवारा बाप् तथा दोस्त् इत्यादिषु चित्रेषु अनेकवारम् अतिथिनटत्वेन बच्चनः अदृश्यत । अस्मात् पूर्वमेव तस्य वर्षस्य अतिसम्पादनपरकस्य चित्रे रोटी कपडा और् मकान् नामके चित्रे पोषकपात्रे अभिनयः कृतः । अस्य चित्रस्य कथां विरचय्य निर्देशनमकरोत् मनोज्कुमारः । स्वार्थलाभाय उपयोगः तथा आर्थिकभावनात्मकयोः सङ्कटस्य मध्ये प्रामाणिकतायाः मुखावरणस्य कथावस्तुसहितमिदं चित्रं विमर्शकानां प्रशंसापात्रं भूत्वा वाणिज्यदृष्ट्या यशः आसादयत् । न केवलं तावत् किन्तु स्वतः ‘कुमार्’ रिशिकपूरः जीनत्-अमान् इत्येतेषां पङ्क्तौ बच्चनं चित्रमिदम् अयोजयत् ।
पश्चात् नायकपात्रे अभिनीतं मज्बूर् चित्रं १९७४तमस्य डिसम्बर्मासे ६ दिनाङ्के प्रदर्शनाय उन्मुक्तं जातम् । जार्ज् केनडि इत्येतस्य अभिनयस्य हालिवुड् चित्रस्य जिग्ज्याग् इत्येतस्य पुनर्निर्माणम् आसीत् एतत् चित्रम् । धनार्जने सामान्यतः यशः सम्पादितं चित्रेण अनेन । ततः परं १९७५तमे वर्षे चुप्के चुप्के नामकात् चलच्चित्रात् अपराधकथावस्तुयुतात् फरार् चित्रादपि आरभ्य प्रणयमयस्य मिलि चित्रस्य पर्यन्तं वैविध्यमयेषु प्रकारेषु चित्रेषु बच्चनेनाभिनीतम् ।
एतन्मध्ये १९७५तमे वर्षे बच्चनेन केवलं चित्रद्वये एव अभिनीतम् । एते द्वेऽपि चित्रे चित्ररङ्गे अति-प्रमुखतया परिगण्यते । यश् चोप्रा इत्यस्य निर्देशनस्य दीवार् इति चित्रे शशिकपूर् निरुपराय् नीतुसिङ्ग् इत्येतैः सह तेन अभिनीतम् । अस्मिन् चित्रे तस्य अभिनयः अत्युत्तम-नट-विभागे फिल्म्फेर् प्रशस्त्यर्थं नामकरणमार्जयत् । इदं चित्रं १९७५तमे वर्षे अपारं यशः आसादयत् । धनार्जनेऽपि चतुर्थं स्थानमाप्नोत् । ‘बालिवुड्’क्षेत्रस्य दर्शनीयेषु अत्युन्नतचित्रेषु अन्यतममिदम् इति ‘इण्डिया टैम् मूवीस्’ कथयति । १९७५तमे आगस्ट्मासे प्रदर्शितं “शोले” नामकं चलच्चित्रम् अत्यधिकं २,३६,४५,००,००० तन्नाम ‘यू.एस्’देशस्य षष्टिदशलक्ष ‘डालर्’ मूल्यं यावत् धनम् अर्जित्वा भारते एव सार्वकालिकं विक्रमम् अरचयत् । अस्य चित्रस्य अर्जनं आर्थिकस्फीतिः इत्येतया स्थित्वा तोलितमस्ति ।
बच्चनः अस्मिन् चित्रे जैदेव् इत्येतस्य पात्रं निरूढवान् । हिन्दीचित्ररङ्गस्य ख्याताः नटाः धर्मेन्द्रः हेमामालिनी सञ्जीवकुमारः जयाबादुरी तथा अम्जद् खानः इत्यादयः अत्र अभिनीतवन्तः । १९९९तमे वर्षे भारतस्य बि.बि.सि. विभागः इदं चित्रं “शतमानस्य चित्रम्” इत्यघोषयत् । शोले नामकं चित्रमपि यथा दीवार् नामकं चित्रं तथा बालिवुड्-क्षेत्रस्य दर्शनीयेषु अत्युन्नतेषु २५ चित्रेष्वन्यतममिति इण्डियाटैम्स् मूवीस् इत्येतेन समायोजितम् । तस्मिन्नेव वर्षे शोले नामकस्य चित्रस्य कृते पञ्चाशत्तमैः फिल्म्फेर्प्रशस्तीनां निर्णायकैः पञ्चाशद्वर्षेषु-अत्युत्तम-फिल्म्फेर्चित्रम् इति प्रशस्तिः प्रदत्ता । शोले नामकं चित्रं यदा धनार्जने अत्यन्तं यशः आसादयत् तदारभ्य बच्चनस्य स्थानं चित्ररङ्गे सुभद्रं जातम् । तदारभ्य १९७६तः १९८४तमवर्षाणामवधौ बच्चनस्य कृते फिल्म्फेर्-अत्युत्तम-नट-प्रशस्तयः तथा नामकरणानि च विपुलतया समागताः ।
सर्वोत्कृष्टः साहसनायकः इति ख्यातिं गतं प्रख्यातं नाम यद्यपि शोले सदृशचित्रैः सम्प्रतिष्ठितं तथापि कभी कभी(१९७६) सदृशेषु चित्रेषु प्रेमिणः पात्रे, १९७७तमस्य अमर् अक्बर् अन्तोनि सदृशेषु चित्रेषु, तथैव तत्पूर्वकालिकेषु १९७५तमस्य वर्षस्य चुप्के चुप्के सदृशेषु हास्यमयेषु चित्रेषु अपि सम्यक् अभिनीय अभिनयपरिणतिः निरूपिता एतेन बच्चनेन । १९७६तमे वर्षे निर्देशकस्य यश्चोप्रा इत्यस्य द्वितीये ‘कभी कभी’ नामके चित्रे बच्चनः अभ्यनयत् । प्रणयकथाविताने अस्मिन् चित्रे यूनः कवेः अमित् मल्होत्रा इत्यस्य पात्रे अस्य अभिनयः आसीत् । ‘पूजा’नामिकां सुन्दरीं प्रीणयति अयं कविः । पूजायाः पात्रे राखी गुल्जार् अभ्यनयत् । अस्मिन् चित्रे मृदुत्वयुतस्य तथा विशालदृष्टेः भावनात्मकं सम्भाषणम् अवर्तत । इदं चित्रम् अमिताभस्य पूर्वतनसाहसमयानां चित्राणां तथा अग्रे अभिनीतानां चित्राणां च तद्विरुद्धमासीत् । धनार्जने महत् यशः सम्पाद्य इदं चित्रम् अमिताभस्य फिल्म्फेर्-अत्युत्तम-नट प्रशस्त्यर्थं नामकरणमपि समार्जयत् ।
१९७७तमे वर्षे ‘अमर् अक्बर् अन्तोणि’ चित्रस्य नटनार्थम् अमिताभः ‘फिल्म्फेर्-अत्युत्तम-नट-प्रशस्तिं प्राप्नोत् । अस्मिन् चित्रे विनोद्खन्ना रिषिकपूर् इत्येताभ्यां सह तृतीयनायकस्य ‘अन्तोणि गोन्साल्विस्’ इत्यस्य पात्रे अमिताभः अभिनीतवान् । १९७८तमं वर्षं तस्य वृत्तिजीवने एव किरीटप्रायम् इति वक्तुं शक्यते । यतो हि तस्मिन् वर्षे धनार्जने अतिसमर्थेषु चतुर्षु चित्रेष्वपि अमिताभः अनटत् । कस्मे वादे चित्रे अमितस्य शङ्करस्य च पात्रे तथा डान् चित्रे भूगतप्रभोः तत्सदृशदर्शनस्य विजयस्य च पात्रे नटनेन द्विपात्रनटने अनेन प्रत्यागतम् ।
'त्रिशूल्' तथा 'मुखद्दर् का सिकन्दर्' चित्रयोः अभिनयः विमर्शकैः अवधानार्हां प्रशंसां प्राप्य फिल्म्फेर्-अत्युत्तम-नट-प्रशस्तिम् अमिताभाय समानयत् । तथैव फिल्म्फेर्-अत्युत्तम-नट-प्रशस्त्यै अनेकानि नामकरनानि समार्जयत् । अस्मिन् घट्टे वृत्तिजीवने अमिताभेन समार्जितम् अभूतपूर्वं यशः आधृत्य तं फेञ्च्-निर्देशकः फ्राम्कोयिस् ट्रफौट् इत्ययं “वन्-म्यान्-इण्डस्ट्रि”(One man industry) इति अघोषयत् ।
१९७९तमे वर्षे प्रथमवारम् अमिताभस्य सङ्गीतध्वनेः उपयोगाय आवश्यकता आपतिता । 'मिस्टर् नट्वरलाल्' चित्रे नायक्या रेखा इत्येतया सह अभिनीय तेन स्वध्वनेः सङ्गीतार्थम् उपयोगः कृतः । अस्य चित्रस्य निर्वहणेन सः फिल्म्फेर्-अत्युत्तम-नट-प्रशस्त्यै तथा फिल्म्फेर्-अत्युत्तम-पुरुष-पृष्ठभूमिका-गायन-प्रशस्त्यै च नामकरणं समार्जयत् ।
१९७९तमे वर्षे कालापत्थर् चित्रस्य अभिनयार्थं अत्युत्तम-नट-प्रशस्त्यै तथा १९८०तमे वर्षे राज्खोसला निर्देशनस्य 'दोस्ताना' चित्रस्य अत्युत्तमाभिनयार्थं पुनः नामकरणं प्राप्नोत् बच्चनः । 'दोस्ताना' इति चित्रे शत्रुघ्नसिन्हा तथा जीनत् अमान् इत्येताभ्यां सह बच्चनेनाभिनीतम् ।
१९८०तमे वर्षे 'दोस्ताना' इत्येतत् चित्रम् आर्थिकदृष्ट्या महत् लाभकरं चलनचित्रं वर्तते ।
१९८१तमे वर्षे पत्न्या जयया सह यश्चोप्रा इत्यस्य प्रेमकथानके 'सिल्सिला' इति चित्रे अमिताभः अनटत् । एतन्मध्ये नटीं रेखां सः प्रीणयति इति मिथ्या प्रचारः अपि आसीत् । अस्मिन्नवधौ प्रदर्शितेषु अन्येषु चित्रेषु राम् 'बलराम्'(१९८०) 'शान्'(१९८०) 'लावारिस्'(१९८१) तथा 'शक्ति'(१९८२) इत्येतेषु नटनेन अमिताभः ‘बालिवुड्’ क्षेत्रस्य सुविख्यातेन दिलीपकुमारेण सह तुलनां प्राप्तवान् । अमिताभः तस्य कालस्य महान् तथा अनर्घः नटः इत्यत्र न कोऽपि सन्देहः ।
राजकीयम् (१९८४-१९८७)
