text
stringlengths
0
1.67M
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ॥ ९ ॥
४.४ नैशाकरं त्वाष्ट्रमथानुराधा पौष्णं च मध्यानि तथाहुरेक् ।
यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥ गर्प्_२,१८।१ ॥
अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते ३२
न दिवा जागरं कुर्यान् न च रात्रौ स्वपेत्क्वचित् ।
उत्तमं मध्यमं चैव गोमयं कुक्कुटाण्डवत् ॥
आश्रमैर्न च देवैश्च यज्ञः साङ्ख्यैर्व्रतैस्तथा॥ ८६.४६ ॥
सा पुनर्तात्यक्रामत् सा वनस्पतीन् प्राविशत् तान् देवाः पुनरयाचंस्तां न पुनरददुस्तानशपन् स्वेन वः किष्कुणा वज्रेण वृश्चानिति तस्माद्वनस्पतीन् स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि
भावप्रदीपिका उत्तरश्लोकद्वयं क्रमेणावतारयति – परमेश्वरेति ।। १८ ।। भावप्रकाशिका समदर्शनमप्यपरोक्षज्ञानद्वारेणैवापुनरावृत्तिसाधनम् । न तु साक्षादिति भावेनोत्तरश्लोकमवतारयति – परमेश्वरेति । ‘ब्राह्मणे गवि’ इत्यधिकरणे सप्तमी । समदृष्टिविषयस्तु ततः ब्रह्मैव । ‘निर्दोषं हि समं ब्रह्म’ इति वक्ष्यति । न च तेषामेव ब्रह्मता । सर्वप्रमाणविरोधादिति भावः ।। १८ ।। प्रमेयदीपिका ‘विद्याविनय’ इत्यादि प्रकृतानुपयुक्तमयुक्तं च कथमुच्यते? इत्यत आह – परमेश्वरेति।। सर्वत्र ब्राह्मणादिषु स्थितानाम् । सर्वत्र गुणेषु दोषाभावेषु वा । साम्यं तारतम्याभावः । तद्बुद्धित्वादिना सहास्य समुच्चयार्थश्चशब्दः । परमेश्वरविषयता ‘निर्दोषं हि’ इत्युत्तरवाक्यगम्या । अपरोक्षज्ञानसाधनता च प्रकरणगम्येत्यतः आशयवान् इत्युक्तम् । पण्डितशब्दस्तु परोक्षज्ञानवचनः । ‘पाण्डित्यमागमज्ञानम्’ इति वचनात् ।। १८ ।। इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणिे ते स्थिताः ।।१९ ।। भाष्यम् तदेव स्तौति – इहैवेति ।। १९ ।। भावप्रकाशिका ननु कथमपरोक्षज्ञानसाधनमेव साम्यज्ञानम् ? मुक्तिसाधनं किं न स्यात् ? ‘तैर्जितः सर्गः’ इति पुनःसर्जनाभावोक्तेरित्यत आह –तदेवेति । अपरोक्षज्ञानद्वारा सर्गजयहेतुत्वाविरोधात् । अन्यथा ‘दृष्ट्वैव तं मुच्यते’ इत्यादिश्रुतिविरोधात् । न च ‘पण्डिताः समदर्शिनः’ इति दर्शनत्ववचनादिदमेवापरोक्षज्ञानमिति वाच्यम् । तथा सति स्वदेह एव ब्रह्मदर्शिनो मुक्तिः स्यादिति भावः ।। १९ ।। प्रमेयदीपिका ननूत्तरवाक्ये साम्यदर्शनं मुक्तिसाधनमेवोच्यते । तत् कथमुच्यते अपरोक्षज्ञानसाधनम्? इति । प्राग् ज्ञानिनोऽपि जन्मान्तरसद्भाव उक्तः । तत्कथम् इहैव इति तद्देह एव मुक्तिरुक्ता? इत्यत आह – तदेवेति ।। स्तुतावधिकोक्तिः सम्भवतीति भावः ।। १९ ।। न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ।। २० ।। भाष्यम् सन्न्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण ।। २० ।।
तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् ।
009c व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः
वदन्त्येके शाक्ता जगदुदयमूलां परिशिवां
संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च
॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥
सर्वानुग्राहकः शान्तस् तद्वशादखिलं फलम् ॥ किर्त्_४।२९ ॥
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा ॥
द्वे इति । श्रूयत इति श्रुतिः, जनवाद इत्यर्थः ॥ २।११०।१७१८ ॥
एवंरूपप्रकृतिर्जीवः सुप्त्यादिकासु दशासु सुषुप्तिजाग्रत्स्वप्नेषु
ततः कालेन महता वल्मीकः समपद्यत ॥
(तुलसीकाष्ठं दलं वाग्नौ प्रक्षिप्यैव वैश्वदेवः कार्यः)
श्रीजैनशासनसमुन्नतिलब्धविश्वविश्वम्भरावलयविश्रुतकीर्तिपूरः॥१॥
प्रथमाध्यायस्य चतुर्थः पादः ॥
तत्समृद्ध आ यं हस्ते न खादिनमिति हस्ताभ्यां ह्येन मन्थन्ति शिशुं जातमिति
चित्रमिति प्रसिद्धं तत् % सर्वत्रैव भविष्यति ॥ न्चित्_१।७९ ॥
पूजान्ते क्षीरार्घ्यप्रदानं उपायनदानं च करिष्ये ᳚ इति
मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥ र्चिन्त्_६।४३ ॥
बन्धन इत्याहुः ॥ घण्टां कांस्य मयीं बध्वा माष भक्त बलिं
वरार्थं कन्यकायाश्च ब्रह्मलोकात्समागतः ।। १ ।।
सञ्जीवयन्त्यशेषाणि भूतान्यापस्तदाज्ञया॥
माहेश्वर० । ४ कौमारि ४ कौमारि० । ४ वैष्णवि ४ वैष्णव० । ४ वाराहि ४ वाराह० ।
यत्र श्रीर्यौवनं वापि शारदा वापि तिष्टति ॥
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २॥
ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘स न साधुना कर्मणा
किं करोतीत्यस्य प्रश्नस्य यद्ययमर्थःयत्करोति, तत्किमिति, तत्र चेत्पचतीत्युत्तरं स्यात्, तदा पाकं करोतीत्यस्मिन्नर्थे पचतीति वर्त्तते ।
खरभीतमुनिव्रातसूचितात्मव्यवस्थितये नमः ।
विनिष्कासय स्वान्तरात् तामहंताम् ॥ १८६॥
एवं रूपमिमं ध्यात्वा सर्वकामार्थसाधनम् ।
परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥ २,२२.३३ ॥
सम्-आसा३ति-शयो३त्-प्रे३क्षा $ हेतुः सूक्ष्मो लवः क्रमः &
वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती ॥
बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ ५ ॥
015a धनुर्मण्डलमेवास्य ददृशे युधि भारत ।
उद्यत्प्रवालकर्पूरचन्दनागुरुपादपम् ।। १२०
तत्कृतं चैकशेषत्वमिति न प्रकृतौ भवेत् ॥ यो हि प्राजापत्यः प्राजापत्यश्चेत्येवमेकशेषं करोति तेनोभयोः प्रकृतिप्रत्यययोरसावभ्युपगतो भवति । तस्य च निमित्तं बहुवचनान्यथानुपपत्तिः । न च तत्प्रातिपदिके बहुवचनमुपलभ्यते येन तस्याप्येकशेषः क्रियते । न च तदेकशेषमन्तरेण प्रत्ययार्थस्य दर्शयितुं न शक्यते । विगृह्यमाणवेलायां सर्वनाम्ना कथ्यमानत्वात् । तस्मात्सकृच्छ्रुत एव प्रजापतिर्बहुभिर्द्रव्यैः संबध्यते । किं च । कर्माण्यश्रूयमाणानि तदपूर्वाणि चात्र मे ।