१९८४तमे वर्षे नटनात् तात्कालिकं विरामं प्राप्य अमिताभः दीर्घकालस्य कुटुम्बमित्रेण राजीवगान्धी इत्येतस्य साहाय्येन राजकीयक्षेत्रं प्रविश्य स्वल्पकालं सक्रियः आसीत् । सार्वत्रिकनिर्वाचन-इतिहासे एव जयस्य इतिहासः पुनरपि तदा निर्मितः अभवत् यदा अमिताभः अलहाबाद् लोकसभाक्षेत्रे उत्तरप्रदेशस्य प्राक्तनमुखमन्त्रिणः एच्.एन्.बहुगुण इत्येतस्य विरुद्धं स्पर्धित्वा जयं प्राप्नोत् । उल्लेखार्हात् (आहत्य मतदानस्य ६८.२%) अन्तरात् प्राप्तः अयं विजयः अविस्मरणीयः । परं बच्चनस्य राजकीयवृत्तिजीवनं स्वल्पकालमात्रमासीत् । वर्षत्रयानन्तरं सम्पूर्णं राजकीयक्षेत्रं मलिनकूपः इति विनिन्द्य तस्मात् निवृत्तिः प्राप्ता तेन । “बोफोर्स्-कोलाहले” बच्चनः तस्य सहोदरश्च संलग्नौ स्तः इति कस्याश्चित् पत्रिकायाः इतिवृत्तस्य प्रकटनस्य पश्चात् राजकीयनिवृत्तिः प्राप्ता एनेन । तस्याः पत्रिकायाः विरुद्धं न्यायालयं गन्तुमपि निर्धारितवान् । क्रमशः विचारणं यदा प्रवृत्तं तदा बच्चनस्य पात्रं तत्र न वर्तते इत्येतन्निरूपितम् ।
एतन्मध्ये अमिताभस्य ‘ए बि सि एल्’ इत्याख्या संस्था यदा अतिदरिद्रतावशाम् आप्नोत् तदा तत्रत्यम् आर्थिकं सङ्कष्टं समीकर्तुं तस्य पुरातनसुहृद् अमरसिङ्ग् साहाय्यमकरोत् । तस्मात् बच्चनः अमरसिंहस्य समाजवादिपक्षं प्रोत्साहयितुमारब्धवान् । जयाबच्चनः न केवलं समाजवादिपक्षं प्राविशत् अपि तु राज्यसभायाः सदस्यत्वम् अपि अवाप्नोत् ।
राजकीयप्रचारः तथा विज्ञापिकादिकमपि योजयित्वा इतरेषु राजकीयविचारेषु समाजवादिपक्षस्य कार्येषु सक्रियं भागं स्वीकर्तुं बच्चनः अनुवर्तितवान् । एतानि कार्याणि पुनः तं सङ्कष्टे अपातयन् । स्वयं कृषकः इति अभिप्रायः प्रकटितः इति कृत्वा न्यायालयं प्रति अवास्तवविधिपत्राणि समार्पयत् इति च आरोपस्य आधारेण पुनः न्यायालयस्य साक्षिस्थानं गन्तव्यम् आपतितम् ।
एतन्मध्ये अमिताभः अभिनयवृत्तिजीवनस्य उत्तुङ्गे यदा आसीत् तदा स्टार् डस्ट् तथा इतराभिः काभिश्चित् पत्रिकाभिः १५ वर्षाणां पत्रिकानिषेधं प्राप्तवान् । अस्य प्रतीकाररूपेण बच्चनेन नट्येषु चलच्चित्रेषु चित्रीकरणस्य आरम्भे पत्रिकाप्रतिनिधीनां प्रवेशं निषिद्धवान् आसीत् इति श्रूयते । एषा पद्धतिः १९८९तमवर्षपर्यन्तमपि चालने आसीदित्यपि श्रूयते ।
प्रतिगमनं निवृत्तिः च । (१९८८-१९९२)
१९८८तमे वर्षे षहेन् षा इति चित्रस्य शीर्षिकापात्रे नटनद्वारा बच्चनः चित्ररङ्गं पुनरागतः । बच्चनस्य प्रत्यागमनस्य प्रचारद्वारा चित्रमिदं धनार्जने समर्थमभूत् । किन्तु अस्य यशसः परं विमोचितानि प्रदर्शितानि च चित्राणि सर्वाणि धनार्जने सर्वथा असमर्थानि इति कृत्वा तस्य तारापट्टस्य वर्चसि ह्रासः सञ्जातः । १९९१तमस्य यशस्वि चित्रं “हम्” पराजयस्य प्रवृत्तिपरिवर्तकत्वेन अभात् चिदपि तस्य इतराणां चित्राणां धनार्जने पराजयस्य कारणतः यशसः क्षणाः अल्पकालमात्रमतिष्ठन् । अत्र गमनार्हो विचारो नाम १९९०तमे वर्षे “अग्निपथ्” इत्यस्मिन् चित्रे निरूढस्य पात्रस्य कृते द्वितीयवारं राष्ट्रिय-चलनचित्र-प्रशस्तिः तेन आसादिता । तत्र तस्य पात्रं भूगत-दुष्ट-प्रपञ्चस्य अधिपतेः आसीत् । अग्रे कानिचन वर्षाणि यावत् अमिताभस्य चलच्चित्रलोके अदर्शनम् अधुनैव सम्भवति इति सर्वैरपि चिन्तितम् ।
१९९२तमे वर्षे खुदा गवाह् चित्रस्य प्रदर्शनस्य पश्चात् पञ्चवर्षाणि यावत् बच्चनः चित्रेषु न दृष्टः एव । विलम्बेन निर्मितम् इन्सानियत् चित्रं यद्यपि १९९४तमे वर्षे प्रदर्शनाय वुमुक्तं तथापि धनार्जने सम्पूर्णतया असफलं जातम् ।
दूरदर्शने अमिताभः
२०००तमे वर्षे ब्रिटिष् दृरवीक्षणस्य कार्यक्रमस्य हू वाण्ट् टु बि मिलियनेर्? इत्यस्य भारतीयं रूपान्तरम् अमिताभः सञ्चालितवान् । अस्य कार्यक्रमस्य नाम कौन् बनेगा क्रोर्पति इत्यासीत् । अस्य रूपान्तरं कृतवन्तः अन्ये अनेके देशाः एतत्सदृशं नाम एव अरक्षन् । अयं कार्यक्रमः अभूतपूर्वं यशः समार्जयत् । २०००तमस्य वर्षस्य नवेम्बर्-मासे केनरा ब्याङ्क् इत्येतस्य वैधं व्यवहारं प्रतिस्वीकृतिद्वारा समापयत् ।
बच्चनः पूर्वोक्तं 'कौन् बनेगा क्रोर्पति' इत्याख्यं कार्यक्रमं २००५ नवम्बर्-मासपर्यन्तमपि सञ्चालितवान् । एतेन यशः सम्पाद्य जनप्रियतां चित्ररङ्गं प्रत्यागन्तुं वेदिकां च समार्जयत् एषः । २००९तमस्य आस्कर् इत्यस्याः प्रशस्तेः विजेतस्य चित्रस्य स्लं डाग् मिलियनेर् हू वाण्ट् टु बि मिलियनेर् कार्यक्रमस्य स्पर्धायां ‘जञ्जीर्’ इति चित्रस्य नायकः कः? इत्यस्य प्रथमस्य प्रश्नस्य ‘अमिताभः वच्चनः’ इत्येतदेव अतिसमीचीनमुत्तरमासीत् । चित्रे फेरोज् अब्बास् खान् अमिताभस्य पात्रं निरूढवानासीत् । स्पर्धायाः निरूपकत्वेन अनिल् कपूर् अनटत् । एवम् अमिताभः बच्चनः इत्येषः भारतीयचलनचित्रस्य इतिहासे प्रख्यातः आसीत् ।
चलचित्राणि
सम्बद्धाः लेखाः
भारतम्
चलच्चित्रजगत्
ओम प्रकाश
कटरीना कैफ
अनुष्का शर्मा
बाह्यसम्पर्कतन्तवः
Amitabh Bachchan's official blog
Amitabh Bachchan Documentary, Classic BBC Archive video and exclusive interview conducted in Amitabh's own house for BBC Asian Network
British Academy of Film and Television Arts brochure
हिन्दीचलच्चित्राभिनेतारः
जीवतव्यक्तयः
१९४२ जननम् |
1251 | https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%9C%E0%A4%BE%E0%A4%B0%E0%A5%80%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%A6%20%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%80 | हजारी प्रसाद द्विवेदी | आचार्य हजारी प्रसाद द्विवेदी महाभागः हिन्दी-संस्कृत-बांग्ला इत्यादीसु भाषासु मर्मज्ञः, ज्योतिषविद्यायां पारंगतः, संस्कृति इतिहासेत्यादीनां विषयविशेषज्ञः रचनाकारः आसीत्
रचनासमूहम्
हिन्दी भाषायां रचनाः
आचार्य द्विवेदी महाभागस्य प्रमुखरचनाः अधोवत् सूचीबद्धाः सन्ति -
आलोचना/साहित्येतिहास
कबीर(1942)
सूर साहित्य(1936)
हिन्दी साहित्य की भूमिका(1940)
हिन्दी साहित्य का आदिकाल(1952)
नाथ संप्रदाय(1950)
आधुनिक हिन्दी साहित्य पर विचार (1949)
साहित्य का मर्म (1949)
लालित्य मीमांसा (1962)
साहित्य सहचर (1965)
कालिदास की लालित्य योजना (1965)
मध्यकालीन बोध का स्वरूप (1970)
निबंध संग्रहाणि
अशोक के फूल (1948)
कल्पलता (1951)
विचार और वितर्क (1954)
विचार प्रवाह (1959)
कुटज (1964)
आलोक पर्व (1972)
उपन्यास
बाणभट्ट की आत्मकथा (1947)
चारु चंद्रलेख (1963)
पुनर्नवा (1973)
अनामदास का पोथा (1976)
इतराणि
मृत्युंजय रवीन्द्र (1970)
संक्षिप्त पृथ्वीराज रासो (1957)
संदेश रासक (1960)
महापुरुषों का स्मरण (1987)
पश्य
हिन्दी साहित्यं
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः
संचित्रसारमञ्जूषे योजनीये |
1254 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B2%20%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE | निर्मल वर्मा | निर्मल वर्मा(Nirmal Verma) (ज. १९२९) एक: प्रमुख: हिन्दी कथाकार अस्ति.
पश्य
हिन्दी साहित्यं
बाह्यसम्पर्कतन्तुः
Nirmal Verma at Abhivyakti
An Interview with Nirmal Verma, 2002
Nirmal Verma at Library of Congress
हिन्दीलेखकाः
अन्यभाषासाहित्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
१९२९ जननम्
२००५ मरणम् |
1255 | https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%9F%E0%A5%8D%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%9F%E0%A4%A8%E0%A5%8D | ग्रेट् ब्रिटन् | ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण }}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।
ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।
१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।
टिप्पणी
ब्रिटेनस्य शासकाः
यूरोपखण्डस्य देशाः
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
1256 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83 | शर्मण्यदेशः | शर्मण्यदेशः (जर्मनी, ; ), आधिकारिकरूपेण संयुक्त-प्रजातन्त्री-जर्मनी (, "बुन्देस्-रेपाब्लिक् डाच्-लैण्ड्", ), यूरोपमहाद्वीपे मध्यक्षेत्रे कश्चन अन्यतमदेश: अस्ति। अस्य राजधानी बर्लिन् अस्ति। जर्मनी द्वितीयविश्वयुद्धे सर्वापेक्षया शक्तिशालिराष्ट्रम् आसीत्। द्वितीयविश्वयुद्धे जर्मनी इङ्ग्लेण्डदेशस्य शत्रु: आसीत्।
टिप्पणी
२. www.deutschland.de – जर्मनीजालस्थानम्
बाह्यग्रन्थाः
Germany travel guide at Wikivoyage
Facts about Germany - Official site published by the German Federal Foreign Office
Deutschland.de - Official German portal
Statistikportal.de - Official statistical data
Bundesregierung Deutschland - Official site of the German Federal Government
Germany travel guide
Bundespräsident - Official site of the German President
Bundestag - Official site of the German Parliament
A Manual for Germany - How Germany works, published by the German Federal Government
World Fact book - Germany - The World fact book page of Germany (source : CIA)
Stadtpanoramen.de - Panoramic views of numerous German Cities
Panoramic views of numerous German landmarks
German Travel Guide - Tourism Resources
Axel Boldt, A Subjective Comparison of Germany and the United States
Photos of Germany
rummage in the photo box
German TV Programming
Zeitungen.de - German newspaper portal
विभिन्नदेशसम्बद्धाः स्टब्स्
यूरोपखण्डस्य देशाः
सर्वे अपूर्णलेखाः
सारमञ्जूषा योजनीया |
1259 | https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%87%E0%A4%96%E0%A4%B0%20%E0%A4%B5%E0%A5%87%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%9F%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%A8%E0%A5%8D | चन्द्रशेखर वेङ्कटरामन् | चन्द्रशेखर वेङ्कटरामन् (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्) कश्चन प्रख्यातः भारतीयः भौतशास्त्रज्ञः । १९३० तमे वर्षे तेन नोबेल्पुरस्कारः प्राप्तः । एशियाखण्डे एव नोबेल्-पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी अयम् । पारदर्शकवस्तुनः द्वारा प्रकाशः यदा सञ्चरति तदा व्याकुञ्चितस्य प्रकाशस्य तरङ्गदैर्घ्यं परिवर्त्यते इत्येतत् 'रामन्-परिणामः' इति कथ्यते । एतस्य संशोधनाय एव तेन नोबेल्पुरस्कारः प्राप्तः ।
तस्य जन्म दक्षिणभारतस्य तिरुचिरापल्लीनामके स्थाने अभवत्। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्। आशुतोष मुखोपाध्यायः तं कोलकत्ताम् अनयत्। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः' शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति z
बाल्यं, विद्याभ्यासश्च
वेङ्कटरामः तमिलुनाडुराज्ये तिरुचिरपळ्ळिमण्डले तिरुवानैकावल्प्रदेशे जातः । पिता आर् चन्द्रशेखर ऐय्यर्, माता पार्वती अम्माळ् च । पञ्चसु पुत्रेषु अयं द्वितीयः । लघुवयसि एव रामः आन्ध्रप्रदेशस्य विशाखपत्तनं प्रति गतः । तत्र सैण्ट् अलोशियस् आङ्ग्लो-इण्डियन् प्रौढशालायाम् अपठत् । तस्य पिता मदरासुनगरस्थे प्रेसिडेन्सीमहाविद्यालये गणित-भौतशास्त्रयोः प्राध्यापकः आसीत् । रामः स्वस्य त्रयोदश्यां वयसि १९०२ तमे वर्षे इमं महाविद्यालयं प्राविशत् । १९०४ तमे वर्षे बि ए परीक्षां प्रथमस्थानेन उत्तीर्णः, भौतशास्त्रे स्वर्णपदकं प्राप्तवान् च । १९०७ तमे वर्षे तेन अत्युत्तमैः अङ्कैः स्नातकोत्तरपदवी प्राप्ता ।
उच्चशिक्षा संशोधनञ्च
चन्द्रशेखरवेङ्कटरामन् वर्यस्य प्रारम्भिकी शिक्षा वाल्टियत् इति स्थाने अभवत् । तस्य द्वादशे वयसि प्रवेशपरीक्षाम् उत्तीर्य भौतिकविज्ञानविषये स्नातकपदवीं तथा स्नातकोत्तरपदवीं च मद्रासुनगरस्य प्रेसिडेन्सीमहाविद्यालयतः प्राप्तवान् । अस्मिन् महाविद्यालये क्रि.श. १९०२तमे वर्षे प्रविश्य क्रि.श. १९०४तमे वर्षे सम्पूर्णविद्यालयस्य प्रथमस्थानं प्राप्तवान् । एषः क्रि.श. १९०६तमे वर्षे मद्रासुविश्वविद्यालयतः गणितविषये प्रथमश्रेण्यां स्नातकोत्तरपदवीं प्राप्तवान् । पश्चात् वेङ्कटरामन्वर्यः कोलकत्तायाः भारतीयवित्तीयनिगमे सहायकवित्तीयव्यवस्थापकत्वेन उद्योगम् आरब्धवान् । किन्तु अस्मिन् कार्ये अस्य रुचिः नासीत् । अतः क्रि.श.१९१७तमे वर्षे सर्वकारीयसेवार्थं त्यागपत्रं दत्तवान् । पश्चात् इण्डियन् असोसियेषन् फार् कल्टिवेशन् आफ् सैन्स् इति स्वीयं भौतिकविज्ञानसङ्घटनम् आरब्धवान् । शोधकर्ये अस्य अतीव रुचिं दृष्ट्वा कोलकत्ताविश्वविद्यालयस्य कुलपति: सर् आशुतोषमुखर्जी भौतिकविज्ञानस्य विभागप्रमुखत्वेन कार्यं कर्तुम् अनुरोधं कृतवान् । भौतिकविज्ञानस्य संशोधस्य फलरूपेण कलकताविश्वविद्यालयात् डि.एस्सी पदवीं प्राप्तवान् । क्रि.श. १९२४तमे वर्षे फेलो आफ् रायल् सोसैटी इत्यस्य सदस्यत्वेन निर्वाचितः अभवत् । क्रि.श. १९३०तमे वर्षे रामन्प्रभावः इति अस्य संशोधनार्थं नोबेल्पारितोषिकम् इति जगतः सर्वश्रेष्ठं पुरस्कारं
एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं बेङ्गळूरुनगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् भारतसर्वकारेण भारतरत्नम् इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।
टिप्पणिः
नोबल-पुरस्कारसंदर्भः
भारतीयविज्ञानिनः
भारतरत्नपुरस्कारभाजः
नोबेल्-पुरस्कारभाजः
१८८८ जननम्
१९७० मरणम् |
1260 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%20%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%87%E0%A4%96%E0%A4%B0 | सुब्रह्मण्यन् चन्द्रशेखर | सुब्रह्मण्यन् चन्द्रशेखर: भारतमूलः अमेरिकादेशे नोबेल् प्रशस्तिभाक् भौतविज्ञानी । मित्राणि सर्वे तं चन्दः इत्येव सम्बोधयन्ति स्म । क्रि.श. १९५५तमे वर्षे डा.चन्द्रः अमेरिकादेशस्य विल्लि पौलर् च मिलित्वा नोबेल् प्रशस्तिभाजौ अभवताम् । विश्वस्य श्रेष्ठः विज्ञानलेखकः आर्थर् मिल्लर् एषः कश्चित् खभौतविज्ञानि नक्षत्रलोकस्य अनभिषिक्तसाम्राट् इति अवदत् ।
बाल्यं शिक्षा च
एषः नोबेल् प्रशस्तिभाजः सर्.चन्द्रशेखर वेङ्कटारमन्वर्यस्य निकटबन्धुः । अस्य जननं क्रि.श.१९१०तमवर्षस्य अक्टोबर् मासस्य १९तमे दिने प्राचीनभारतस्य लाहोर् नगरे अभवत् । अस्य पिता सुब्रह्मण्य अय्यरः भारतीयरेल्वे विभागे आडिटर् जनरल् इति कार्यं करोति स्म । पिता उद्योगस्थानान्तरेण चेन्नैनगरम् आगतवान् । अतः चन्द्रशेखरः तत्र ट्रिप्लिकेन् हिन्दुप्रौढशालां प्रविष्टवान् । एषः गणितविशये अप्रतिमप्रतिभासम्पनः अनुपमस्मरणशक्तिमान् आसीत् । एतयोः रत्नप्राया विज्ञानविषेये अतीव श्रद्धा । क्रि.शा. १९२५तमे वर्षे प्रेसिडेन्सी महाविद्यालयं प्रविश्य भौतविज्ञानम् ऐच्छिकविषयत्वेन स्वीकृतवान् । क्रि.श. १९३०तमे वर्षे पदवीधरः अभवत् । आङ्ग्लभाषासाहित्ये तत्रापि विक्टोरियन् कालस्य आङ्ग्लसाहित्ये विशेषतया आसक्तः आसीत् । तत्कालीनानाम् आङ्ग्लभाषापण्डितानां साहित्यं सम्यक् अध्ययनं कृतवान् । स्वस्य वैज्ञानिके साहित्ये अपि आङ्ग्लभाषासाहित्यसौन्दर्यं रक्षितवान् । तदानीन्तनकालस्य नोबेल् प्रशस्तिभाक् ह्यान्स् बेत् एवम् अवदत्... चन्द्रवर्यस्य लेखनं नाम विक्टोरियन् युगस्य सौन्दर्याणां राशिः अस्य लेखने सम्मिलितं भवति इति । चन्द्रशेखरः छात्रत्वकाले एव वैज्ञानिकविषान् आधृत्य प्रबन्धान् रचितवान् ।
विवाहः
मद्रास् नगरस्य प्रेसिडेन्सीमहाविद्यालये अध्ययनकाले एकवर्षनिम्नकक्ष्यायां पठन्त्याः शोधच्छात्रायाः ललिता दोरेस्वामी इत्यस्याः परिचय अभवत् । तयोः कालक्रमेण अनुरागः उत्पन्नः पतिपत्नी अभवताम् ।
संशोधनम् उपन्यासः च
क्रि.श. १९३०तमवर्षस्य मे मासे इङ्ग्लेण्डनगरे संशोधनं कर्तुं भारतसर्वकारः विद्यार्थिप्रोत्साहधनम् अयच्छत् । अनेन चन्द्रशेखरः केम्ब्रिज़् विश्वविद्यालये शोधच्छात्रः अभवत् । क्रि.श. १९३१तमे वर्षे मे मासे लण्डन् नगरस्य रायल् अस्ट्रानामिकल् सोसैटि इति सङ्घटनस्य सभायां भागी सन् स्वप्रबन्धान् प्रस्तुतवान् । क्रि.श. १९३१तमे वर्षे जुलै मासे जर्मनदेशं गत्वा वर्गनियमः, क्वाण्टम् मेक्यानिक्स्, नक्षत्राध्ययनम्, इत्यादिषु विषयेषु संशोधनं कृतवान् । क्रि.श. १९३२तमे वर्षे जनवरि मासे आदर्शद्युतिगोलः इति विषयमधिकृत्य रायल् अस्ट्रनामिकल् सोसैटि इत्यत्र विशिष्टं प्रबन्धं प्रस्तुत्य एडिङ्ग्टन् तथा मिल्स् इत्यादीनां प्रशंसां प्राप्तवान् । बेल्जियं लीड् विश्वविद्यानिलये खभौतशास्त्रे कृताः उपन्यासमालिका ग्रन्थरुपम् आप्नोत् ।
श्वेतकुब्जस्य वर्णनम्
क्रि.श. १९३४तमे वर्षे श्वेतकुब्जानि (White Dwarf) तथा मितराशिः अधिकृत्य रशियादेशस्य पुल्कोवो ग्रहवीक्षणालये उपन्यस्तवान् । श्वेतकुब्जानां विषये तस्य संशोधनं क्रि.श. १९४४तमवर्षात् परं पुरस्कारम् आनयत् । नक्षत्रेषु विद्यमनस्य जलजनकस्य यथा यथा क्षीयते तथा तथा तेषां स्थानेषु १:४अनुपातेन हीलियं रूपमाप्नोति । तेन नक्षत्राणि क्षीनानि भवन्ति । अतः द्रव्यराशिः स्थिरा भूत्वा सान्द्रता वर्धिता नक्षत्रे निपीडनम् अधिकं भवति । अस्य फलरूपेण परमाणोः व्यवस्था बलहीना सती एलेक्ट्रान् तथा न्यूक्लियस् पृथक् भवतः । एषा प्रक्रिया अनुवृत्य श्वेतकुब्जानि निरूपितानि भवन्ति । नक्षत्राणां भारः वृद्धः चेदपि तदन्तर्गता द्रव्यराशिः परिमितौ भवति । तादृशं नक्षत्रं सूर्यस्य १.४४तः अधिकं न भवति इति चन्द्रशेखः प्रतिपादितवान् । यस्य कस्यापि नक्षत्रस्य द्रव्यराशिः एतस्मान् नियमात् अधिकं भवति चेत् तदा विस्फोटनेन किञ्चिद्भागं विसृज्य श्वेतकुब्जं भवति इति चन्द्रशेखरस्य विवरणम् । किन्तु कस्यचिदपि श्वेतकुब्जस्य द्रव्यराशिः १.४४मानात् अधिका न भवति । एतां मितिम् एव चन्द्रशेखरस्य मितिः इति कथयन्ति । चन्द्रशेखरः एतां मिति गणितस्य सङ्गणनेन एव आविष्कृतवान् । अनया मित्याः अधिकं विकस्यमानानि नक्षत्राणि अणुप्रस्फोटाः इव् विस्फोट्य सूपर् नोवा इति जाज्वल्यमनं नक्षत्रं भवति ।