आद्यं तृतीयं सामीन्दुबिन्दुभ्यः समलंकृतम्।
नृयुग्मसंख्यो दिनपो नराणां
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥ 96.12 ॥
तत्र चातिनिःशब्दे गृहावग्रहणीग्राहिबहुवेत्रिणि, त्रिगुणतिरस्करिणीतिरोहितसुवीथीपथे, पिहितपक्षद्वारके, परिहृतकवाटरटिते, घटितगवाक्षरक्षितमरुति, दूयमानपरिचारके, चरणताडनस्वनत्सोपानप्रकुपितप्रतीहारे, निभृतसञ्ज्ञानिर्दिश्यमानसकलकर्मणि, नातिनिकटोपविष्टकङ्कटिनि, कोणस्थिताह्वानचकिताचमनवाहिनि, चन्द्रशालिकालीनमूकमौललोके, महाधिविधुरबान्धवाङ्गनावर्गगृहीतप्रच्छन्नप्रग्रीवके, सञ्जवनपुञ्जितोद्विग्नपरिजने, प्रविष्टकतिपयप्रणयिनि गम्भीरज्वरारम्भभीतभिषजि, दुर्मनायमानमन्त्रिणि, मन्दायमानपुरोधसि, सीदत्सुहृदि, निद्राणविपश्चिति, सन्तप्ताप्तसामन्ते, विचित्तचामरग्राहिणि, दुःखक्षामशिरोरक्षिणि, क्षीयमाणप्रसादवित्तमनोरथसम्पदि, स्वामिभक्तिपरित्यक्ताहारहीयमानबलविकलवल्लभभूभृति, क्षितितलपतितसकलरजनीजागरूकराजपुत्रकुमारके, कुलक्रमागतकुलपुत्रनिवहोह्यमानशुचिशोकसङ्कुचितकञ्चुकिनि, न् इरानन्दवन्दिनि, हिःश्वसन्निराशासन्नसेवके, निःसृतताम्बूलधूसराधरवारयोषिति, विलक्षवैद्योपदिश्यमानपथ्याहरणावहितपौरोगवे, अनुजीविपीयमानोच्चषकधारावारिविनोद्यमानास्यशोषरुजि, राजाभिलाषभोज्यमानबहुभुजि, भेषजसामग्रीसम्पादनव्यग्रसमग्रव्यवहारिणि, मुहुर्मुहुराहूयमानतो यकर्मान्तिकानुमितघोरातुरतृषि, तुषारपरिकरितकरकशिशिरीक्रियमाणोदश्विति, श्वेतार्द्रकर्पटार्पितकर्पूरपरागशीतलीकृतशलाके, नाश्यानपङ्कलिप्यमाननवभाण्डगतगण्डूषग्रहणमस्तुनि, तिम्यत्कोमलकमलिनीपलाशप्रावृतमृदुमृणालके, सनालनीलोत्पलपूलीसनाथसलिलपानभाजनभुवि, धारानिपातनिर्वाप्यमाणक्वथिताम्भसि, पटुपाटलशर्करामोदमुचि, मञ्चकाश्रितसिकतिलकर्करीविश्रान्तान्तरचक्षुषि, सरलशेवलवलयितगलद्गोलयन्त्रके, गल्वर्कशालाजिरोल्लासितलाजसक्तुनिपीतमसारपारीपरिगृहीतकर्कशर्करे, शिशिरौषधरसचूर्णावकीर्णस्फटिकशुक्तिशङ्खसञ्चये, सञ्चितप्रचुरप्राचीनामलकमातुलुङ्गद्राक्षादाडिमादिफले, प्रतिग्राहितविप्रविप्रकीर्यमाणशान्त्युदकविप्रुषि, प्रेष्यापेष्यमाणललाटलेपोपदिग्धदृषदि धवलगृहे स्थितम्, परलोकविजयाय नीराज्यमानमिव ज्वरज्वलनेनानवरतपरिवर्तनैस्तरङ्गिणि शयनीये शेषमिव विषोष्मणा क्षीरोदन्वति विचेष्टमानम्, मुक्ताफलवालुकाधूलिधवलितं जलधिमिव क्षयकाले शुष्यन्तम्, कालेन कैलासमिव दशाननेनोद्ध्रियमाणम्, अविरतचन्दनचर्चापराणां परिचारकाणामत्युष्णावयवस्पर्शभस्मीभूतोदरैरिव