प्राध्यपकः संशोधकः
अमेरिकासंयुक्तसंस्थानस्य विस्कान्सिन् इति स्थानस्य येर्क्स् बाह्याकाशनिरीक्षणालये संशोधनसंयोजकत्वेन उद्योगं कर्तुं चन्द्रशेखरः आमन्त्रणम् आप्नोत् । येर्क्स् इति स्थाने विश्वस्य अत्यन्तं बृहत् वक्रीभवदूरदर्शकम् आसीत् । अत्र चन्द्रशेखरः बहुशः २७ वर्षाणि सेवामकरोत् । अध्यपकवृत्त्या सह शोधकार्यमपि समचलत् । क्रि.श. १९३८तमवर्षात् १९४४पर्यन्तं नक्षात्रचलनशास्त्रम्, चलनघर्षणम् इत्यादीनां विषये संशोधनम् अकरोत् । क्रि.श. १९४३तमे वर्षे तत्रैव प्राध्यापकः अभवत् । क्रि.श. १९५२तमवर्षतह् ७१पर्यन्तम् आस्ट्रोफिसिकल् जर्नल् इत्यस्याः पत्रिकायाः व्यवस्थापाकः सम्पादकः अभवत् ।
प्रशस्तिपुरस्काराः
क्रि.श.१९४२तमवर्षम् - केम्ब्रिज़् विश्वविद्यालयस्य डि.एस्सि.पदवी ।
क्रि.श.१९४४ तमवर्षम् - इङ्ग्लेण्डस्य रायल् सोसैटि सदस्यत्वेन चयनम् ।
क्रि.श.१९५० तमवर्षम् - प्रकाशितस्य रेडियो एक्टिव् ट्रन्स्फर् इति ग्रन्थस्य केम्बिज़् विश्वविद्यालयस्य अत्युन्नतप्रशस्तिः आडम् पुरस्कारः ।
क्रि.श.१९५२ तमवर्षम् - ब्रूस् पदकप्राप्तिः ।
क्रि.श.१९५२ तमवर्षम् - रायल् अस्ट्रानामिकल् सोसैटि स्वर्णपदकप्राप्तिः ।
क्रि.श.१९५७ तमवर्षम्- रम्फर्ड् प्रशस्तिः ।
क्रि.श.१९६८ तमवर्षम् - भारतसर्वकारस्य पद्मभूषणप्रशस्तिः
क्रि.श. १९८२ - श्वेतकुब्जसंशोधनार्थं नोबेल् प्रशस्तिः
क्रि.श. १९४०तमवर्षात् क्रि.श. १९९५वर्षेषु कृताविष्काराः
अस्मिन् समये डा.चन्द्रशेखरः नक्षत्राणां संरचनस्य विषये नूतनविषयान् उपहृतवान् । तस्य परिपूर्णतायाः दर्शनार्थं २०अधिकाः ग्रन्थाः शताधिकाः संशोधनलेखाः साक्षिणः भवन्ति । अत्यन्तम् उच्चस्तरस्य शिक्षकचन्द्रशेखस्य शिष्यसोमः अपि यशसि अग्रगण्याः अभवन् । डा.चन्द्रशेखरस्य मार्गदर्शनेन ५०अधिकाः छात्राः डाक्टरेट् पदवीम् आप्नुवन् । येर्क्स् संशोधनालये चन्द्रस्य शिष्यौ ली तथा याङ्ग् अग्रे क्रि.श. १९५७तमे वर्षे गुरोः पूर्वमेव कणभौतविज्ञाने संशोध्य नोबेल् प्रशस्तिं प्राप्तवन्तौ ।
अन्यरुचयः अन्तिमयात्रा च
चन्द्रशेखरः प्रिन्सिपल्स् आफ् स्टेलार् डैनामिक्स् इति विशिष्टं ग्रन्थं लोकार्पितवान् । क्रि.श. १९८०तमे वर्षे स्वेच्छया कार्यात् विरतः संशोधनम् अन्ववर्तत । साहित्यासक्तः चन्द्रशेखरः अमेरिकादेशे वसन् अपि दक्षिणभारतस्य कच्छां कञ्चुकं च धरति स्म । कर्णाटकसङ्गीतं केवलं शृणोति स्म । ६५वर्षाणि निरन्तरं संशोधनरतः ड. सुब्रह्मण्यन् चन्द्रशेखरः क्रि.श. १९५५तमवर्षस्य अगस्ट् मासस्य २१तमदिनाङ्के रात्रौ इहलोकं त्यक्तवान् ।
जन्मशतमानोत्सवः
क्रि.श. २०१०तमवर्षस्य अक्टोबर् मासस्य १९तमदिने विश्वे सर्वत्र सुब्रह्मण्यन् चन्द्रशेखरस्य १००तमः जन्मोत्सवः आचरितः । अनेकवारं चन्द्रशेखरः स्वजन्मदिनाङ्कसस्य विषये मित्रैः सह विस्मयं वितीर्णवान् । १९.१०.१९१० इति दिनाङ्कः अस्य जन्मदिनं भवति । क्रि.श. १९८३तमे वर्षे तस्य जन्मदिनोत्सवस्य उपायनरूपेण नोबेल् प्रशस्तिः प्रदत्ता ।
आविष्कारस्य विवरणम्
1. An Introduction to the Study of Stellar Structure (1939, University of Chicago Press; reprinted by Dover Publications, Inc., 1967).
2(a). Principles of Stellar Dynamics (1943, University of Chicago Press; reprinted by Dover Publications, Inc., 1960).
2(b). 'Stochastic Problems in Physics and Astronomy', Reviews of Modern Physics, 15, 1 - 89 (1943); reprinted in Selected Papers on Noise and Stochastic Processes by Nelson Wax, Dover Publications, Inc., 1954.
3. Radiative Transfer (1950, Clarendon Press, Oxford; reprinted by Dover Publications, Inc., 1960).
4. Hydrodynamic and Hydromagnetic Stability (1961, Clarendon Press, Oxford; reprinted by Dover Publications, Inc., 1981).
5. Ellipsoidal Figures of Equilibrium (1968; Yale University Press).
6. The Mathematical Theory of Black Holes (1983, Clarendon Press, Oxford).
बाह्यनुबन्धाः
National Academy of Sciences biography
Harvard's site on Chandrasekhar
Subrahmanyan Chandrasekhar
Subrahmanyan Chandrasekhar
Bruce Medal page
Awarding of Bruce Medal: PASP 64 (1952) 55
भारतीयविज्ञानिनः
नोबेल्-पुरस्कारभाजः
चित्रं योजनीयम् |
1261 | https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BE%E0%A4%9C%E0%A5%80%20%E0%A4%B8%E0%A5%81%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%AC%E0%A5%8B%E0%A4%B8 | नेताजी सुभाषचन्द्र बोस | सुभाष चन्द्र बसु ( , १८९७-१९४५) विश्वस्मिन् नेताजी इति प्रसिद्धः । सः भारतभूमेः स्वतन्त्र्यार्थं प्राणार्पणम् अकरोत् । सः बाल्यकालादेव बुद्धिमान् आसीत् । तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालादेव आङ्लशासनस्य विरोधी आसीत् । सुभाषः स्वतन्त्रभारतम् ऐच्छत्।
द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापतिः आसीत् । रासबिहारीबोसः सुभाषाय दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तरजम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत् ।
बाल्यकालः विद्यार्थिजीवनं च
ओड़िशायाः प्रसिद्धनगरे कटके सः अजायत । तस्य पितुः नाम जानकीनाथः, मातुः नाम प्रभावती च ।
सुभाषस्य कुटुम्बः विशालः आसीत् । कुटुम्बे १४ बालाः आसन् । पञ्चमे वयसि सुभाषः कटकस्य आङ्गलभाषाविद्यालयं प्राविशत् । विद्यालयस्य दृष्टिः आङ्गलजनानां दृष्टिः इव एव आसीत् । तत्र विद्यमानं जातीयभेदभावं सः न असहत । तत्र आङ्गलबालकानां स्थानं भारतस्य बालकानां स्थानस्य अपेक्षया उच्चतरम् आसीत् । ततः सः भारतीयविद्यालयं प्राविशत् । विद्यालयस्य प्रधानः बेनीमाधवः सुभाषस्य मनसि महान्तं प्रभावम् अजनयत् ।
१५ वयसि सुभाषः विवेकानन्दस्य विचारधारातः प्रभावितः जातः । १६ वयसि सुभाषः मैट्रिक्-परीक्षाम् उत्तीर्णः । तत्पश्चात् सः आङ्ग्लदेशे आई०सी०एस्० परीक्षामपि उत्तीर्णवान् ।
राजनैतिकक्षेत्रे प्रवेशः
चित्तरञ्जनदासः सुभाषस्य राजनीतेः गुरुः आसीत्। १९२३ तमे वर्षे सः अखिलभारतीययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत् । सः देशबन्धुनामकस्य समाचारपत्रस्य सम्पादकः अपि अभवत् । १९२५ तमे वर्षे सः कारागृहवासी जातः ।
१९२७ तमे वर्षे सः कारागृहात् मुक्तः जातः । अग्रिमेषु वर्षेषु सः फिरङ्गद्वीपे अभ्रमत् । १९३८ तमे वर्षे सः काङ्ग्रेसपक्षस्य अध्यक्षः अभवत् ।
विचारधारा
युद्धेनैव भारतस्य स्वातन्त्र्यप्राप्तिः इत्येषा आसीत् तस्य विचारधारा । अतः महात्मा गान्धिः तस्य विरोधी आसीत् । गान्धेः विरोधेन सः काङ्ग्रेसपक्षस्य अध्यक्षपदात् निष्क्रान्तः जातः । सः समतावादी प्रभावशाली क्रान्तिकारी नेता च आसीत् ।
सुभाषः इव अन्ये अपि समकालीननेतारः रूसस्य क्रान्तिविचारात् प्रभाविताः अभवन् ।
द्वितीयविश्वयुद्धम्
तत्पश्चात् सः फ़ार्वर्ड ब्लाकस्य नाम्नः राजनैतिकदलम् अघटयत् । द्वितीयविश्वयुद्धे सः अफ़गानिस्तानस्य रूसस्य च मार्गेण जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबद्धान् सेना अघटयत् । शनैः शनैः सः आनुभवत् जर्मन्याः युद्धे विजयः न सम्भवति। तदा एव सः रासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री सेनापति तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।
सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वेषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तेन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
युद्धम् स्वर्गवासः च
जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।
परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।
स्वाधीनतायां योगदानम्
भारतस्य स्वाधीनतायां सुभाषस्य योगदानम् अद्वितीयम् अस्ति । केचित् बुधाः अवदन् यत् सुभाषस्य भयात् एव भारतं स्वाधीनतां प्राप्नोत् इति ।
स्मरणचिह्नानि
बोसः भारते १९६४ च १९९३ च १९९७ च २००१ च २०१६ च २०१८ च २०२१ च वर्षेभ्यः मुद्रापत्रेषु अपि दृश्यते स्म। बोसः १९९६ तमे वर्षे च १९९७ तमे वर्षे च ₹२ मुद्रासु तथा २०१८ तमे वर्षे ₹७५ मुद्रायां तथा २०२१ तमे वर्षे ₹१२५ मुद्रायाम् अपि दृश्यते स्म।
कोलकातानगरस्य सुभाषचन्द्रबोसान्तर्राष्ट्रीयविमानस्थानकं च नेताजीसुभाषचन्द्रबोसद्वीपः इत्यादीनि भारतस्य अनेकानि संस्थानि तस्य नामधेयम् अस्ति । २००७ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के जापानदेशस्य प्रधानमन्त्री शिञ्जो अबे कोलकातानगरस्य सुभाषचन्द्रबोसस्मारकभवनं गतवान् ।
अबे यः नेताजीपुरस्कारः २०२२ प्राप्तः अपि अस्ति स बोसस्य परिवाराय अवदत् जापानीजनाः बोसस्य दृढेच्छाशक्तिं दृष्ट्वा अतीव प्रभाविताः सन्ति यत् ते ब्रिटिशशासनात् भारतीयस्वतन्त्रतान्दोलनस्य नेतृत्वं कृतवान् इति च जापानदेशे नेताजी बहु सम्माननीयं नाम अस्ति इति।
२०२१ तमे वर्षे सुभाषचन्द्रबोसस्य जन्मदिवसस्य स्मरणार्थं भारतसर्वकारेण २३ जनवरी दिनाङ्कः पराक्रमदिवस इति घोषितः । राजनैतिकदलौ तृणमूलकाङ्ग्रेस् च अखिलभारतस्य फ़ोर्वडब्लोक च अस्य दिवसस्य देशप्रेमदिवसः इति आचरणं करणीयम् इति आग्रहं कृतवन्तौ।
इण्डियागेट् इत्यत्र ग्रैण्डकैनोपी नाम मण्डपे बोसस्य १२५ तमे जन्मदिवसस्य कृते बोसस्य होलोग्राफिक् प्रतिमा स्थापिता आसीत्। अनन्तरं २०२२ तमस्य वर्षस्य सिप्तम्बर् मासे होलोग्राफिक् प्रतिमायाः स्थाने स्थायिग्रन्थिकप्रतिमा स्थापिता जाता। अस्मिन् एव दिवसे राजपथस्य नाम कर्तव्यपथः इति कृतं यतः उपनिवेशवादस्य सर्वाणि चिह्नानि अपसारणीयानि इति कृतसङ्कल्पः अस्ति। अस्याः निर्माता मैसुरुनगरस्य अरुणयोगीराजः अस्ति। अस्याः निर्माणं २८० टन् परिमितात् अखण्डात् ग्रन्थिकप्रस्तरात् अभवत्। एषा २८ पादाः उच्चतमा तथा ६५ टन् गुरुतमा अस्ति।
भारतीयस्वातन्त्र्ययोधाः
पश्चिमवङ्गस्य क्रान्तिकारिणः
विषयः वर्धनीयः
सारमञ्जूषा योजनीया |
1266 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A5%82%E0%A4%A1%E0%A4%BE%E0%A4%A8 | सूडान | सूडान (جمهورية السودان
Jumhuriyat as-Sudan) अफ्रीका महाद्वीपे उत्तरक्षेत्रे एक: देश: अस्ति।
External link
Photos of Life in Sudan: http://www.pbase.com/world/sudan
CIA - The World Factbook (Sudan): http://www.cia.gov/cia/publications/factbook/geos/su.html
आफ्रिकाखण्डस्य राष्ट्राणि
आफ्रिकाखण्डीयदेशसम्बद्धाः स्टब्स्
सारमञ्जूषा योजनीया
सर्वे अपूर्णलेखाः
सम्बद्धाः लेखाः
संस्कृतम्
भारतम्
हिन्दूधर्मः
वैदिकसाहित्यम् |
1267 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%A3-%E0%A4%86%E0%A4%AB%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A4%BE | दक्षिण-आफ्रिका | दक्षिण अफ्रीका अफ्रीका महाद्वीपे दक्षिणखण्डे देश: अस्ति. अस्य राजधानी केपटौन अस्ति.
टिप्पणी
बाह्यसम्पर्कतन्तुः
Government of South Africa
Chief of State and Cabinet Members
South Africa from UCB Libraries GovPubs
South Africa OECD
South Africa from the BBC News
South Africa at Encyclopædia Britannica
SouthAfrica.info
South Africa Tourism
Key Development Forecasts for South Africa from International Futures
आफ्रिकाखण्डस्य राष्ट्राणि
विभिन्नदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1272 | https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE | चन्द्रकान्ता | चन्द्रकान्ता (१९३८ - )श्रीनगरे जाता. सा बहुला उपन्यास: कथा: च लिखिता।
कथा सतीसर
बाह्यसम्पर्कतन्तुः
चन्द्रकान्ता
संदर्भ:
भारतीयलेखकाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया
जम्मू-काश्मीरराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1273 | https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%B0%E0%A5%8B%E0%A4%9C%E0%A4%BF%E0%A4%A8%E0%A5%80%20%E0%A4%95%E0%A4%BE%E0%A4%95 | सरोजिनी काक | सरोजिनी काक (१९२९- ) श्रीनगरे जाता. सा बहुला कविता लिखिता.
नगर और वैराग्य
विदेशीयव्यक्तिसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
जम्मूकाश्मीरराज्यस्य जनाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1274 | https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%80 | लल्लेश्वरी | लल्लेश्वरी(lalleshwari) (१४ शती) एका महती कश्मीर भाषायै कवियित्री आसीत्।
सा वाक्यानि रचयिता।
काश्मीरिलेखकाः
श्टब्स् संस्कृतसम्बद्धाः
संचित्रसारमञ्जूषे योजनीये
बाह्यानुबन्धः योजनीयः
अन्यभाषासाहित्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1275 | https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%BE%E0%A4%B9%E0%A5%8B%E0%A4%B0 | लाहोर | लाहोर पाकिस्तानस्य पञ्जाब प्रदेशस्य राजधानी अस्ति।
एतस्य स्थापना महाराज्ञः रामस्य पुत्रेण लवकुमारेन कृता इति श्रूयते।
बाह्य
लाहोर City Government
लाहोर Bazaar
itsPakistan - About Pakistan - लाहोर
पाकिस्तानस्य नगराणि
पाकिस्तानदेशसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
1283 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%87%E0%A4%B0%E0%A4%A0 | मेरठ | भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति मेरठमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मेरठनगरम्। अस्य नगरस्य पौराणिक नामः मयराष्ट्र इति ।
उत्तरप्रदेशराज्यस्य प्रमुखनगराणि
मेरठ
उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम् |
1284 | https://sa.wikipedia.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%B0%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D | गोरखपुरम् | भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति गोरखपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गोरखपुरम्।
उत्तरप्रदेशराज्यस्य प्रमुखनगराणि
उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1289 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%A8%E0%A4%97%E0%A4%B0%E0%A4%AE%E0%A5%8D | श्रीनगरम् | श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्ति । इदम् एकं सुरम्यं नगरम् अस्ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम् । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते ।
काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते ।
श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।
विमानमार्गः
चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।
धूमशकटयानसम्पर्कः
देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।
वाहनमार्गः
पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।
आधाराः
जालगवाक्ष:
श्रीनगर
Official website of Jammu and Kashmir
Images of Srinagar
जम्मूकाश्मीरराज्यस्य प्रमुखनगराणि
जम्मूकाश्मीरराज्यस्य प्रेक्षणीयस्थानानि
जम्मू-काश्मीरराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1290 | https://sa.wikipedia.org/wiki/%E0%A4%9C%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A5%82 | जम्मू | जम्मू विवादितकश्मीरप्रदेशे भारतप्रशासितजम्मू-कश्मीरस्य एकं नगरम् अस्ति ।भारतप्रशासितकेन्द्रशासितस्य जम्मू-कश्मीरस्य शिशिरराजधानी अस्ति ।जम्मूमण्डलस्य मुख्यालयः, बृहत्तमः नगरः च अस्ति ।तवीनद्याः तटे स्थितं जम्मू-नगरं २४० कि.मी.(९३ वर्गमी.) व्याप्तं उत्तरदिशि हिमालयेन, दक्षिणे उत्तरमैदानीभिः च परितः अस्ति ।जम्मू-नगरं संघराज्यस्य द्वितीयं सर्वाधिकजनसंख्यायुक्तं नगरम् अस्ति ।प्राचीनमन्दिराणां हिन्दुतीर्थानां च कारणेन जम्मू "मन्दिरनगरम्" इति प्रसिद्धम् अस्ति ।
व्युत्पत्ति विज्ञान
स्थानीयपरम्परानुसारं जम्मू-नगरस्य नामकरणं तस्य संस्थापकस्य राजाजम्बूलोचनस्य नामधेयेन कृतम् अस्ति, यः ९ शताब्द्यां अस्य क्षेत्रस्य शासनं कृतवान् इति विश्वासः अस्ति ।स्थानीयपरम्परा अस्य नगरस्य ३००० वर्षाणि पुरातनं मन्यते, परन्तु इतिहासकारैः एतस्य समर्थनं नास्ति ।
भूगोल
जम्मू-नगरं ३२.७३°उत्तर-७४.८७°पूर्वे स्थितम् अस्ति । अस्य सरासरी ऊर्ध्वता ३०० मीटर् (९८० फीट्) अस्ति । जम्मू-नगरं शिवलिक-पर्वतेषु न्यून-उच्चतायाः विषम-शिखरेषु स्थितम् अस्ति ।उत्तरे, पूर्वे, दक्षिणपूर्वे च शिवालिकशृङ्खलाभिः परितः अस्ति, वायव्यदिशि तु त्रिकुटशृङ्खला परितः अस्ति ।राष्ट्रराजधानी नूतनदिल्लीतः प्रायः ६०० किलोमीटर् (३७० मील) दूरे अस्ति ।नगरं तावीनद्याः परितः प्रसृतं भवति यत्र पुरातनं नगरं उत्तरतः (दक्षिणतटं) तस्य दृश्यं दृश्यते, नूतनाः परिसराश्च नदीयाः दक्षिणपार्श्वे (वामतटं) परितः प्रसृताः सन्ति ।अस्याः नदीयां पञ्च सेतुः अस्ति ।एतत् नगरं कूर्चानां श्रृङ्खलायां निर्मितम् अस्ति ।
नगरं तावीनद्याः परितः प्रसृतं भवति यत्र पुरातनं नगरं उत्तरतः (दक्षिणतटं) तस्य दृश्यं दृश्यते, नूतनाः परिसराश्च नदीयाः दक्षिणपार्श्वे (वामतटं) परितः प्रसृताः सन्ति ।अस्याः नदीयां पञ्च सेतुः अस्ति ।एतत् नगरं कूर्चानां श्रृङ्खलायां निर्मितम् अस्ति ।
इतिहास
तारिक्-इ-आज्मी इत्यस्य मते ९०० ई.स.।दुर्गरा-राज्यम् (आधुनिकरूपं "दुग्गर" "डोगरा") अपि अस्य समयस्य परितः प्रमाणं प्राप्नोति ।तदानीन्तनस्य दुर्गराराज्यस्य राजधानी वल्लपुरा (आधुनिकबिलावरेन सह परिचिता) इति मन्यते ।कल्हणस्य राजतरङ्गिणीयां तस्य शासकाः पुनः पुनः उल्लिखिताः सन्ति ।बब्बपुरा (आधुनिकं बाबोर) अन्यत् राज्यं राजतरङ्गिणीयां उल्लिखितम् अस्ति, यस्य केचन शासकाः परवर्ती जम्मूशासकानाम् वामशावली (पारिवारिकवृत्तान्ताः) इत्यत्र अपि दृश्यन्ते ।एते शासकाः प्रायः स्वतन्त्रतां प्राप्य दिल्ली-सुल्तानैः सह मित्रतां कृतवन्तः इति मन्यते ।राजा भीम देवस्य दिल्ली-वृत्तान्तेषु मुबाराहशाहस्य (राज. १४२१–१४३४) समर्थकत्वेन प्रमुखतया उल्लेखः अस्ति ।