धवलैअः करैः स्पृश्यमानं लोकान्तरप्रस्थितम्, स्थास्नुना स्वयशसैव चन्दनानुलेपनच्छलेनापृच्छ्यमानम्, अविच्छिन्नदीयमानकमलकुमुदेन्दीवरदलम्, कालकटाक्षपतनशबलमिव शरीरमुद्वहन्तम्, निबिडदुकूलपट्टनिपीडितकेशान्तकथ्यमानकष्टवेदनानुबन्धं मूर्धानं धारयन्तम्, दुर्धरवेदनोन्नमत्रीलशिराजालककरालेन च कालाङ्गुलिलिख्यमानलेखाख्यातमरणावधिदिवससङ्ख्यानेनेव ललाटफलकेन भयमुपजनयन्तम्, आसन्नयमदर्शनोद्वेगादिव च किञ्चिदन्तःप्रविष्टतारकम्, शुष्यदृशनपङ्क्तिप्रसृतधूसरदीधितितरङ्गिर्णां मृगतृष्णिकामिवोष्णां निश्वासपरम्परामुद्वहन्तम्, अत्युष्णनिश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसन्निपातारम्भम्, उरःस्थलस्थापितमणिमौक्तिकहारचन्दनचन्द्रकान्तम्, कृतान्तदूतदर्शनयोग्यमिवात्मानं कुर्वाणम्, अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलम्, पर्यस्तहस्तनखमयूखैर्धारागृहमिव तापशान्तये रचयन्तम्, नेदिष्ठसलिलमणिकुट्टिमादर्शोदरेषु निपतद्भिः प्रतिबिम्बैरपि सन्तापातिशयमिव कथयन्तम्, स्पृशन्तीं प्रणयिनीमिव विश्वासभूमिं मूर्छां बहु मन्यमानम्, अन्तकाह्वानाक्षरैरिव सभयभिषग्दृष्टैररिष्टैराविष्टम्, महाप्रस्थानकाले स्वसन्तापसन्तानमाप्तहृदयेषु सञ्चारयन्तम्, अरतिपरिगृहीतमीर्ष्ययेव छायया मुच्यमानम्, उद्योगमिवोपद्रवाणाम्, सर्वास्त्रमोक्षमिव क्षामतायाः, हस्तीकृतं विहस्ततया, विषयीकृतं वैषम्येण, क्षेत्रीकृतं क्षयेण, गोचरीकृतं ग्लान्या, दष्टं दुःखासिकया, आत्मीकृतमस्वास्थ्येन, विधेयीकृतं व्याधिना, क्रोडीकृतं कालेन, लक्ष्यीकृतं दक्षिणाशया, पीतमिव पीडाभिः, जग्धमिव जागरेण, निर्गीर्णमिव वैवर्ण्येन, ग्रासीकृतं गात्रभङ्गेन, ह्रियमाणमिव विपद्भिः, दण्ट्यमानमिव वेदनाभिः, लुण्ठ्यमानमिव दुःखैः, आदित्सितं दैवेन, निरूपितं नियत्या, घ्रातमनित्यत्वेन, अभिभूयमानमभावेन, परिकलितं परासुतया, दत्तावकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य, अन्तिकेऽन्त्योच्छ्वासस्य, मुखे महाप्रयासस्य, द्वारि दीर्घनिदायाः, जिह्वाग्रे जीवितेशस्य वर्तमानम्, विरलं वाचि, चलितं चेतसि, विह्वलं वपुषि, क्षीणमायुषि, प्रचुरं प्रलापे, सन्ततं श्वसिते, जितं जृम्भिकाभिः, पराधीनमाधिभिः, अनुबद्धमनुबन्धिकाभिः, पार्श्वोपविष्टयानवरतरोदनोच्छूननयनया गृहीतचामरिकयापि निश्वसितैरेव वीजयन्त्या विविधौषधिधूलिधूसरितशरीरया मुहुर्मुहुः "आर्यपुत्र, स्वपिषि" इति व्याहरन्त्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत् ।
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् 002c
सत्संप्रदायदेव्यः सर्वसंक्षोभिणीप्रभृतयः सञ्चिन्त्या अव्यक्तमिति सम्यग्भावनीयाः । तथा