१३९८ तमे वर्षे देहल्यां आक्रमणं कृत्वा जम्मूमार्गेण समरकन्दं प्रत्यागतस्य तैमूरस्य (राज. १३७०–१४०६) इतिहासग्रन्थेषु जम्मू-नगरस्य नामना उल्लेखः अस्ति ।१६ शताब्द्याः आरम्भे बाबर-नगरस्य मुगल-वृत्तान्तेषु जम्मू-नगरं पञ्जाब-पर्वतेषु शक्तिशालिनः राज्यत्वेन उल्लेखितम् अस्ति ।मन्हासराजपूतैः शासितम् इति कथ्यते । सम्राट् अकबरः अस्य प्रदेशस्य पर्वतराज्यानि मुगलानाम् आधिपत्यं आनयत्, परन्तु राजानः पर्याप्तं राजनैतिकस्वायत्ततां प्राप्नुवन्ति स्म ।जम्मू-नगरस्य अतिरिक्तं किष्टवार-राजौरी-इत्यादीनां क्षेत्रस्य अन्यराज्यानां अपि प्रमुखतया उल्लेखः अभवत् ।मुगलसाम्राज्येन एतान् पर्वतप्रमुखान् साम्राज्यस्य मित्रपक्षः, भागीदारः च इति व्यवहारः कृतः इति स्पष्टम् ।
आधुनिक इतिहास
१८ शताब्द्यां मुगलसत्तायाः पतनस्य अनन्तरं जमुवाल (जमवाल) परिवारस्य राजा ध्रुवदेवस्य अधीनस्थं जम्मूराज्यं दुगरराज्येषु स्वस्य वर्चस्वं प्रतिपादितवान् ।तस्य आरोहणं तस्य उत्तराधिकारिणः राजा रणजीतदेवस्य (राज. १७२८–१७८०) इत्यस्य अधीनं शिखरं प्राप्तवान्, यः पर्वतराज्येषु बहुधा सम्मानितः आसीत् ।रञ्जीतदेवः धार्मिकस्वतन्त्रतायाः सुरक्षायाश्च प्रचारं कृतवान्, येन जम्मूनगरे निवसितुं बहवः शिल्पिनः व्यापारिणः च आकर्षिताः, येन तस्य आर्थिकसमृद्धेः योगदानं जातम् ।
रञ्जीतदेवस्य शासनस्य अन्ते पञ्जाबस्य सिक्खगोत्राणां (मिसलानां) आधिपत्यं प्राप्तम्, जम्मू-नगरस्य भङ्गी-कन्हैया-सुकेरचकिया-मिसलैः सह स्पर्धा भवितुं आरब्धा । १७७० तमे वर्षे भङ्गीमिसलेन जम्मू-नगरे आक्रमणं कृत्वा रञ्जीतदेवस्य सहायिकाः भवितुं बाध्यः अभवत् । रंजीतदेवस्य उत्तराधिकारी बृजलालदेवः सुकेरचकियाप्रमुखेन महानसिंहेन पराजितः अभवत्, येन जम्मू-नगरं बर्खास्तं कृत्वा लुण्ठितम् ।एवं जम्मू-नगरस्य परितः देशस्य उपरि आधिपत्यं नष्टम् अभवत् ।
१८०८ तमे वर्षे महनसिंहस्य पुत्रेन रञ्जीतसिंहेन जम्मू-नगरं स्वयं सिक्खसाम्राज्ये विलीनं जातम् ।१८१८ तमे वर्षे राजा गुलाबसिंहस्य पिता राजा किशोरसिंहः जम्मू-राज्यस्य शासकत्वेन नियुक्तः अभिषिक्तः च अभवत्, अतः ब्रिटिश-आधिपत्य-अधीन-जम्मू-कश्मीर-राज्यस्य रियासतराज्यस्य शासनं कर्तुं आगतः, जम्वाल-वंशः उर्फ डोगरा-वंशः आरब्धः । शासकाः बृहत् मन्दिराणि निर्मितवन्तः, पुरातनतीर्थानां नवीनीकरणं कृतवन्तः, शैक्षणिकसंस्थाः निर्मितवन्तः इत्यादीनि बहवः । जम्मू-नगरं सियालकोट्-नगरं च संयोजयति ४३ कि.मी.दीर्घा रेलमार्गः १८९७ तमे वर्षे स्थापिता ।
जम्मू ऐतिहासिकरूपेण जम्मू-प्रान्तस्य राजधानी, रियासतस्य जम्मू-कश्मीरस्य च शिशिरराजधानी (१८४६–१९५२) अस्ति ।
भारतस्य विभाजनानन्तरं जम्मू भारतस्य जम्मू-कश्मीरराज्यस्य शिशिरराजधानीरूपेण अद्यापि वर्तते ।
वायुमंडल
जम्मू-नगरे वायव्यभारतस्य शेषभागेषु इव आर्द्र-उपोष्णकटिबंधीयजलवायुः (Köppen Cwa) अस्ति, यत्र अत्यन्तं ग्रीष्मकालस्य उच्चतमता ४६ °C (११५ °F) यावत् भवति, शिशिरमासेषु तापमानं च यदा कदा ४ °C (३९ °) तः न्यूनं भवति । जूनमासः सर्वाधिकं उष्णतमः मासः अस्ति यत्र औसतं उच्चतमं तापमानं ४०.६ °C (१०५.१ °F) भवति, जनवरीमासे तु सर्वाधिकं शीतलं भवति यत्र औसतं न्यूनतमं तापमानं ७ °C (४५ °F) यावत् भवति । जूनतः सेप्टेम्बरमासपर्यन्तं वर्षाणां अधिकांशः वर्षा प्रायः ४२ इञ्च् (१,१०० मि.मी.) भवति, यद्यपि शिशिरकालः अपि आर्द्रः भवितुम् अर्हति ।शिशिरे सघनधूमस्य कारणेन बहु असुविधा भवति, तापमानं २ °C (३६ °F) यावत् अपि न्यूनीभवति ।ग्रीष्मर्तौ विशेषतः मे-जून-मासेषु अत्यन्तं तीव्रसूर्यप्रकाशः अथवा उष्णवायुः ४६ °C (११५ °F) यावत् तापमानं वर्धयितुं शक्नोति ।उष्णऋतुम् अनुसृत्य मानसूनः वज्रपातैः सह प्रचण्डवृष्ट्या नगरं प्रहरति;आर्द्रतममासेषु कुलम् ६६९ मि.मी.(२६.३ इञ्च्) यावत् वर्षा भवति । नगरं उष्णतरङ्गैः संसर्गं प्राप्नोति । |
1291 | https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%AE%E0%A4%B2%E0%A4%BE | शिमला | शिमला हिमाचलप्रदेशस्य राजधानी अस्ति ।१८६४तमे वर्षे आंग्लप्रशासनेन शिमलानगरं भारते ब्रिटिशशाशनस्य ग्रीष्मकालीन राजधानी घोषिता। नगरमेतद् लोकप्रियं रमणीयं पर्यटनस्थलमस्ति। शिमलानगरं बहुधा (पर्वतानां साम्राज्ञी)इत्यापि कत्थयते।
पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्लाध्नां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिम्ला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति ।Queen of hills, Jewel of the orient इति च प्रसिद्धम् अस्ति ।
सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगर अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति ।
Mall मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः) , चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति ।
चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति ।
नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।
बाह्यसम्पर्कतन्तु
शिमला के प्रसिद्ध पर्यटन स्थल
भारतस्य राज्यानां राजधान्यः
हिमाचलप्रदेशस्य प्रेक्षणीयस्थानानि
हिमाचलप्रदेशस्य प्रमुखनगराणि
हिमाचलप्रदेशराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1292 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B9%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A5%82%E0%A4%A8 | देहरादून | उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति देहरादूनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति डेहराडूननगरम् । देहरादून् नगरम् उत्तराखण्डस्य राजधानी प्रवासिजनाः एतं प्रदेशं द्रष्टुं मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं वीक्षणस्थानमेतदस्ति। अत्रत्य अरण्यसंशोधनाकेन्द्रं विश्वे एव प्रसिद्धम् अस्ति । सर्वे आफ् इण्डिया केन्द्रमप्यस्ति । इतः ८ कि.मी. दूरे चोरगुहा(राबर्सकेव्) इति स्थलम् अपूर्वमस्ति। एतत् स्थलम् सुप्रसिद्धं प्रवासिस्थलम् भवति। भव्यानि अरण्यानि, पर्वतप्रदेशाः,नदीतीरप्रदेशाः अस्मान् आकर्षयन्ति । अत्र विद्यमानयाः नद्यायाः वैशिष्ट्यम् अस्ति। तत् किमितिचेत्, नदीतीरे विद्यमानं जलं क्षणाभ्यन्तरे अदृश्यं भवति। किञ्चित् कालानन्तरं किञ्चित् दूरं गत्वा अनन्तरम् फेनरूपेण बहिरागच्छति।
अन्यानि स्थलानि
समीपे [१४ कि.मी.] उष्णजलस्थानानि सहस्रधारा-प्रदेशे सन्ति। मालसिहरिणवनम् आकर्षणीयमस्ति ।
बस् मार्गः
हरिद्वारतः ५६ कि.मी दूरे अस्ति।
धूमशकटमार्गः
डून् एक्सप्रेस् , मसूरी एक्सप्रेस् तः देहरादून् पर्यन्तम् गन्तुं शक्यते ।
आवासः
वासार्थम् उत्तमोपहारवसतगृहणि च सन्ति ।
वीथिका
बाह्यसम्पर्कतन्तु
भारतस्य राज्यानां राजधान्यः
उत्तराखण्डस्य प्रेक्षणीयस्थानानि
उत्तराखण्डस्य प्रमुखनगराणि
उत्तराखण्डसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः |
1293 | https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BF%E0%A4%B8%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D | दिसपुरम् | दिसपुर असमराज्यस्य राजधानी अस्ति ।
This place that existed as a locality on the outskirts of Guwahati, took its place as the capital of Assam in 1973. To the south of Dispur is the mythologically important site of Basistha Ashram and the Sankardeva Kalashetra, a cultural center created in the 1990s. Next to Dispur is the ancient township of Jatia.
Retrieved from "http://en.wikipedia.org/wiki/Dispur"
असमराज्यसम्बद्धाः स्टब्स्
भारतस्य राज्यानां राजधान्यः
असमराज्यम्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया
सम्बद्धाः लेखाः
भारतम्
संस्कृतम्
भारतस्य इतिहासः
विज्ञानम् |
1294 | https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%88 | मुम्बई | मुम्बई () महाराष्ट्रराज्यस्य राजधानी अस्ति । एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् । भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे, समुद्रतटे एतद् नगरं स्थितम् । अरबी-समुद्रतटे यानि नौकास्थानानि सन्ति तेषु अन्यतमं सर्वोत्कृष्टमिदम् । इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति । विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् । 'बोलिवुड्' नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते । आङ्गलानां प्रशासनकाले 'बॉम्बे' नाम्ना प्रख्यातम् अभवत् । लघु-’धाकटा’ कुलाबा, बृहत्-'मोठा' कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम् । इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।
जनसङ्ख्या
मुम्बई नगरस्य जनसङ्ख्या (२०११) १,८४,१४,२८८ अस्ति । अत्र ९८,९४,०८८ पुरुषा:, ८,५२०,२०० महिला: च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-८६१ अस्ति । अत्र साक्षरता ९०.७८% अस्ति ।
मुम्बई नगरस्य जनसङ्ख्या तु इदानीं जनानां चिन्ताविषय: । अस्याः समास्यायाः निवारणार्थं कार्यरतमस्ति बृहन्मुम्बईनगरप्रशासनम् ।
इतिहास:
मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते। अत्यन्तपुरातनानि पाषाणसाधनानि, पुरातनाः अवशेषाश्च उपलभ्यन्ते । अस्मिन् विभागे पञ्चमशतकात् आरभ्य क्रमश: आभीर-त्रैकूटक-मौर्य-चालुक्य-राष्ट्रकूट-शिलाहार-यादवराजानां च आधिपत्यमासीत् । शिलाहारराजानाम् आधिपत्ये वाळकेश्वरमन्दिरस्य स्थापना जाता इति जना: मन्यन्ते । यादवानां समनन्तरं २५ वर्षेभ्य: एव मुम्बईपरिसरे हिन्दुसाम्राज्यस्यान्त: जात: ।
कोळी इति अत्रस्था: मूलजना: आसन् । मच्छगाव इदानीन्तन माझगाव, कोळघाट इदानीन्तन कुलाबा, माण्डवी, माहीम, शीव इत्येतेषु स्थानेषु ’कोळीवाडे’ मत्स्यव्यवसायिकानां निवासस्थानानि आसन् । कोळीजनै: सह आगरी, भण्डारी, माध्यन्दिनी-ब्राह्मणजना: अत्रस्था: पुरातनजना: । यादवानां कालखण्डे अत्र मत्स्यव्यवसाय:, कृषि:, लवणोत्पादनं च प्रचलत् आसीत् । पञ्चदशे शतके अत्र गुजरात-सुलतान इत्यस्य आधिपत्यमासीत् । साष्टी द्वीपे अभवत् युद्धम् इतिहासे प्रसिद्धम् । तस्मिन् युद्धे पुर्तगालप्रशासका: अपि भागम् ऊढवन्त: । तदा षोडश-शतके मुम्बई, वसई च पुर्तगाल-आधिपत्ये निर्गते । टोलेमि इत्यस्य प्रवासवर्णने ‘हेप्टानेशिया’ इति यः उल्लेख: दृश्यते स: मुम्बईसम्बद्ध: इति मन्यते । अस्मिन् काले क्रैस्तधर्मप्रसार:, चर्च इत्येतानां वास्तूनां निर्माणं जातम् । सप्तदशशतकस्य प्रारम्भे आङ्ग्लजनानाम् आगमनमत्राभवत्, डचप्रशासकानां साहाय्येन आङ्ग्ला: मुम्बईप्रदेशं जेतुं इच्छां धृतवन्त: । एकवारं मुम्बईप्रदेशं लुण्ठितवन्त: अपि । अन्ते आङ्ग्लराजा द्वितीय चार्ल्स इत्येतस्य पुर्तगाल-राजकन्यया केथरिन इत्यनया सह विवाह: जात: । तस्मिन् प्रसङ्गे उपहारत्वेन मुम्बईनगरं आङ्ग्लराजाय दत्तवन्त: पुर्तगाल प्रशासका: । जेराल्ड आञ्जिअर(१६७२) इत्यनेन अत्र बहु सुधारणाकार्यं कृतम् । जेराल्ड इत्यनेनैव सप्तद्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । द्वीपेषु गोलनजी हिल्स(परळ), शिव इत्यत्र कोट:, कान्हेरी लयनानि इत्येतेषां स्तरा: दृश्यन्ते । आङ्ग्लप्रशासनेऽपि बहुवारं हस्तान्तरणम् अभवत् । अष्टादशशतके मराठाप्रशासनाधिपत्ये मुम्बई स्थैर्यम् अलभत् । परं १८१८ तमे वर्षे पेशवे-सत्ताधीशानां पराभवं कृत्वा आङ्ग्लप्रशासनेन आधिपत्यं संस्थापितम् । तदा 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य स्थापना कृता । १८५७ तमे वर्षे आभारतं चलत्-स्वातन्त्र्य-सङ्ग्रामस्य प्रभाव: मुम्बईनगरे किञ्चिदिव आसीत् । १८५७ तमे वर्षे मुम्बई विद्यापीठस्य स्थापना जाता तत: शैक्षणिककेन्द्रत्वेन नगरस्य विकास: प्रारब्ध: । १८६५ तमे वर्षे मुम्बई-नगरपालिकाया: स्थापना कृता । अस्मिन्नेव कालखण्डे जलनिर्गमयोजना, व्यापारकेन्द्रं, रञ्जनकेन्द्रं, रक्षकदलः, न्यायव्यवस्था इत्येतेषां पुनारचना कृता । वस्त्रोद्यमा:, धूमशकटमार्गाश्च आरब्धा: । बहूनां प्रसिद्धानां वास्तूनां निर्माणकार्यमपि तदानीमेव जातम्, यथा - जे.जे.स्कूल औफ़् आर्ट्स्, पुरातन-सचिवालय:, मुम्बई-विद्यापीठ-वास्तु इत्यादय: । १९४७ तमे वर्षे स्वतन्त्र-भारतदेशे 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य विलीनिकरणं जातम् । १९६० तमे वर्षे महाराष्ट्रराज्ये मुम्बई-नगरस्य समावेश: जात: । एवं बहुपुरातन: समृद्धश्च इतिहास: मुम्बापुरी-मुम्बईनगरस्य ।
भौगोलिकम्
मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति । नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति । इदानीमपि द्वीप-योजनस्य चिह्नानि दृश्यन्ते । मुम्बईनगरं सागरतटे अस्ति अत: साधारणतया उष्णम्, आर्द्रं च वातावरणम् अत्र भवति । जून मासत: सप्टेम्बर-मासाभ्यान्तरं नैऋत्य-मान्सून-वायुना वृष्टिपात: भवति । १८० से.मी. वार्षिकवृष्टिपातः भवति ।
नगरेऽस्मिन् नारिकेल:-‘ताड’-आम्रफलं-तिन्त्रिणी-वट-वृक्षा: अधिका: सन्ति ।
प्रशासनम्
१९९० तमे वर्षे प्रशासनसौकर्यार्थं मुम्बईनगरस्य मण्डलद्वये विभाजनं जातम् । मुम्बईमण्डलं, मुम्बई-उपनगर-मण्डलं च इत्येतौ विभागौ स्त: । तथापि सामान्यत: मुम्बई नगरस्य केचन विभागा: भवन्ति । ते यथा - 'फोर्ट', बाजार इति क्रयविक्रयणकेन्द्रं, परळ-भायखळाविभागे धनिकानां निवासस्थानानि, 'बन्दर' नौकास्थानकविभाग:, मध्यमवर्गीयजनानां निवासस्थलं, उपनगराणि च ।
विशिष्टम्
आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् । 'रॉयल एशियाटिक सोसायटी'(१८०५), 'स्ट्यूडन्ट्स लिटररी एण्ड सायण्टिफिक सोसायटी'(१८४८), 'सर जे. जे. स्कूल ऑफ आर्ट'(१८५७), 'प्रार्थना समाज:' (१८६७), 'आर्य समाज:' (१८७५), 'थिऑसॉफिकल सोसायटी'(१८७५), 'भारतीय राष्ट्रीय काङ्ग्रेस' (इण्डियन नेशनल काङ्ग्रेस) इत्यस्य प्रथमम् अधिवेशनं(१८८५), 'कामगार चळवळ'- कर्मकराणाम् आन्दोलनम्(१८८५), 'भारत छोडो आन्दोलनम्'(१९४२) इत्येतासां घटनानां प्रमुखस्थानमासीत् मुम्बई नगरम् । मुम्बई नगरे नैके राजकीय नेतारः, उद्योगपतयः, सामाजिक कार्यकर्तार:, विद्वज्जना: संशोधका:, लेखका:, कलावन्त: च आसन्, सन्त्यपि । तेषां जन्म वा कार्यस्थलमस्ति नगरमिदम् ।
सांस्कृतिकदृष्ट्याऽपि वैविध्यपूर्णमिदं नगरम् । भाषा-धर्म-सम्प्रदाय-आर्थिकस्तरे भिन्नता अस्ति चेदपि व्यवसायकारणात् जना: अत्र आगच्छन्ति निवसन्ति च । मुम्बई नगरे तासां सर्वासां संस्कृतीनां समाहार: दृश्यते । मराठी, हिन्दी, गुजराती, आङ्ग्ल, सिन्धी, उर्दू इत्येतासु भाषासु जनाः वदन्ति । मराठी रङ्गभूमि-हिन्दीचलच्चित्रनिर्माणव्यवसाययोः(बोलिवुड्) जनाः विशेषत्वेन कार्यरताः दृश्यन्ते ।
व्यक्तिविशेषा:
नैकानां विभूतिनां जन्मस्थलं, कार्यस्थलं वा नगरमिदम् । यथा राजा भीमदेव, पुर्तगालप्रशासक: फ्रान्सिस् अल्मेडा, जेराल्ड आञ्जियर्, डा हाफकिन्, रुदियार्ड् किप्लिङ्ग, फिरोजशहा मेहता, दादाभाई नौरोजी, महादेव रानडे, डेविड् ससून, जगन्नाथ शङ्कर शेठ, जमशेठजी टाटा, होमी भाभा, मादाम कामा च ।
मुम्बईनगरस्य प्रेक्षणीयस्थानानि
'गेटवे ऑफ इण्डिया'
भारतस्य प्रवेशद्वारत्वात् अस्य नाम 'गेटवे ऑफ इण्डिया' इति । पूर्वं विदेशेभ्यः जनाः नौकायानेन अत्रैव आगच्छन्ति स्म । विशेषतः आङ्ग्लाः मुम्बईनगरम् आगत्य भारतदेशे कार्यप्रवृत्ताः भवन्ति स्म । अतः एव एतत् स्मारकम् अतीव विशिष्टं सञ्जातम् इति मन्यते ।
पीतवर्णयुक्तैः 'बेसाल्ट्' शिलाभिः एतत् महाद्वारम् 'अपोलो' नौकास्थानकसमीपे निर्मापितम् अस्ति । द्वारं परितः विशालप्राङ्गणम् अस्ति । सागरतीरसमीपे अस्मिन् स्थले प्रातः सायं च विहाराय बहवः जनाः आगच्छन्ति ।
छत्रपति-शिवाजी-महाराज-सङ्ग्रहालय:
अयं सङ्ग्रहालयः पूर्वम् 'प्रिन्सवेल्स् म्यूजियम्' इति नाम्ना प्रसिद्ध: आसीत् । मुम्बईनगरे कोलाबाप्रदेशे एषः वस्तुसङ्ग्रहालयः अस्ति । क्रिस्ताब्दे १९०५ तमे वर्षे पञ्चमः जोर्ज भारतम् आगतवान् । एतत्स्मरणार्थम् 'इण्डो-सार्सेनिक' शैल्या विशिष्टं भवनं निर्मापितम् आसीत् । अत्र एलिफण्टा गुहागतवास्तुकृतयः प्राच्यवस्तूनि च सङ्गृहीतानि सन्ति ।
गौतमबुद्धस्य अपूर्वः विग्रहः अत्र अस्ति । अत्र आवरणे ’जहाङ्गीर आर्ट ग्यालरि' नामकः कलासङ्ग्रहालयः अस्ति । अत्र कलाप्रदर्शनानि वर्तन्ते ।
फ्लोरा फौण्टन्
हुतात्मा चतुष्पथः इत्यपि अस्य अपरनाम । मुम्बईनगरस्य एकं जनभरितं वाणिज्यकेन्द्रस्थानम् एतत् । क्रिस्ताब्दे १८६२ तः १८६७ पर्यन्तं बॉम्बे प्रान्तस्य अधिकारी सर् बार्टल् फ्रियर अस्य प्रशासकः आसीत् । तस्य स्मरणार्थम् अस्य निर्माणम् कृतम् । फ्लोरामूर्तेः वैभवः दर्शनीयः अस्ति ।
तारापोरवाला अक्वेरियम्
एषः कश्चन मत्स्यागारः । मुम्बईनगरे मरीन ड्राइव इति सागरतीरसमीपे एषः विशिष्टः मत्स्यागारः अस्ति । अत्र विविधजातीयाः वर्णमयाः मत्स्याः सङ्गृहीताः सन्ति । अत्र मीनाः उत्तमतया संरक्षिताः सन्ति ।
मलबारहिल्स्
मलबारहिल्स् पर्वतप्रदेशः मुम्बईनगरसमीपे अस्ति । शीतलः अयं प्रदेशः मुम्बईनगरवासिनां विहारस्थलमस्ति । वाळकेश्वर-महालक्ष्मीदेवालयौ अपि अत्रैव स्तः । मलबारपर्वताग्रे ‘हेङ्गिङ्ग गार्डन्’ क्रिस्ताब्दे १८८१ तमे वर्षे निर्मापितम् । वाळकेश्वरमन्दिरस्य स्थापना श्रीरामेण एव कृतम् इति जनानाम् अभिप्रायः ।
जलाशयस्य अग्रतः उद्यानं निर्मितम् अस्ति । अस्य फिरोजशाह मेहता उद्यानम् इत्यपि नाम । अत्र उद्यानवने सस्यानि प्राणिनाम् आकारैः कर्तितानि सन्ति । अधः कमलानेहरु उद्यानमपि अस्ति । एतदुद्यानं क्रिस्ताब्दे १९५२ तमे वर्षे निर्मितम् । रात्रौ मलबारहिलतः नगरदर्शनम् अतीव सुन्दरं भवति ।
विक्टोरिया गार्डन्
मुम्बईमहानगरे स्थितं विक्टोरिया गार्डन् वीरमाता जीजाबाई उद्यानवनम् इत्यपि प्रसिद्धम् अस्ति । अत्र सुन्दरः मृगालयः, आल्बर्ट ’म्यूसियम्’ च आकर्षणं अस्ति । वस्तुसङ्ग्रहालयस्य बाह्यप्रदेशे एलिफेण्टाद्वीपात् आनीतः बृहत्शिलागजः स्थापितः अस्ति । डा एनिबेसेन्टमार्गसमीपे नेहरू 'प्लानेटेरियम्'-ताराङ्गणम् आकर्षकम् अस्ति ।
मुंबईनगरस्य सागरतीराणि
मुम्बईनगरं पश्चिमसागरतीरे अस्ति ।
सागरतीरेषु सामान्यतः वालुकाः सन्ति ।
जनाः विहाराय अत्र आगच्छन्ति । राष्ट्रियनायकानां महापुरुषाणां भाषणकार्यक्रमाः अत्र भवन्ति ।
’चौपाटी’ सागरतीरं वक्राकारकम् अतीवाकर्षकम् अस्ति । सायङ्काले बहुजनाः रम्यदृश्यस्य वी़क्षणार्थम् अत्र आगच्छन्ति । जुहू ’चौपाटी’ अतिप्रसिद्धम् अस्ति । ’धक्का’ प्रदेशे नौकास्थानकम् अस्ति ।
मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तराजधानी, मनोरञ्जनराजधानी च वर्तते । 'भारतीय रिजर्व बैङ्क', मुम्बई ’शेअर बाजार’, राष्ट्रीय शेअर बाजार इत्येतादृश्यः नैकाः महत्वपूर्णाः संस्थाः अत्र सन्ति । मुम्बईनगरं हिन्दीभाषायां-चलच्चित्रनिर्माणस्यापि केन्द्रम् । सञ्जय गान्धी राष्ट्रियोद्यानं, लवणक्षेत्राणि इत्यादीनि प्राकृतिकस्थलानि नगरसमीपे सन्ति । एवं समृद्धमिदम् नगरम् ।
मार्गा:
१. विमानमार्गा: - छत्रपति-शिवाजी-राष्ट्रिय,अन्ताराष्ट्रियविमानस्थानकम् अस्ति । सर्वेभ्य: प्रमुखविमानस्थानकेभ्य: मुम्बईनगरं प्रति विमानव्यवस्था: सन्ति । सर्वा: विमानसेवा: मुम्बईनगरं प्रति गमनार्थं सेवां यच्छन्ति ।
२. धूमशकटमार्गा: - छत्रपति-शिवाजी-’टर्मिनस्’, ’बोम्बे सेण्ट्रल्’, दादर, कल्याण इत्येनानि प्रमुखरेलस्थानकानि सन्ति । मध्य-पूर्व-पश्चिम-दक्षिणरेलयानानां स्थानकानि सन्ति । अत: कुतश्चिदपि अत्र प्राप्तुं शक्यते ।
३. भूमार्गा: - सर्वेभ्य: प्रमुखस्थलेभ्य: मुम्बई नगरं गन्तुं बसयानानि प्राप्यन्ते ।
सम्पर्कतन्तु:
मराठी-विश्वकोश:
मुम्बई-उपनगर-मण्डलस्य सङ्केतस्थलम्
मुम्बईमण्डलस्य सर्वकारसङ्केतस्थलम्
मुम्बई
महाराष्ट्रराज्यस्य प्रेक्षणीयस्थलानि] |
1298 | https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%A3%E0%A4%9C%E0%A5%80 | पणजी | पणजी ) (, )नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।
इतिहासः
पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा (१००७-१०५०) अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ (Ship), खली = कुल्या (creek) च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा १८४३ तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे (२२) दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । १९६१ तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।
वीक्षणीयस्थलानि
कला ‘एकेडमी’:- कलाक्षेत्रे अभूतपर्वप्रसिद्धिं प्राप्तवतः ‘दीनानाथ मङ्गेशकर’ इत्यस्य कलाविदः नाम्ना स्थापितं सभागृहम् (Auditorium) अस्ति । तत् सभागृहं ‘बेण्डोगकर’ मार्गे स्थितमस्ति । तस्मिन् सभागृहे अनावृत्तं चलच्चित्रगृहं (Open air Theater), लघुचलचित्रगृहं, गीतमुद्रिकाकक्षः (Recording room), सङ्गीतालयः च अस्ति । ‘फेब्रुआरी’-मासे अत्र POP, BEAT, JAZZ इत्येषां सङ्गीतानाम् उत्सवो भवति । तस्मिन् समये बहवः सङ्गीतरसिकाः तत्र गच्छन्ति ।
केसिनो रोयाल् (Casino Royal):- गोवाराज्यस्य बृहत्तमं द्यूतक्रीडाभवनमस्ति एतत् । अत्र धनं जेतुम् ईप्सायां सति भिन्नक्रीडाः क्रीडन्ति जनाः । यथा – Slots, Poker च । अत्र विशालभोजनकक्षः अस्ति ।
मीरामर-समुद्रतटः:- माण्डवीनदी-अरबीसमुद्रयोः सङ्गमे स्थितः एषः समुद्रतटः प्रख्यातः अस्ति । मीरामर इति पुर्तगालीशब्दस्यार्थोऽस्ति समुद्रदृश्यम् इति ।
दोना पौला:- तत्र अरबी-समुद्रस्य, दोना-पौला-नद्योः च सङ्गमः भवति । तत्र सायंकाले सूर्यास्तस्य दर्शनाय जनाः गच्छन्ति ।
मार्गाः
विमानमार्गः
वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः (२३) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।
धूमशकटमार्गः
भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।
भूमार्गः
भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।
बाह्यानुबन्धः
http://www.ccpgoa.com/ www.ccpgoa.com
गोवाराज्यस्य नगराणि |
1299 | https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%AE%E0%A5%8D | रायपुरम् | रायपुरं छत्तीसगढ प्रान्तस्य राजधानी अस्ति. अत्र जनसंख्या १,५६०,००० अस्ति.
रायपुर
छत्तीसगढराज्यस्य नगराणि
छत्तीसगढराज्यसम्बद्धाः स्टब्स्
सर्वे अपूर्णलेखाः
चित्रं योजनीयम्
सारमञ्जूषा योजनीया |
1302 | https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A5%8B%E0%A4%B9%E0%A4%BF%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B2%E0%A4%AE%E0%A5%8D | कोहिमामण्डलम् | कोहिमामण्डलं () नागाल्याण्डराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोहिमा इत्येतन्नगरम् ।
भौगोलिकम्
कोहिमामण्डलस्य विस्तारः १२६७ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि दिमापुरमण्डलं, पूर्वदिशि फेकमण्डलं, दक्षिणदिशि मणिपुरराज्यं, पेरेनमण्डलं च, उत्तरदिशि वोखामण्डलम् अस्ति । अस्य मण्डलस्य वातावरणं सामान्यतः आर्द्रं भवति ।
जनसङ्ख्या
कोहिमामण्डलस्य जनसङ्ख्या(२०११) २,६७,९८८ अस्ति । अस्मिन् १,३८,९६६ पुरुषाः, १,२९,०२२ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १८३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.००% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८५.२३% अस्ति । मण्डलेऽस्मिन् ५४.८२% जनाः ग्रामेषु निवसन्ति ।
ऐतिहासिकं किञ्चित्
१ डिसेम्बर् १९६३ दिनाङ्के नागाल्याण्डराज्यस्य स्थापना जाता । तदा एव कोहिमा नगरं राजधानीत्वेन चितम् ।
उपमण्डलानि
त्सेमिन्यु
त्सोगिन्
बोत्सा
कोहिमा सदर
चिएफोबोझोउ
केझोचा
जखम
सेचु-झुब्जा
लोकजीवनम्
कोहिमामण्डलस्य अङ्गमी-नागा, रेङ्गमा-नागा च पुरातनजनजातिः अस्ति । कोहिमा नगरम् नागल्याण्डराज्यस्य राजधानी, cosmopolitan city अपि वर्तते अतः कोहिमामण्डलस्य विकासः जायमानः अस्ति ।
अङ्गमीजनैः 'सेक्रेन्यी' इति उत्सवः आचर्यते । फेब्रुअरी मासे अस्य आचरणं भवति । सेक्रेन्यी उत्सवः केचन विधीनां समाहारः अस्ति । अस्मिन् 'केझी' इति प्रथमदिनस्नानं, सप्तमदिनस्य युवासहभागिनां मृगया, अष्टमदिने ग्रामान्तरं गत्वा जनैः सह मेलनं भवति । एतेषु उत्सवदिनेषु कृषिकार्यं न भवति ।
रेङ्गमाजनाः 'नगदा' उत्सवम् आचरन्ति । नवेम्बर् मासे कृष्युत्पादनात् अनन्तरम् अष्टदिनेषु अस्य उत्सवस्य आचरणं जनाः कुर्वन्ति । प्रप्रथमदिने प्रत्येकस्मिन् गृहे महिलाः तण्डुलैः सुरां (Rice beer) पचन्ति । उत्सवेऽस्मिन् गतजीवितेभ्यः जनेभ्यः सुरया सह सस्यानां श्रद्धाञ्जलिः दीयते । अनन्तरं पुरुषाः स्वभोजनं गृहीत्वा एकस्मिन् स्थाने मिलित्वा भोजनं च कुर्वन्ति । पञ्चमदिने पुरुषाः लोकगीतान् गायन्तः एकत्र शोभायात्रां गच्छन्ति । तदा मार्गे यानि गृहाणि सन्ति तानि गत्वा जनैः सह मिलन्ति, संवादं साधयन्ति च । सप्तमदिने जनाः काष्ठेन्धनं, सस्यानि, कदलीवृक्षपर्णानि आहरणार्थं वनं गच्छन्ति । जनाः एकत्र भोजनं पचन्ति, अग्नेः पुरतः त्रयाणां विधीनाम् आचरणं च कुर्वन्ति । तेषु अग्निना सह शान्त्यर्थं सन्धिः, याचना च भवति यत् अग्निना हानिः न भवतु इति । अपरं च मूषकान् उद्दिश्य प्रार्थना भवति यत् ते सस्यानां विमर्दं मा कुर्युः इति । अथ च विघ्नकर्त्र्यः याः शक्तयः, ताः अपि अपसर्पन्तु इति प्रर्थना क्रियते । एवम् अष्टदिनानि यावत् 'नगदा' उत्सवं अत्रस्थाः जनाः आचरन्ति ।
२००० तमवर्षतः 'होर्नबिल् उत्सवः' आचर्यते । सर्वाः नागा जनजातयः एकत्र आगच्छन्ति, उत्सवाचरणं च कुर्वन्ति । सर्वकारः अस्य उत्सवस्य नेतृत्वं, योजनां च वहति ।
वीक्षणीयस्थलानि
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
झुकोउ व्हेली
टुओफेमा ग्रामः
द्वितीयमहायुद्ध-स्मरणचिह्नम्
किसामा ग्रामः
जप्फु शिखरम्
त्सेमिन्यु नगरम्
अभयारण्यम्
कोहिमा वस्तुसङ्ग्रहालयः
बाह्यानुबन्धाः
सर्वकारसङ्केतस्थलम्
जनसङ्ख्या
नागालैंड मण्डलाः |